कालीस्तवनम्
अथ द्विसप्ततितमः पटलः
श्रीआनन्दभैरवी उवाच
महाकाल शिवानन्द परमानन्दनिर्भर ।
त्रैलोक्यसिद्धिद प्राणवल्लभ श्रूयतां स्तवः ॥ ७२-१॥
शाकिनी हृदये भाति सा देवी जननी शिवा ।
कालीति जगति ख्याता सा देवी हृदयस्थिता ॥ ७२-२॥
निरञ्जना निराकारा नीलाञ्जनविकासिनी ।
आद्या देवी कालिकाख्या केवला निष्कला शिवा ॥ ७२-३॥
अनन्ताऽनन्तरूपस्था शाकिनी हृदयस्थिता ।
तामसी तारिणी तारा महोग्रा नीलविग्रहा ॥ ७२-४॥
कपाला मुण्डमालाढ्या शववाहनवाहना ।
ललज्जिह्वा सरोजाक्षी चन्द्रकोटिसमोदया ॥ ७२-५॥
वाय्वग्निभूजलान्तस्था भवानी शून्यवासिनी ।
तस्मात् स्तोत्रमप्रकाश्यं कृष्णकाल्याः कुलोदयम् ॥ ७२-६॥
श्रीकृष्णभगवत्याश्च नीलदेव्या कुलार्णवम् ।
गोपनीयं प्रयत्नेन सावधानोऽवधारय ॥ ७२-७॥
महाभैरवी उवाच
श्रीकालीचरणं चराचरगुणं सौदामिनीस्तम्भनं
गुञ्जद्गर्वगुरुप्रभानखमुखाह्लादैककृष्णासनम् ।
प्रेतारण्यासननिर्मितामलकजा नन्दोपरिश्वासनं
श्रीमन्नाथ करारविन्दमिलनं नेत्राञ्जनं राजते ॥ ७२-८॥
दीप्तिः प्राप्तिः समाप्तिः प्रियमतिसुगतिः सङ्गतिः शीतनीतौ
मिथ्यामिथ्यासुरथ्या नतिररतिसती जातिवृत्तिर्गुणोक्तिः ।
व्यापारार्थी क्षुधार्थी वसति रतिपतिर्ज्योतिराकाशगङ्गा
श्रीदुर्गाशम्भुकालीचरणकमलकं सर्वदा भाति सूक्ष्मम् ॥ ७२-९॥
देवेन्द्राः पञ्चभूता रविशशिमुकुटाः क्रोधवेतालकोलाः
कैलासस्थाः प्रशस्ताः स्तवनमपि तत्प्रत्यहं सम्पठन्ति ।
आत्मानं श्रीदकालीकुलचरणतलं हृत्कुलानन्दपद्मे
ध्यात्वा ध्यात्वा प्रवीरा अहमनुबहुधीः स्तौमि किं ध्याननिष्ठः ॥ ७२-१०॥
श्रुत्वा स्तोत्रगुणं तवैव चरणाम्भोजस्य वाञ्छाफलं
प्रेच्छामीहयति प्रियाय कुरुते मोक्षाय तत्त्वार्थतः ।
मातर्मोहिनिदानमानतरुणी कातीति मन्यामहे
योग्यश्रीचरणाम्बुजे त्रिजगतामानन्दपुञ्जे सुखम् ॥ ७२-११॥
पुत्रौ श्रीदेवपूज्यौ प्रकुरुत इतिहासादिगूढार्थगुप्तिं
श्यामे मातः प्रसन्ना भव वरदकरी कारणं देहि नित्यम् ।
योगानन्दं शिवान्तः सुरतरुफलदं सर्ववेदान्तभाष्यं
सत्सङ्गं सद्विवेकं कुरु कुरु कवितापञ्चभूतप्रकाशम् ॥ ७२-१२॥
आह्लादोद्रेककारी परमपदविदां प्रोल्बणार्थप्रकाशः
प्रेष्यः पारार्थचिन्तामणिगुण सरलः पारणः प्रेमगानः ।
सारात्मा श्रीस्तवोऽयं जयसुरवसतां शुक्रसंस्कारगन्ता
