काकिन्यष्टोत्तरसहस्रनामस्तोत्र

काकिन्यष्टोत्तरसहस्रनामस्तोत्र

श्रीगणेशाय नमः । श्रीआनन्दभैरव उवाच । वद कल्याणि कामेशि त्रैलोक्यपरिपूजिते । ब्रह्माण्डानन्तनिलये कैलासशिखरोज्ज्वले ॥ १ ॥ कालिके कालरात्रिस्थे महाकालनिषेविते । शब्दब्रह्मस्वरूपे त्वं वक्तुमर्हसि सादरात् ॥ २ ॥ सहस्रनामयोगाख्यम् अष्टोत्तरमनन्तरम् । अनन्तकोटिब्रह्माण्डं सारं परममङ्गलम् ॥ ३ ॥ ज्ञानसिद्धिकरं साक्षाद् अत्यन्तानन्दवर्धनम् । सङ्केतशब्दमोक्षार्थं काकिनीश्वरसंयुतम् ॥ ४ ॥ परानन्दकरं ब्रह्म निर्वाणपदलालितम् । स्नेहादभिसुखानन्दादादौ ब्रह्म वरानने ॥ ५ ॥ इच्छामि सर्वदा मातर्जगतां सुरसुन्दरि । स्नेहानन्दरसोद्रेकसम्बन्धान् कथय द्रुतम् ॥ ६ ॥ श्रीआनन्दभैरवी उवाच ईश्वर श्रीनीलकण्ठ नागमालाविभूषितः । नागेन्द्रचित्रमालाढ्य नागाधिपरमेश्वरः ॥ ७ ॥ काकिनीश्वरयोगाढ्यं सहस्रनाम मङ्गलम् । अष्टोत्तरं वृताकारं कोटिसौदामिनीप्रभम् ॥ ८ ॥ आयुरारोग्यजननं श‍ृणुष्वावहितो मम । अनन्तकोटिब्रह्माण्डसारं नित्यं परात्परम् ॥ ९ ॥ साधनं ब्रह्मणो ज्ञानं योगानां योगसाधनम् । सार्वज्ञगुह्यसंस्कारं संस्कारादिफलप्रदम् ॥ १० ॥ वाञ्छासिद्धिकरं साक्षान्महापातकनाशनम् । महादारिद्र्यशमनं महैश्वर्यप्रदायकम् ॥ ११ ॥ जपेद्यः प्रातरि प्रीतो मध्याह्नेऽस्तमिते रवौ । नमस्कृत्य जपेन्नाम ध्यानयोगपरायणः ॥ १२ ॥ काकिनीश्वरसंयोगं ध्यानं ध्यानगुणोदयम् । आदौ ध्यानं समाचर्य निर्मलोऽमलचेतसा ॥ १३ ॥ ध्यायेद् देवीं महाकालीं काकिनीं कालरूपिणीम् । परानन्दरसोन्मत्तां श्यामां कामदुघां पराम् ॥ १४ ॥ चतुर्भुजां खड्गचर्मवरपद्मधरां हराम् । शत्रुक्षयकरीं रत्नाऽलङ्कारकोटिमण्डिताम् ॥ १५ ॥ तरुणानन्दरसिकां पीतवस्त्रां मनोरमाम् । केयूरहारललितां ताटङ्कद्वयशोभिताम् ॥ १६ ॥ ईश्वरीं कामरत्नाख्यां काकचञ्चुपुटाननाम् । सुन्दरीं वनमालाढ्यां चारुसिंहासनस्थिताम् ॥ १७ ॥ हृत्पद्मकर्णिकामध्याकाशसौदामिनीप्रभाम् । एवं ध्यात्वा पठेन्नाममङ्गलानि पुनः पुनः ॥ १८ ॥ ईश्वरं कोटिसूर्याभं ध्यायेद्धृदयमण्डले । चतुर्भुजं वीररूपं लावण्यं भावसम्भवम् ॥ १९ ॥ श्यामं हिरण्यभूषाङ्गं चन्द्रकोटिसुशीतलम् । अभयं वरदं पद्मं महाखड्गधरं विभुम् ॥ २० ॥ किरीटिनं महाकायं स्मितहास्यं प्रकाशकम् । हृदयाम्बुजमध्यस्थं नूपुरैरुपशोभितम् ॥ २१ ॥ कोटिकालानलं दीप्तं काकिनीदक्षिणस्थितम् । एवं विचिन्त्य मनसा योगिनं परमेश्वरम् ॥ २२ ॥ ततः पठेत् सहस्राख्यं वदामि श‍ृणु तत्प्रभो ॥ २३ ॥ अस्य श्रीकाकिनीश्वरसहस्रनामस्तोत्रस्य ब्रह्माऋषि , गायत्रीच्छन्दः , जगदीश्वर काकिनी देवता , निर्वाणयोगार्थ सिद्धयर्थे जपे विनियोगः । ॐ ईश्वरः काकिनीशान ईशान कमलेश्वरी । ईशः काकेश्वरीशानी ईश्वरीशः कुलेश्वरी ॥ २४ ॥ ईशमोक्षः कामधेनुः कपर्दीशः कपर्दिनी । कौलः कुलीनान्तरगा कविः काव्यप्रकाशिनी ॥ २५ ॥ कलादेशः सुकविता कारणः करुणामयी । कञ्जपत्रेक्षणः काली कामः कोलावलीश्वरी ॥ २६ ॥ किरातरूपी कैवल्या किरणः कामनाशना । कार्णाटेशः सकर्णाटी कलिकः कालिकापुटा ॥ २७ ॥ किशोरः कीशुनमिता केशवेशः कुलेश्वरी । केशकिञ्जल्ककुटिलः कामराजकुतूहला ॥ २८ ॥ करकोटिधरः कूटा क्रियाक्रूरः क्रियावती । कुम्भहा कुम्भहन्त्री च कटकच्छकलावती ॥ २९ ॥ कञ्जवक्त्रः कालमुखी कोटिसूर्यकरानना । कम्रः कलपः समृद्धिस्था कुपोऽन्तस्थः कुलाचला ॥ ३० ॥ कुणपः कौलपाकाशा स्वकान्तः कामवासिनी । सुकृतिः शाङ्करी विद्या कलकः कलनाश्रया ॥ ३१ ॥ कर्कन्धुस्थः कौलकन्या कुलीनः कन्यकाकुला । कुमारः केशरी विद्या कामहा कुलपण्डिता ॥ ३२ ॥ कल्कीशः कमनीयाङ्गी कुशलः कुशलावती । केतकीपुष्पमालाढ्यः केतकीकुसुमान्विता ॥ ३३ ॥ कुसुमानन्दमालाढ्यः कुसुमामलमालिका । कवीन्द्रः काव्यसम्भूतः काममञ्जीररञ्जिनी ॥ ३४ ॥ कुशासनस्थः कौशल्याकुलपः कल्पपादपा । कल्पवृक्षः कल्पलता विकल्पः कल्पगामिनी ॥ ३५ ॥ कठोरस्थः काचनिभा करालः कालवासिनी । कालकूटाश्रयानन्दः कर्कशाकाशवाहिनी ॥ ३६ ॥ कटधूमाकृतिच्छायो विकटासनसंस्थिता । कायधारी कूपकरी करवीरागतः कृषी ॥ ३७ ॥ कालगम्भीरनादान्ता विकलालापमानसा । प्रकृतीशः सत्प्रकृतिः प्रकृष्टः कर्षिणीश्वरी ॥ ३८ ॥ भगवान् वारुणीवर्णा विवर्णो वर्णरूपिणी । सुवर्णवर्णो हेमाभो महान् महेन्द्रपूजिता ॥ ३९ ॥ महात्मा महतीशानी महेशो मत्तगामिनी । महावीरो महावेगा महालक्ष्मीश्वरो मतिः ॥ ४० ॥ महादेवो महादेवी महानन्दो महाकला । महाकालो महाकाली महाबलो महाबला ॥ ४१ ॥ महामान्यो महामान्या महाधन्यो महाधनी । महामालो महामाला महाकाशो महाकाशा ॥ ४२ ॥ महायशो महायज्ञा महाराजो महारजा । महाविद्यो महाविद्या महामुख्यो महामखी ॥ ४३ ॥ महारात्रो महारात्रिर्महाधीरो महाशया । महाक्षेत्रो महाक्षेत्रा कुरुक्षेत्रः कुरुप्रिया ॥ ४४ ॥ महाचण्डो महोग्रा च महामत्तो महामतिः । महावेदो महावेदा महोत्साहो महोत्सवा ॥ ४५ ॥ महाकल्पो महाकल्पा महायोगो महागतिः । महाभद्रो महाभद्रा महासूक्ष्मो महाचला ॥ ४६ ॥ महावाक्यो महावाणी महायज्वा महाजवा । महामूर्तीर्महाकान्ता महाधर्मो महाधना ॥ ४७ ॥ महामहोग्रो महिषी महाभोग्यो महाप्रभा । महाक्षेमो महामाया महामाया महारमा ॥ ४८ ॥ महेन्द्रपूजिता माता विभालो मण्डलेश्वरी । महाविकालो विकला प्रतलस्थललामगा ॥ ४९ ॥ कैवल्यदाता कैवल्या कौतुकस्थो विकर्षिणी । वालाप्रतिर्वालपत्नी बलरामो वलाङ्गजा ॥ ५० ॥ अवलेशः कामवीरा प्राणेशः प्राणरक्षिणी । पञ्चमाचारगः पञ्चापञ्चमः पञ्चमीश्वरी ॥ ५१ ॥ प्रपञ्चः पञ्चरसगा निष्प्रपञ्चः कृपामयी । कामरूपी कामरूपा कामक्रोधविवर्जिता ॥ ५२ ॥ कामात्मा कामनिलया कामाख्या कामचञ्चला । कामपुष्पधरः कामा कामेशः कामपुष्पिणी ॥ ५३ ॥ महामुद्राधरो मुद्रा सन्मुद्रः काममुद्रिका । चन्द्रार्धकृतभालाभो विधुकोटिमुखाम्बुजा ॥ ५४ ॥ चन्द्रकोटिप्रभाधारी चन्द्रज्योतिःस्वरूपिणी । सूर्याभो वीरकिरणा सूर्यकोटिविभाविता ॥ ५५ ॥ मिहिरेशो मानवका अन्तर्ग्गामी निराश्रया । प्रजापतीशः कल्याणी दक्षेशः कुलरोहिणी ॥ ५६ ॥ अप्रचेताः प्रचेतस्था व्यासेशो व्यासपूजिता । काश्यपेशः काश्यपेशी भृग्वीशो भार्गवेश्वरी ॥ ५७ ॥ वशिष्ठः प्रियभावस्थो वशिष्ठबाधितापरा । पुलस्त्यपूजितो देवः पुलस्त्यचित्तसंस्थिता ॥ ५८ ॥ अगस्त्यार्च्योऽगस्त्यमाता प्रह्लादेशो वलीश्वरी । कर्दमेशः कर्दमाद्या बालको बालपूजिता ॥ ५९ ॥ मनस्थश्चान्तरिक्षस्था शब्दज्ञानी सरस्वती । रूपातीता रूपशून्या विरूपो रूपमोहिनी ॥ ६० ॥ विद्याधरेशो विद्येशी वृषस्थो वृषवाहिनी । रसज्ञो रसिकानन्दा विरसो रसवर्जिता ॥ ६१ ॥ सौनः सनत्कुमारेशी योगचर्येश्वरः प्रिया । दुर्वाशाः प्राणनिलयः साङ्ख्ययोगसमुद्भवा ॥ ६२ ॥ असङ्ख्येयो मांसभक्षा सुमांसाशी मनोरमा । नरमांसविभोक्ता च नरमांसविनोदिनी ॥ ६३ ॥ मीनवक्त्रप्रियो मीना मीनभुङ्मीनभक्षिणी । रोहिताशी मत्स्यगन्धा मत्स्यनाथो रसापहा ॥ ६४ ॥ पार्वतीप्रेमनिकरो विधिदेवाधिपूजिता । विधातृवरदो वेद्या वेदो वेदकुमारिका ॥ ६५ ॥ श्यामेशो सितवर्णा च चासितोऽसितरूपिणी । महामत्ताऽऽसवाशी च महामत्ताऽऽसवप्रिया ॥ ६६ ॥ आसवाढ्योऽमनादेवी निर्मलासवपामरा । विसत्तो मदिरामत्ता मत्तकुञ्जरगामिनी ॥ ६७ ॥ मणिमालाधरो मालामातृकेशः प्रसन्नधीः । जरामृत्युहरो गौरी गायनस्थो जरामरा ॥ ६८ ॥ सुचञ्चलोऽतिदुर्धर्षा कण्ठस्थो हृद्गता सती । अशोकः शोकरहिता मन्दरस्थो हि मन्त्रिणी ॥ ६९ ॥ मन्त्रमालाधरानन्दो मन्त्रयन्त्रप्रकाशिनी । मन्त्रार्थचैतन्यकरो मन्त्रसिद्धिप्रकाशिनी ॥ ७० ॥ मन्त्रज्ञो मन्त्रनिलया मन्त्रार्थामन्त्रमन्त्रिणी । बीजध्यानसमन्तस्था मन्त्रमालेऽतिसिद्धिदा ॥ ७१ ॥ मन्त्रवेत्ता मन्त्रसिद्धिर्मन्त्रस्थो मान्त्रिकान्तरा । बीजस्वरूपो बीजेशी बीजमालेऽति बीजिका ॥ ७२ ॥ बीजात्मा बीजनिलया बीजाढ्या बीजमालिनी । बीजध्यानो बीजयज्ञा बीजाढ्या बीजमालिनी ॥ ७३ ॥ महाबीजधरो बीजा बीजाढ्या बीजवल्लभा । मेघमाला मेघमालो वनमाली हलायुधा ॥ ७४ ॥ कृष्णाजिनधरो रौद्रा रौद्री रौद्रगणाश्रया । रौद्रप्रियो रौद्रकर्त्री रौद्रलोकप्रदः प्रभा ॥ ७५ ॥ विनाशी सर्वगानां च सर्वाणी सर्वसम्पदा । नारदेशः प्रधानेशी वारणेशो वनेश्वरी ॥ ७६ ॥ कृष्णेश्वरः केशवेशी कृष्णवर्णस्त्रिलोचना । कामेश्वरो राघवेशी बालेशी वा बाणपूजितः ॥ ७७ ॥ भवानीशो भवानी च भवेन्द्रो भववल्लभा । भवानन्दोऽतिसूक्ष्माख्या भवमूतीर्भवेश्वरी ॥ ७८ ॥ भवच्छायो भवानन्दो भवभीतिहरो वला । भाषाज्ञानीभाषमाला महाजीवोऽतिवासना ॥ ७९ ॥ लोभापदो लोभकर्त्री प्रलोभो लोभवर्धिनी । मोहातीतो मोहमाता मोहजालो महावती ॥ ८० ॥ मोहमुद्गरधारी च मोहमुद्गरधारिणी । मोहान्वितो मोहमुग्धा कामेशः कामिनीश्वरी ॥ ८१ ॥ कामलापकरोऽकामा सत्कामो कामनाशिनी । बृहन्मुखो बृहन्नेत्रा पद्माभोऽम्बुजलोचना ॥ ८२ ॥ पद्ममालः पद्ममाला श्रीदेवो देवरक्षिणी । असितोऽप्यसिता चैव आह्लादो देवमातृका ॥ ८३ ॥ नागेश्वरः शैलमाता नागेन्द्रो वै नगात्मजा । नारायणेश्वरः कीर्तिः सत्कीर्तिः कीर्तिवर्धिनी ॥ ८४ ॥ कार्तिकेशः कार्तिकी च विकर्ता गहनाश्रया । विरक्तो गरुडारूढा गरुडस्थो हि गारुडी ॥ ८५ ॥ गरुडेशो गुरुमयी गुरुदेवो गुरुप्रदा । गौराङ्गेशो गौरकन्या गङ्गेशः प्राङ्गणेश्वरी ॥ ८६ ॥ प्रतिकेशो विशाला च निरालोको निरीन्द्रिया । प्रेतबीजस्वरूपश्च प्रेताऽलङ्कारभूषिता ॥ ८७ ॥ प्रेमगेहः प्रेमहन्त्री हरीन्द्रो हरिणेक्षणा । कालेशः कालिकेशानी कौलिकेशश्च काकिनी ॥ ८८ ॥ कालमञ्जीरधारी च कालमञ्जीरमोहिनी । करालवदनः काली कैवल्यदानदः कथा ॥ ८९ ॥ कमलापालकः कुन्ती कैकेयीशः सुतः कला । कालानलः कुलज्ञा च कुलगामी कुलाश्रया ॥ ९० ॥ कुलधर्मस्थितः कौला कुलमार्गः कुलातुरा । कुलजिह्वः कुलानन्दा कृष्णः कृष्णसमुद्भवा ॥ ९१ ॥ कृष्णेशः कृष्णमहिषी काकस्थः काकचञ्चुका । कालधर्मः कालरूपा कालः कालप्रकाशिनी ॥ ९२ ॥ कालजः कालकन्या च कालेशः कालसुन्दरी । खड्गहस्तः खर्पराढ्या खरगः खरखड्गनी ॥ ९३ ॥ खलबुद्धिहरः खेला खञ्जनेशः सुखाञ्जनी । गीतप्रियो गायनस्था गणपालो गृहाश्रया ॥ ९४ ॥ गर्गप्रियो गयाप्राप्तिर्गर्गस्थो हि गभीरिणा । गारुडीशो हि गान्धर्वी गतीशो गार्हवह्निजा ॥ ९५ ॥ गणगन्धर्वगोपालो गणगन्धर्वगो गता । गभीरमानी सम्भेदो गभीरकोटिसागरा ॥ ९६ ॥ गतिस्थो गाणपत्यस्था गणनाद्यो गवा तनूः । गन्धद्वारो गन्धमाला गन्धाढ्यो गन्धनिर्गमा ॥ ९७ ॥ गन्धमोहितसर्वाङ्गो गन्धचञ्चलमोहिनी । गन्धपुष्पधूपदीपनैवेद्यादिप्रपूजिता ॥ ९८ ॥ गन्धागुरुसुकस्तूरी कुङ्कुमादिविमण्डिता । गोकुला मधुरानन्दा पुष्पगन्धान्तरस्थिता ॥ ९९ ॥ गन्धमादनसम्भूतपुष्पमाल्यविभूषितः । रत्नाद्यशेषालङ्कारमालामण्डितविग्रहः ॥ १०० ॥ स्वर्णाद्यशेषालङ्कारहारमालाविमण्डिता । करवीरा युतप्रख्यरक्तलोचनपङ्कजः ॥ १०१ ॥ जवाकोटिकोटिशत चारुलोचनपङ्कजा । घनकोटिमहानास्य पङ्कजालोलविग्रहा ॥ १०२ ॥ घर्घरध्वनिमानन्दकाव्याम्बुधिमुखाम्बुजा । घोरचित्रसर्पराज मालाकोटिशताङ्कभृत् ॥ १०३ ॥ घनघोरमहानाग चित्रमालाविभूषिता । घण्टाकोटिमहानादमानन्दलोलविग्रहः ॥ १०४ ॥ घण्टाडमरुमन्त्रादि ध्यानानन्दकराम्बुजा । घटकोटिकोटिशतसहस्रमङ्गलासना ॥ १०५ ॥ घण्टाशङ्खपद्मचक्रवराभयकराम्बुजा । घातको रिपुकोटीनां शुम्भादीनां तथा सताम् ॥ १०६ ॥ घातिनीदैत्यघोराश्च शङ्खानां सततं तथा । चार्वाकमतसङ्घातचतुराननपङ्कजः ॥ १०७ ॥ चञ्चलानन्दसर्वार्थसारवाग्वादिनीश्वरी । चन्द्रकोटिसुनिर्माल मालालम्बितकण्ठभृत् ॥ १०८ ॥ चन्द्रकोटिसमानस्य पङ्केरुहमनोहरा । चन्द्रज्योत्स्नायुतप्रख्यहारभूषितमस्तकः ॥ १०९ ॥ चन्द्रबिम्बसहस्राभायुतभूषितमस्तकः । चारुचन्द्रकान्तमणिमणिहारायुताङ्गभृत् ॥ ११० ॥ चन्दनागुरुकस्तूरी कुङ्कुमासक्तमालिनी । चण्डमुण्डमहामुण्डायुतनिर्मलमाल्यभृत् ॥ १११ ॥ चण्डमुण्डघोरमुण्डनिर्माणकुलमालिनी । चण्डाट्टहासघोराढ्यवदनाम्भोजचञ्चलः ॥ ११२ ॥ चलत्खञ्जननेत्राम्भोरुहमोहितशङ्करा । चलदम्भोजनयनानन्दपुष्पकरमोहितः ॥ ११३ ॥ चलदिन्दुभाषमाणावग्रहखेदचन्द्रिका । चन्द्रार्धकोटिकिरणचूडामण्डलमण्डितः ॥ ११४ ॥ चन्द्रचूडाम्भोजमाला उत्तमाङ्गविमण्डितः । चलदर्कसहस्रान्त रत्नहारविभूषितः ॥ ११५ ॥ चलदर्ककोटिशतमुखाम्भोजतपोज्ज्वला । चारुरत्नासनाम्भोजचन्द्रिकामध्यसंस्थितः ॥ ११६ ॥ चारुद्वादशपत्रादि कर्णिकासुप्रकाशिका । चमत्कारगटङ्कारधुनर्बाणकराम्बुजः ॥ ११७ ॥ चतुर्थवेदगाथादि स्तुतिकोटिसुसिद्धिदा । चलदम्बुजनेत्रार्कवह्निचन्द्रत्रयान्वितः ॥ ११८ ॥ चलत्सहस्रसङ्ख्यात पङ्कजादिप्रकाशिका । चमत्काराट्टहासास्य स्मितपङ्कजराजयः ॥ ११९ ॥ चमत्कारमहाघोरसाट्टाट्टहासशोभिता । छायासहस्रसंसारशीतलानिलशीतलः ॥ १२० ॥ छदपद्मप्रभामानसिंहासनसमास्थिता । छलत्कोटिदैत्यराजमुण्डमालाविभूषितः ॥ १२१ ॥ छिन्नादिकोटिमन्त्रार्थज्ञानचैतन्यकारिणी । चित्रमार्गमहाध्वान्तग्रन्थिसम्भेदकारकः ॥ १२२ ॥ अस्त्रकास्त्रादिब्रह्मास्त्रसहस्रकोटिधारिणी । अजामांसादिसद्भक्षरसामोदप्रवाहगः ॥ १२३ ॥ छेदनादिमहोग्रास्त्रे भुजवामप्रकाशिनी । जयाख्यादिमहासाम ज्ञानार्थस्य प्रकाशकः ॥ १२४ ॥ जायागणहृदम्भोज बुद्धिज्ञानप्रकाशिनी । जनार्दनप्रेमभाव महाधनसुखप्रदः ॥ १२५ ॥ जगदीशकुलानन्दसिन्धुपङ्कजवासिनी । जीवनास्थादिजनकः परमानन्दयोगिनाम् ॥ १२६ ॥ जननी योगशास्त्राणां भक्तानां पादपद्मयोः । रुक्षपवननिर्वातमहोल्कापातकारुणः ॥ १२७ ॥ झर्झरीमधुरी वीणा वेणुशङ्खप्रवादिनी । झनत्कारौघसंहारकरदण्डविशानधृक् ॥ १२८ ॥ झर्झरीनायिकार्य्यादिकराम्भोजनिषेविता । टङ्कारभावसंहारमहाजागरवेशधृक् ॥ १२९ ॥ टङ्कासिपाशुपातास्त्रचर्मकार्मुकधारिणी । टलनानलसङ्घट्टपट्टाम्बरविभूषितः ॥ १३० ॥ टुल्टुनी किङ्किणी कोटि विचित्रध्वनिगामिनी । ठं ठं ठं मनुमूलान्तः स्वप्रकाशप्रबोधकः ॥ १३१ ॥ ठं ठं ठं प्रखराह्लादनादसंवादवादिनी । ठं ठं ठं कूर्मपृष्ठस्थः कामचाकारभासनः ॥ १३२ ॥ ठं ठं ठं बीजवह्निस्थ हातुकभ्रूविभूषिता । डामरप्रखराह्लादसिद्धिविद्याप्रकाशकः ॥ १३३ ॥ डिण्डिमध्वानमधुरवाणीसम्मुखपङ्कजा । डं डं डं खरकृत्यादि मारणान्तःप्रकाशिका ॥ १३४ ॥ ढक्कारवाद्यभूपूरतारसप्तस्वराश्रयः । ढौं ढौं ढौं ढौकढक्कलं वह्निजायामनुप्रियः ॥ १३५ ॥ ढं ढं ढं ढौं ढ ढं ढ कृत्येत्थाहेति वासिनी । तारकब्रह्ममन्त्रस्थः श्रीपादपद्मभावकः ॥ १३६ ॥ तारिण्यादिमहामन्त्र सिद्धिसर्वार्थसिद्धिदा । तन्त्रमन्त्रमहायन्त्र वेदयोगसुसारवित् ॥ १३७ ॥ तालवेतालदैतालश्रीतालादिसुसिद्धदा । तरुकल्पलतापुष्पकलबीजप्रकाशकः ॥ १३८ ॥ डिन्तिडीतालहिन्तालतुलसीकुलवृक्षजा । अकारकूटविन्द्विन्दुमालामण्डितविग्रहः ॥ १३९ ॥ स्थातृप्रस्थप्रथागाथास्थूलस्थित्यन्तसंहरा । दरीकुञ्जहेममालावनमालादिभूषितः ॥ १४० ॥ दारिद्र्यदुःखदहनकालानलशतोपमः । दशसाहस्रवक्त्राम्भोरुहशोभितविग्रहः ॥ १४१ ॥ पाशाभयवराह्लादधनधर्मादिवर्धिनी । धर्मकोटिशतोल्लाससिद्धिऋद्धिसमृद्धिदा ॥ १४२ ॥ ध्यानयोगज्ञानयोगमन्त्रयोगफलप्रदा । नामकोटिशतानन्तसुकीर्तिगुणमोहनः ॥ १४३ ॥ निमित्तफलसद्भावभावाभावविवर्जिता । परमानन्दपदवी दानलोलपदाम्बुजः ॥ १४४ ॥ प्रतिष्ठासुनिवृत्तादि समाधिफलसाधिनी । फेरवीगणसन्मानवसुसिद्धिप्रदायकः ॥ १४५ ॥ फेत्कारीकुलतन्त्रादि फलसिद्धिस्वरूपिणी । वराङ्गनाकोटिकोटिकराम्भोजनिसेविता ॥ १४६ ॥ वरदानज्ञानदान मोक्षदातिचञ्चला । भैरवानन्दनाथाख्य शतकोटिमुदान्वितः ॥ १४७ ॥ भावसिद्धिक्रियासिद्धि साष्टाङ्गसिद्धिदायिनी । मकारपञ्चकाह्लादमहामोदशरीरधृक् ॥ १४८ ॥ मदिरादिपञ्चतत्त्वनिर्वाणज्ञानदायिनी । यजमानक्रियायोगविभागफलदायकः ॥ १४९ ॥ यशः सहस्रकोटिस्थ गुणगायनतत्परा । रणमध्यस्थकालाग्नि क्रोधधारसुविग्रहः ॥ १५० ॥ काकिनीशाकिनीशक्तियोगादि काकिनीकला । लक्षणायुतकोटीन्दुललाटतिलकान्वितः ॥ १५१ ॥ लाक्षाबन्धूकसिन्दूरवर्णलावण्यलालिता । वातायुतसहस्राङ्गघूर्णायमानभूधरः ॥ १५२ ॥ विवस्वत्प्रेमभक्तिस्थ चरणद्वन्द्वनिर्मला । श्रीसीतापतिशुद्धाङ्ग व्याप्तेन्द्रनीलसन्निभः ॥ १५३ ॥ शीतनीलाशतानन्दसागरप्रेमभक्तिदा । षट्पङ्केरुहदेवादिस्वप्रकाशप्रबोधिनी ॥ १५४ ॥ महोमीस्थषडाधारप्रसन्नहृदयाम्बुजा । श्यामप्रेमकलाबन्धसर्वाङ्गकुलनायकः ॥ १५५ ॥ संसारसारशास्त्रादि सम्बन्धसुन्दराश्रया । ह्सौः प्रेतमहाबीजमालाचित्रितकण्ठधृक् ॥ १५६ ॥ हकारवामकर्णाढ्य चन्द्रबिन्दुविभूषिता । लयसृष्टिस्थितिक्षेत्रपानपालकनामधृक् ॥ १५७ ॥ लक्ष्मीलक्षजपानन्दसिद्धिसिद्धान्तवर्णिनी । क्षुन्निवृत्तिक्षपारक्षा क्षुधाक्षोभनिवारकः ॥ १५८ ॥ क्षत्रियादिकुरुक्षेत्रारुणाक्षिप्तत्रिलोचना । अनन्त इतिहासस्थ आज्ञागामी च ईश्वरी ॥ १५९ ॥ उमेश उटकन्येशी ऋद्धिस्थहृस्थगोमुखी । गकारेश्वरसंयुक्त त्रिकुण्डदेवतारिणी ॥ १६० ॥ ऐणाचीशप्रियानन्द ऐरावतकुलेश्वरी । ओढ्रपुष्पानन्तदीप्त ओढ्रपुष्पानखाग्रका ॥ १६१ ॥ एहृत्यशतकोटिस्थ औ दीर्घप्रणवाश्रया । अङ्गस्थाङ्गदेवस्था अर्यस्थश्चार्यमेश्वरी ॥ १६२ ॥ मातृकावर्णनिलयः सर्वमातृकलान्विता । मातृकामन्त्रजालस्थः प्रसन्नगुणदायिनी ॥ १६३ ॥ अत्युत्कटपथिप्रज्ञा गुणमातृपदे स्थिता । स्थावरानन्ददेवेशो विसर्गान्तरगामिनी ॥ १६४ ॥ अकलङ्को निष्कलङ्को निराधारो निराश्रया । निराश्रयो निराधारो निर्बीजो बीजयोगिनी ॥ १६५ ॥ निःशङ्को निस्पृहानन्दो सिन्धूरत्नावलिप्रभा । आकाशस्थः खेचरी च स्वर्गदाता शिवेश्वरी ॥ १६६ ॥ सूक्ष्मातिसूक्ष्मात्वैर्ज्ञेया दारापदुःखहारिणी । नानादेशसमुद्भूतो नानालङ्कारलङ्कृता ॥ १६७ ॥ नवीनाख्यो नूतनस्थ नयनाब्जनिवासिनी । विषयाख्यविषानन्दा विषयाशी विषापहा ॥ १६८ ॥ विषयातीतभावस्थो विषयानन्दघातिनी । विषयच्छेदनास्त्रस्थो विषयज्ञाननाशिनी ॥ १६९ ॥ संसारछेदकच्छायो भवच्छायो भवान्तका । संसारार्थप्रवर्तश्च संसारपरिवर्तिका ॥ १७० ॥ संसारमोहहन्ता च संसारार्णवतारिणी । संसारघटकश्रीदासंसारध्वान्तमोहिनी ॥ १७१ ॥ पञ्चतत्त्वस्वरूपश्च पञ्चतत्त्वप्रबोधिनी । पार्थिवः पृथिवीशानी पृथुपूज्यः पुरातनी ॥ १७२ ॥ वरुणेशो वारुणा च वारिदेशो जलोद्यमा । मरुस्थो जीवनस्था च जलभुग्जलवाहना ॥ १७३ ॥ तेजः कान्तः प्रोज्ज्वलस्था तेजोराशेस्तु तेजसी । तेजस्थस्तेजसो माला तेजः कीर्तिः स्वरश्मिगा ॥ १७४ ॥ पवनेशश्चानिलस्था परमात्मा निनान्तरा । वायुपूरककारी च वायुकुम्भकवर्धिनी ॥ १७५ ॥ वायुच्छिद्रकरो वाता वायुनिर्गममुद्रिका । कुम्भकस्थो रेचकस्था पूरकस्थातिपूरिणी ॥ १७६ ॥ वाय्वाकाशाधाररूपी वायुसञ्चारकारिणी । वायुसिद्धिकरो दात्री वायुयोगी च वायुगा ॥ १७७ ॥ आकाशप्रकरो ब्राह्मी आकाशान्तर्गतद्रिगा । आकाशकुम्भकानन्दो गगनाह्लादवर्धिनी ॥ १७८ ॥ गगनाच्छन्नदेहस्थो गगनाभेदकारिणी । गगनादिमहासिद्धो गगनग्रन्थिभेदिनी ॥ १७९ ॥ कलकर्मा महाकाली कालयोगी च कालिका । कालछत्रः कालहत्या कालदेवो हि कालिका ॥ १८० ॥ कालब्रह्मस्वरूपश्च कालितत्त्वार्थरक्षिणी । दिगम्बरो दिक्पतिस्था दिगात्मा दिगिभास्वरा ॥ १८१ ॥ दिक्पालस्थो दिक्प्रसन्ना दिग्वलो दिक्कुलेश्वरी । दिगघोरो दिग्वसना दिग्वीरा दिक्पतीश्वरी ॥ १८२ ॥ आत्मार्थो व्यापितत्त्वज्ञ आत्मज्ञानी च सात्मिका । आत्मीयश्चात्मबीजस्था चान्तरात्मात्ममोहिनी ॥ १८३ ॥ आत्मसञ्ज्ञानकारी च आत्मानन्दस्वरूपिणी । आत्मयज्ञो महात्मज्ञा महात्मात्मप्रकाशिनी ॥ १८४ ॥ आत्मविकारहन्ता च विद्यात्मीयादिदेवता । मनोयोगकरो दुर्गा मनः प्रत्यक्ष ईश्वरी ॥ १८५ ॥ मनोभवनिहन्ता च मनोभवविवर्धिनी । मनश्चान्तरीक्षयोगो निराकारगुणोदया ॥ १८६ ॥ मनोनिराकारयोगी मनोयोगेन्द्रसाक्षिणी । मनःप्रतिष्ठो मनसा मानशङ्का मनोगतिः ॥ १८७ ॥ नवद्रव्यनिगूढार्थो नरेन्द्रविनिवारिणी । नवीनगुणकर्मादिसाकारः खगगामिनी ॥ १८८ ॥ अत्युन्मत्ता महावाणी वायवीशो महानिला । सर्वपापापहन्ता च सर्वव्याधिनिवारिणी ॥ १८९ ॥ द्वारदेवीश्वरी प्रीतिः प्रलयाग्निः करालिनी । भूषण्डगणतातश्च भूःषण्डरुधिरप्रदा ॥ १९० ॥ काकावलीशः सर्वेशी काकपुच्छधरो जया । अजितेशो जितानन्दा वीरभद्रः प्रभावती ॥ १९१ ॥ अन्तर्नाडीगतप्राणो वैशेषिकगुणोदया । रत्ननिर्मितपीठस्थः सिंहस्था रथगामिनी ॥ १९२ ॥ कुलकोटीश्वराचार्यो वासुदेवनिषेविता । आधारविरहज्ञानी सर्वाधारस्वरूपिणी ॥ १९३ ॥ सर्वज्ञः सर्वविज्ञाना मार्तण्डो यश इल्वला । इन्द्रेशो विन्ध्यशैलेशी वारणेशः प्रकाशिनी ॥ १९४ ॥ अनन्तभुजराजेन्द्रो अनन्ताक्षरनाशिनी । आशीर्वादस्तु वरदोऽनुग्रहोऽनुग्रहक्रिया ॥ १९५ ॥ प्रेतासनसमासीनो मेरुकुञ्जनिवासिनी । मणिमन्दिरमध्यस्थो मणिपीठनिवासिनी ॥ १९६ ॥ सर्वप्रहरणः प्रेतो विधिविद्याप्रकाशिनी । प्रचण्डनयनानन्दो मञ्जीरकलरञ्जिनी ॥ १९७ ॥ कलमञ्जीरपादाब्जो बलमृत्युपरायणा । कुलमालाव्यापिताङ्गः कुलेन्द्रः कुलपण्डिता ॥ १९८ ॥ बालिकेशो रुद्रचण्डा बालेन्द्राः प्राणबालिका । कुमारीशः काममाता मन्दिरेशः स्वमन्दिरा ॥ १९९ ॥ अकालजननीनाथो विदग्धात्मा प्रियङ्करी । वेदाद्यो वेदजननी वैराग्यस्थो विरागदा ॥ २०० ॥ स्मितहास्यास्यकमलः स्मितहास्यविमोहिनी । दन्तुरेशो दन्तुरु च दन्तीशो दर्शनप्रभा ॥ २०१ ॥ दिग्दन्तो हि दिग्दशना भ्रष्टभुक् चर्वणप्रिया । मांसप्रधाना भोक्ता च प्रधानमांसभक्षिणी ॥ २०२ ॥ मत्स्यमांसमहामुद्रा रजोरुधिरभुक्प्रिया । सुरामांसमहामीनमुद्रामैथुनसुप्रिया ॥ २०३ ॥ कुलद्रव्यप्रियानन्दो मद्यादिकुलसिद्धिदा । हृत्कण्ठभ्रूसहस्रारभेदनोऽन्ते विभेदिनी ॥ २०४ ॥ प्रसन्नहृदयाम्भोजः प्रसन्नहृदयाम्बुजा । प्रसन्नवरदानाढ्यः प्रसन्नवरदायिनी ॥ २०५ ॥ प्रेमभक्तिप्रकाशाढ्यः प्रेमानन्दप्रकाशिनी ॥ २०६ ॥ प्रभाकरफलोदयः परमसूक्ष्मपुरप्रिया । प्रभातरविरश्मिगः प्रथमभानुशोभान्विता । प्रचण्डरिपुमन्मथः प्रचलितेन्दुदेहोद्गतः । प्रभापटलपाटलप्रचयधर्मपुञ्जाचीता ॥ २०७ ॥ सुरेन्द्रगणपूजितः सुरवरेशसम्पूजिता । सुरेन्द्रकुल सेवितो नरपतीन्द्रसंसेविता । गणेन्द्र गणनायको गणपतीन्द्र देवात्मजा । भवार्णवर्गतारको जलधिकर्णधारप्रिया ॥ २०८ ॥ सुरासुरकुलोद्भवः सुररिपुप्रसिद्धिस्थिता सुरारिगणघातकः सुरगणेन्द्रसंसिद्धिदा । अभीप्सितफलप्रदः सुरवरादिसिद्धिप्रदा प्रियाङ्गज कुलार्थदः सुतधनापवर्गप्रदा ॥ २०९ ॥ शिवस्वशिवकाकिनी हरहरा च भीमस्वना क्षितीश इषुरक्षका समनदर्पहन्तोदया । गुणेश्वर उमापती हृदयपद्मभेदी गतिः क्षपाकरललाटधृक् स्वसुखमार्गसन्दायिनी ॥ २१० ॥ श्मशानतटनिष्पट प्रचटहासकालङ्कृता हठत्शठमनस्तटे सुरकपाटसंछेदकः । स्मराननविवर्धनः प्रियवसन्तसम्बायवी विराजितमुखाम्बुजः कमलमञ्जसिंहासना ॥ २११ ॥ भवो भवपतिप्रभाभवः कविश्च भाव्यासुरैः क्रियेश्वर ईलावती तरुणगाहितारावती । मुनीन्द्रमनुसिद्धिदः सुरमुनीन्द्रसिद्धायुषी मुरारिहरदेहगस्त्रिभुवना विनाशक्रिया ॥ २१२ ॥ द्विकः कनककाकिनी कनकतुङ्गकीलालकः कमलाकुलः कुलकलार्कमालामला । सुभक्त तमसाधकप्रकृतियोगयोग्यार्चितो विवेकगतमानसः प्रभुपरादिहस्ताचीता ॥ २१३ ॥ त्वमेव कुलनायकः प्रलययोगविद्येश्वरी प्रचण्डगणगो नगाभुवनदर्पहारी हरा । चराचरसहस्रगः सकलरूपमध्यस्थितः स्वनामगुणपूरकः स्वगुणनामसम्पूरणी ॥ २१४ ॥ इति ते कथितं नाथ सहस्रनाम मङ्गलम् । अत्यद्भुतं परानन्दरससिद्धान्तदायकम् ॥ २१५ ॥ मातृकामन्त्रघटितं सर्वसिद्धान्तसागरम् । सिद्धविद्यामहोल्लास मानन्दगुणसाधनम् ॥ २१६ ॥ दुर्लभं सर्वलोकेषु यामले तत्प्रकाशितम् । तव स्नेहरसामोदमोहितानन्दभैरव ॥ २१७ ॥ कुत्रापि नापि कथितं स्वसिद्ध हानिशङ्कया । सर्वादियोग सिद्धान्तसिद्धये भुक्तिमुक्तये ॥ २१८ ॥ प्रेमाह्लादरसेनैव दुर्लभं तत्प्रकाशितम् । येन विज्ञातमात्रेण भवेद्छ्रीभैरवेश्वरः ॥ २१९ ॥ एतन्नाम शुभफलं वक्तुं न च समर्थकः । कोटिवर्षशतैनापि यत्फलं लभते नरः ॥ २२० ॥ तत्फलं योगिनामेक क्षणाल्लभ्यं भवार्णवे । यः पठेत् प्रातरुत्थाय दुर्गग्रहनिवरणात् ॥ २२१ ॥ दुष्टेन्द्रियभयेनापि महाभयनिवारणात् । ध्यात्वा नाम जपेन्नित्यं मध्याह्ने च विशेषतः ॥ २२२ ॥ सन्ध्यायां रात्रियोगे च साधयेन्नामसाधनम् । योगाभ्यासे ग्रन्थिभेदे योगध्याननिरूपणे ॥ २२३ ॥ पठनाद् योगसिद्धिः स्याद् ग्रन्थिभेदो दिने दिने । योगज्ञानप्रसिद्धिः स्याद् योगः स्यादेकचित्ततः ॥ २२४ ॥ देहस्थ देववश्याय महामोहप्रशान्तये । स्तम्भनायारिसैन्यानां प्रत्यहं प्रपठेच्छुचिः ॥ २२५ ॥ भक्तिभावेन पाठेन सर्वकर्मसु सुक्षमः । स्तम्भयेत् परसैन्यानि वारैकपाठमात्रतः ॥ २२६ ॥ वारत्रयप्रपठनाद् वशयेद् भुवनत्रयम् । वारत्रयं तु प्रपठेद् यो मूर्खः पण्डितोऽपि वा ॥ २२७ ॥ शान्तिमाप्नोति परमां विद्यां भुवनमोहिनीम् । प्रतिष्ठाञ्च ततः प्राप्य मोक्षनिर्वाणमाप्नुयात् ॥ २२८ ॥ विनाशयेदरीञ्छीघ्रं चतुर्वारप्रपाठने । पञ्चावृत्तिप्रपाठेन शत्रुमुच्चाटयेत् क्षणात् ॥ २२९ ॥ षडावृत्या साधकेन्द्रः शत्रूणां नाशको भवेत् । आकर्षयेत् परद्रव्यं सप्तवारं पठेद् यदि ॥ २३० ॥ एवं क्रमगतं ध्यात्वा यः पठेदतिभक्तितः । स भवेद् योगिनीनाथो महाकल्पद्रुमोपमः ॥ २३१ ॥ ग्रन्थिभेदसमर्थः स्यान्मासमात्रं पठेद् यदि । दूरदर्शी महावीरो बलवान् पण्डितेश्वरः ॥ २३२ ॥ महाज्ञानी लोकनाथो भवत्येव न संशयः । मासैकेन समर्थः स्यान्निर्वाणमोक्षसिद्धिभाक् ॥ २३३ ॥ प्रपठेद् योगसिद्ध्यर्थं भावकः परमप्रियः । शून्यागारे भूमिगर्तमण्डपे शून्यदेशके ॥ २३४ ॥ गङ्गागर्भे महारण्ये चैकान्ते निर्जनेऽपि वा । दुर्भिक्षवर्जिते देशे सर्वोपद्रववर्जिते ॥ २३५ ॥ श्मशाने प्रान्तरेऽश्वत्थमूले वटतरुस्थले । इष्टकामयगेहे वा यत्र लोको न वर्तते ॥ २३६ ॥ तत्र तत्रानन्दरूपी महापीठस्थलेऽपि च । दृढासनस्थः प्रजपेन्नाममङ्गलमुत्तमम् ॥ २३७ ॥ ध्यानधारणशुद्धाङ्गो न्यासपूजापरायणः । ध्यात्वा स्तौति प्रभाते च मृत्युजेता भवेद् ध्रुवम् ॥ २३८ ॥ अष्टाङ्गसिद्धिमाप्नोति चामरत्वमवाप्नुयात् । गुरुदेवमहामन्त्रभक्तो भवति निश्चितम् ॥ २३९ ॥ शरीरे तस्य दुःखानि न भवन्ति कुवृद्धयः । दुष्टग्रहाः पलायन्ते तं दृष्ट्वा योगिनं परम् ॥ २४० ॥ यः पठेत् सततं मन्त्री तस्य हस्तेऽष्टसिद्धयः । तस्य हृत्पद्मलिङ्गस्था देवाः सिद्ध्यन्ति चापराः ॥ २४१ ॥ युगकोटिसहस्राणि चिरायुर्योगिराड् भवेत् । शुद्धशीलो निराकारो ब्रह्मा विष्णुः शिवः स च । स नित्यः कार्यसिद्धश्च स जीवन्मुक्तिमाप्नुयात् ॥ २४२ ॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने ईश्वरशक्तिकाकिन्यष्टोत्तर सहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : kAkinI aShTottarasahasranAmastotra
% File name             : kAkinIshvarasahasra.itx
% itxtitle              : kAkinyaShTottarasahasranAmastotram
% engtitle              : kAkinI aShTottarasahasranAmastotra
% Category              : sahasranAma, devii, ShaTchakrashakti, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mark S.G. Dyczkowski muktAbodha
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : rudrayAmale uttaratantre bhairava bhairavI sa.nvAde
% Latest update         : May 25, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org