श्रीकालीक्षमाऽपराधस्तोत्रम्

श्रीकालीक्षमाऽपराधस्तोत्रम्

प्राग्देहस्थोय दाहं तव चरण युगान्नाश्रितो नार्चितोऽहं तेनाद्या कीर्तिवर्गेर्जठरजदहनैर्बाद्ध्यमानो बलिष्ठैः । क्षिप्त्वा जन्मान्तरान्नः पुनरिहभविता क्वाश्रयः क्वापि सेवा क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १॥ वाल्येवालाभिलायैर्जडित जडमतिर्बाललीला प्रसक्तो न त्वाञ्जानामि मातः कलिकलुषहरा भोगमोक्ष प्रदात्रीम् । नाचारो नैव पूजा न च यजन कथा न स्मृतिनैव सेवा क्षन्तव्योमेऽपराधः प्रकटित वदने कामरूपे कराले ॥ २॥ प्राप्तोहं यौवनञ्चेद्विषधर सदृशैरिन्द्रियैर्दृष्ट गात्रो नष्ट प्रज्ञः परस्त्री परधन हरणे सर्वदा साभिलाषः । त्वत्पादाम्भोज युग्मङ्क्षणमपि मनसा न स्मृतोहं कदापि क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ३॥ प्रौढोभिक्षाभिलाषी सुत दुहितृ कलत्रार्थ मन्नादि चेष्ट क्व प्राप्स्ये कुत्रयामी त्वनुदिनमनिशं चिन्तयामग्न देहः । नोतेध्यानन्त चास्था न च भजन विधिन्नाम सङ्कीर्तनं वा क्षन्तव्योमेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ४॥ वृद्धत्वे बुद्धिहीनः कृश विवशतनुश्श्वासकासातिसारैः कर्णनिहोऽक्षिहीनः प्रगलित दशनः क्षुत्पिपासाभिभूतः । पश्चात्तापेनदग्धो मरणमनुदिनं ध्येय मात्रन्नचान्यत् क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ५॥ कृत्वास्नानं दिनादौ क्वचिदपि सलिलं नोकृतं नैव पुष्प ते नैवेद्यादिकञ्च क्वचिदपि न कृतं नापिभावो न भक्तिः । न न्यासो नैव पूजां न च गुण कथनं नापि चार्चाकृताते क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ६॥ जानामि त्वां न चाहं भवभयहरणीं सर्व सिद्धिप्रदात्री नित्यानन्दोदयाढ्यां त्रितय गुणमयी नित्य शुद्धोदयाढ्याम् । मिथ्याकर्माभिलाषैः अनुदिनमभितः पीडितो दुःख सङ्घैः क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ७॥ कालाभ्रां श्यामालाङ्गीं विगलित चिकुरा खग़्गमुण्डाभिरामां त्रास त्राणेष्टदात्रीं कुणपगणशिरो मालिनीं दीर्घनेत्राम् । संसारस्यैकसारां भवजन न हराम्भावितोभावनाभिः क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ८॥ ब्रह्मा विष्णुस्तथेशः परिणमति सदा त्वत्पदाम्भोज युक्तं भाग्याभावान्न चाहम्भव जननि भवत्पाद युग्मं भजामि । नित्यं लोभ प्रलोभैः कृतविशमतिः कामुकस्त्वां प्रयाषे क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ९॥ रागद्वेषैः प्रमत्तः कलुषयुत तनुः कामनाभोग लुब्धः कार्याकार्या विचारी कुलमति रहितः कोलसङ्घैर्विहीनः । क्वध्यानन्ते क्वचार्चा क्वमनुजपनन्नैव किञ्चित् कृतोऽहं क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १०॥ रोगी दुःखी दरिद्रः परवशकृपणः पांशुलः पाप चेता निद्रालस्य प्रसक्तास्सुजठरभरणे व्याकुलः कल्पितात्मा । किं ते पूजा विधानं त्वयिक्वचनुमतिः क्वानुराक्वचास्था क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ ११॥ मिथ्या व्यामोह रागैः परिवृतमनसः क्लेशसङ्घान्वितस्य क्षुन्निद्रौघान्वितस्य स्मरण विरहिणः पापकर्म प्रवृत्ते । दारिद्र्यस्य क्वधर्मः क्वचजननिरुचिः क्वस्थितिस्साधु सङ्घैः क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १२॥ मातस्तातस्यदेहजननि जठरगः संस्थितस्त्वद्वशेहन् त्वं हर्त्रा कारयित्री करण गुणमयी कर्महेतु स्वरूपा । त्वं बुद्धिश्चित्त संस्थाप्ययहमतिभवती सर्वमेतत्क्षमस्व क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १३॥ त्वं भूमिस्त्वञ्जलञ्च त्वमसि हुतवहस्त्वञ्जगद्वायुरूपा त्वञ्चाकाशम्मनश्च प्रकृतिरसि महत्पूर्विका पूर्वपूर्वा । आत्मात्वञ्चासिमातः परमसिभवती त्वत्परन्नैव किञ्चित् क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १४॥ त्वं काली त्वञ्चतारात्वमसि गिरिसुता सुन्दरी भैरवी त्वं त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मीः शिवा त्वम् । धूमा मातङ्गिनीत्वं त्वमसि च बगला मङ्गलादिस्तवाख्या क्षन्तव्यो मेऽपराधः प्रकटित वदने कामरूपे कराले ॥ १५॥ स्तोत्रेणानेन देवीम्परिणमति जनो यः सदाभक्तियुक्तो दुष्कृत्या दुर्गसङ्घं परितरति शतं विघ्नतां नाशमेति । नाधिर्व्याधि कदाचिद्भवति यदि पुनस्सर्वदा सापराधः सर्वं तत् कामरूपे त्रिभुवन जननि क्षामये पुत्र बुद्ध्या ॥ १६॥ ज्ञाता वक्ता कवीशो भवति धनपतिर्दानशीलो दयात्मा निःष्पापी निःष्कलङ्की कुलपति कुशलस्सत्यवाग्धार्मिकश्च । नित्यानन्दो दयाढ्यः पशुगणविमुखस्सत्पथा चारुशीलः संसाराब्धिं सुकेन प्रतरति गिरिजा पादयुग्मावलम्बात् ॥ १७॥ ॥ इति श्रीकालीक्षमाऽपराधस्तोत्रं समाप्तम् ॥ Encoded and proofread by Aruna Narayanan
% Text title            : Kali Kshama Aparadha Stotram
% File name             : kAlIkShamAparAdhastotram.itx
% itxtitle              : kAlIkShamAparAdhastotram
% engtitle              : kAlIkShamAparAdhastotram
% Category              : devii, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : June 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org