मन्ता मोहादिकानां सुरगणतरुणी कोटिभिर्ध्येय इन्द्रैः ॥ ७२-१३॥
नामग्रहणविमलपावनपुण्यजलनिधिमन्थनेन ।
निर्मलचित्तगसुरगुणपारग सुखसुधाकरस्थितहास्येन ।
योगधराधरनरवर कुञ्जरभुजयुगदीर्घपद्ममृणालेन ॥ ७२-१४॥
हरिविधिहर अपरपरसरभावकपाल सेवनेन ।
सुन्दरी काली चरणेन ॥ ७२-१५॥
भास्वत्कोटिप्रचण्डानलगुणललिताभाविता सिद्धकाली
प्रोक्तं यद्योगगीतावचनसुरचनामङ्गलं योगिनाद्या ।
श्यामानन्दद्रुमाख्ये भजनयजनगङ्गाङ्गतीरप्रकाशं
सर्वानन्दोत्सवत्वं वरदसुरवदासम्भवे मय्यभावे ॥ ७२-१६॥
एतत्प्रथमे कुलं गुरुकुलं लावण्यलीलाकुलं
प्राणानन्दकुलं कुलाकुलकुलं कालीकुलं सङ्कुलम् ।
मातः कालियुगादि कौलिनि शिवे सर्वन्तराङ्गस्थितं
नित्यं तत्र नियोजय श्रुतिगिरा श्रीधर्मपुत्रं भवे ॥ ७२-१७॥
हेरम्बादि कुलेशयोगजननि त्वं योगतत्त्वप्रिया
यद्येवं कुरुते पदाम्बुजरजो योगं तवानन्ददम् ।
सः स्यात्सङ्कटपाटलारिसदनं जित्वा स्वयं मन्मथं
श्रीमान्मन्मथमन्मथः प्रचयति ह्यष्टाङ्गयोगं परम् ॥ ७२-१८॥
योगी याति परं पदं सुखपदं वाञ्छास्पदं सम्पदं
त्रैलोक्यं परमेश्वरं यदि पुनः पारं भवाम्भोनिधेः ।
भावं भूधरराजराजदुहिते ज्ञातं विचारं तव
श्रीपादाम्बुजपूजनं प्रकुरुते ते नीरदप्रोज्ज्वले ॥ ७२-१९॥
आदावष्टाङ्गयोगं वदति भवसुखं भक्तिसिद्धान्तमेकं
भूलोके पावनाख्यं पवनगमनगं श्रीनगेन्द्राङ्गजायाः ।
सिद्धीनामष्टसिद्धिं यमनियमवशादासनप्राणयोगात्
प्रत्याहारं विभोर्ध्वारुणगुणवसनं ध्यानमेवं समाधिम् ॥ ७२-२०॥
मातः शान्तिगुणावलम्बिनि शिवे शान्तिप्रदे योगिनां
दारे देवगुणे विधेहि सकलं शान्तिक्रियामङ्गलम् ।
यज्ञानामुदयं प्रयाति सहसा यस्याः प्रसादाद् भुवं
तां सर्वां प्रवदामि कामदहनस्तम्भाय मोहक्षयात् ॥ ७२-२१॥
एको जीवति योगिराडतिसुखी जीवन्ति न श्रीसुताः
सर्वं योगभवं भवे विभवगाः पश्यन् स्वकीयायुषम् ।
इत्येवं परिभाव्य सर्वविषयं शान्तिं समालम्ब्यकौ
मूले वेददलोज्ज्वले कुलपथे श्रीकुण्डलीं भावय ॥ ७२-२२॥
शान्तिभ्रान्तिनिकृन्तनी स्वरमणी प्रेमोद्गता भक्तिदा
लावण्याम्बुधिरत्नकोटिकिरणाह्लादैकमूर्तिप्रभा ।
एकाकारपराक्रमादपय मा क्रोधक्रमक्षोभिणी
या मूलामलपङ्कजे रचयति श्रीमाधुरी तां भजे ॥ ७२-२३॥
रे रे पामर दुर्भग प्रतिदिनं किं कर्म वा राधसे
