॥ श्रीकृष्णामाहात्म्यम् ॥

अथ श्रीकृष्णवेणीमाहात्म्यम् । कृष्णाया यः पुनातीशो नानातीर्थवपुः प्रभुः । सञ्जीवयति चाशेषं नमोस्तु प्रत्यगात्मने ॥ कदाचिन्नारदं प्राप्तं नमस्कृत्वा महर्षयः । अर्चयित्वा मुनिं प्राहुः द्वापरान्ते कलौ युगे ॥ ऋषय ऊचुः । भगवन् जगतां नाथे कृष्णे त्यक्त्वा दिवं गते । सम्भ्रान्तानामिवान्धानां त्वं नो दृष्टिपथं गतः ॥ कथं कलियुगं घोरं प्रवृत्तं ह्यधरोत्तरम् । छेदनं धर्मसेतूनां साधूनां दुर्गुणोदयम् ॥ सतामपि मनःक्षुभ्यन्निकृतौ कश्चिदीश्वरः । कालस्यास्य प्रभावेन धर्मो नोद्भवति क्वचित् ॥ ततोपि द्रव्यशुद्धिस्तु पात्रशुद्धिस्ततोपि न । आत्मनश्च सहायानां पात्रस्य धनदस्य च ॥ अशुद्धिविहितो धर्मो व्यभिचाराय कल्पते । यतः कश्चिच्छ्रुतः शुद्धः सोप्यन्यस्मान्मली भवेत् ॥ कलौ पतितसंसर्गं ज्ञातुं त्यक्तुं च कः प्रभुः ॥ कथं न दग्धा विष्टाग्नौ नार्द्रस्य निवसन् जले । नारदोक्तकलिदोषनिरसनप्रवचनघट्टः ॥ कथं न लिप्यते पापैः कलौ कल्मषसंवृते । यज्ञमन्त्राश्च वेदाश्च शुद्धादन्यत्र दुस्त्यजेत् ॥ सङ्गदोषादन्नदोषान्निर्वीर्या भ्रष्टबीजवत् । महापथं वा गच्छामः किं वान्यच्चरणं वद ॥ नारद उवाच । सत्यमेतन्महाभाग दुर्निवार्यमिदं कलौ । एतदेव समुद्दिश्य पार्था याता महापथम् ॥ तथापि विप्र देहानां धृत्या यदिह लभ्यते । मरणेन तु तल्लभ्यं मृत्युं नेच्छेत्प्रमादतः ॥ किञ्च नात्मवतां द्वेष्यः कलिर्मे न भवादृशम् । कृते यल्लभ्यते पुण्यं तदत्रैव कलौ युगे ॥ अनात्मनः स्वभक्तस्य द्विजाः कलियुगं सदा । सुधियस्त्वीशभक्तस्य सदाह्लादीकृतं युगम् ॥ यत्तु कालस्वभावेन बलात्पापोद्भवः कलौ । तत्रापि श्रूयतां त्राणं दैवतैरपि निर्मितम् । सृष्ट्यर्थं चोदितो ब्रह्मा कल्पादौ किल विष्णुना ॥ प्राञ्जलिस्तं प्रणम्येशमिममर्थं व्यजिज्ञपत् । ब्रह्मोवाच । कार्या चतुर्युगावस्था यया नाथ त्वदाज्ञया । यदजय्यः कलिः प्राप्तः ततो लोकस्थितिः कथम् ॥ अघप्रवृद्ध्या निर्जीवे नष्टे लोके कलौ युगे । चतुर्युगसहस्रान्ता कथं कल्पस्थितिः प्रभो ॥ श्रीभगवानुवाच । सत्यं कलौ जगत्त्राणं कार्यं नैवान्यथास्थितिः । नन्वेतदर्थे तीर्थानि कल्पे कल्पे सृजस्यज ॥ गङ्गाद्याश्च महानद्यो नदाः प्रस्रवणानि च । विविधानि च तीर्थानि सृज त्वं पूर्ववद्भुवि ॥ मातरं सर्वतीर्थानां नदीनामग्रजां त्वहम् । कृष्णानद्युत्पत्तिप्रचारः स्रक्ष्यामि पूर्ववत्कृष्णां मन्मायां जगतां स्थितेः । तीर्थानां च प्रभावेन कलिकल्मषशत्रुणा ॥ कृष्णायाश्चापि सान्निध्यात् नात्युद्भविष्यति । कलौ जुषाणाः तीर्थानि मां च कृष्णां विशेषतः ॥ धीराः केचिद्भविष्यन्ति बीजं कृतयुगस्य हि । नारद उवाच । एवमुक्त्वा स्वयं विष्णुः कल्पादिषु यथापुरा । ससर्ज कृष्णां ब्रह्मापि तीर्थान्यपि तदाज्ञया ॥ इत्थं दुस्तरदोषौघत्राणार्थं निर्मितानि ह । कलौ तीर्थानि सेवेत न दोषः कश्चन स्पृशेत् ॥ यथा मन्त्रौषधाभिज्ञो ज्वालामध्ये न दह्यते । एवं सदैव तीर्थार्थी न धृष्यः कलिजैरघैः ॥ तस्माद्भजत तीर्थानि स्मरतामघहरं हरिम् । एवं कृतयुगं न स्यान्न प्रयात महापथम् ॥ ऋषय ऊचुः । अहो भगवता नूनं रक्षार्थं प्रहितोद्य नः । मुनीश त्वं हि भीतानां त्राणं परमिहोक्तवान् ॥ ऋषे कथय नः पुण्यां कृष्णां तां तीर्थमातरम् । यथा ससर्ज लक्ष्मीशस्स्वयं प्राह च तादृशम् ॥ नारद उवाच । तदेवं ब्रह्मणाप्येवं पृष्टो विस्मयशालिना । तस्या माहात्म्यमतुलं भूयः प्राहेति केशवः ॥ श्रीभगवानुवाच । जगत्स्थित्यै मया ब्रह्मन् कल्पे कल्पे हि सृज्यते । कृष्णा नाम नदी पुण्या तत्कथाघौघनाशिनी ॥ यस्याः कलिरलं भीतः पुण्यसिन्धोरघात्मकः । मन्दीभवत्स्वविभवो निश्शङ्कं न प्रवर्तते ॥ तस्याः संस्मरणस्पर्शपानस्नानस्तवादिभिः । निष्पापा मनुजास्सर्वे लभन्ते गतिमीप्सिताम् ॥ बहुना किं वदिष्यामि धृतधर्मां नदीमिमाम् ॥ स्पृशन् सर्वगतो वायुः पावयत्यखिलं जगत् । कार्यद्वयं समुद्दिश्य कृष्णवेणी भवाम्यहम् ॥ जगतां रक्षणार्थाय मद्भक्तानां च मुक्तये । अस्ति मुक्त्या उपायोऽन्यो योगाख्यस्स तु दुष्करः ॥ सुकरस्त्वेष सर्वेषां कृष्णवेण्या उपाश्रयः । कर्मभूमिमिमां मर्त्याः भजमाना यदात्मिकाम् ॥ कीर्तयन्तस्स्मरन्तश्च मम मायां तरन्त्यलम् । यथा यथा सुखं वस्स्यात् स्यात्सिद्धिस्स्वात्मनां तथा ॥ मया प्रयुज्यते नित्यं भक्तायासासहिष्णुना । तज्जलं पिबतां तावत् तदात्माहं स्वयं हृदि ॥ प्रविश्य वर्धयाम्याशु ज्ञानं भवभयापहम् । अद्यापि तां सर्वजगत्तमोघ्नां स्रक्ष्यामि मा ते कलिभीस्सृजत्वम् । लोकांश्चतुर्वक्त्र न हि स्थिता यामर्कप्रभायां तमसां विभूतिः ॥ नारद उवाच । इत्युक्त्वा भगवान् विष्णुः महायोगेश्वरेश्वरः । कृष्णां ससर्ज सम्पन्नो दिव्यमूर्तिं सुलोचनाम् ॥ श्यामलां विष्णुचिह्नाङ्कां चतुर्बाहुं सुभाषिताम् । पीताम्बरां सुप्रसन्नां साक्षात्कल्पलतामिव ॥ चन्द्रिकाकान्तिमुत्सृज्य वस्तुकान्तिप्रदायिनीम् । तेजस्साक्षादिवोत्पन्नां लावण्यस्याधिदेवताम् ॥ प्रसन्नादर्शनीयाश्च प्रभया तन्मुखा दिशः । मालिन्यं तत्यजुः काष्ठाश्चिरमिन्दुवियोगजम् ॥ तां जगत्पावनीं दृष्ट्वा कलेर्भीतिहरां शुभाम् । पुत्रीत्वं जगृहे ब्रह्मा प्रसन्नस्य हरेर्गिरा ॥ ततस्स्पृष्ट्वा जगत्सर्वं तत्र तीर्थान्यकल्पयत् । ब्रह्मा जगदघघ्नानि यथा प्राह जगद्गुरुः । कृष्णा च ब्रह्मलोकस्था पश्चाद्देवी भुवङ्गता ॥ पावयत्यखिलं लोकमनन्तमहिमान्विता । एवमेषा जगन्माता कृष्णा विष्णुतनुस्स्वयम् ॥ माहात्म्यमस्याः सकलमनन्तं को वदिष्यति । सुरभिर्देवी लोकविश्रुता भुवि कृष्णेऽष्टवरप्रपूरणे । सुरभेरियमेव चाधिका स्वजनेभ्योऽखिलधर्ममोक्षदा ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये कृष्णानदीप्रादुर्भावो नाम प्रथमोध्यायः ॥
