ज्ञानस्य मोक्षहेतुत्ववर्णनम्

ज्ञानस्य मोक्षहेतुत्ववर्णनम्

(देवीभागवततः देवीगीतायां तृतीयोऽध्यायः) श्रीदेव्युवाच - क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् । तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ १॥ न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया । रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ २॥ प्रकृतं श‍ृणु राजेन्द्र परमात्मात्र जीवताम् । उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ ३॥ क्रियाः करोति विविधा धर्माधर्मैकहेतवः । नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ ४॥ पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा । नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ ५॥ घटीयन्त्रवदेतस्य न विरामः कदापि हि । अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ ६॥ तस्मादज्ञाननाशाय यतेत नियतं नरः । एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ ७॥ पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च । अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ ८॥ न कर्म तज्जं नोपास्तिर्विरोधाभावतो रे । प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ ९॥ अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि । ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ १०॥ तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः । कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ ११॥ ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः । सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ १२॥ इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् । ज्ञानाद्धृद्ग्रन्थिभेदः स्याद्धृद्ग्रन्थौ कर्मसम्भवः ॥ १३॥ यौगपद्यं न सम्भाव्यं विरोधात्तु ततस्तयोः । तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि ॥ १४॥ तस्मात् सर्वाणि कर्माणि वैदिकानि महामते । चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ १५॥ शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः । तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ १६॥ तदन्ते चैव संन्यस्य संश्रयेद्गुरुमात्मवान् । श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ १७॥ वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः । तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ १८॥ तत्त्वमस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् । ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ १९॥ पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः । तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः ॥ २०॥ त्वं पदस्य च वाच्यार्थो जीव एव न संशयः । उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ २१॥ वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह । लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ २२॥ चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः । तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ २३॥ देवदत्तः स एवायमितिवल्लक्षणा स्मृता । स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः ॥ २४॥ पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः । भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ २५॥ मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः । सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ २६॥ ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् । मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ २७॥ अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः । द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ २८॥ अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः । देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ २९॥ उपाधिविलये जाते केवलात्मावशिष्यते । देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा ॥ ३०॥ पञ्चकोशपरित्यागे ब्रह्मपुच्छं हि लभ्यते । नेतिनेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥ ३१॥ न जायते म्रियते तत्कदाचि- न्नायं भूत्वा न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ ३२॥ हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ३३॥ अणोरणीयान्महतो महीया- नात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमस्य ॥ ३४॥ आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३५॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ३६॥ यस्त्वविद्वान्भवति चामनस्कश्च सदाऽशुचिः । न तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ ३७॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ३८॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ ३९॥ इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना । भावयेन्मामात्मरूपां निदिध्यासनतोऽपि च ॥ ४०॥ योगवृत्तेः पुरा स्वस्मिन्भावयेदक्षरत्रयम् । देवीप्रणवसञ्ज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ ४१॥ हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः । ईकारः कारणात्मासौ ह्रीङ्कारोऽहं तुरीयकम् ॥ ४२॥ एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् । समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ ४३॥ समाधिकालात्पूर्वं तु भावयित्वैवमादृतः । ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ ४४॥ प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ ४५॥ भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले । हकारं विश्वमात्मानं रकारे प्रविलापयेत् ॥ ४६॥ रकारं तैजसं देवमीकारे प्रविलापयेत् । ईकारं प्राज्ञमात्मानं ह्रीङ्कारे प्रविलापयेत् ॥ ४७॥ वाच्यवाचकताहीनं द्वैतभावविवर्जितम् । अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ ४८॥ इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः । मद्रूप एव भवति द्वयोरप्येकता यतः ॥ ४९॥ योगयुक्त्यानया दृष्ट्वा मामात्मानं परात्परम् । अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत् ॥ ५०॥ इति देवीभागवते सप्तमस्कन्धेदेवीगीतायां चतुस्त्रिंशाध्यायान्तर्गतं ज्ञानस्य मोक्षहेतुत्ववर्णनं समाप्तम् । इति श्रीदेवीभागवते देवीगीतायां तृतीयोऽध्यायः । Encoded by Vishwas Bhide Proofread by Vishwas Bhide, PSA Easwaran
% Text title            : Jnanasya Mokshahetutva Varnanam
% File name             : jnAnasyamokShahetutvavarNanam.itx
% itxtitle              : jnAnasyamokShahetutvavarNanam (devIbhAgavatAntargatam)
% engtitle              : jnAnasya mokShahetutva varNanam
% Category              : devii, advice, misc
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description/comments  : Devigita Adhyaya 3
% Indexextra            : (Devi Bhagavatam
% Acknowledge-Permission: http://satsangdhara.net
% Latest update         : April 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org