ब्रह्मप्रोक्ता कालीस्तुतिः
ब्रह्मोवाच -
नमो नमस्ते जगतः प्रवृत्तिनिवृत्तिरूपे स्थितिसर्गरूपे ।
चराचराणां भवती च शक्तिः सनातनी सर्वविमोहनीति ॥ ५४॥
या श्रीः सदा केशवमूर्तिमाया विश्वम्भरा या सकलं बिभर्ति ।
ह्रीर्योगिनी या महिता मनोज्ञा सा त्वं नमस्ते परमात्मसारे ॥ ५५॥
यामादिपूर्वे हृदि योगिनो यां विभावयन्ति प्रमितिप्रतीताम् ।
प्रकाशशुद्धादियुतां विराणां सा त्वं हि विद्या विविधावलम्बा ॥ ५६॥
कूटस्थमव्यक्तमचिन्त्यरूपं त्वं बिभ्रती कालमयं जगन्ति ।
विकारबीजं प्रकरोषि नित्यं प्रत्नानि न्यूत्नान्यथ मध्यमानि ॥ ५७॥
सत्त्वं रजोऽथो तम इत्यमीषां विकारहीना समवस्थितिर्या ।
सा त्वं गुणानां जगदेकहेतुर्बाह्यान्तरालं भवतीव याति ॥ ५८॥
अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ।
जगद्धिताय जगतां विष्णुमाये नमोऽस्तुते ॥ ५९॥
इति कालिकापुराणे पञ्चमाध्यायान्तर्गता ब्रह्मप्रोक्ता कालीस्तुतिः समाप्ता ।
Proofread by PSA Easwaran