श्रीजगदम्बास्तुतिः
ॐ नमः श्रीजगदम्बायै ।
ॐ विश्वेश्वरी निखिलदेव महर्षिपूज्या
सिंहासना त्रिनयना भुजगोपवीता ।
शङ्खाम्बुजास्यऽमृतकुम्भक पञ्चशाखा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १॥
जन्माटवी प्रदहने दव-वह्नि-भूता
तत्पाद पङ्कजरजोगत चेतसां या ।
श्रेयोवतां सुकृतिनां भवपाशभेत्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ २॥
देव्या यया दनुजराक्षसदुष्ट-चेतो
न्यग्भावितं चरणनूपुरशिञ्जितेन ।
इन्द्रादिदेव हृदयं प्रविकासयन्ती
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ३॥
दुःखार्णवे हि पतितं शरणागतं या
चोद्धृ त्य सा नयति धाम परं दयाब्धिः ।
विष्णुगजेन्द्रमिव भीतभयापहर्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ४॥
यस्या विचित्रमखिलं हि जगत्प्रपञ्चं
कुक्षो विलीनमपि सृष्टिविसृष्टिरूपात् ।
आविर्भवत्यविरतं चिदचित्स्वभावं
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ५॥
यत्पाद पंङ्कजरजः कणज प्रसादात्
योगीश्वरैर्विगत कल्मषमानसैस्तत् ।
प्राप्त पदं जनिविनाशहरं परं सा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ६॥
यत्पादपङ्कज रजांसि मनोमलानि
सम्मार्जयन्ति शिवविष्णु विरिञ्चिदेवैः ।
मृग्यान्यऽपश्चिमतनोः प्रणुतानि माता
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ७॥
यत्पाद चिन्तन दिवाकर रश्मिमाला
चान्तर्बहिश्करणवर्ग सरोजषण्डम् ।
ज्ञानोदये सति विकास्य तमोपहर्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ८॥
यद दर्शनामृतनदी महदोघयुक्ता
सम्प्लावयत्यखिल भेदगुहास्वऽनन्ता ।
तृष्णाहरा सुकृतिनां भवतापहर्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ९॥
हंसस्थिता सकलशब्दमयी भवानी
वाग्वादिनी हृदय पुष्कर चारिणीया ।
हंसीव हंसरजनीश्वर वह्निनेत्रा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १०॥
या सोमसूर्यवपुषा सततं सरन्ती
मूलाश्रयात्तडिदिवाऽऽविधरन्ध्रमीढया ।
मध्यस्थिता सकलनाडिसमूह पूर्णा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ११॥
चैतन्यपूरित समस्त जगद्-विचित्रा
मातृप्रमेय परिमाणातया चकास्ति ।
या पूर्णवृत्यहमिति स्वपदाधिरूढा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १२॥
या चित्क्रमाक्रमतया प्रविभातिनित्या
स्वातन्त्र्यश क्तिरमला गतभेदभावा ।
स्वात्मस्वरूप सुविमर्शपरैः सुगम्या
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १३॥
या कृत्यपञ्चक निभालन लालसैस्तैः
सन्दृश्यते निखिलवेद्यगतापि शश्वत् ।
सान्तर्धृता परप्रमातृपदं विशन्ती
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १४॥
यानुत्तरात्मनि पदे परमाऽमृताब्धौ
स्वातन्त्र्यशक्तिलहरीव बहिः सरन्ती ।
संलीयते वरसतः स्वपदे सभावा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १५॥
मेरोः सदैव हि दरीषुविचित्रवाग्भिः
गायन्ति यां भगवती परिवादिनीभिः ।
विद्याधरा हि पुलकाङ्कित विग्रहाः सा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १६॥
राज्ञीं सदा भगवतीं मनसा स्मरामि
राज्ञीं सदा भगवतीं वचसा गृणामि ।
राज्ञीं सदा भगवतीं शिरसा नमामि
राज्ञीं सदा भगवतीं शरणं प्रदद्ये ॥ १७॥
राज्ञ्याः स्तोत्रमिन्द पुण्यं यः पठेद्भक्तिमान्नरः
नित्यं देव्याः प्रसादेन शिवसायुज्यमाप्नुयात् ॥ १८॥
श्रीजगदम्बास्तुती-राजानक-विद्याधर-विरचिता
शुभदा बोभूयात् इति शिवम् ॥
जय देहाद्रिकुञ्जान्तर्निकूजञ्जीव जीवक ।
जय सन्मानसव्योमविलासिवर सारस ॥
Encoded and proofread by Girdhari Lal Koul glkoul.18 at gmail.com