हाकिनीसहस्रनामस्तोत्र

हाकिनीसहस्रनामस्तोत्र

श्रीगणेशाय नमः । श्री आनन्दभैरव उवाच । आनन्दार्णवमध्यभावघटितश्रौतप्रवाहोज्ज्वले कान्ते दत्तसुशान्तिदे यमदमाह्लादैकशक्तिप्रभे । स्नेहानन्दकटाक्षदिव्यकृपया शीघ्रं वदस्वाद्भुतं हाकिन्याः शुभनाम सुन्दरसहस्राष्टोत्तरं श्रीगुरोः ॥ १ ॥ श्री आनन्दभैरवी उवाच साक्षात्ते कथयामि नाथ सकलं पुण्यं पवित्रं गुरो नाम्नां शक्तिसहस्रनाम भाविकं ज्ञानादि चाष्टोत्तरम् । योगीन्द्रैर्जयकाङ्क्षिभिः प्रियकलाप्रेमाभिलाषाचीतैः सेव्यं पाठ्यमतीव गोप्यमखिले शीघ्रं पठस्व प्रभो ॥ २ ॥ अस्य श्रीपरनाथमहाशक्तिहाकिनीपरमेश्वरीदेव्यष्टोत्तरसहस्रनाम्नः स्तोत्रस्य सदाशिव ऋषिः , गायत्रीच्छन्दः , श्रीपरमेश्वरीहाकिनीमहाशक्तिर्देवता , क्लीं बीजं , स्वाहा शक्तिः , सिद्धलक्ष्मीमूलकीलकं , देहान्तर्गत महाकायज्ञानसिद्ध्यर्थे जपे विनियोगः । ॐ हाकिनी वसुधा लक्ष्मी परमात्मकला परा । परप्रिया परातीता परमा परमप्रिया ॥ ३ ॥ परेश्वरी परप्रेमा परब्रह्मस्वरूपिणी । परन्तपा परानन्दा परनाथनिसेविनी ॥ ४ ॥ पराकाशस्थिता पारा पारापारनिरूपिणी । पराकाङ्क्ष्या पराशक्तिः पुरातनतनुः प्रभा ॥ ५ ॥ पञ्चाननप्रिया पूर्वा परदारा परादरा । परदेशगता नाथा परमाह्लादवर्धिनी ॥ ६ ॥ पार्वती परकुलाख्या पराञ्जनसुलोचना । परंब्रह्मप्रिया माया परंब्रह्मप्रकाशिनी ॥ ७ ॥ परंब्रह्मज्ञानगम्या परंब्रह्मेश्वरप्रिमया । पूर्वातीता परातीता अपारमहिमस्थिता ॥ ८ ॥ अपारसागरोद्धारा अपारदुस्तरोद्धरा । परानलशिखाकारा परभ्रूमध्यवासिनी ॥ ९ ॥ परश्रेष्ठा परक्षेत्रवासिनी परमालिनी । पर्वतेश्वरकन्या च पराग्निकोटिसम्भवा ॥ १० ॥ परच्छाया परच्छत्रा परच्छिद्रविनिर्गता । परदेवगतिः प्रेमा पञ्चचूडामणिप्रभा ॥ ११ ॥ पञ्चमी पशुनाथेशी त्रिपञ्चा पञ्चसुन्दरी । पारिजातवनस्था च पारिजातस्रजप्रिया ॥ १२ ॥ परापरविभेदा च परलोकविमुक्तिदा । परतापानलाकारा परस्त्री परजापिनी ॥ १३ ॥ परास्त्रधारिणी पूरवासिनी परमेश्वरी । प्रेमोल्लासकरी प्रेमसन्तानभक्तिदायिनी ॥ १४ ॥ परशब्दप्रिया पौरा परामर्षणकारिणी । प्रसन्ना परयन्त्रस्था प्रसन्ना पद्ममालिनी ॥ १५ ॥ प्रियंवदा परत्राप्ता परधान्यार्थवर्धिनी । परभूमिरता पीता परकातरपूजिता ॥ १६॥ परास्यवाक्यविनता पुरुषस्था पुरञ्जना । प्रौढा मेयहरा प्रीतिवर्धिनी प्रियवर्धिनी ॥ १७ ॥ प्रपञ्चदुःखहन्त्री च प्रपञ्चसारनिर्गता । पुराणनिर्गता पीना पीनस्तनभवोज्ज्वला ॥ १८ ॥ पट्टवस्त्रपरीधाना पट्टसूत्रप्रचालिनी । परद्रव्यप्रदा प्रीता परश्रद्धा परान्तरा ॥ १९ ॥ पावनीया परक्षुब्धा परसारविनाशिनी । परमेव निगूढार्थतत्त्वचिन्ताप्रकाशिनी ॥ २० ॥ प्रचुरार्थप्रदा पृथ्वी पद्मपत्रद्वयस्थिता । प्रसन्नहृदयानन्दा प्रसन्नासनसंस्थिता ॥ २१ ॥ प्रसन्नरत्नमालाढ्या प्रसन्नवनमालिनी । प्रसन्नकरुणानन्दा प्रसन्नहृदयस्थिता ॥ २२ ॥ पराभासरता पूर्वपश्चिमोत्तरदक्षिणा । पवनस्था पानरता पवनाधारविग्रहा ॥ २३ ॥ प्रभुप्रिया प्रभुरता प्रभुभक्तिप्रदायिनी । परतृष्णावर्धिनी च प्रचया परजन्मदा ॥ २४ ॥ परजन्मनिरस्ता च परसञ्चारकारिणी । परजाता पारिजाता पवित्रा पुण्यवर्धिनी ॥ २५ ॥ पापहर्त्री पापकोटिनाशिनी परमोक्षदा । परमाणुरता सूक्ष्मा परमाणुविभञ्जिनी ॥ २६ ॥ परमाणुस्थूलकरी परात्परतरा पथा । पूषणः प्रियकर्त्री च पूषणा पोषणत्रया ॥ २७ ॥ भूपपाला पाशहस्ता प्रचण्डा प्राणरक्षिणी । पयःशिलाऽपूपभक्षा पीयूषपानतत्परा ॥ २८ ॥ पीयूषतृप्तदेहा च पीयूषमथनक्रिया । पीयूषसागरोद्भूता पीयूषस्निग्धदोहिनी ॥ २९ ॥ पीयूषनिर्मलाकारा पीयूषघनविग्रहा । प्राणापानसमानादिपवनस्तम्भनप्रिया ॥ ३० ॥ पवनांशप्रभाकारा प्रेमोद्गतस्वभक्तिदा । पाषाणतनुसंस्था च पाषाणचित्तविग्रहा ॥ ३१ ॥ पश्चिमानन्दनिरता पश्चिमा पश्चिमप्रिया । प्रभाकारतनूग्रा च प्रभाकरमुखी प्रभा ॥ ३२ ॥ सुप्रभा प्रान्तरस्था च प्रेयत्वसाधनप्रिया । अस्थिता पामसी पूर्वनाथपूजितपादुका ॥ ३३ ॥ पादुकामन्त्रसिद्धा च पादुकामन्त्रजापिनी । पादुकामङ्गलस्था च पादुकाम्भोजराजिनी ॥ ३४ ॥ प्रभाभारुणकोटिस्था प्रचण्डसूर्यकोटिगा । पालयन्ती त्रिलोकानां परमा परहाकिनी ॥ ३५ ॥ परावरानना प्रज्ञा प्रान्तरान्तःप्रसिद्धिदा । पारिजातवनोन्मादा परमोन्मादरागिणी ॥ ३६ ॥ परमाह्लादमोदा च परमाकाशवाहिनी । परमाकाशदेवी च प्रथात्रिपुरसुन्दरी ॥ ३७ ॥ प्रतिकूलकरी प्राणानुकूलपरिकारिणी । प्राणरुद्रेश्वरप्रीता प्रचण्डगणनायिका ॥ ३८ ॥ पोष्ट्री पौत्रादिरक्षत्री पुण्ड्रका पञ्चचामरा । परयोषा परप्राया परसन्तानरक्षका ॥ ३९ ॥ परयोगिरता पाशपशुपाशविमोहिनी । पशुपाशप्रदा पूज्या प्रसादगुणदायिनी ॥ ४० ॥ प्रह्लादस्था प्रफुल्लाब्जमुखी परमसुन्दरी । पररामा परारामा पार्वणी पार्वणप्रिया ॥ ४१ ॥ प्रियङ्करी पूर्वमाता पालनाख्या परासरा । पराशरसुभाग्यस्था परकान्तिनितम्बिनी ॥ ४२ ॥ परश्मशानगम्या च प्रियचन्द्रमुखीपला । पलसानकरी प्लक्षा प्लवङ्गगणपूजिता ॥ ४३ ॥ प्लक्षस्था पल्लवस्था च पङ्केरुहमुखी पटा । पटाकारस्थिता पाठ्या पवित्रलोकदायिनी ॥ ४४ ॥ पवित्रमन्त्रजाप्यस्था पवित्रस्थानवासिनी । पवित्रालङ्कृताङ्गी च पवित्रदेहधारिणी ॥ ४५ ॥ त्रिपुरा परमैश्वर्यपूजिता सर्वपूजिता । पलालप्रियहृद्या च पलालचर्वणप्रिया ॥ ४६ ॥ परगोगणगोप्या च प्रभुस्त्रीरौद्रतैजसी । प्रफुल्लाम्भोजवदना प्रफुल्लपद्ममालिनी ॥ ४७ ॥ पुष्पप्रिया पुष्पकुला कुलपुष्पप्रियाकुला । पुष्पस्था पुष्पसङ्काशा पुष्पकोमलविग्रहा ॥ ४८ ॥ पौष्पी पानरता पुष्पमधुपानरता प्रचा । प्रतीची प्रचयाह्लादो प्राचनाख्या च प्राञ्चिका ॥ ४९ ॥ परोदरे गुणानन्दा परौदार्यगुणप्रिया । पारा कोटिध्वनिरता पद्मसूत्रप्रबोधिनी ॥ ५० ॥ प्रियप्रबोधनिरता प्रचण्डनादमोहिनी । पीवरा पीवरग्रन्थिप्रभेदा प्रलयापहा ॥ ५१ ॥ प्रलया प्रलयानन्दा प्रलयस्था प्रयोगिनी । प्रयोगकुशला पक्षा पक्षभेदप्रकाशिनी ॥ ५२ ॥ एकपक्षा द्विपक्षा च पञ्चपक्षप्रसिद्धिदा । पलाशकुसुमानन्दा पलाशपुष्पमालिनी ॥ ५३ ॥ पलाशपुष्पहोमस्था पलाशच्छदसंस्थिता । पात्रपक्षा पीतवस्त्रा पीतवर्णप्रकाशिनी ॥ ५४ ॥ निपीतकालकूटी च पीतसंसारसागरा । पद्मपत्रजलस्था च पद्मपत्रनिवासिनी ॥ ५५ ॥ पद्ममाला पापहरा पट्टाम्बरधरा परा । परनिर्वाणदात्री च पराशा परशासना ॥ ५६ ॥ अप्रियविनिहन्त्री च परसंस्कारपालिनी । प्रतिष्ठा पूजिता सिद्धा प्रसिद्धप्रभुवादिनी ॥ ५७ ॥ प्रयाससिद्धिदा क्षुब्धा प्रपञ्चगुणनाशिनी । प्रणिपत्या प्राणिशिष्या प्रतिष्ठिततनूप्रिया ॥ ५८ ॥ अप्रतिष्ठा निहन्त्री च पादपद्मद्वयान्विता । पादाम्बुजप्रेमभक्तिपूज्यप्राणप्रदायिनी ॥ ५९ ॥ पैशाची च प्रक्षपिता पितृश्रद्धा पितामही । प्रपितामहपूज्या च पितृलोकस्वधापरा ॥ ६० ॥ पुनर्भवा पुनर्जीवा पौनःपुन्यगतिस्थिता । प्रधानबलिभक्षादिसुप्रिया प्रियसाक्षिणी ॥ ६१ ॥ पतङ्गकोटिजीवाख्या पावकस्था च पावनी । परज्ञानार्थदात्री च परतन्त्रार्थसाधिनी ॥ ६२ ॥ प्रत्यग्ज्योतिः स्वरूपा च प्रथमाप्रथमारुणा । प्रातःसन्ध्या पार्थसन्ध्या परसन्ध्यास्वरूपिणी ॥ ६३ ॥ प्रधानवरदा प्राणज्ञाननिर्णयकारिणी । प्रभञ्जना प्राञ्जनेशी प्रयोगोद्रेककारिणी ॥ ६४ ॥ प्रफुल्लपददात्री च प्रसमाया पुरोदया । पर्वतप्राणरक्षत्री पर्वताधारसाक्षिणी ॥ ६५ ॥ पर्वतप्राणशोभा च पर्वतच्छत्रकारिणी । पर्वता ज्ञानहर्त्री च प्रलयोदयसाक्षिणी ॥ ६६ ॥ प्रारब्धजननी काली प्रद्युम्नजननी सुरा । प्राक्सुरेश्वरपत्नी च परवीरकुलापहा ॥ ६७ ॥ परवीरनियन्त्री च परप्रणवमालिनी । प्रणवेशी प्रणवगा प्रणवाद्याक्षरप्रिया ॥ ६८ ॥ प्रणवार्णजपप्रीता प्राणमृत्युञ्जयप्रदा । प्रणवालङ्कृता व्यूढा पशुभक्षणतर्पणा ॥ ६९ ॥ पशुदोषहरा पाशुपतास्त्रकोटिधारिणी । प्रवेशिनी प्रवेशाख्या पद्मपत्रत्रिलोचना ॥ ७० ॥ पशुमांसासवानन्दा पशुकोटिबलिप्रिया । पशुधर्मक्षया प्रार्या पशुतर्पणकारिणी ॥ ७१ ॥ पशुश्रद्धाकरी पूज्या पशुमुण्डसुमालिनी । परवीरयोगशिक्षा परसिद्धान्तयोगिनी ॥ ७२ ॥ परशुक्रोधमुख्यास्त्रा परशुप्रलयप्रदा । पद्मरागमालधरा पद्मरागासनस्थिता ॥ ७३ ॥ पद्मरागमणिश्रेणीहारालङ्कारशोभिता । परमधूलिसौन्दर्यमञ्जीरपादुकाम्बुजा ॥ ७४ ॥ हर्त्री समस्तदुःखानां हिरण्यहारशोभिता । हरिणाक्षी हरिस्था च हरा हारावती हिरा ॥ ७५ ॥ हारकुण्डलशोभाढ्या हारकेयूरमण्डिता । हरणस्था हाकिनी च होमकर्मप्रकाशिनी ॥ ७६ ॥ हरिद्रा हरिपूज्या च हरमाला हरेश्वरी । हरातीता हरसिद्धा ह्रींकारी हंसमालिनी ॥ ७७ ॥ हंसमन्त्रस्वरूपा च हंसमण्डलभेदिनी । हंसः सोऽहं मणिकरा हंसराजोपरिस्थिता ॥ ७८ ॥ हीरकाभा हीरकसूकधारिणी हरमेखला । हरकुण्डमेखला च होमदण्डसुमेखला ॥ ७९ ॥ हरधरप्रियानन्दा हलीशानी हरोदया । हरपत्नी हररता संहारविग्रहोज्ज्वला ॥ ८० ॥ संहारनिलया हाला ह्लींबीजप्रणवप्रिया । हलक्षा हक्षवर्णस्था हाकिनी हरमोहिनी ॥ ८१ ॥ हाहाहूहूप्रियानन्दगायनप्रेमसुप्रिया । हरभूतिप्रदा हारप्रिया हीरकमालिनी ॥ ८२ ॥ हीरकाभा हीरकस्था हराधारा हरस्थिता । हालानिषेविता हिन्ता हिन्तालवनसिद्धिदा ॥ ८३ ॥ महामाया महारौद्री महादेवनिषेविता । महानया महादेवी महासिद्धा महोदया ॥ ८४ ॥ महायोगा महाभद्रा महायोगेन्द्रतारिणी । महादीपशिखाकारा महादीपप्रकाशिनी ॥ ८५ ॥ महादीपप्रकाशाख्या महाश्रद्धा महामतिः । महामहीयसी मोहनाशिनी महती महा ॥ ८६ ॥ महाकालपूजिता च महाकालकुलेश्वरी । महायोगीन्द्रजननी मोहसिद्धिप्रदायिनी ॥ ८७ ॥ आहुतिस्थाहुतिरता होतृवेदमनुप्रिया । हैयङ्गबीजभोक्त्री च हैयङ्गबीजसुप्रिया ॥ ८८ ॥ हे सम्बोधनरूपा च हे हेतोः परमात्मजा । हलनाथप्रिया देवी हिताहितविनाशिनी ॥ ८९ ॥ हन्त्री समस्तपापानां हलहेतुप्रदाप्रदा । हलहेतुच्छलस्था च हिलिहिलिप्रयागिनी ॥ ९० ॥ हुतासनमुखी शून्या हरिणी हरतन्त्रदा । हठात्कारगतिप्रीता सुण्टकालङ्कृता इला ॥ ९१ ॥ हलायुधाद्यजननी हिल्लोला हेमबहीणी । हैमी हिमसुता हेमपर्वतश‍ृङ्गसंस्थिरा ॥ ९२ ॥ हरणाख्या हरिप्रेमवर्धिनी हरमोहिनी । हरमाता हरप्रज्ञा हुङ्कारी हरपावनी ॥ ९३ ॥ हेरम्बजननी हट्टमध्यस्थलनिवासिनी । हिमकुन्देन्दुधवला हिमपर्वतवासिनी ॥ ९४ ॥ होतृस्था हरहाला च हेलातीता अहर्गणा । अहङ्कारा हेतुगर्ता हेतुस्था हितकारिणी ॥ ९५ ॥ हतभाग्यनिहन्त्री च हतासद्बुद्धिजीविका । हेतुप्रिया महारात्री अहोराख्या हरोद्गमा ॥ ९६ ॥ अर्हणादिप्रिया चार्हा हाहाकारनिनादिनी । हनुमत्कल्पसंस्थाना हनुमत्सिद्धिदायिनी ॥ ९७ ॥ हलाहलप्रियाघोरा महाभीमा हलायुधा । ह्सौः बीजस्वरूपा च ह्सौं प्रेताख्यजापिनी ॥ ९८ ॥ आह्लादिनी इहानन्दा अर्घ्यक्रान्ता हरार्चना । हरभीतिहराहःका बीजहःकामहक्षरा ॥ ९९ ॥ हेरम्बयोगसिद्धिस्था हेरम्बादिसुतप्रिया । हननाख्या हेतुनाम्नी हठात् सिद्धिप्रयोगदा ॥ १०० ॥ उमा महेश्वरी आद्या अनन्तानन्तशक्तिदा । आधारार्हसुरक्षा च ईश्वरी उग्रतारिणी ॥ १०१ ॥ उषेश्वरी उत्तमा च ऊर्ध्वपद्मविभेदिनी । ऋद्धिसिद्धिप्रदा क्षुल्लाकाशबीजसुसिद्धिदा ॥ १०२ ॥ तृतकस्थातृतकस्था तृस्वराखर्वबीजगा । एरण्डपुष्पहोमाढ्या ऐश्वर्यदानतत्परा ॥ १०३ ॥ ओड्रपुष्पप्रिया ॐकाराक्षरा औषधप्रिया । अर्वणासारः अंशाख्या अःस्था च कपिला कला ॥ १०४ ॥ कैलासस्था कामधेनुः खर्वा खेटकधारिणी । खरपुष्पप्रिया खड्गधारिणी खरगामिनी ॥ १०५ ॥ गभीरा गीतगायत्री गुर्वा गुरुतरा गया । घनकोटिनादकरी घर्घरा घोरनादिनी ॥ १०६ ॥ घनच्छाया चारुवर्णा चण्डिका चारुहासिनी । चारुचन्द्रमुखी चारुचित्तभावार्थगामिनी ॥ १०७ ॥ छत्राकिनी छलच्छिन्ना छागमांसविनोदिनी । जयदा जीवी जन्या च जीमूतैरुपशोभिता ॥ १०८ ॥ जयित्री जयमुण्डाली झङ्कारी झञ्जनादिका । टङ्कारधारिणी टङ्कबाणकार्मुकधारिणी ॥ १०९ ॥ ठकुराणी ठठङ्कारी डामरेशी च डिण्डिमा । ढक्कानादप्रिया ढक्का तवमाला तलातला ॥ ११० ॥ तिमिरा तारिणी तारा तरुणा तालसिद्धिदा । तृप्ता च तैजसी चैव तुलनातलवासिनी ॥ १११ ॥ तोषणा तौलिनी तैलगन्धामोदितदिङ्मुखी । स्थूलप्रिया थकाराद्या स्थितिरूपा च संस्थिरा ॥ ११२ ॥ दक्षिणदेहनादाक्षा दक्षपत्नी च दक्षजा । दारिद्र्यदोषहन्त्री च दारुणास्त्रविभञ्जिनी ॥ ११३ ॥ दंष्ट्रकरालवदनी दीर्घमात्रादलान्विता । देवमाता देवसेना देवपूज्या दयादशा ॥ ११४ ॥ दीक्षादानप्रदा दैन्यहन्त्री दीर्घसुकुन्तला । दनुजेन्द्रनिहन्त्री च दनुजारिविमर्दिनी ॥ ११५ ॥ देशपूज्या दायदात्री दशनास्त्रप्रधारिणी । दासरक्षा देशरक्षा दिगम्बरदिगम्बरी ॥ ११६ ॥ दिक्प्रभापाटलव्याप्ता दरीगृहनिवासिनी । दर्शनस्था दार्शनिका दत्तभार्या च दुर्गहा ॥ ११७ ॥ दुर्गा दीर्घमुखी दुःखनाशिनी दिविसंस्थिता । धन्या धनप्रदा धारा धरणी धारिणी धरा ॥ ११८ ॥ धृतसौन्दर्यवदना धनदा धान्यवर्धिनी । ध्यानप्राप्ता ध्यानगम्या ध्यानज्ञानप्रकाशिनी ॥ ११९ ॥ ध्येया धीरपूजिता च धूमेशी च धुरन्धरा । धूमकेतुहरा धूमा ध्येया सर्वसुरेश्वरई ॥ १२० ॥ धर्मार्थमोक्षदा धर्मचिन्ता धर्मप्रकाशिनी । धूलिरूपा च धवला धवलच्छत्रधारिणी ॥ १२१ ॥ धवलाम्बरधात्री च धवलासनसंस्थिता । धवला हिमालयधरा धरणी साधनक्रिया ॥ १२२ ॥ धवलेश्वरकन्या च धवलाध्वाधलामुखी । धीरकन्या धर्मकन्या ध्रुवसिद्धिप्रदायिनी ॥ १२३ ॥ ध्रुवानन्दा ध्रुवश्रद्धा ध्रुवसन्तोषवर्धिनी । नारिकेलजलस्नाता नारिकेलफलासना ॥ १२४ ॥ नारी नारायणीशाना नम्रपूजनसुप्रिया । नरदेवरता नित्यगणगन्धर्वपूजिता ॥ १२५ ॥ नरकविहारिणी चैव नरकान्तककारिणी । नरक्षेत्रकलादेवी नवकोशनिवासिनी ॥ १२६ ॥ नाक्षत्रविद्या नाक्षत्री नक्षत्रमण्डलस्थिता । नृपोन्नाशकरी नारायणी नूपुरधारिणी ॥ १२७ ॥ नृत्यगीतप्रियानीता नवीना नामशायिनी । नौनूतनास्त्रधरा नित्या नवपुष्पवनस्थिता ॥ १२८ ॥ नवपुष्पप्रेमरता नवचम्पकमालिनी । नवरत्नहारमाला नवजाम्बूनदप्रभा ॥ १२९ ॥ नमस्कारप्रिया निन्दा वादनादप्रणाशिनी । पवनाक्षरमाला च पवनाक्षरमालिनी ॥ १३० ॥ परदोषभयङ्कारा प्रचरद्रूपसंस्थिता । प्रस्फुटिताम्भोजमालाधारिणी प्रेमवासिनी ॥ १३१ ॥ परमानन्दसप्तानहरी पृथुनितम्बिनी । प्रवालमाला लोभाङ्गी पयोदा शतविग्रहा ॥ १३२ ॥ पयोदकरुणाकारा पारम्पर्याप्रसादिनी । प्रारम्भकर्मनिरता प्रारब्धभोगदायिनी ॥ १३३ ॥ प्रेमसिद्धिकरी प्रेमधारा गङ्गाम्बुशोभिनी । फेरुपुण्यवरानन्दा फेरुभोजनतोषिणी ॥ १३४ ॥ फलदा फलवर्धा च फलाह्लादविनोदिनी । फणिमालाधरा देवी फणिहारादिशोभिनी ॥ १३५ ॥ फणा फणीकारमुखी फणस्था फणिमण्डला । सहस्रफणिसम्प्राप्ता फुल्लारविन्दमालिनी ॥ १३६ ॥ वासुकी व्यासपूज्या च वासुदेवार्चनप्रिया । वासुदेवकलावाच्या वाचकस्था वसुस्थिता ॥ १३७ ॥ वज्रदण्डधराधारा विरदा वादसाधिनी । वसन्तकालनिलया वसोर्द्धारा वसुन्धरा ॥ १३८ ॥ वेपमानरक्षका च वपूरक्षा वृषासना । विवस्वत्प्रेमकुशला विद्यावाद्यविनोदिनी ॥ १३९ ॥ विधिविद्याप्रकाशा च विधिसिद्धान्तदायिनी । विधिज्ञा वेदकुशला वेदवाक्यविवासिनी ॥ १४० ॥ बलदेवपूजिता च बालभावप्रपूजिता । बाला वसुमती वेद्या वृद्धमाता बुधप्रिया ॥ १४१ ॥ बृहस्पतिप्रिया वीरपूजिता बालचन्द्रिका । विग्रहज्ञानरक्षा च व्याघ्रचर्मधरावरा ॥ १४२ ॥ व्यथाबोधापहन्त्री च विसर्गमण्डलस्थिता । बाणभूषापूजिता वनमाला विहायसी ॥ १४३ ॥ वामदेवप्रिया वामपूजाजापपरायणा । भद्रा भ्रमरवर्णा च भ्रामरी भ्रमरप्रभा ॥ १४४ ॥ भालचन्द्रधरा भीमा भीमनेत्राभवाभवा । भीममुखी भीमदेहा भीमविक्रमकारिणी ॥ १४५ ॥ भीमश्रद्धा भीमपूज्या भीमाकारातिसुन्दरी । भीमसङ्ग्रामजयदा भीमाद्या भीमभैरवी ॥ १४६ ॥ भैरवेशी भैरवी च सदानन्दादिभैरवी । सदानन्दभैरवी च भैरवेन्द्रप्रियङ्करी ॥ १४७ ॥ भल्लास्त्रधारिणी भैमी भृगुवंशप्रकाशिनी । भर्गपत्नी भर्गमाता भङ्गस्था भङ्गभक्षिणी ॥ १४८ ॥ भक्षप्रिया भक्षरता भृकुण्डा भावभैरवी । भावदा भवदा भावप्रभावा भावनाशिनी ॥ १४९ ॥ भालसिन्दूरतिलका भाललोकसुकुण्डला । भालमालालकाशोभा भासयन्ती भवार्णवा ॥ १५० ॥ भवभीतिहरा भालचन्द्रमण्डलवासिनी । मद्भ्रमरनेत्राब्जसुन्दरी भीमसुन्दरी ॥ १५१ ॥ भजनप्रियरूपा च भावभोजनसिद्धिदा । भ्रूचन्द्रनिरता बिन्दुचक्रभ्रूपद्मभेदिनी ॥ १५२ ॥ भवपाशहरा भीमभावकन्दनिवासिनी । मनोयोगसिद्धिदात्री मानसी मनसो मही ॥ १५३ ॥ महती मीनभक्षा च मीनचर्वणतत्परा । मीनावतारनिरता मांसचर्वणतत्परा ॥ १५४ ॥ मांसप्रिया मांससिद्धा सिद्धमांसविनोदिनी । माया महावीरपूज्या मधुप्रेमदिगम्बरी ॥ १५५ ॥ माधवी मदिरामध्या मधुमांसनिषेविता । मीनमुद्राभक्षिणी च मीनमुद्रापतर्पिणी ॥ १५६ ॥ मुद्रामैथुनसंतृप्ता मैथुनानन्दवर्धिनी । मैथुनज्ञानमोक्षस्था महामहिषमर्दिनी ॥ १५७ ॥ यज्ञश्रद्धा योगसिद्धा यत्नी यत्नप्रकाशिनी । यशोदा यशसि प्रीता यौवनस्था यमापहा ॥ १५८ ॥ रासश्रद्धातुरारामरमणीरमणप्रिया । राज्यदा रजनीराजवल्लभा रामसुन्दरी ॥ १५९ ॥ रतिश्चारतिरूपा च रुद्रलोकसरस्वती । रुद्राणी रणचामुण्डा रघुवंशप्रकाशिनी ॥ १६० ॥ लक्ष्मीर्लीलावती लोका लावण्यकोटिसम्भवा । लोकातीता लक्षणाख्या लिङ्गधारा लवङ्गदा ॥ १६१ ॥ लवङ्गपुष्पनिरता लवङ्गतरुसंस्थिता । लेलिहाना लयकरी लीलादेहप्रकाशिनी ॥ १६२ ॥ लाक्षाशोभाधरा लङ्का रत्नमासवधारिणी । लक्षजापसिद्धिकरी लक्षमन्त्रप्रकाशिनी ॥ १६३ ॥ वशिनी वशकर्त्री च वश्यकर्मनिवासिनी । वेशावेश्या वेशवेश्या वंशिनी वंशवर्धिनी ॥ १६४ ॥ वंशमाया वज्रशब्दमोहिनी शब्दरूपिणी । शिवा शिवमयी शिक्षा शशिचूडामणिप्रभा ॥ १६५ ॥ शवयुग्मभीतिदा च शवयुग्मभयानका । शवस्था शववक्षस्था शाब्दबोधप्रकाशिनी ॥ १६६ ॥ षट्पद्मभेदिनी षट्का षट्कोणयन्त्रमध्यगा । षट्चक्रसारदा सारा सारात्सारसरोरुहा ॥ १६७ ॥ समनादिनिहन्त्री च सिद्धिदा संशयापहा । संसारपूजिता धन्या सप्तमण्डलसाक्षिणी ॥ १६८ ॥ सुन्दरी सुन्दरप्रीता सुन्दरानन्दवर्धिनी । सुन्दरास्या सुनवस्त्री सौन्दर्यसिद्धिदायिनी ॥ १६९ ॥ त्रिसुन्दरी सर्वरी च सर्वा त्रिपुरसुन्दरी । श्यामला सर्वमाता च सख्यभावप्रिया स्वरा ॥ १७० ॥ साक्षात्कारस्थिता साक्षात्साक्षिणी सर्वसाक्षिणी । हाकिनी शाकिनीमाता शाकिनी काकिनीप्रिया ॥ १७१ ॥ हाकिनी लाकिनीमाता हाकिनी राकिणीप्रिया । हाकिनी डाकिनीमाता हरा कुण्डलिनी हया ॥ १७२ ॥ हयस्था हयतेजःस्था ह्सौंबीजप्रकाशिनी । लवणाम्बुस्थिता लक्षग्रन्थिभेदनकारिणी ॥ १७३ ॥ लक्षकोटिभास्कराभा लक्षब्रह्माण्डकारिणी । क्षणदण्डपलाकारा क्षपाक्षोभविनाशिनी ॥ १७४ ॥ क्षेत्रपालादिवटुकगणेशयोगिनीप्रिया । क्षयरोगहरा क्षौणी क्षालनस्थाक्षरप्रिया ॥ १७५ ॥ क्षाद्यस्वरान्तसिद्धिस्था क्षादिकान्तप्रकाशिनी । क्षाराम्बुतिक्तनिकरा क्षितिदुःखविनाशिनी ॥ १७६ ॥ क्षुन्निवृत्तिः क्षणज्ञानी वल्लभा क्षणभङ्गुरा । इत्येतत् कथितं नाथ हाकिन्याः कुलशेखर ॥ १७७ ॥ सहस्रनामयोगाङ्गमष्टोत्तरशतान्वितम् । यः पठेन्नियतः श्रीमान् स योगी नात्र संशयः ॥ १७८ ॥ अस्य स्मरणमात्रेण वीरो योगेश्वरो भवेत् । अस्यापि च फलं वक्तुं कोटिवर्षशतैरपि ॥ १७९ ॥ शक्यते नापि सहसा संक्षेपात् श‍ृणु सत्फलम् । आयुरारोग्यमाप्नोति विश्वासं श्रीगुरोः पदैः ॥ १८० ॥ सारसिद्धिकरं पुण्यं पवित्रं पापनाशनम् । अत्यन्तदुःखदहनं सर्वसौभाग्यदायकम् ॥ १८१ ॥ पठनात् सर्वदा योगसिद्धिमाप्नोति योगिराट् । देहसिद्धिः काव्यसिद्धिर्ज्ञानसिद्धिर्भवेद् ध्रुवम् ॥ १८२ ॥ वाचां सिद्धिः खड्गसिद्धिः खेचरत्वमवाप्नुयात् । त्रैलोक्यवल्लभो योगी सर्वकामार्थसिद्धिभाक् ॥ १८३ ॥ अप्रकाश्यं महारत्नं पठित्वा सिद्धिमाप्नुयात् । अस्य प्रपठनेनापि भ्रूपद्मे चित्तमर्पयन् ॥ १८४ ॥ यशोभाग्यमवाप्नोतिराजराजेश्वरो भवेत् । डाकिनीसिद्धिमाप्नोति कुण्डलीवशमानयेत् ॥ १८५ ॥ ध्यानात्मा साधकेन्द्रश्च यतिर्भूत्वा शुभे दिने । ध्यानं कुर्यात् पद्ममध्यकर्णिकायां शिखालये ॥ १८६ ॥ भ्रूमध्ये चक्रसारे च ध्यात्वा ध्यात्वा पठेद् यदि । राकिणीसिद्धिमाप्नोति देवतादर्शनं लभेत् ॥ १८७ ॥ भाग्यसिद्धिमवाप्नोति नित्यं प्रपठनाद्यतः । साक्षात्सिद्धिमवाप्नोति शक्तियुक्तः पठेद्यदि ॥ १८८ ॥ हिरण्याक्षी लाकिनीशा वशमाप्नोति धैर्यवान् । रात्रिशेषे समुत्थाय पठेद् यदि शिवालये ॥ १८९ ॥ पूजान्ते वा जपान्ते वा वारमेकं पठेद्यदि । वीरसिद्धिमवाप्नोति काकिनीवशमानयेत् ॥ १९० ॥ रात्रिं व्याप्य पठेद्यस्तु शुद्धचेता जितेन्द्रियः । शय्यायां चण्डिकागेहे मधुगेहेऽथवा पुनः ॥ १९१ ॥ शाकिनीसिद्धिमाप्नोति सर्वदेशे च सर्वदा । प्रभाते च समुत्थाय शुद्धात्मा पञ्चमे दिने ॥ १९२ ॥ अमावास्यासु विज्ञायां श्रवणायां विशेषतः । शुक्लपक्षे नवम्यां तु कृष्णपक्षेऽष्टमीदिने ॥ १९३ ॥ भार्यायुक्तः पठेद्यस्तु वशमाप्नोति भूपतिम् । एकाकी निर्जने देशे कामजेता महाबली ॥ १९४ ॥ प्रपठेद् रात्रिशेषे च स भवेत् साधकोत्तमः । कल्पद्रुमसमो दाता देवजेता न संशयः ॥ १९५ ॥ शिवशक्तिमध्यभागे यन्त्रं संस्थाप्य यत्नतः । प्रपठेत् साधकेन्द्रश्च सर्वज्ञाता स्थिराशयः ॥ १९६ ॥ एकान्तनिर्जने रम्ये तपःसिद्धिफलोदये । देशे स्थित्वा पठेद्यस्तु जीवन्मुक्ति फलं लभेत् ॥ १९७ ॥ अकालेऽपि सकालेऽपि पठित्वा सिद्धिमाप्नुयात् । त्रिकालं यस्तु पठति प्रान्तरे वा चतुष्पथे ॥ १९८ ॥ योगिनीनां पतिः साक्षादायुर्वृद्धिदीने दिने । वारमेकं पठेद्यस्तु मूर्खो वा पण्डितोऽपि वा ॥ १९९ ॥ वाचामीशो भवेत् क्षिप्रं योगयुक्तो भवेद् ध्रुवम् । सम्भावितो भवेदेकं वारपाठेन भैरव ॥ २०० ॥ जित्वा कालमहामृत्युं देवीभक्तिमवाप्नुयात् । पठित्वा वारमेकं तु यात्रां कुर्वन्ति ये जनाः ॥ २०१ ॥ देवीदर्शनसिद्धिञ्च प्राप्तो योगमवाप्नुयात् । प्रत्येकं नाममुच्चार्य यो यागमनुसञ्चरेत् ॥ २०२ ॥ स भवेन्मम पुत्रो हि सर्वकामफलं लभेत् । सर्वयज्ञफलं ज्ञानसिद्धिमाप्नोति योगिराट् ॥ २०३ ॥ भूतले भूभृतांनाथो महासिद्धो महाकविः । कण्ठे शीर्षे दक्षभुजे पुरुषो धारयेद्यदि ॥ २०४ ॥ योषिद्वामभुजे धृत्वा सर्वसिद्धिमवाप्नुयात् । गोरोचनाकुङ्कुमेन रक्तचन्दनकेन च ॥ २०५ ॥ यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः । आद्या देवी परप्राणसिद्धिमाप्नोति निश्चितम् ॥ २०६ ॥ लिङ्गं पीठे पूर्णिमायां कृष्णचतुर्दशीदिने । भौमवारे मध्यरात्रौ पठित्वा कामसिद्धिभाक् ॥ २०७ ॥ किं न सिद्ध्यति भूखण्डे अजरामर एव सः । रमणीकोटिभर्ता स्याद् वर्षद्वादशपाठतः ॥ २०८ ॥ अष्टवर्षप्रपाठेन कायप्रवेशसिद्धिभाक् । षड्वर्षमात्रपाठेन कुबेरसदृशो धनी ॥ २०९ ॥ वारैकमात्रपाठेन वर्षे वर्षे दिने दिने । स भवेत् पञ्चतत्त्वज्ञो तत्त्वज्ञानी न संशयः ॥ २१० ॥ सर्वपापविनिर्मुक्तो वसेत् कल्पत्रयं भुवि । यः पठेत् सप्तधा नाथ सप्ताहनि दिने दिने ॥ २११ ॥ रात्रौ वारत्रयं धीमान् पठित्वा खेचरो भवेत् । अश्विनी शुक्लपक्षे च रोहिण्यसितपक्षके ॥ २१२ ॥ अष्टम्यां हि नवम्यां तु पठेद् वारत्रयं निशि । दिवसे वारमेकं तु स भवेत् पञ्चतत्त्ववित् ॥ २१३ ॥ अनायासेन देवेश पञ्चामरादिसिद्धिभाक् । खेचरीमेलनं तस्य नित्यं भवति निश्चितम् ॥ २१४ ॥ स्वर्गे मर्त्ये च पाताले क्षणान्निःसरति ध्रुवम् । अग्निस्तम्भं जलस्तम्भं वातस्तम्भं करोति सः ॥ २१५ ॥ पञ्चतत्त्वक्रमेणैव श्मशाने यस्तु सम्पठेत् । स भवेद् देवदेवेशः सिद्धान्तसारपण्डितः ॥ २१६ ॥ शूकरासवसंयुक्तः कुलद्रव्येण वा पुनः । बिल्वमूले पीठमूले विधानेन प्रपूजयेत् । परेण परमा देवी तुष्टा भवति सिद्धिदा ॥ २१७ ॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे भैरवभैरवीसंवादे हाकिनीसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : hAkinIsahasra
% File name             : hAkinIsahasra.itx
% itxtitle              : hAkinIsahasranAmastotram
% engtitle              : hAkinIsahasranAmastotra
% Category              : sahasranAma, devii, ShaTchakrashakti, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mark S.G. Dyczkowski muktAbodha
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : rudrayAmale uttaratantre bhairava bhairavI sa.nvAde
% Latest update         : May 25, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org