जगदम्बा जयवादः
जय जगदम्ब ! कदम्बविहारिणि ! मङ्गलकारिणि ! कामकले !
जय तनुशोभा-कम्पितशम्पे ! लसदनुकम्पे ! कान्तिनिधे ! ।
जय जितकामेऽपि जनितकामे ! धूर्जटि-वामे ! वामगते !
जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ १॥
नानालङ्कृति-झङ्कृतिशालिनि ! मौक्तिकमालिनि ! केलिपरे !
मुनिजन-हृदयागार-निवासिनि ! विद्यास्वामिनि ! बोधघने ! ।
सान्द्रानन्द-सुधारस-भासिनि ! वीणावादिनि ! वेदनुते !
जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ २॥
आपत्तूल-महानिलकीले ! पालनशीले ! भूतिखने !
द्युतिजित-चम्पकदामकलापे ! मधुरालापे ! हंसगते !
विभ्रमरञ्जित-शङ्करहृदये ! कृतजगदुदये ! शैलसुते !
जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ३॥
मूले दीपककलिकाकारे ! विद्यासारे ! भवसि परा
तस्मादपसृति-कलनावृद्धे ! मणिपुरमध्ये पश्यन्ती ।
स्वान्ते मध्यमभावाकूता, कण्ठे वितता वैखरिका
जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ४॥
पश्चादाविर्भवदनवद्ये ! श्रेयःपद्ये ! यत्तदिदं
शब्दब्रह्मतया खलु गेयं, खमिवामेयं किमपि घनम् ।
पञ्चाशल्लिपि-भेदविचित्रं वाङ्मयमात्रं त्वमसि परे
जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ५॥
भवभवविभव-पराभवहेतो ! गिरिकुलकेतो ! भक्तहिते !
नानाविध-वृजिनोत्कर-वारिणि ! करुणासारिणि ! शान्ततरे ! ।
सहसोत्सादित-साधकविघ्ने ! श्रद्धानिघ्ने ! सुखकलिके !
जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ६॥
सिन्दूरद्रव-चुम्बितभाले ! सेवितहाले ! प्रेमभरे !
मातश्चिन्तामणि-भवनान्ते ! निर्भरकान्ते ! विततततम् ।
सोत्कं गायसि किन्नरदारैः साकमुदारैः पतिचरितं
जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ७॥
क्लेशं भञ्जय, रञ्जय चित्तं, वित्तं स्फारीकुरु वरदे !
शत्रुं मर्दय, वर्धय शक्तिं , भक्तिं सान्द्रीकुरु वरदे ।
नास्ति कृपानिधिरम्ब ! त्वत्तो मत्तो मत्ततमो न शिवे
जय जालन्धरपीठ-विलासिनि ! दुःखविनाशिनि ! भक्तिवशे ! ॥ ८॥
वज्रालङ्करणायाः वज्रातटिनी-विहारशीलायाः ।
वज्रेश्याः स्तवमेतं पठतां सङ्गच्छतां श्रेयः ॥ ९॥
इति दुर्गाप्रसादद्विवेदीविरचितः जगदम्बा जयवादः सम्पूर्णः ।
Encoded and proofread by Rajani Arjun Shankar