श्रीज्वालामुखीसहस्रनामस्तोत्रम्

श्रीज्वालामुखीसहस्रनामस्तोत्रम्

श्रीभैरव्युवाच । भगवन् सर्वधर्मज्ञ देवानामभयङ्कर । पुरा मे यत् त्वया प्रोक्तं वरं कैलाससानुतः ॥ १॥ कृपया परया नाथ तं मे दातुं क्षमो भव । श्रीभैरव उवाच । सत्यमेतत् त्वया प्रोक्तं वरं वरय पार्वति ॥ २॥ तं प्रयच्छामि संसिद्ध्यै मनसा यदभीप्सितम् । श्रीभैरव्युवाच । ज्वालामुख्यास्त्वया देव सहस्राणि च तत्त्वतः ॥ ३॥ प्रोक्तानि ब्रूहि मे भक्त्या यदि मे त्वत्कृपा भवेत् । श्रीभैरव उवाच । प्रवक्ष्यामि महादेवि ज्वालानामानि तत्त्वतः ॥ ४॥ सहस्राणि कलौ नॄणां वरदानि यथेप्सितम् । अभक्ताय न दातव्यं दुष्टायासाधकाय च । ५॥ या सा ज्वालामुखी देवी त्रैलोक्यजननी स्मृता । तस्या नामानि वक्ष्यामि दुर्लभानि जगत्त्रये ॥ ६॥ विना नित्यबलिं स्तोत्रं न रक्ष्यं साधकोत्तमैः । दुर्भिक्षे शत्रुभीतौ च मारणे स्तम्भने पठेत् ॥ ७॥ सहस्राख्यं स्तवं देव्याः सद्यः सिद्धिर्भविष्यति । विना गन्धाक्षतैः पुष्पैर्धूपैर्दीपैर्विना बलिम् ॥ ८॥ न रक्ष्यं साधकेनैव देवीनामसहस्रकम् । दत्त्वा बलिं पठेद्देव्या मन्त्री नामसहस्रकम् । देवि सत्यं मया प्रोक्तं सिद्धिहानिस्ततोऽन्यथा ॥ ९॥ अस्य श्रीज्वालामुखीसहस्रनामस्तवस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीज्वालामुखी देवता, ह्रीं बीजं, श्रीं शक्तिः, ॐ कीलकं पाठे विनियोगः । ॥ अङ्गन्यासः ॥ भैरवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमो मुखे । श्रीज्वालामुखीदेवतायै नमो हृदि । ह्रीं बीजाय नमो नाभौ । श्रीं शक्तये नमो गुह्ये । ॐ कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु । ॐ ह्यामिति षड् दीर्घयुक्तमायया करषडङ्गानि विधाय ध्यायेत् ॥ ॥ ध्यानम् ॥ उद्यच्चन्द्रमरीचिसन्निभमुखीमेकादशाराब्जगां पाशाम्भोजवराभयान् करतलैः सम्बिभ्रतीं सादरात् । अग्नीन्द्वर्कविलोचनां शशिकलाचूडां त्रिवर्गोज्ज्वलां प्रेतस्थां ज्वलदग्निमण्डलशिखां ज्वालामुखीं नौम्यहम् ॥ ॐ ह्रीं ज्वालामुखी जैत्री श्रीञ्ज्योत्स्ना जयदा जया । औदुम्बरा महानीला शुक्रलुप्ता शची श्रुतिः ॥ १॥ स्मयदा स्मयहर्त्री च स्मरशत्रुप्रियङ्करी । मानदा मोहिनी मत्ता माया बाला बलन्धरा ॥ २॥ भगरूपा भगावासा भीरुण्डा भयघातिनी । भीतिर्भयानकास्या च भ्रूः सुभ्रूः सुखिनी सती ॥ ३॥ शूलिनी शूलहस्ता च शूलिवामाङ्गवासिनी । शशाङ्कजननी शीता शीतला शारिका शिवा ॥ ४॥ स्रुचिका मधुमन्मान्या त्रिवर्गफलदायिनी । त्रेता त्रिलोचना दुर्गा दुर्गमा दुर्गतिर्गतिः ॥ ५॥ पूता प्लुतिर्विमर्शा च सृष्टिकर्त्री सुखावहा । सुखदा सर्वमध्यस्था लोकमाता महेश्वरी ॥ ६॥ लोकेष्टा वरदा स्तुत्या स्तुतिर्द्रुतगतिर्नुतिः । नयदा नयनेत्रा च नवग्रहनिषेविता ॥ ७॥ अम्बा वरूथिनी वीरजननी वीरसुन्दरी । वीरसूर्वारुणी वार्ता वराऽभयकरा वधूः ॥ ८॥ वानीरतलगा वाम्या वामाचारफलप्रदा । वीरा शौर्यकरी शान्ता शार्दूलत्वक् च शर्वरी ॥ ९॥ शलभी शास्त्रमर्यादा शिवदा शम्बरान्तका । शम्बरारिप्रिया शम्भुकान्ता शशिनिभानना ॥ १०॥ शस्त्रायुधधरा शान्तिर्ज्योतिर्दीप्तिर्जगत्प्रिया । जगती जित्वरा जारी मार्जारी पशुपालिनी (१००) ॥ ११॥ मेरुमध्यगता मैत्री मुसलायुधधारिणी । मान्या मन्त्रेष्टदा माध्वी माध्वीरसविघूर्णिता ॥ १२॥ मोदकाहारमत्ता च मत्तमातङ्गगामिनी । महेश्वरप्रियोन्मत्ता दार्वी दैत्यविमर्दिनी ॥ १३॥ var महेश्वरप्रियोन्नत्ता देवेष्टा साधकेष्टा च साध्वी सर्वत्रगाऽसमा । सन्तानकतरुश्छायासन्तुष्टाऽध्वश्रमापहा ॥ १४॥ शारदा शरदब्जाक्षी वरदाब्जनिभानना । var वरदाऽब्जनिभानना नम्राङ्गी कर्कशाङ्गी च वज्राङ्गी वज्रधारिणी ॥ १५॥ वज्रेष्टा वज्रकङ्काला वानरीं वायुवेगिनी । वराकी कुलका काम्या कुलेष्टा कुलकामिनी ॥ १६॥ कुन्ता कामेश्वरी क्रूरा कुल्या कामान्तकारिणी । कुन्ती कुन्तधरा कुब्जा कष्टहा वगलामुखी ॥ १७॥ मृडानी मधुरा मूका प्रमत्ता बैन्दवेश्वरी । कुमारी कुलजाऽकामा कूवरी नडकूबरी ॥ १८॥ var कूबरी नगेश्वरी नगावासा नगपुत्री नगारिहा । नागकन्या कुहूः कुण्ठी करुणा कृपयान्विता ॥ १९॥ ककारवर्णरूपाढ्या ह्रीर्लञ्जा श्रीः शुभाशुभा । खेचरी खगपत्री च खगनेत्रा खगेश्वरी ॥ २०॥ खाता खनित्री खस्था च जप्या जाप्याऽजरा धुतिः । जगती जन्मदा जम्भी जम्बुवृक्षतलस्थिता ॥ २१॥ जाम्बूनदप्रिया सत्या सात्त्विकी सत्त्ववर्जिताम् । सर्वमाता समालोका लोकाख्यातिर्लयात्मिका ॥ २२॥ var लोका ख्यातिर्लयात्मिका लूता लता रतिर्लज्जा वाजिगा (२००) वारुणी वशा । var लतारतिर्लज्जा कुटिला कुत्सिता ब्राह्मी ब्रह्मणि । ब्रह्मदायिनी ॥ २३॥ व्रतेष्टा वाजिनी वस्तिर्वामनेत्रा वशङ्करी । शङ्करी शङ्करेष्टा च शशाङ्ककृतशेखरा ॥ २४॥ कुम्भेश्वरी कुरुघ्नी च पाण्डवेष्टा परात्परा । महिषासुरसंहर्त्री माननीया मनुप्रिया ॥ २५॥ दषिणा दक्षजा दक्षा द्राक्षा दूती द्युतिर्धरा । धर्मदा धर्मराजेष्टा धर्मस्था धर्मपालिनी ॥ २६॥ धनदा धनिका धर्म्या पताका पार्वती प्रजा । प्रजावती पुरी प्रज्ञा पूः पुत्री पत्रिवाहिनी ॥ २७॥ पत्रिहस्ता च मातङ्गी पत्रिका च पतिव्रता । पुष्टिः प्लक्षा श्मशानस्था देवी धनदसेविता ॥ २८॥ दयावती दया दूरा दूता निकटवासिनी । नर्मदाऽनर्मदा नन्दा नाकिनी नाकसेविता ॥ २९॥ नासा सङ्क्रान्तिरीड्या च भैरवी च्छिन्नमस्तका । श्यामा श्यामाम्बरा पीता पीतवस्त्रा कलावती ॥ ३०॥ कौतुकी कौतुकाचारा कुलधर्मप्रकाशिनी । शाम्भवी गारुडी विद्या गरुडासनसंस्थिता ॥ ३१॥ var गारुडीविद्या विनता वैनतेयेष्टा वैष्णवी विष्णुपूजिता । वार्तादा वालुका वेत्री वेत्रहस्ता वराङ्गना ॥ ३२॥ विवेकलोचना विज्ञा विशाला विमला ह्यजा । विवेका प्रचुरा लुप्ता नौर्नारायणपूजिता ॥ ३३॥ नारायणी (३००) च सुमुखी दुर्जया दुःखहारिणी । दौर्भाग्यहा दुराचारा दुष्टहन्त्री च द्वेषिणी ॥ ३४॥ वाङ्मयी भारती भाषा मषी लेखकपूजिता । लेखपत्री च लोलाक्षी लास्या हास्या प्रियङ्करी ॥ ३५॥ प्रेमदा प्रणयज्ञा च प्रमाणा प्रत्ययाङ्किता । वाराही कुब्जिका कारा काराबन्धनमोक्षदा ॥ ३६॥ उग्रा चोग्रतरोग्रेष्टा नृमान्या नरसिंहिका । नरनारायणस्तुत्या नरवाहनपूजिता ॥ ३७॥ नृमुण्डा नूपुराढ्या च नृमाता त्रिपुरेश्वरी । दिव्यायुधोग्रतारा च त्र्यक्षा त्रिपुरमालिनी ॥ ३८॥ त्रिनेत्रा कोटराक्षी च षट्चक्रस्था क्रीमीश्वरी । क्रिमिहा क्रिमियोनिश्च कला चन्द्रकला चमूः ॥ ३९॥ चमाम्बग च चार्वङ्गी चञ्चलाक्षी च भद्रदा । भद्रकाली सुभद्रा च भद्राङ्गी प्रेतवाहिनी ॥ ४०॥ सुषमा स्त्रीप्रिया कान्ता कामिनी कुटिलालका । कुशब्दा कुगतिर्मेधा मध्यमाङ्का च काश्यपी ॥ ४१॥ दक्षिणाकालिका काली कालभैरवपूजिता । क्लीङ्कारी कुमतिर्वाणी बाणासुरनिसूदिनी ॥ ४२॥ निर्ममा निर्ममेष्टा च निरयोनिर्निराश्रया । var निरर्योनिर्निराश्रया निर्विकारा निरीहा च निलया नृपपुत्रिणी ॥ ४३॥ नृपसेव्या विरिञ्चीष्टा विशिष्टा विश्वमातृका । मातृकाऽर्णविलिप्ताङ्गी मधुस्त्राता मधुद्रवा ॥ ४४॥ शुक्रेष्टा शुक्रसन्तुष्टा शुक्रस्नाता कृशोदरी । वृषा वृष्टिरनावृष्टिर्लभ्या लोभविवर्जिता ॥ ४५॥ अब्धिश्च (४००) ललना लक्ष्या लक्ष्मी रामा रमा रतिः । रेवा रम्भोर्वशी वश्या वासुकिप्रियकारिणी ॥ ४६॥ शेषा शेषरता श्रेष्ठा शेषशायिनमस्कृता । शय्या शर्वप्रिया शस्ता प्रशस्ता शम्भुसेविता ॥ ४७॥ आशुशुक्षणिनेत्रा च क्षणदा क्षणसेविता । क्षुरिका कर्णिका सत्या सचराचररूपिणी ॥ ४८॥ चरित्री च धरित्री च दितिर्दैत्येन्द्रपूजिता । गुणिनी गुणरूपा च त्रिगुणा निर्गुणा घृणा ॥ ४९॥ घोषा गजाननेष्टा च गजाकारा गुणिप्रिया । गीता गीतप्रिया तथ्या पथ्या त्रिपुरसुन्दरी ॥ ५०॥ पीनस्तनी च रमणी रमणीष्टा च मैथुनी । पद्मा पद्मधरा वत्सा धेनुर्मेरुधरा मघा ॥ ५१॥ मालती मधुरालापा मातृजा मालिनी तथा । वैश्वानरप्रिया वैद्या चिकित्सा वैद्यपूजिता ॥ ५२॥ वेदिका वारपुत्री च वयस्या वाग्भवी प्रसूः । क्रीता पद्मासना सिद्धा सिद्धलक्ष्मीः सरस्वती ॥ ५३॥ सत्त्वश्रेष्ठा सत्त्वसंस्था सामान्या सामवायिका । साधकेष्टा च सत्पत्नी सत्पुत्री सत्कुलाश्रया ॥ ५४॥ समदा प्रमदा श्रान्ता परलोकगतिः शिवा । घोररूपा घोररावा मुक्तकेशी च मुक्तिदा ॥ ५५॥ मोक्षदा बलदा पुष्टिर्मुक्तिर्बलिप्रियाऽभया । तिलप्रसूननासा च प्रसूना कुलशीर्षिणी ॥ ५६॥ परद्रोहकरी (५००) पान्था पारावारसुता भगा । भर्गप्रिया भर्गशिखा हेला हैमवतीश्वरी ॥ ५७॥ हेरुकेष्टा वटुस्था च वटुमाता वटेश्वरी । नटिनी त्रोटिनी त्राता स्वसा सारवती सभा ॥ ५८॥ सौभाग्या भाग्यदा भाग्या भोगदा भूः प्रभावती । चन्द्रिका कालहत्रीं च ज्योत्स्नोल्काऽशनिराह्निका ॥ ५९॥ ऐहिकी चौष्मिकी चोष्मा ग्रीष्मांशुद्युतिरूपिणी । ग्रीवा ग्रीष्मानना गव्या कैलासाचलवासिनी ॥ ६०॥ मल्ली मार्तण्डरूपा च मानहर्त्री मनोरमा । मानिनी मानकर्त्री च मानसी तापसी तुटिः ॥ ६१॥ var त्रुटिः पयःस्था तु परब्रह्मस्तुता स्तोत्रप्रिया तनुः । तन्वी तनुतरा सूक्ष्मा स्थूला शूरप्रियाऽधमा ॥ ६२॥ उत्तमा मणिभूषाढ्या मणिमण्डपसंस्थिता । माषा तीक्ष्णा त्रपा चिन्ता मण्डिका चर्चिका चला ॥ ६३॥ चण्डी चुल्ली चमत्कारकर्त्री हर्त्री हरीश्वरी । हरिसेव्या कपिश्रेष्ठा चर्चिता चारुरूपिणी ॥ ६४॥ चण्डीश्वरी चण्डरूपा मुण्डहस्ता मनोगतिः । पोता पूता पवित्रा च मज्जा मेध्या सुगन्धिनी ॥ ६५॥ सुगन्धा पुष्पिणी पुष्पा प्रेरिता पवनेश्वरी । प्रीता क्रोधाकुला न्यस्ता न्यक्कारा सुरवाहिनी ॥ ६६॥ स्रोतस्वती मधुमती देवमाता सुधाम्बरा (६००) । मत्स्या मत्स्येन्द्रपीठस्था वीरपाना मदातुरा ॥ ६७॥ var भत्स्या पृथिवी तैजसी तृप्तिर्मूलाधारा प्रभा पृथुः । नागपाशधराऽनन्ता पाशहस्ता प्रबोधिनी ॥ ६८॥ var नागपाशधरानन्ता प्रसादना कलिङ्गाख्या मदनाशा मधुद्रवा । मधुवीरा मदान्धा च पावनी वेदना स्मृतिः ॥ ६९॥ बोधिका बोधिनी पूषा काशी वाराणसी गया । कौशी चोज्जयिनी धारा काश्मीरी कुङ्कुमाकुला ॥ ७०॥ भूमिः सिन्धुः प्रभासा च गङ्गा गोरी शुभाश्रया । नानाविद्यामयी वेत्रवती गोदावरी गदा ॥ ७१॥ गदहर्त्री गजारूढा इन्द्राणी कुलकौलिनी । कुलाचारा कुरूपा च सुरूपा रूपवर्जिता ॥ ७२॥ चन्द्रभागा च यमुना यामी यमक्षयङ्करी । काम्भोजी सरयूश्चित्रा वितस्तैरावती झषा ॥ ७३॥ चषिका पथिका तन्त्री वीणा वेणुः प्रियंवदा । कुण्डलिनी निर्विकल्पा गायत्री नरकान्तका ॥ ७४॥ कृष्णा सरस्वती तापी पयोर्णा शतरुद्रिका । कावेरी शतपत्राभा शतबाहुः शतह्रदा ॥ ७५॥ रेवती रोहिणी क्षिप्या क्षीरपा क्षोणी क्षमा क्षया । var क्षिप्रा क्षान्तिर्भ्रान्तिर्गुरुर्गुवी गरिष्ठा गोकुला नदी ॥ ७६॥ नादिनी कृषिणी कृष्या सत्कुटी भूमिका (७००) भ्रमा । विभ्राजमाना तीर्थ्या च तीर्था तीर्थफलप्रदा ॥ ७७॥ तरुणी तामसी पाशा विपाशा प्राशधारिणी । पशूपहारसन्तुष्टा कुक्कुटी हंसवाहना ॥ ७८॥ मधुरा विपुलाऽकाङ्क्षा वेदकाण्डी विचित्रिणी । स्वप्नावती सरित् सीताधारिणी मत्सरी च मुत् ॥ ७९॥ शतद्रूर्भारती कद्रूरनन्तानन्तशाखिनी । var कद्रूरनन्ताऽनन्तशाखिनी वेदना वासवी वेश्या पूतना पुष्पहासिनी ॥ ८०॥ त्रिशक्तिः शक्तिरूपा चाक्षरमाता क्षुरी क्षुधा । मन्दा मन्दाकिनी मुद्रा भूता भूतपतिप्रिया ॥ ८१॥ भूतेष्टा पञ्चभूतघ्नी स्वक्षा कोमलहासिनी । वासिनी कुहिका लम्भा लम्बकेशी सुकेशिनी ॥ ८२॥ ऊर्ध्वकेशी विशालाक्षी घोरा पुण्यपतिप्रिया । पांसुला पात्रहस्ता च खर्परी खर्परायुधा ॥ ८३॥ केकरी काकिनी कुम्भी सुफला केकराकृतिः । विफला विजया श्रीदा श्रीदसेव्या शुभङ्करी ॥ ८४॥ शैत्या शीतालया शीधुपात्रहस्ता कृपावती । कारुण्या विश्वसारा च करुणा कृपणा कृपा ॥ ८४॥ प्रज्ञा ज्ञाना च षड्वर्गा षडास्या षण्मुखप्रिया । क्रौञ्ची क्रौञ्चाद्रिनिलया दान्ता दारिद्र्यनाशिनी ॥ ८६॥ शाला चाभासुरा साध्या साधनीया च सामगा । सप्तस्वरा सप्तधरा सप्तसप्तिविलोचना ॥ ८७॥ स्थितिः क्षेमङ्करी स्वाहा वाचाली (८००) विविषाम्बरा । कलकण्ठी घोषधरा सुग्रीवा कन्धरा रुचिः ॥ ८८॥ शुचिस्मिता समुद्रेष्टा शशिनी वशिनी सुदृक् । सर्वज्ञा सर्वदा शारी सुनासा सुरकन्यका ॥ ८९॥ सेना सेनासुता श‍ृङ्गी श‍ृङ्गिणी हाटकेश्वरी । होटिका हारिणी लिङ्गा भगलिङ्गस्वरूपिणी ॥ ९०॥ भगमाता च लिङ्गाख्या लिङ्गप्रीतिः कलिङ्गजा । कुमारी युवती प्रौढा नवोढा प्रौढरूपिर्णा ॥ ९१॥ रम्या रजोवती रज्जु रजोली राजसी घटी । कैवर्ती राक्षसी रात्री रात्रिञ्चरक्षयङ्करी ॥ ९२॥ महोग्रा मुदिता भिल्ली भल्लहस्ता भयङ्करी । तिलाभा दारिका द्वाःस्था द्वारिका मध्यदेशगा ॥ ९३॥ चित्रलेखा वसुमती सुन्दराङ्गी वसुन्धरा । देवता पर्वतस्था च परभूः परमाकृतिः ॥ ९४॥ परमूतिर्मुण्डमाला नागयज्ञोपवीतिनी । श्मशानकालिका श्मश्रुः प्रलयात्मा प्रलोपिनी ॥ ९५॥ प्रस्थस्था प्रस्थिनी प्रस्था धूम्रार्चिर्धूम्ररूपिणी । धूम्राङ्गी धूम्रकेशा च कपिला कालनाशिनी ॥ ९६॥ कङ्काली कालरूपा च कालमाता मलिम्लुची । शर्वाणी रुद्रपत्नी च रौद्री रुद्रस्वरूपिणी ॥ ९७॥ सन्ध्या त्रिसन्ध्या सम्पूज्या सर्वैश्वर्यप्रदायिनी । कुलजा सत्यलोकेशा सत्यवाक् सत्यवादिनी ॥ ३८॥ सत्यस्वरा सत्यमयी हरिद्वारा हरिन्मयी । हरिद्रतन्मयी राशि (९००) र्ग्रहतारातिथितनुः ॥ ९९॥ तुम्बुरुस्त्रुटिका त्रोटी भुवनेशी भयापहा । राज्ञी राज्यप्रदा योग्या योगिनी भुवनेश्वरी ॥ १००॥ तुरी तारा महालक्ष्मीर्भीडा भार्गी भयानका । कालरात्रिर्महारात्रिर्महाविद्या शिवालया ॥ १०१॥ शिवासङ्गा शिवस्था च समाधिरग्निवाहना । अग्नीश्वरी महाव्याप्तिर्बलाका बालरूपिणी ॥ १०२॥ var महीव्याप्ति बटुकेशी विलासा च सदसत्पुरभैरवी । विघ्नहा खलहा गाथा कथा कन्था शुभाम्बरा ॥ १०३॥ क्रतुहा ॠतुजा क्रान्ता माधवी चामरावती । अरुणाक्षी विशालाक्षी पुण्यशीला विलासिनी ॥ १०४॥ सुमाता स्कन्दमाता च कृत्तिका भरणी बलिः । जिनेश्वरी सुकुशला गोपी गोपतिपूजिता ॥ १०५॥ गुप्ता गोप्यतरा ख्याता प्रकटा गोपितात्मिका । कुलाम्नायवती कीला पूर्णा स्वर्णाङ्गदोत्सुका ॥ १०६॥ उत्कण्ठा कलकण्ठी च रक्तपा पानपाऽमला । सम्पूर्णचन्द्रवदना यशोदा च यशस्विनी ॥ १०७॥ आनन्दा सुन्दरी सर्वानन्दा नन्दात्मजा लया । विद्युत् खद्योतरूपा च सादरा जविका जविः ॥ १०८॥ var जीवका जननी जनहर्त्री च खर्परा खञ्जनेक्षणा । जीर्णा जीमूतलक्ष्या च जटिनी जयवर्धिनी ॥ १०९॥ जलस्था च जयन्ती च जम्भारिवरदा तथा । सहस्रनामसम्पूर्णा देवी ज्वालामुखी स्मृता (१०००) ॥ ११०॥ इति नाम्नां सहस्रं तु ज्वालामुख्याः शिवोदितम् । चतुर्वर्गप्रदं नित्यं बीजत्रयप्रकाशितम् ॥ १११॥ मोक्षैकहेतुमतुलं भुक्तिमुक्तिप्रदं नृणाम् । स्तुत्यं च साधनीयं च सर्वस्वं सारमुत्तमम् ॥ ११२॥ महामन्त्रमयं विद्यामयं विद्याप्रदं परम् । परब्रह्मस्वरूपं च साक्षादमृतरूपणम् ॥ ११३॥ अद्वैतरूपणं नाम्नां सहस्रं भैरवोदितम् । यः पठेत् पाठयेद्वापि श‍ृणोति श्रावयेदपि ॥ ११४॥ भक्त्या युतो महादेवि स भवेद्भैरवोपमः । शिवरात्र्यां च सङ्क्रान्तौ ग्रहणे जन्मवासरे ॥ ११५॥ भैरवस्य बलिं दत्त्वा मूलमन्त्रेण मान्त्रिकः । पठेन्नामसहस्रं च ज्वालामुख्याः सुदुर्लभम् ॥ ११६॥ अनन्तफलदं गोप्यं त्रिसन्ध्यं यः पठेत् सुधीः । अणिमादिविभूतीनामीयरो धार्मिको भवेत् ॥ ११७॥ अर्धरात्रे समुत्थाय शून्यगेहे पठेदिदम् । नाम्नां सहस्रकं दिव्यं त्रिवारं साधकोत्तमः ॥ ११८॥ कर्मणा मनसा वाचा ज्वालामुख्याः सुतो भवेत् । मध्याह्ने प्रत्यहं गत्वा प्रेतभूमि विधानवित् ॥ ११९॥ नरमांसवलिं दत्त्वा पठेत् सहस्रनामकम् । दिव्यदेहधरो भूत्वा विचरेद्भुवनत्रयम् ॥ १२०॥ शनिवारे कुजेऽष्टम्यां पठेन्नामसहस्रकम् । दत्त्वा क्षीरबलिं तस्यै करस्थाः सर्वसिद्धयः ॥ १२१॥ विना नैवेद्यमात्रेण न रक्ष्यं साधकोत्तमैः । कुजवारे सदा देवि दत्त्वाऽऽसवबलिं नरः ॥ १२२॥ var दत्त्वासवबलिं पठेत् साधक एवाशु लभेद् दर्शनमुत्तमम् । शनिवारे सदा विद्यां जप्त्वा दत्त्वा बलिं प्रिये ॥ १२३॥ कपोतस्य महेशानि पठेन्नामसहस्रकम् । तद्गृहे वर्धते लक्ष्मीर्गोकर्णमिव नित्यशः ॥ १२४॥ शतावर्तं चरेद्रात्रौ साधको दर्शनं लभेत् । वन्ध्या वा काकवन्ध्या वा कुङ्कुमेन लिखेदिदम् ॥ १२५॥ स्वस्तन्येन च शुक्रेण भूर्जे नामसहस्रकम् । गले वा वामबाहौ वा धारयेत् प्रत्यहं प्रिये ॥ १२६॥ वन्ध्याऽपि लभते पुत्रात्र्शूरान् विद्याधरोपमान् । var वन्ध्यापि इदं धृत्वा सव्यबाहौ गत्वा रणधरां प्रति ॥ १२७॥ निर्जित्य शत्रुसङ्घातान् सुखी याति स्वकं गृहम् । वारत्रयं पठेन्नित्यं शत्रुनाशाय पार्वति ॥ १२८॥ बारद्वयं पठेल्लक्ष्म्यै मुक्त्यै तु शतधा पठेत् । वश्यार्थे दशधा नित्यं मारणार्थे च विंशतिम् ॥ १२९॥ स्तम्भनार्थे पठेन्नित्यं सप्तधा मान्त्रिकोत्तमः । भूम्यर्थे त्रिंशतिं देवि पठेन्नामसहस्रकम् ॥ १३०॥ प्रत्यहमेकवारं तु मृतो मोक्षमवाप्नुयात् । अप्रकाश्यमदातव्यमवक्तव्यमभक्तिषु ॥ १३१॥ अशाक्तायाकुलीनाय कुपुत्राय दुरात्मने । गुरुभक्तिविहीनाय दीक्षाहीनाय पार्वति ॥ १३२॥ दत्त्वा कुष्ठी भवेल्लोके परत्र नरकं व्रजेत् । श्रद्धायुक्ताय भक्ताय साधकाय महात्मने । साचाराय सुशीलाय दत्त्वा मोक्षमवाप्नुयात् ॥ १३३॥ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीज्वालामुखीसहस्रनामस्तोत्रं समाप्तम् ॥ Proofread by DPD, Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : shrIjvAlAmukhIsahasranAmastotram
% File name             : jvAlAmukhIsahasranAmastotra.itx
% itxtitle              : jvAlAmukhIsahasranAmastotram
% engtitle              : jvAlAmukhIsahasranAmastotram
% Category              : sahasranAma, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : See corresponding nAmAvalI
% Source                : Bhagavati Stuti Manjari p 212
% Indexextra            : (Scan)
% Latest update         : October 11, 2014, July 15, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org