अथ कृष्णमहिमाप्रशंसनघट्टः । ऋषय ऊचुः । स्वामिन् कथय कारुण्याद्भूयो माहात्म्यमुत्तमम् । कृष्णाया न हि नस्तुष्टिश्शृण्वतां त्वद्वचोमृतम् ॥ कथं देवी भुवं नीता कानि तीर्थानि तत्र च । आश्चर्यं चैव तद्गुह्यं त्वदन्यः को वदिष्यति ॥ इत्युक्त्वा विप्रमुख्यैस्तैर्मुनिर्भागवतोत्तमः । कृष्णाश्रयां कथां पुण्यां प्राह हर्षात्प्रशस्य तान् ॥ नारद उवाच । अहो मुक्तिः करस्था वो मनः कृष्णाकथार्थि यत् । अहञ्च धन्यस्सङ्गाद्वो यावद्-ज्ञानं वदामि तत् ॥ कृष्णात्मको विष्णुकथेश्वरो वा तदात्मजो स्यात्सकलान् गुणौघान् । स्कन्दो वदेद्वाथ पितुः प्रसादाद्यो वेद तर्कोत्र न वै चतुर्थः ॥ श्रीकृष्णवेण्या माहात्म्यं शृण्वन्तु मुनिसत्तमाः । कलेर्दलनमित्याहुरेतदाख्यानमुत्तमम् ॥ यत्रैतच्छ्रूयते देशे कलिदोषो समन्ततः । पलायते च गरुडध्वनिभीता इवोरगाः ॥ दुरितोच्चाटनं सर्वसम्पदाकर्षणं त्विदम् । आख्यानं पठ्यते यत्र स देशस्स्याच्छुभोदयः ॥ अतिगूढमिमं पूर्वं सर्वज्ञेनैव शम्भुना । स्कन्दायोक्तं प्रसन्नेन तेनास्मभ्यमृषिव्रजे ॥ वक्ष्याम्यहं यूयं च हृद्वसन्तो मुनीश्वराः । श्राव्यमेतद्भवद्भ्यश्च नासभ्येषु कदाचन ॥ शैवा भागवता ये च सात्त्विका ये सुमेधसः । तेष्वेव दर्शयेद्गूढं सुरत्नं कोविदेष्विव ॥ महिम्नात्यद्भुतस्यास्याच्छादितस्य स्वमायया । भक्तेष्वेवात्मभूतेषु ख्यापनं सहते हरिः ॥ नास्तिका डाम्बिकाश्चात्र हैतुका विषयात्मिकाः । काका इवामृते दिव्ये न योग्या विबुधोचिते ॥ उद्विग्नानां भवव्याधेर्विरक्तानां शमिच्छताम् । कृष्णामाहात्म्यमार्तानां देयं दिव्यमिवौषधम् ॥ श्रद्धया शृण्वतां चैतत् कृष्णायां माधवे शिवे । देवे चादूषिता भक्तिराविर्भवति कामधुक् ॥ सद्भक्त्या शृण्वतां चैव पापान्यतिगुरूण्यपि । वाताहताभवन् क्वापि यान्त्यदत्वा स्वकं फलम् ॥ प्रभावं सह्यदुहितुः ख्यापयेत्सत्सभामुदे । सा लोकशोकशमनादशोकपदमश्नुते ॥ संस्पर्शपानस्नानानि दूरे तिष्ठन्त्वहो द्विजाः । कृतकृत्यो भवेन्मर्त्यः कृष्णास्मरणकीर्तनैः ॥ प्रायो माया भवक्लेशाः कृष्णामाहात्म्यवेदिनाम् । नैव स्युः सम्प्रबुद्धानां स्वाप्निकोपद्रवा इव ॥ भक्त्या तत्सेविनां कामक्रोधलोभादयः कुतः । प्रसादौषधपाने हि पुनर्नोन्मादविक्रियाः ॥ यथेशष्षण्मुखायाह स चास्मभ्यं यथामति । सर्वाघहरमाश्चर्यं सर्वमेतद्वदामि वः ॥ भात्युत्तरदिशि श्रेयान् कैलासशिखरीश्वरः । स्यादेको मूर्तिमानीशो यशोराशिरिवामलः ॥ कैलासं प्रति स्कन्दागमनघट्टः समग्रं त्रिजगत्सृष्ट्वा स्रष्टा युगपदीक्षितुम् । निष्कळङ्केन्दुधवलं यं दर्पणमिवासृजत् ॥ यत्रैकस्मिन् जगद्भाति बिम्बितं सचराचरम् ॥ बीजं सृष्टेर्भविष्यन्त्याः कोशे सर्वमिहार्पितम् । चन्द्रकान्तप्लवत्तोयप्रवाहपरिपूरिताः ॥ यत्रेन्द्राध्युषिते सद्यस्सर्वलोकसुदुस्तराः । ब्रह्माच्युतकृतावासा शम्भोरनुपमा पुरी ॥ या भवानीव कान्तानां सर्वासामधिका पुरी । कदाचित्तत्र सर्वेशमीशानं रुचिराननम् ॥ चतुर्मुखमुखास्सर्वे ह्युपासाञ्चक्रिरे सुराः । तं जगल्लतिकाबीजं जगज्जलधिशीतगुम् ॥ जगद्वनमहावह्निमद्वितीयं महेश्वरम् । चतुर्दशजगत्क्रीडातन्त्रे क्रीडन्तमव्ययम् ॥ अगाधमहिमासिन्धुं ब्रह्माद्यैरप्यनिश्चितम् । कालेनाविकृतं स्थाणुमनन्ताजाण्डसाक्षिणम् । ब्रह्मेन्द्राद्यधिपैर्जुष्टं स्कन्दोऽनन्तरमायया ॥ मुनिभिः लोकगुरुभिरनुयातस्तु षण्मुखः । रेजे षडङ्गवान् वेदः पुराणैरिव सर्वतः ॥ प्रणतस्सपरिष्वज्य शिवाभ्यामुपवेशितः । क्षणमत्र वसत्यस्मिन्नदूरस्थे वरानने ॥ स्थाणुनाऽनुगृहीताश्च प्रणम्य मुनयोमुना । सभायां सिद्धजुष्टायामाहूतास्समुपाविशन् ॥ ततोऽप्यजीज्ञपत्स्कन्दश्चन्द्रमौलिं कृताञ्जलिः । दधद्दन्तांशुभिश्चन्द्रमुपायनमिव प्रियम् ॥ स्कन्द उवाच । देव प्रसीद जगतामनुग्रहकविग्रह । अजाय ज्ञप्तिरूपाय नमस्ते प्रत्यगात्मने ॥ यत्तिष्ठस्यक्षिविषये भक्तवत्सलता त्वियम् । नो चेत्पराक्प्रवृत्ताक्षाः क्व वयं क्व भवान् विभो ॥ मृग्यसेऽन्धैरिव जनैर्बहिर्बाह्यैस्त्वमान्तरः । कृपयाथ वपुर्धृत्वा पुरोस्मिन् वीक्ष्यसे स्वयम् ॥ वपुश्च तव देवेश जगतो हितबोधकम् । अनादिसाधनत्वेन तपोलोके प्रशंससि ॥ ध्रुवं नानाविरिञ्चाद्यैस्सम्प्राप्तस्सम्प्रदर्शयन् । प्रदर्शयन् ते नित्यत्वं विरक्तस्सर्वदेहिनाम् । आजन्मब्रह्मचर्यं च परमं च गृहाश्रयम् ॥ वनाश्रयं च गिरिशः सूचयस्यखिलेश्वर । भुजङ्गहारहारी यो योगी स्यात्स सुधीरिति । कुद्दालि त्वं दृढं छिन्द्याः ज्ञानेन भवदुर्गमम् ॥ त्रिशूलमेकहस्तेन बिभर्षि च परायुधम् । तद्ब्रह्मविष्णुरुद्रैक्यं भक्त्या बोधयसि प्रभो ॥ विडम्बयसि दुर्लक्ष्मीं मदान्धानिव शिक्षयन् । इत्याद्यशेषचेष्टाभिर्जगतां हितबोधक ॥ जगद्गुरुमथो नाथ पृच्छामि त्वां मनोगतम् । अगस्त्यमुख्यैर्मुनिभिरहं पृष्टो नदीः शुभा ॥ सर्वेश त्वद्विभूतीनां त्वत्प्रसादात्पृथग्विधाः । अथ ते कृष्णवेण्याश्च पुण्यं माहात्म्यमुत्तमम् ॥ अगाधतत्त्वमज्ञात्वा सर्वज्ञत्वमुपागताः । शुश्रूषवश्च सर्वेऽमी पुराणश्रवणोचिताः ॥ मुनयस्त्वं प्रसीदेश भिषजो भवरोगिणाम् । इति प्रश्नं समाकर्ण्य प्रहृष्टास्ते सभासदः ॥ स्तुवन्ति षण्मुखं गूढं कृष्णामाहात्म्यकाङ्क्षिणः । अथ तामभ्रगम्भीरध्वनिरीशोऽभ्यधात्सभाम् ॥ हर्षयन् दन्तरुग्जालैस्सुधावर्षैरिवामलैः । ईश्वर उवाच । साधु वत्स कृतः प्रश्नो यः कृष्णामहिमाश्रयः । ज्ञातव्यो ह्येष यत्नेन गूढस्सर्वतमोपहः ॥ कृष्णेयं विष्णुरूपस्य तनुर्मम जलात्मिका । यत्तः कृष्णा च सैवान्ये तत्प्रभावं परं विदुः ॥ सकृद्यत्पादसंस्पर्शाद्गङ्गाभूत्स्मर्तृमोक्षदा । तस्य विष्णोस्तनुस्साक्षात्कृष्णेयं कथमीड्यते ॥ महाघशमनाच्चापि ख्याता लोके महानदी । तीर्थाश्च ब्रह्मणा सृष्टाः विष्णुतः ताः समासृणोत् ॥ माहात्म्यं मायया तेन नेदृशं ज्ञायते जनैः । कृष्णेन सृष्टा कृष्णेयं भुवं नीता चा यद्दिवः ॥ कृष्णेयं विष्णुना चैष दुहितृत्वेऽर्पिता विधेः । कल्पादौ सर्वजगतामघौघध्वंसनाय वै ॥ नदीनामग्रजनना माहात्म्यञ्च महत्त्वतः । सर्वङ्कर्षति चाघौघं तेन कृष्णा प्रकीर्तिता ॥ सङ्क्षिप्य वक्ष्यामि निबोध कृष्णामाहात्म्यमस्मिन् यदि विस्तरोस्याः । स्वल्पोपि कल्पोयमितः प्रवृद्धिनेयस्तु तस्या महिमा त्वपारः ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये कृष्णानदीप्रादुर्भावो नाम द्वितीयोध्यायः ॥
स्कन्दाय ईश्वरोपदिष्टकालमहिमाघट्टः श्रीमहादेव उवाच । कल्पाद्यस्य कृतस्यादावियं देव्यवसत्पुरा । वैष्णवी ब्रह्मणः पुत्री पूज्यमाना सुरर्षिभिः ॥ तथा पुण्यमया कृष्णा सर्वत्र सुधियो जनाः । समायुषस्सदानन्दा नोत्तमाधममध्यमाः ॥ तेषां स्वाभाविकी सिद्धिः ह्लादिनीह रसोल्लसा । अथ कालस्वभावोत्थपापबीजसमागमात् ॥ तेषां मिथस्तु सङ्घर्षैस्सिद्धिरेषा रसोल्लसाः । पुनर्ब्रह्मप्रसादेन कल्पवृक्षाः जनेष्टदाः ॥ जातास्तेप्यघवृद्ध्याथ नृणां दोषात्तिरोभवन् । पुनस्तेषां हि वृद्ध्यर्थमौषध्यस्स्वयमुत्थिताः ॥ नानाफलरसास्ताश्च तद्दोषाद्भुवमाविशन् । पुनस्तैरर्थितो ब्रह्मा वृद्ध्यर्थं समकल्पयत् ॥ वृष्टिमोषधिसिद्ध्यर्थं हस्तसिद्धिं च कर्मजाम् । धर्माधर्मव्यवस्थां च मर्यादाश्च पृथग्विधाः ॥ नृणां सर्वजगत्स्थित्यै धर्मो जातश्च चतुर्वपुः । नरो नारायणश्चैव हरिः कृष्ण इति प्रभुः ॥ ते दृष्ट्वा तादृशं नाशं प्रजानामघवृद्धिजम् । सञ्चिन्त्य रक्षणोपायं स्वानुजं कृष्णमब्रुवन् ॥ गच्छाशु ब्रह्मसदनं कृष्णामानय नस्तनुम् । सर्वाघशान्त्यै जगतां तदर्थं सा हि निर्मिता ॥ पितामहश्च वक्तव्यः पुण्यतीर्थान्यनेकशः । भूमौ प्रकल्पयेत्येवं नोचेन्नास्ति जगत्स्थितिः ॥ ईश्वर उवाच । तथेति गत्वा कृष्णोथ निवेद्य ब्रह्मणेऽखिलम् । ब्रह्मलोकात्कृष्णानद्यानयनघट्टः कार्यं लेभे ततः कृष्णां बहुमानात्समर्पिताम् । ब्रह्मणा सर्वदेवैश्च सत्कृतो भगवान्मुदा ॥ तामादाय ययौ कृष्णः पूज्यमानां सुरोत्तमैः । ब्रह्मविष्णुस्तथा रुद्रस्सर्वे देवास्सहर्षिभिः ॥ सोत्साहं मानयन्तस्तामनुजग्मुस्तथा भुवम् । कस्मिन् देशे तु देवीति मन्त्रयन्तस्तु ते सुराः ॥ गच्छन्तो ददृशुः कश्चिन्महात्मानं तपस्विनम् । ते तमूचुरनेकस्तं किमिच्छसि वृणुष्व तत् ॥ देव्यागमोत्सवे ह्यस्मिन् देयं यस्य यदीप्सितम् । ततस्तपस्वी हृष्टात्मा तान् प्रणम्य कृताञ्जलिः । तस्याः पुण्यजलस्नानादहं प्राप्स्यामि धन्यताम् ॥ कृष्णं कृष्णां च तां प्राह सह्याद्रिं वत्स्यथामरैः । देव्यागममिमं ज्ञात्वा समाराधयितुं शिवम् ॥ मुक्तिः प्रवर्ततामेषा साक्षाद्विष्णुमया त्विह । तस्मिन् कृष्णाजले स्नानादहं प्राप्स्यामि धन्यताम् ॥ मान्यतां चापि लोकेस्मिन् तीर्थमातुर्हि गौरवात् । तच्छ्रुत्वा हर्षितैर्देवैर्वीक्षिता च महानदी ॥ एवमस्तु गिरिश्रेष्ठ त्वत्तस्सम्प्रभवाम्यहम् । सुता तव भविष्यामि सह्यजेत्यपि विश्रुता ॥ एतच्च मे प्रियतरं कीर्त्यं नाम भविष्यति । सद्यस्त्वस्यां मदनुजास्सर्वनद्युत्तमोत्तमाः ॥ त्वत्त एव जनिष्यन्ति वरान्मे भूधरोत्तम । ईश्वर उवाच । एवमस्मिन् वरे दत्ते सहसा विस्मयं ययुः । भक्तवत्सलतां दृष्ट्वा देव्या विष्णोरिवामराः ॥ सोऽपि प्रसीद चेत्युक्त्वा प्रणम्य मुदितो गिरिः । कृष्णामादाय तैर्देवैस्सहितस्स्वपदं ययौ ॥ नरो नारायणश्चापि हरिश्चापि समागताः । अन्ये च तत्र तत्रस्थाः सिद्धविद्याधरोरगाः ॥ तदा सह्यगिरौ तस्थुः भुवनानि चतुर्दश । समेतान्यतिहर्षाच्च द्रष्टुं कृष्णा महोत्सवम् ॥ कृष्णां प्रशंस्य तां हर्षादृषिणां पितृणां तथा । सुराणाञ्च तदा वाचः तत्र शुश्रिविरे शुभाः ॥ अहो कृतार्थामनुजा ह्येषा कृष्णाखिलेष्टदा । कामधेनुस्समायाता भूलोकालङ्कृतिश्शुभा ॥ वयं च धन्या मनुजैः कृष्णायामनुतर्पिताः । हव्यकव्यैस्सुपूजाभिः प्राप्स्यामो निर्वृतिं पराम् ॥ लभ्यते सकृतदप्यत्र यदि कृष्णाजलाञ्जलिः ॥ तर्हि नो नित्यतृप्तानां स्वधया सुधया च किम् । अहो स्वलङ्कृता पथ्वीः सुपुरा च भविष्यति ॥ प्रवाहेणामलेनास्यास्सर्वामङ्गलहारिणा । सभाग्यास्ते नरा लोके ते च देशाश्शुभोदयाः ॥ तान्येव पुण्यक्षेत्राणि यत्र कृष्णा वहिष्यति । स्वर्गं विस्तारमेष्यन्ति सङ्कोचं नरकाणि तु । इयं स्वर्गस्य निश्रेणी सुलभास्त इतः परम् ॥ भविष्यद्देहबन्धो नः कृष्णातीरे तु सर्वदा । सत्त्वेन जङ्गमत्वेन स्थावरत्वेन वास्तु नः ॥ ईश्वर उवाच । इत्थं हर्षात्प्रजल्पन्तस्सर्वे तस्थुस्सुरादयः । स्तुवन्तश्चर्षयो देवीं गायन्तश्चापि किन्नराः ॥ रत्नैः पुष्पैर्धनैर्दिव्यैस्सर्वेषामथ सोद्रिराट् । तेषां चक्रे महापूजां कृष्णायाश्च विशेषतः ॥ अथ स्वयं जगन्नाथो विष्णुः कृष्णां प्रहर्षयन् । शृण्वतां सर्वदेवानां प्राह वीक्ष्य च तं गिरिम् ॥ श्रीभगवानुवाच । अहमत्र निवत्स्यामि श्वेताश्वत्थवपुस्सदा । मत्पादनिस्सृता देवी नदी पुण्यजला भवेत् ॥ इत्युक्त्वा भगवान् विष्णुः श्वेताश्वत्थोभवत्स्वयम् । तन्मूलस्था च सा देवी तोयपूर्णाभवत्क्षणात् ॥ ततो जय जयेत्युच्चैः स्तुवत्सु विबुधादिषु । हर्षान्नर्तत्सु मुनिष्वपससार महानदी ॥ देवदुन्दुभयो नेदुः पुष्पाणि मुमुचुर्घनाः । गन्धर्वाद्याः जगुर्हर्षात्कृष्णायात्र महोत्सवे ॥ सोऽथ कृष्णां मुनिर्देवीं प्रकर्षणपरो मुदा । मुनिसङ्घवृतः श्रीमानन्ये त्वनुययुस्सुराः । इति जगदघनाशनाय कृष्णा धवलवपुर्धरिणीं विदूषयन्ती । त्रिभुवनदुरितानि तर्जयन्ती स्वनिजजलेन जगाम पूर्वमब्धिम् ॥ अधर्मा राक्षसा घोरास्सर्वाणि दुरितानि च । दौर्मनस्यं परं प्रापुः पुण्यनद्यास्समागमात् ॥ धर्मस्सकामो विप्राश्च देवा गावश्च सम्पदः । प्रहर्षं परमं प्रापुर्भुवि देवीसमागमात् ॥ यदा कृष्णा भुवं याता तदा भवति पुत्रिका । अधर्मवृद्धिः पूर्वेषां विरुद्धा लोकनाशिनी ॥ युक्तो युगक्रमो लोके वाघवृद्ध्या विपर्ययः । महानद्याः प्रभावेन यावत्कल्पविकल्पनात् ॥ विकल्मषा जगन्माता सर्वपुण्यमया शुभा । तदा त्वतीव पुण्यानि तीर्थाख्येत्र पदे पदे ॥ यथा सर्वेषु वेदेषु पुण्या ऋग्वेदसंहिता । यथा त्वतीव पुण्यानि तत्र सूक्तानि वै पृथक् ॥ तथान्यां पुण्यनद्यां च पुण्यतीर्थानि सन्ति वै । तेषां माहात्म्यमतुलमनन्तं गुह्यमुत्तमम् ॥ एवं सङ्क्षेपतः प्रोक्तं देव्या माहात्म्यमीदृशम् । सविस्तरन्तु तत्त्वेन विद्धि त्वं मदनुग्रहात् ॥ मुनिभ्यो वद वत्सैतज्जगतां हितकाम्यया । तीर्थानि चात्र गुह्यानि मत्प्रसादाद्वदिष्यसि ॥ नारद उवाच । इत्युक्तोनुगृहीतश्च स्कन्दो देवेन शम्भुना । प्रणम्य हृष्टः प्रययौ स्वार्थाय मुनिभिस्सह ॥ सोथाब्रवीन्मुनिभ्यस्तन्माहात्म्यं सर्वगुह्यवित् । सह्यात्प्रभृति तीर्थानि यावत्सागरसङ्गमम् ॥ तानि वक्ष्याम्यहं वोऽद्य शृणुध्वं मुनिसत्तमाः । तीर्थानि सर्वगुह्यानि स्कन्दं नत्वा जगद्गुरुम् ॥ यश्चेमं सम्भवं देव्या कृष्णेनानयनं महत् । यः पठेदिह पूतात्मा स याति परमं पदम् ॥ श्रीकृष्णवेण्यागमनं मुनीड्यं साक्षाच्छिवोक्तं परमं पवित्रम् । शृण्वन्नवाप्नोति सुदीर्घमायुरारोग्यमैश्वर्यमतोपि मुक्तिम् ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये श्रीकृष्णागमनं नाम तृतीयोध्यायः ॥
नारद उवाच । तीर्थानि कृष्णवेण्यां तु यान्यनन्तानि द्विजोत्तम । प्राधान्याद्धि प्रवक्ष्यामि गुह्याद्गुह्यतमानि वः । सह्याद्रेरुत्तरं शृङ्गं स च ब्रह्मगिरिः स्मृतः ॥ यत्र ब्रह्मा तपः कृत्वा प्रापद्राज्यपदं हरेः ॥ तस्माद्दक्षिणतो विप्रा रम्यो वेदगिरिः स्मृतः । यत्र वेदास्सहाङ्गैश्च मूर्तिमन्तस्सहासते । तयोर्मध्ये महातीर्थपुण्यं मामकं स्मृतम् । यत्रामलकवृक्षस्य पुण्यैरेव प्रदृश्यते । तस्य मूलात्समुद्भूता वेणीनाम महानदी । यस्मिन् प्रदेशेवाश्वत्थमूलात्कृष्णासमुद्गता । तत्रादौ विष्णुतीर्थं तत्पापिनामतिदुर्लभम् । तत्र स्नात्वा सकृन्मर्त्यस्सारूप्यं लभते हरेः । अमावास्या गुरोर्वारे तत्स्नानं मुक्तिसाधनम् । दृष्ट्वापि सकृन्मर्त्यः कृतकृत्यो न संशयः । ततः क्रमाद्रुद्रतीर्थं ब्रह्मतीर्थं च दुर्लभम् । तत्रस्नात्वा वसेत्कल्पं पदे रुद्रविरिञ्चयोः । ततश्चयोगो वेण्याश्च सर्वसिद्धिकरो नृणाम् । येनेयं सर्वलोकेषु कृष्णवेणीति गीयते । कृष्णाज्ञया जगच्छान्त्यै ब्रह्मणा निर्मिता शुभा । वेणी च कृष्णया युक्ता महतीं ख्यातिमागताः ॥ ततः ककुद्मिनी सङ्गे कृत्वास्मिन् वारुणं जपम् । गायत्र्यष्टशतं वापि मुच्यते सर्वपातकैः । शिलीदूतं महाकायं राक्षसं दुष्टचेष्टिम् । तीर्थधाराभिरुग्राभिः कलिना प्रेषितं द्विजाः ॥ यत्र निर्जरतां यातं तत्र तीर्थं महाफलम् । विहङ्गं नाम लोकेस्मिन् तीर्थानामुत्तमोत्तमम् ॥ यत्र तार्क्ष्यस्तपस्तप्त्वा लेभे सर्वमनोरथान् । तत्तीर्थं शम्भुसान्निध्यात्पवित्रं पापनाशनम् ॥ यत्र जातिस्मरस्स्नात्वा विहगस्सर्वमाप्तवान् । यत्रास्ते शङ्करस्साक्षात्स्वयम्भूर्हितकाम्यया ॥ कृष्णायां यत्र सम्भूतो भैरवो भीमरूपधृत् । तत्क्षेत्रपतिसान्निध्यात्सिद्धक्षेत्रमुदाहृतम् ॥ तत्रस्नात्वा तु यः पश्येन्मौनीक्षेत्राधिसंहरम् । सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ मलापहारतोयाख्या कृष्णा पीतेन चाम्भसा । यत्र नागेश्वरो देवस्सम्भूतो भक्तवत्सलः ॥ तं देवं वासुकिस्साक्षात्सर्वदैवानुतिष्ठति । सुधियां नष्टपापानां सनागस्त्वक्षिगोचरः ॥ तत्र तच्च महास्थानं सर्वसिद्धिकरं नृणाम् । कुम्भेश्वरं तथोदीच्यां स्नात्वा देवं समर्चयेत् । सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥ ततः पौलस्त्यतीर्थं च पौलस्त्येशस्तथा हरः । तत्र स्नात्वा तमर्भ्यच्य सर्वान्कामानुवाप्नुयात् ॥ मार्कण्डेयस्ततः प्राच्यां तपः कुर्वन् महामतिः । आरिराधयिषुः देवीं तुष्टाव परया गिरा ॥ मार्कण्डेय उवाच । प्रणतोस्मि जगन्मातर्जगच्छान्त्यै भुवं गताम् । तपसा ब्रह्मणा लक्ष्मी कृष्णानीतां हरेस्तनु ॥ लसत्तरङ्गमालाभिस्स्वर्गसोपानपङ्क्तिवत् । या भाति वितता भूमौ भाति हुङ्कुर्वती वया ॥ रोषाज्जगदघौघानां तज्जनाय जगद्गृहाम् । आवर्तनाभिः पद्माक्षी शुभ्राङ्गी फेनहारिणी ॥ ब्रह्मप्रिया ज्ञानकरी साक्षाद्भाति सरस्वती । अलङ्कृतिः प्रिया विष्णोः जगद्धात्री धृताम्बुजा । चकास्ति या स्वयं लक्ष्मीः जगद्दुर्गतिनाशिनी ॥ बहुधा शम्भुसान्निध्यात्सदा दर्शितगौरवा । सौभाग्यदायिनी गौरी या भाति जगदम्बिका ॥ लसत्पत्रिकलालापैर्जनानाह्वयतीव या । मा भैष्ट मामाश्रयत ददामीष्टान्वरानहम् ॥ तटवृक्षपरिभ्रष्टनानापुष्पफलान्विता । या भाति कल्पवल्लीव सर्वाभीष्टप्रदां नृणाम् ॥ महात्मनां या शरणं पापिनामपि सर्वदा । विचित्रगुणमाहात्म्यां तां नतोस्मि गरीयसीम् ॥ त्यक्त्वा यस्स्वमयो याति रसस्पर्शात्सुवर्णताम् । एवं कृष्णाजलस्पर्शात्पापं सद्योपि पुण्यताम् ॥ येयं दक्षिणगङ्गेति गीयते देवकिन्नरैः । येयं दक्षिणतो गङ्गा सा देवी मे प्रसीदतु ॥ एवं संस्तूयमाना सा निर्गत्य जलमध्यतः । प्रसन्ना मुनिवर्यं तं वरदास्मीत्यभाषत ॥ सोपि मौनी प्रहृष्टात्मा प्राञ्जलिः परमेश्वरीम् । प्राह धन्योस्म्यहं देवि त्वां दृष्ट्वा भगवत्तनुम् ॥ दीर्घमायुर्मया लब्धं विष्णुमाराध्य वै पुरा । विना च भगवद्भक्त्या तद्व्यर्थमिति मे मतिः ॥ तस्मादात्मनि शिवे गोविन्दे च जगन्मये । त्वयि प्रकृतिमय्यां च भक्तिस्स्यात्सार्वकालिकी ॥ एवमस्तु मुनिश्रेष्ठयश्चस्तोष्येत्सदैव माम् । स्नात्वा सोपि च दीर्घायुर्भक्तिरस्मासु स्याद्दृढा ॥ नारद उवाच । इत्युक्त्वान्तर्हिता देवी मुनिश्चात्रावसच्चिरम् । मार्कण्डेयार्चितं तीर्थं तेनैतत्परमं भुवि ॥ मार्कण्डेयाभिधश्चेशस्तत्रसर्ववरप्रदः । तत्र स्नात्वा तमभ्यर्च्य मुक्तिमाप्नोति मानवः ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये आनन्दादितीर्थमहिमानाम चतुर्थोध्यायः ॥
नारद उवाच । ततः परं विशालादिनदीपञ्चकमागतम् । कृष्णां द्रष्टुं ततो देवीं देवाश्च भुवमागताः ॥ देशस्यातीव रम्यत्वाद्देवाः तत्रैव तेऽवसन् । पुण्यं पवित्रमायुष्यं आरोग्यादिप्रदं शुभम् । तत्स्नानं कीर्तिमज्ज्ज्ञातं सर्वदेवनिवासतः ॥ तत्रस्थं शङ्करः प्राचीं देवासुरमुनिस्तुतः । निवसन् तत्रवैक्लेशात्सर्वस्मान्मुच्यतेजनः । ॥ कुब्जेश्ववरादितीर्थवर्णनम् ॥ कुब्जेश्वरं यदा ज्ञातं सर्वकामफलप्रदम् । तत्र तीरे नरस्स्नात्वा दृष्ट्वा कुब्जेश्वरं हरम् ॥ मुच्यते सर्वपापेभ्यः शर्वलोकं सगच्छति । महातीर्थं ततःपूर्वं बाहुमात्रप्रमाणतः । शुक्लीभवन्ति विन्यस्ता यत्र कृष्णास्तिलाक्षताः ॥ तत्र स्नात्वा तु यन्मौनी नदीमध्ये सुधीर्नरः । देवान् पश्यत्यसौ सर्वान्प्रत्येकं दिव्यचक्षुषा ॥ महत्क्षेत्रं नदीसङ्गः तत्र स्नानं महाफलम् । मासं स्नात्वा तु तत्तीर्थे ब्रह्महत्यां व्यपोहति ॥ ततोघहारी सङ्गस्स्यात्सर्वजन्माघनाशनम् । प्रायश्चित्तार्थिनां तद्धि परमं शरणं विदुः ॥ तत्र सङ्गे द्विस्स्नात्वा गायत्रीं लक्षसङ्ख्यया । जपन् कामानवाप्नोति मुक्तिं चाथ न संशयः ॥ सप्तसागरसङ्गस्तु ततस्तीर्थं सुदुर्लभम् । यत्र देवीं स्वयं द्रष्टुमागतास्सप्तसागराः ॥ समस्तसागरस्नानफलं तत्स्नानतो भवेत् । तत्रैवपर्वणि स्नात्वा प्राप्नोति परमं पदम् ॥ अपवर्गफलं तेस्युर्वर्जयित्वेतरार्थिताम् । वीतरागोनिराहारस्तपस्तेपेत्र कौशिकः । कौशिकी यत्र संयुक्तो कृष्णया सरिदुत्तमा ॥ तत्स्नानं कौशिकं ज्ञेयमचिरान्मुक्तिसाधनम् । या गतिर्योगयुक्तानां मुनीनामूर्ध्वरेतसाम् । सा गतिस्सर्वजन्तूनां कृष्णातीरनिवासिनाम् ॥ या गतिर्यागयुक्तस्य वाराणस्यां मृतस्य च । सा गतिस्स्नानमात्रेण कृष्णायां हरिवासरे ॥ कृष्णातरङ्गसम्भूतपवनस्पर्शमात्रतः । निर्धूतपातकास्सर्वे जना विष्णुपदं ययुः ॥ ततस्सप्तकुलोद्धारं प्राह स्कन्दो महामतिः । तत्र स्नात्वा तमभ्यर्च्य नदीमध्यगतं हरम् ॥ तारयेत्सप्त वै पूर्वान् तारयेत्सप्त चापरान् । ततस्सप्तकुलोद्धारं तीर्थमेतत्प्रचक्षते । शौनकस्य मखं यत्र प्राप्ता विग्रहिणस्सुराः । कुलमुद्धार्यते यत्र तत्तीर्थं कुलतारकम् । तत्र स्नात्वा स्वयम्भूतं शम्भुभूमिविधारकम् ॥ अर्चयित्वा समाप्नोति गतिमत्यन्तदुर्लभाम् । ततश्च भारतं तीर्थं चक्रे यत्र मखं द्विजाः ॥ दौष्यन्तिर्भरतस्तत्र स्नानाल्लक्ष्मीप्रवर्धनम् । ततःपूर्वमुखे तस्य स्थानं मुनिगणैर्वृतम् ॥ यैरदृष्टा पुनः कृष्णा तस्थौ तद्गतगौः क्षणम् । ततस्ते मुनयो द्रष्टुं जगन्मायाम् उपागताः । मधुवृक्षवितानानि गृहीत्वार्चयितुं ययुः ॥ तेऽन्योन्यमूचुः प्रत्यक्षमदृष्ट्वास्यास्तनुं शुभाम् । पूजयामः कथं देवीमिति तां तुष्टुवुर्मुदा ॥ ऋषय ऊचुः । त्वं भक्तवत्सलेत्येवं सर्वलोकेषु गीयसे । भक्त्यासमुपयातानां व्रजनो दृष्टिगोचरम् ॥ ससम्भ्रमागताह्यत्र यत्तिष्ठस्याश्रमान्तिके । तद्विजाश्रमरक्षार्थमहोब्रह्मण्यता तव ॥ जगद्धितामृतमयी साक्षाद्रत्नाम्बुमय्यसि । अपि चामरतां यान्ति मर्त्यास्त्वत्सेवकास्ततः ॥ सुरेभ्यः कलशेनैवमितं धातामृतं ददौ । मर्त्येभ्यस्त्वति कारुण्यात्त्वं महामृतवाहिनी ॥ धर्मार्थिनां मुमुक्षूणां अर्थकामावपीच्छताम् । सुखोपायपदं त्वं हि सर्वे तेनैव कल्पिताः ॥ शरणं सर्ववर्णानां समस्ताश्रमिणामपि । सर्वजीवशरण्यां त्वां केमर्त्यानोपयान्त्यहो ॥ हंसा न केवलममी जलकाङ्क्षिण स्त्वामायान्ति दूरगहनाद्भुवि तोयकामाः । आयान्त्यहो परमहंस वराश्चदेवि त्यक्तस्पृहाः अपि सुखादिषु मोक्षकामाः ॥ जन्तूनामखिलाघघ्नी प्रयाणं तु पदे पदे । ज्योतिष्टोमफलं दद्याद्यतस्वां नोपयान्त्यहो ॥ यद्यप्येकदिने सम्यक्त्वत्तीरेनुष्ठितं जनैः । स्वकर्मभक्त्यासततमच्छिद्रं तैः कृतं भवेत् ॥ ब्रह्मवर्चसकामास्त्वामर्थविद्यार्थिनस्तथा । आयान्ति विप्राभूपाश्च तेजोराज्यजयार्थिनः ॥ धनधान्यार्थिनो वैश्या अन्येचोच्चावचा जनाः । स्वर्गकामाखिलाद्यर्थं कृतार्थास्त्वां व्रजन्ति तत् ॥ देवदैत्याप्सरस्सिद्धा नागगन्धर्वकिन्नराः । स्वस्वकामार्थमायान्ति त्वामेवजननीमिव ॥ त्वन्मूर्तिर्धवलादीर्घाकुटिलाभाति दूरतः । आगतस्यभुवन्द्रष्टुं शेषस्येवाकृतिश्शुभा ॥ यस्यास्तु माहात्म्यमहो शिवोपि न सर्वमेतावदिति ब्रवीति । सङ्क्षिप्तमेवेत्यवदद्गुहाय तां त्वां नमो देवि कथं मनुष्याः ॥ एवं सदानन्दगुणां वरेण्यामनन्तमूर्तिं शरणं गता स्मः । गृहाणपूजां स्वतनुं प्रसन्नां प्रदर्शयोर्व्याङ्कुरु नः कृतार्थान् ॥ नारद उवाच । एवं संस्तूयमानासा जलमध्यात्समुद्गता । प्रसन्नमूर्तिर्दिव्याङ्गी द्योतयन्ती दिशो दश ॥ शङ्खचक्रगदापद्मधारिणीं परमेश्वरीं । दृष्ट्वा जयजयैत्युच्चैस्तुवन्तः प्रणता मुहुः ॥ ततस्तैरर्पितां पूजां गृहीत्वा प्रणया । च्छुभां दिष्टमिष्टं वरं तेषां ददौ देवी पृथक्पृथक् ॥ सबालवृद्धस्त्रीकैस्तैरदृष्टार्धिभिराश्रये चिरं । नानावरान् दत्वा ययौ प्रीत्या प्रसादिता ॥ ततस्तन्मध्यतः कृत्वा द्विधा याता महानदी । संयुक्ता पावनीयस्मादाश्रमस्थैस्तथास्थितम् ॥ मध्वादिवस्तुभिर्यस्मात्पूजितातैर्महानदी । तस्मान्मधुपुरं नाम तत्तीर्थं परमं विदुः ॥ तत्र तीर्थे नरास्स्नात्वा यज्ञानां तपसः फलम् । सर्वेषां प्राप्नुयुस्सद्यो देवी चास्य वरप्रदा ॥ तयोः प्रवाहयोस्सङ्गः तीर्थमुत्तरतश्शुभम् । देवह्रदं नाम यत्र जलक्रीडारतास्सुराः ॥ मासं तु नियतस्तत्र वसन् पश्येत्सुराङ्गनाः । ताभिः क्रीडति कामी चेदकामो मुक्तिमाप्नुयात् ॥ कङ्को नाम मुनिस्तत्र गायत्र्यैवार्चयन् हरिम् । सिद्धिं सम्प्राप्तवांस्तेन कङ्कतीर्थमुदाहृतम् ॥ तत्राश्चर्यं क्षणं वृद्धाः पूर्वं ते मुच्यते पुनः । योगाभ्यासपरा तस्थुः तत्स्थानं योगसिद्धिदम् ॥ शूर्पारकाख्यं तत्रैव सर्वतीर्थोत्तमोत्तमम् । तत्राद्यापि जगन्नाथः प्रातर्वसति भार्गव ॥ अस्यामाहात्म्यमतुलं वक्तुं वर्षशतैरपि । न शक्यं तद्धि परमं गुह्यं प्राक्सर्वसिद्धिदम् ॥ जम्बूतीर्थं ततः पूर्वं सिद्धिं यत्र स जाम्बवान् । जम्बूवृक्षकदम्बस्तु जम्बूस्थानं समुच्यते ॥ जम्बूतीर्थे बुधस्स्नात्वा दृष्ट्वा तत्र च शङ्करम् । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ततश्च शतलिङ्गस्य सङ्गमो मुक्तिदः स्मृतः । क्रौञ्चतीर्थं ततो यत्र सिद्धिं क्रौञ्चमुनिर्ययौ ॥ यज्ञवाटं ततःपूर्वं विदुरस्य महात्मनः । तत्र स्नात्वा नरो भक्त्या ह्यश्वमेधफलं लभेत् ॥ ततश्च षण्मुखस्साक्षात्कृष्णां द्रष्टुमुपाययौ । गौरी पश्चाद्ययौ तत्र पुत्रसन्दर्शनार्थिनी ॥ स्वयम्भूश्शङ्करश्चापि तत्र सन्निहितस्तदा । विनायकश्चतत्स्नेहात्समायातो गणैस्सह ॥ तत्रैव सन्निधिं चक्रुस्सर्वे ते स्थानगौरवात् ॥ तत्तीर्थं सर्वपापघ्नं सर्वसिद्धिप्रदं तथा । कुमारस्य प्रियं स्थानं सदा सर्वगतस्य च ॥ पापान्यत्राशु नश्यन्ति महापातकजान्यपि । इन्द्रत्वाद्याश्च सिद्ध्यन्ति कामान्मुक्तिश्चसत्तमाः ॥ तत्रस्नात्वार्चयेच्छम्भुं देवं स्कन्दं गणेश्वरम् । सर्वपापविनिर्मुक्तो गणैश्वर्यं प्रपद्यते ॥ तत्र कार्तीकमासे तु वसन्मुक्तिमवाप्नुयात् । माघे तु शिवसायुज्यं स्नात्वा प्रागुदयाद्रवेः ॥ कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् । सप्तजन्मभवेद्विप्रो धनाढ्यो वेदपारगः ॥ सकृद्यद्वा कदाचिद्वा स्नात्वा तं प्रणमेन्महान् । ब्राह्मणो जायते न्यस्मिन् जन्मन्यघयुतोपि सन् ॥ जपस्तपस्तथा दानं होमश्चाथ तिलोदकम् । तत्राक्षयफलं विप्रास्तत्तीर्थं ह्युत्तमं भुवि ॥ आदित्यहृदयं नाम तीर्थं गुह्यतमं ततः । तत्र स्नात्वा समभ्यर्च्य नदीमध्यगतं रविम् ॥ सर्वपापविशुद्धात्मा भित्वा चण्डांशुमण्डलम् । प्रयाति परमं स्थानं यद्गत्वा न निवर्तते ॥ अष्टकायास्ततस्सङ्गं सर्वपापहरं शुभम् । स्वयम्भूश्शङ्करस्तत्रसर्वधा भक्तवत्सलः ॥ वाल्मीकं तु ततः पूर्वं यत्रास्ते तपसा पुरा । विष्णुमाराध्यन्नचिराल्लेभेऽभीष्टान् परान्वरान् ॥ सर्वज्ञत्वं कवित्वं च मुक्तिं चान्ते मुनीश्वराः । तत्र स्नात्वा नरो भक्त्या प्रज्ञां मेधां विदन्ति च ॥ पुरतस्तस्य वै तीर्थं सिद्धिह्रदमुदाहृतम् । यत्र सीतां सुतां लेभे लक्ष्मीमाराध्य मैथिलः ॥ तत्र स्नात्वा नरो भक्त्या नारी वायतमानसा । सौभाग्यं परमं लब्ध्वा प्राप्नोति परमां श्रियम् ॥ मुद्गलस्य ततस्तीर्थं पुण्यं स्कन्देन कीर्तितम् । तत्र स्नात्वा नरो भक्त्या पूतस्स्वमर्गवाप्नुयात् ॥ ततस्स्कन्दपुरं नाम तीर्थस्नानं महाफलम् । शिलायां दृश्यते यत्र पुण्यं रुद्रपदद्वयम् ॥ सर्वपापविनिर्मुक्तो रुद्रलोके महीयते । कुमारालयमारभ्य यावदेतद्विजोत्तमाः ॥ पृथुनामानि तीर्थानां पुण्यानां सन्ति कोटयः । तीरद्वये तथा मध्ये यत्र तत्र पदे पदे ॥ यत्स्पर्शपुण्योहरहः प्रवृद्धं पापं जनानां विधुनोति वायुः । ध्वान्तं यथार्को दयतां विवृद्धं सविस्तराद्वर्णयितुं क ईशः ॥ यदम्बुपानमधिकं सोमपानाद्विजन्मनां । यत्तीरे वसनं मुक्त्यै कृष्णवेणीं नतोस्मि ताम् ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये कृष्णानद्युभयतटतीर्थ- वर्णनं नाम पञ्चमोध्यायः ॥