व्यापारं विषयाश्रयं प्रकुरुषे न ध्यायसे श्रीपदम् ।
मिथ्यैतत्क्षणभङ्गुरं त्यज मुदा संसारभावं विषं
श्रीकालीं कुलपण्डितां गुणवतीं शान्तिं समाराधय ॥ ७२-२४॥
शिवस्त्री या शान्तिः परमसुखदा भावजनिका
विवेकः सञ्जातो वहसि च तया भाति नियतम् ।
विवेकोऽसौ त्यागी जनयति सुधासिन्धुसुन्दर-
मदो ब्रह्मज्ञानं परमममले योगिनिं परे ॥ ७२-२५॥
द्वयं ब्रह्मज्ञानं परमममले चागममयं
विवेकोद्भूतं स्यादमलपरमं शब्दमपरम् ।
द्वयोर्मूलीभूता हृदि सपदि शान्तिः प्रियतमा
प्रभा कालीपादाम्बुजयुगलभक्तिप्रलयदा ॥ ७२-२६॥
कुलश्रीकुण्डल्याः परमरसभावं नवमयं
पदं मातुः काल्याः प्रथमरविकान्त्याः सुखमयम् ।
वदामि प्रोत्साहे वशषसशुभे हाटकनिभे
विधिः श्रीडाकिन्याऽमरपतिधरित्रीति च भजेत् ॥ ७२-२७॥
त्रयं स्थानं नित्यं रविशशिकलावह्निघटितं
महातीर्थं सम्यक् पवनगगनस्थं भवकरम् ।
विभिन्नं सङ्कृत्य द्वयमपि कुलग्रन्थिसहितं
सुषुम्नाश्रीतीर्थे महति गगने पूर्णलयवान् ॥ ७२-२८॥
त्रयं संशोध्यादौ परमपदवीं गच्छति महान्
सुदृष्टाङ्गैर्योगैः परिभवति शुद्धं मम तनुम् ।
अतो योगाष्टाङ्गं कलुषसुखमुक्तं वितनुते
क्रियादौ सङ्कुर्याद्यमनियमकार्यं यतिवरः ॥ ७२-२९॥
अहिंसासत्यार्थी प्रचयति सुयोगं तव पदं
धनस्ते यद्योगी शुचिधृतिदयादाननिपुणः ।
क्षमालध्वाहारी समगुणपरानन्दनिपुणः
स्वयं सिद्धः सद्ब्राह्मणकुलपताकी सुखमयी ॥ ७२-३०॥
तपः सन्तोषाढ्यो हरयजन आस्तिक्यमतिमान्
यतीनां सिद्धान्तश्रवणहृदयप्राणविलयः ।
जयानन्दामग्नो हवनमनलेपः प्रकुरुते
महाभक्तः श्रीह्रीर्मतिरतिकुलीनस्तव पदः ॥ ७२-३१॥
सुषुम्नामुखाम्भोरुहाग्रे च पद्मं
दलं चेदहेमाक्षरं मूलदेशे ।
स्थिरापृष्ठवंशस्य मध्ये सुषुम्ना--
न्तरे वज्रिणी चित्रिणीभासिपद्मैः ॥ ७२-३२॥
सुषुम्नादिनाड्या युगात् कर्णमूला-
त्प्रकाशप्रकाशा बहिर्युग्मनाडी ।
इडा पिङ्गला वामभागे च दक्षे
सुधांशूरवी राजसे तत्र नित्यम् ॥ ७२-३३॥
विसर्गं बिन्द्वन्तं स्वगुणनिलयं त्वं जनयसि
त्वमेका कल्याणी गिरिशजननी कालिकलया ।
परानन्दं कृत्वा यदि परिजपन्ति प्रियतमाः
परिक्षाल्य ज्ञानैरिह परिजयन्ति प्रियपदम् ॥ ७२-३४॥
अष्टादशाङ्गुलगतं ऋजुदन्तकाष्ठं
स्वीयाङ्गुलार्धघटितं प्रशरं शनैर्यः ।
संयोज्य तालुरसनागलरन्ध्रमध्ये
दन्तीक्रियामुपचरेत् तव भावनाय ॥ ७२-३५॥
