श्रीज्येष्ठाम्बाष्टकम्

श्रीज्येष्ठाम्बाष्टकम्

ज्येष्ठाम्ब ते चरणकञ्जयुगस्य सेवां त्यक्त्वाशया जगति सन्ति वरान्यदेव्यः । इत्याश्रयेन सततं परिसेवितास्ताः प्राप्तो मयात्र नहि काणवराट कोऽपि ॥ १॥ ज्येष्ठाम्ब सेवनमिदं परदेवतानां अज्ञानमेव मम सम्प्रति वेद्मि तत्त्वम् । अज्ञानतः करगतं मणिमय्युपेक्ष काचे मणि भ्रमयुतस्य गतिर्ममासीत् ॥ २॥ ज्येष्ठाम्ब ते भुविजना सततं दरिद्रा देवीति नां कथयन्ति न ते यथार्थम् । जानन्ति केवलधनेषण तत्परास्ते दारिद्र्यमेव किल ब्रह्मविचारदक्षम् ॥ ३॥ ज्येष्ठाम्ब ते करुणया मम कल्पितं त दारिद्र्यमेव भुवि भोगपरम्परासु । स्वर्गादि भोगबहुशेऽपि विरागबुद्धि- मुत्पाद्य मेऽदद दलं सुखमद्वितीयम् ॥ ४॥ ज्येष्ठाम्ब युष्मदनुजा शपथं त्वया श्रीः कृत्वा दरिद्रमधुना धनिकं करोमि । इत्याग्रहात्वयमलं विनियुज्यशक्तिं व्यर्थाग्रहा सपदि सा शरणं गता त्वाम् ॥ ५॥ ज्येष्ठाम्ब ते श‍ृति समिरितमित्यलक्ष्मि- र्मामास्ति लोकविदितं खलु गूढतत्त्वम् । अध्यक्षर त्यज महेश्वरविष्णुरूपं ब्रह्मप्रभोधकमकारमनुत्तरं च ॥ ६॥ ज्येष्ठाम्ब सर्वविदिता किल विष्णुपत्नी लक्ष्मी रति त्वदनुजेति न तेऽपि लक्ष्मा । भेदोऽस्ति किञ्चिदपि नेत्रनिमीलनात्ते उन्मीलनाच्च भुवि नाम तथा द्विभासीत् ॥ ७॥ ज्येष्ठाम्ब तेऽक्षि युगलं यदि मीलितं स्वा त्वां ते तदा बुधजनाः कथयन्त्यलक्ष्मीम् । उन्मीलितं यदि तदा प्रवदन्ति लक्ष्मी- मेकैव मूर्तिरभवद्विविदं तु नामम् ॥ ८॥ ज्येष्ठाम्बाष्टकमष्टकष्टहरणं यो वा पठेनिष्ठया अष्टैश्वर्यमुपेत्य सम्प्रति विनष्टान्योन्य भेदभ्रमः किं चाद्वैतविमर्शसर्वसमतायुक्तो विशुद्धाशयः । ब्रह्मात्मैकमपि प्रयागि सहसा ज्येष्ठाम्बिकानुग्रहात् श्रीमत्सर सुखानन्दनाथस्य चरणार्थिना श्रीयानन्देन कथितं ज्येष्ठाम्बायाः पराष्टकम् ॥ ९॥ इति ज्येष्ठाम्बाष्टकं सम्पूर्णम् । Proofread by Vani V.
% Text title            : Shri Jyeshthamba Ashtakam
% File name             : jyeShThAmbAShTakam.itx
% itxtitle              : jyeShThAmbAShTakam
% engtitle              : jyeShThAmbAShTakam
% Category              : devii, aShTaka, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V.
% Latest update         : July 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org