त्रयोदशतीर्थप्रवचनघट्टः । नारद उवाच । त्रयोदशास्या तीर्थानि कृष्णाया दक्षिणे तटे । त्रियोजनान्तरस्थानि दुर्लभान्यमहात्मनाम् ॥ तेषामपि महातीर्थं सङ्गमाख्यं विराजते । व्यक्तामुक्तावली मध्ये माणिक्यमिव भासुरम् ॥ तीर्थस्य शतं पश्चात्पुरस्ताच्चद्विजोत्तमाः । येषां प्रभावमतुलं रहसि प्राह षण्मुखः ॥ यस्त्रयोदशतीर्थेषु स्नायादघयुतो जनः । स्वयमिच्छन्ति तं स्वच्छं धर्मकामार्थसम्पदः ॥ यस्त्रयोदशतीर्थेषु त्रयोदशजलाञ्जलीन् । दद्यात्पितृभ्यस्तेनेष्टास्ते युगानि त्रयोदश ॥ येषां माहात्म्यमाश्चर्यं शंसन्ति त्रिदशा दिवि । पितृलोके च पितरश्श्रुतमात्राघनाशनम् ॥ देवाद्याः प्रायशोत्रैव स्नानदानजपादिभिः । लब्धवन्तो निजान् लोकान् यथान्ते दिवि कारणम् ॥ तत्स्नानमानुलोम्येन पावनं सर्वकामदम् । अप्येतत्प्रातिलोम्येन जीवन्मुक्तिप्रदं शुभम् ॥ गोपादतीर्थमारभ्य तत्र तत्रार्चयन् पितॄन् । कर्मक्षयार्थं तीर्थेषु स्नात्वा धन्यतरो भवेत् ॥ विप्रव्याधवृन्तान्तकथनम् । तत्राप्युदाहरन्तीममितिहासं पुरातनम् । पुराभूत्सुमतिर्नाम सालग्रामे द्विजोत्तमः ॥ तत्सुतं सूतिकादोषाज्जातमात्रं जहार ह । निशाचर्यतरं प्राप्य मायया बालहारिका ॥ सा यान्ति विपिने रात्रौ भीता दृष्ट्वा तपोधनम् । मन्त्रिणं भस्मदिग्धाङ्गं तत्रोत्सृज्य शिशुं ययौ ॥ अथ तं देशमायातो दुर्मुखोनाम लुब्धकः । दृष्ट्वा बालकमादाय हठान्निन्ये स्वकं गृहम् ॥ कालेन ववृधे बालो बालकैरभिरक्षितः । तत्स्वभावस्तदाचारोऽभीरान् सोजनयत्सुतान् । अज्ञातात्मस्थितिस्सोथ कदाचिन्मृगयां चरन् ॥ दष्ट्वा चोरैर्वध्यमानं कृपया मोचयद्विजम् । रक्षितस्तेन विप्रर्षिः कण्वाख्यो नाम सोब्रवीत् । कोस्यप्रत्युपकारस्स्यादिति दध्यौ क्षणं सुधीः ॥ विप्रव्याधस्य वृत्तान्तं विदित्वा सोऽतिविस्मितः । त्यज भावमिमं शीघ्रं हतस्स्वामौघविच्युतिः । उक्त्वेतिपूर्वस्मरणं ददौ ज्ञानं सदात्मनः । ज्ञात्वा सोऽखिलवृत्तान्तं सहसा व्याकुलोभवत् । साश्रुभिः प्लावितो भीतस्तं प्रणम्याह भीतवत् । स्वामिन् कथय कारुण्यात्का मे स्यादिह निष्कृतिः । कण्व उवाच ॥ हे व्याधपुत्र सन्त्येते प्रायश्चित्तं न च क्षमम् । तस्मात्त्वं तीर्थचरणो भव निर्याहि मा चिरम् ॥ यदलभ्यं मखैर्दानैस्तपस्वाध्याय संयमैः । तल्लभ्यं हि क्षणात्तीर्थैरचिन्त्य महिमान्वितैः ॥ तत्राप्यतिरहस्यानि वक्ष्ये तीर्थानि यैर्भवान् । सद्य एव दिवं पूतस्सशरीरो गमिष्यसि ॥ अस्ति दक्षिणदिग्भागे कृष्णाख्या सह्यजा नदी । तस्या मलापहारिण्या सङ्गस्त्रैलोक्यविश्रुतः । तस्मिन् प्रदेशे तीर्थानि सुपुण्यानि त्रयोदश ॥ तत्सङ्गात्परतः क्रोशे प्राक्क्रोशे सन्ति तत्र वा । तेषु स्नात्वानुलोम्येन मोक्ष्यसे सर्वकिल्बिषैः ॥ प्रातिलोम्येन ब्रह्मैव जीवन्मुक्तोभविष्यसि । इत्युक्त्वानुग्रहं तस्मिन् कृत्वा द्रुतगतिं मुनिः । एकाहेनैव तत्स्नानं सिद्ध्येदिति यथोदितम् । मुनिं व्याधोथ तं नत्वा तत्प्रसादबलाद्दृतम् । कृष्णां प्राप्यातिदूरस्थां स तु तीर्थेषु तेषु च ॥ क्रमात्स्नात्वानुलोम्येन प्रातिलोम्यमगात्पुनः । शुक्लतीर्थे ततस्स्नात्वा वीतपापस्समाहितः ॥ विप्रव्याधोपि पूतात्मा सशरीरो दिवं ययौ । विमानेनार्कवर्णेन सुरस्थितैश्च सत्कृतः ॥ अतीत्य ब्रह्मणो लोकं विष्णुलोकमितो गतः । तच्छ्रुत्वा तीर्थमाहात्म्यं सिद्धगन्धर्वचारणाः ॥ विस्मयं परमं प्रापुः प्रशशंसुर्महानदीम् । नैतच्चित्रमिति प्रोचुस्तत्वज्ञास्तु महर्षयः ॥ कृष्णं च कृष्णवेणीं च श्रितानां किन्नु दुर्लभम् । श्रीवेणीप्लवनाय भूमौ वाञ्छन्ति देवाः खलु मर्त्यजन्म । तस्याः प्रभावं सकलं प्रवक्तुं शिवो हरिर्वादिभवो गुहो वा ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये विप्रव्याधवृत्तान्तो नाम षष्ठोध्यायः ॥
गोपादतीर्थ माहात्म्यम् ऋषय ऊचुः । अहोमाहात्म्यमेतेषां तीर्थानां विस्मयावहम् । स्वामिन् कथय नामानि तत्प्रभावं क्रमाद्वद ॥ नारद उवाच । पश्चिमे प्रथमं तीर्थं गोपादमिति विश्रुतम् । तत्सहस्रविस्तारबहुगोपादचिह्नितम् ॥ मर्यादार्थं च तस्य प्राग्गोपादान्ते शिवस्स्थितः । लिङ्गभूतः स्वयम्भूतो गोपादेशोम्बिकासुहृत् । सुरभिस्सा जगन्माता समभ्यर्च्य च शङ्करम् । गवामैश्वर्यमासाद्य तीर्थस्यापि ददौ वरान् । कामधेनुरुवाच । योत्र स्नात्वा नदीमध्ये गोपादेशं स्पृशेन्नरः । गोवधान्मुच्यते घोरादुपवासात्त्रिभिर्दिनैः ॥ लोकानां मातरो गावस्तासां द्रोहं चरन्ति ये । न तेषां निष्कृतिः काचिद्विना गोपादसेवनात् ॥ ताडयन्ति शपं त्वेताः क्लेशयन्त्यतिकर्मणा । निरुद्ध्यन्ति भवेत्तेषामत्र स्नानं विशोधनम् ॥ योत्र स्नात्वार्चयेल्लिङ्गं मासमेकं जितेन्द्रियः । इहैश्वर्यं समायाति प्रेत्य गोलोकमश्नुते ॥ स्वपितृभ्यस्तु यो दद्यात्तिलमिश्रान् जलाञ्जलीन् । कामधेनुर्दुहेत्तांस्तु तेषामाशाप्रपूरणी ॥ नारद उवाच । इति दत्वा वरान् देवी बहून् स्वं गोकुलम् । ययौ पर्वस्वद्यापि चायाति तेनेदं गोपदाङ्कितम् ॥ तत्र तावन्महाभक्त्या स्नात्वाभ्यर्च्य पित्रून् सुरान् । शिवं ततो नमस्कुर्यादेभ्यो मन्त्रमिमं जपेत् ॥ नमो गोभ्यः श्रीमतीभ्यस्सैरभेयीभ्य एव च । नमो ब्रह्मप्रसूताभ्यः पुत्रीभ्योपि नमो नमः ॥ एवं कृत्वा सकृन्मर्त्यः पूतो ब्रह्मपदं ययौ । शृत्वैतद्दूरसंस्थोपि गोप्रदानफलं लभेत् ॥ शृणुयात्तच्चमाहात्म्यं तद्गृहे सम्पदस्सदा । न क्षीयन्ते च चत्वारि क्षीरं दधि घृतं मधु ॥ इति श्री स्कान्दपुराणे कृष्णवेणीमाहात्म्ये गोपादतीर्थ वैभवं नाम सप्तमोऽध्यायः ॥