नाडीक्षालनमाकरोति यतिराड् दण्डे त्रयं धारयन्
युष्मच्छ्रीचरणार्पणो नवमदण्डस्यानिलस्तम्भनात् ।
प्राणायामफलं यतिः प्रतिदिनं संवर्धते सुश्रमा-
दानन्दाम्बुधिमज्जनं कुलरसैर्मुक्तो भवेत् तत्क्षणात् ॥ ७२-३६॥
वदामि परमश्रिये पदपद्मयोगं शुभं
हिताय जगतां मम प्रियगणस्य भागश्रिये ।
सदा हि कुरुते नरः सकलयोगसिद्धिं मुदा
तदैव तव सेवको जननि मातरेकाक्षरम् ॥ ७२-३७॥
करुणासागरे मग्नः सदा निर्मलतेजसा ।
तवाङ्घ्रिकोमलाम्भोजं ध्यात्वा योगीश्वरो भवेत् ॥ ७२-३८॥
करुणासागरे मग्नो येन योगेन निर्मलः
तद्योगं तव पादाब्जं को मूर्खः कः सुपण्डितः ॥ ७२-३९॥
यमनियमसुकाले नेउलीयोगशिक्षा
प्रभवति कफनाशा नाशरन्ध्रे त्रिसूत्री ।
हृदयकफविनाशा धोतिका योगशिक्षा
गलविलगलवस्त्रं षष्टिहस्तं वहन्ती ॥ ७२-४०॥
सुसूक्ष्मरसनस्य च स्वभुजषष्टिहस्तं गल
प्रमाणमिति सन्ततप्रसरपञ्चयुग्माङ्गुलम् ।
पवित्रशुचिधोतिकारं भवसि सर्वपीडापहा
स्वकण्ठकमलोदयाममलभीतदामा भजे ॥ ७२-४१॥
भजति यदि कुमारीं नेउली योगदृष्ट्या
स भवति परवेत्ता मोहजालं छिनत्ति ।
स्मितमुखि भवति त्वां मूढ एवातिजीवो
भ्रमितमुदवधूर्ना कारसिद्धिं ददासि ॥ ७२-४२॥
शनैर्दन्ती योगं स्वपदयुगपद्मे वितनुते
शिवे योगी मासादपि भवति वायुं स्थगयति ।
असौ मन्त्री चाम्रातकदलं सुदण्डं गलविले
नियोज्यादौ ध्यात्वा तव चरणपङ्केरुहतलम् ॥ ७२-४३॥
कुलाकुलचेतता परिकरोषि विल्वच्छदी
सुशान्तिगुणदा जया परमभक्तिनिर्गुण्डिका ।
मुकुन्दतुलसी प्रिया गुणिनि मुक्तिदा योगिनी
ददास्यमरसम्पदं दलवियोगमूर्ध्वोदरीम् ॥ ७२-४४॥
पञ्चामरासाधनयोगकर्त्री पञ्चामरानाम महौषधिः स्थिता ।
त्वमेव सर्वेश्वररूपधारिणी यैः पूज्यते सोऽहिकपारमेष्ठी ॥ ७२-४५॥
पठति यदि भवान्याः शाकिनीदेहदेव्याः
स्तवनमरुणवर्णामार्कलक्ष्म्याः प्रकाशम् ।
व्रजति परमराज्यं देवपूज्यः प्रतिष्ठो
मनुजपनसुशीलो लीलया शम्भुरूपम् ॥ ७२-४६॥
प्रातर्मध्याह्नकाले च सायाह्ने च त्रिसप्तके ।
शतं पठित्वा मोक्षः स्यात् पुरश्चर्याफलं लभेत् ॥ ७२-४७॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीकृत कालीस्तवनं
नाम द्विसप्ततितमः पटलः ॥ ७२॥
The numbers correspond to paTala and verse numbers from
Rudrayamala uttaratantra.
Proofread by Aruna Narayanan