श्रीजोगुलाम्बाष्टकम्
महायोगपीठस्थले तुङ्गभद्रा
तटे सूक्ष्मकाश्यां सदासंवसन्तीम् ।
महायोगिब्रह्मेशवामाङ्कसंस्थां
शरच्चन्द्रबिम्बां भजरे जोगुलाम्बाम् ॥ १॥
ज्वलद्रत्नवैढूर्यमुक्ताप्रवालः
प्रवेणयस्थगाङ्गेयकोटीरशोभाम् ।
सुकाश्मीररेखाप्रभाख्यां स्वफाले
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ २॥
स्वसौन्दर्यमन्दस्मितामिन्दुवक्त्रां
रसत्कज्जलालिप्तपद्माभनेत्राम् ।
परां पार्वतीं विद्युदाबासगात्रां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ३॥
घनश्यामलापादसंलोकवेणीं
मनशङ्करारामपीयूषवाणीम् ।
शुकाश्लिष्टसुश्लाघ्यपद्माभपाणीं
शरचन्द्रबिम्बा भजे जोगुलाम्बाम् ॥ ४॥
सुधापूर्णगाङ्गेयकुम्भस्तनाड्यां
लसत्पीतकौशेयवस्त्रां स्वकट्याम् ।
गले रत्नमुक्तावलीपुष्पहारां
शरचन्द्रबिम्बा भजे जोगुलाम्बाम् ॥ ५॥
शिवां शाङ्करीं सर्वकल्याणशीलां
भवानीं भवाम्भोनिधेर्धिव्यनाकाम् ।
कुमारीं कुलोत्तारिणीमादिविद्यां
शरच्चन्द्रबिम्बा भजे जोगुलाम्बाम् ॥ ६॥
चलत्किङ्किणीनूपुरापादपद्मां
सुरेन्द्रैर्मगेन्द्रैर्महायोगिबृन्दैः ।
सदास्तूयमानां परं वेदविद्भिः
शरच्चन्द्रबिम्बा भजे जोगुलाम्बाम् ॥ ७॥
हरे सोदरीं हव्यवाहास्वरूपां
प्रसन्नं प्रपन्नार्तिहन्त्रीं प्रसिद्धाम् ।
महासिद्धिबुद्ध्यादिवन्द्यां परेशीं
शरच्चन्द्रबिम्बा भजे जोगुलाम्बाम् ॥ ८॥
इदं जोगुलाम्भाष्टकं यः पठेद्वा
प्रभाते निशार्देथवा शुद्धचित्तः ।
पृथिव्यां परं सर्वभोगांश्च भुक्त्या
श्रियं मुक्तिमाप्नोति दिव्यां प्रसिद्धः ॥ ९॥
इति जोगुलाम्बाष्टकं सम्पूर्णम् ।
Proofread by Vani V.