गणेशकृता गौरीस्तुतिः

गणेशकृता गौरीस्तुतिः

जयाम्ब जय शर्वाणि जय गौरि शिवप्रिये । जयान्नपूर्णे विमले कालकालप्रियेऽनघे ॥ ३९॥ जय शैलसुते देवि कमलामललोचने । जयामराङ्गनाराध्ये जय कल्याणि शाम्भवि ॥ ४०॥ जय मङ्गलसर्वाङ्गे मङ्गले सर्वमङ्गले । जय मृत्युञ्जयार्धाङ्गि तुङ्गसिंहासनाश्रये ॥ ४१॥ जय भक्तजनानन्दप्रदाननियतव्रते । जय दुर्गे विशालाक्षि जय त्रिपुरभैरवि ॥ ४२॥ जय वागीश्वरि प्राज्ञे मङ्गले गौरि चण्डिके । चित्रघण्टे जयानङ्गविजयध्वजमालिके ॥ ४३॥ जय श्रीविकटागौरि सिद्धेश्वरि नमो नमः । (श्रीविलसद्गौरि) नमस्ते सङ्कटागौरि शीतलागौरि ते नमः ॥ ४४॥ वन्दिदेवि नमस्तुभ्यं ललिते विश्वबाहुके । चन्दलाम्ब नमस्तुभ्यं नमस्ते भ्रमराम्बिके ॥ ४५॥ ज्ञानप्रसूनाम्ब नमो नमस्ते नमो नमस्ते शिवकामसुन्दरि । नमो नमस्तेऽस्त्वरुणाचलेश्वरि नमो महागौरि नमो नमस्ते ॥ ४६॥ नमो नमः कल्पलताप्रसूनमालासमाक्रान्तपदा रविन्दे । वन्दे स्वभक्तेप्सितदानलोले विलासशैले गिरिजे नमस्ते ॥ ४७॥ नमो नमस्त्वच्चरणारविन्दमरन्दधाराप्रसरोऽस्तु मूर्ध्नि । अस्माकमीशानदया यथा स्यात्तथा विधेयं गमनोत्तरं वा ॥ ४८॥ न स्वापराधेन कृतो विलम्बः तमम्ब संवेदय शङ्कराय । कृतापराधानपि बालपुत्रान् अम्बा न सा कुप्यति सर्वथाम्ब ॥ ४९॥ अस्माकमन्यच्छरणं किमस्ति विहाय तावच्छरणं तवाम्ब । शिवस्य वा तावदुमे ततोऽस्मान् अवावनं भक्तजनस्य कार्यम् ॥ ५०॥ अस्माकमप्यन्तकवेरिधीरद्वाराश्रयाणां न भयं कुतोऽपि । दया विधेया खलु तावदेव त्वत्पादपद्मार्चकतत्पराणाम् ॥ ५१॥ विहारकालेषु कदाचिदम्ब साम्बाय तावद्विनिवेदनीयाः । वयं यथा साधु सुखं प्रपन्नाः शिवप्रसादेन भवत्प्रसादात् ॥ ५२॥ सा त्वं शिवार्धाङ्गमुमे दया चेदस्मासु तावत्तव तावतापि । न दुःखलेशोऽपि ततः प्रसन्ने प्रसन्नचित्तान्कुरु सर्वदा नः ॥ ५३॥ विज्ञापनेयं हृदि सावधानमानन्ददानप्रवणे तवास्तु । एतावताऽस्माकमुमासहायसहायतामेति न संशयोऽत्र ॥। ५४॥ ॥ इति शिवरहस्यान्तर्गते गणेशकृता गौरीस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १९। ३९-५४ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 19. 39-54 .. Proofread by Ruma Dewan
% Text title            : Ganeshakrita Gauri Stuti
% File name             : gaurIstutiHgaNeshakRRitA.itx
% itxtitle              : gaurIstutiH gaNeshakRitA (shivarahasyAntargatA)
% engtitle              : gaurIstutiH gaNeshakRitA
% Category              : devii, devI, stuti, shivarahasya, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 19| 39-54 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org