अनन्ततीर्थ माहात्म्यम् नारद उवाच । तस्मात्पूर्वमनन्ताख्यं पञ्चाशद्धनुरायुतम् । तीर्थं यावत्सरिन्मध्येलिङ्गं शेषफणान्वितम् ॥ तत्रानन्तस्तपस्तेपे काद्रवेयो महामतिः । उरगो गरुडाद्भीतो हरेहरहरेति च ॥ अथ कालेन सुप्रीतौ यश्शौरिर्जगताम्पतिः । समागम्याभयं दत्वा तं चक्राते महामतिम् ॥ शय्याभव ममेत्युक्त्वा विष्णुस्तस्य फणे स्थितः । उपाविशत्सुखं तस्मिन् दयया सह शम्भुना ॥ प्रसन्नप्रभुसंस्पर्शात्सोपि नष्टतपःश्रमः । जहर्ष धन्यतां यामि प्रसीद इति चाब्रवीत् ॥ तावद्ब्रह्मादयो देवा वेदास्तीर्थानि चर्षयः । समेत्य तुष्टुवुस्सर्वे हर्षाद्देवं फणस्थितम् ॥ फणिशय्यासमारूढं लक्ष्मीशं सह शम्भुना । चक्रुर्महोत्सवं सिद्धागन्धर्वाः पुष्पवर्षिणः ॥ ततोनन्तो वरान् वव्रे देवं देवौघसन्निधौ । मन्नाम्नेदं भवेत्तीर्थमनन्तं सर्वकामदम् ॥ तीर्थानि चामराणां च देवानां च तथैव हि । योगिनां चापि कलयो मम चास्त्वत्र सन्निधौ ॥ श्रीविष्णुरुवाच । अनन्ततीर्थमित्येतत्कीर्त्यं नाम भविष्यति । स्नानदानजपादीनामनन्तफलदं सदा ॥ अनन्तस्त्वमनन्तोहमनन्तोयं सदाशिवः । तीर्थानि देवा वेदाश्च सर्वेनन्ताः स्थिता इह ॥ श्रीमहादेव उवाच । योत्र स्नात्वा फणस्थानं समधीते स्तुतिं गवाम् । अर्चयेद्गणपो भूत्वा स मया सह मोदते ॥ ब्रह्मादिदेवाः अस्माकं सन्निधिश्चास्तु सन्निधौ देवदेवयोः । प्रियाय नागराजस्य योभूच्छय्या जगत्पतेः ॥ नारद उवाच । इत्थं सम्भाष्य ते सर्वे तत्रैवान्तर्दधुस्तदा । सदा सन्निहिताश्चात्र तेनेदं तीर्थमुत्तमम् ॥ तदाप्रभृति लोकानां ज्ञापनार्थं जलान्तिके । अद्यापि दृश्यते लिङ्गं फणे हरिहरात्मकम् ॥ पञ्चान्यानि च लिङ्गानि सिद्धवन्द्यानि सन्ति हि । तत्र पुण्यानि दृश्यानि शिलानामन्तरान्तरे ॥ तत्र स्नानं च दानं च तपश्श्राद्धं तिलोदकम् । अनन्तगुणतां याति सदानन्तप्रसादतः । तस्मात्स्नात्वातिनियतो लिङ्गं हरिहरात्मकम् ॥ शेषं च भक्त्या सम्पूज्य प्रणमेद्यदि वै जपन् । योनन्तो धरणीं धत्ते योनन्तस्य फणे स्थितः ॥ येनन्तस्थाश्च विश्वांस्त्रीननन्तान् प्रणतोस्मि तान् । एवं कृत्वा सकृद्वापि शिवलोके महीयते । पञ्चम्यां कुर्वतश्चैव नास्ति सर्पभयं क्वचित् ॥ क्षीरेण स्नपयेद्देवं पञ्चमीषु च पञ्चसु । यत्काम्यते तदाप्नोति निष्कामः परमं पदम् ॥ आश्लेषा सु चतुर्दश्यां पञ्चम्येकादशीषु च । अष्टम्यां चैव यः स्नायान्नास्ति तस्येह दुर्लभम् ॥ योनन्ततीर्थस्य शृणोति दिव्यम् माहात्म्यमेतन्मुनिसङ्घगीतम् । स सर्वरोगादिभयव्यपेतः कुलाभिवृद्धिं लभते यशश्च ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये अनन्ततीर्थवर्णनं नामाष्टमोध्यायः ॥
सूर्यतीर्थवर्णनम् नारद उवाच । सूर्यतीर्थं ततः पूर्वमिति तीर्थविदो विदुः । धनुश्शतद्वयं यावत्सिद्धिदं सिद्धसेवितम् । तस्य पश्चिममर्यादां ज्ञापयन् लिङ्गरूपधृत् । सोमेश इति विख्यातो नदीमध्ये शिवस्थितः ॥ महर्षिर्नैधृवो नाम तत्र तप्त्वा महत्तपः । आराधयन् जगत्सूतिं सूर्यं तुष्टाव भक्तितः ॥ नैधृवः नमस्सवित्रे व्यक्ताय मूर्तये परमात्मने । सन्ध्ययोः ध्यानगम्याय शुद्धभासायते नमः । छन्दोमयाय स्वच्छन्दचारिणे चारुरोचिषे । ब्रह्माण्डगृहदीपाय सदा सत्कर्मसाक्षिणे । चक्षुषां चक्षुषे नित्यं नमोऽप्रतिमतेजसे ॥ त्वमादाय रसं भूमेः काले विसृजसि प्रभो । ओषधीस्त्वं तु पुष्णासि ताः पुष्णन्त्यखिलं जगत् । न केवलं प्रपुष्णासि क्षीणं शशिनमागतम् ॥ करोषि सर्वतः पूर्णान् भक्तांश्चापि कृतानतीन् । त्वं पूरयसि मर्त्यानां जीवनार्थं जलाशयान् ॥ निजगोभिरमर्त्यानां चन्द्राख्यं चामृतन्ददत् । ग्रहनक्षत्रतारकाचक्रं त्वं पुष्णास्यक्षरैश्शुभैः ॥ मालाकार इवाम्लानं पुष्पराशिमनुक्षणम् । त्वन्नामविभवज्ञानामज्ञानं तिमिरं यथा ॥ यथाशोषयसि ग्रीष्मे तृणानि दुरितं तथा । त्वं जलाञ्जलिभिः पूज्यो नित्याभ्युदयशालिभिः ॥ त्वं भक्तान्त्सत्स्वभावेन करोषि करुणानिधे । ब्रह्मादिदेवास्सन्ध्यानु यत्कुर्वन्ति जलाञ्जलीन् ॥ युक्तं तन्नहि पूजादि तेषां त्वदुदयं विना । यथा प्रत्यक्षदेवस्त्वमागमैरैव बोध्यसे ॥ आयुरारोग्यलक्ष्म्यादिप्रत्यक्षफलदस्तथा । त्वमेव चक्षुश्चक्षुश्च तेजश्चाप्युपकारकः ॥ बोध्यं च परमात्मेति त्वन्मयं सकलं जगत् । प्रसीद सर्वभूतात्मन् कालात्मन् सर्वतोमुख ॥ जन्ममृत्युजराव्याधिसंसारभयनाशक ॥ नारद उवाच । एवं संस्तुवतस्तस्य भगवान् भक्तवत्सलः । दिव्याकृतिः पुरस्तस्थावागत्य निजमण्डलात् ॥ तं दृष्ट्वा सहसा देवं हृष्टमूर्तिश्च नैधृवः । पपात दण्डवद्भूमौ प्रसीदेति वदन्मुहुः । तमुत्थाप्याह देवेशो वरं वरय सुव्रत । प्रीतोस्मि भक्त्या तपसा स्तोत्रेण च महामते ॥ नैधृवः तुष्टोसि यदि सर्वेश सर्वरोगहरो ह्यसि । ज्ञानभक्तिं च मे देहि भवरोगघ्नमौषधम् । श्रीसूर्यनारायणः यदुक्तं तत्तथैवास्तु स्तोत्रेणानेन यो हि माम् । भक्त्या स्तोष्यति तस्यापि स एवास्तु नरः परः ॥ सूर्यतीर्थमिति ख्यातिमेतत्तीर्थं गमिष्यति । यत्र मद्रोचिषा ताम्रा दृश्यन्ते वीचयोखिलाः ॥ योऽत्र स्नात्वा समभ्यर्च्य सोमेशं मां च भक्तिमान् । नमस्कुर्याद्वरस्तस्मै सोस्तु यच्चान्यदीप्सितम् ॥ नारद उवाच ॥ अनुगृह्येति भगवान् तुष्टः तीर्थं च सर्वदम् । ययौ स्वमण्डलं देवः कृतार्थश्चाभवन्मुनिः ॥ तस्मात्सूर्यप्रसादेन तीर्थमेतद्धि मुक्तिदम् । सर्वकामप्रदं पुण्यं सदासेव्यं महर्षिभिः ॥ लक्षं चापि जपेद्योत्र गायत्रीं वेदमातरम् । त्वग्दोषादिमहारोगैर्मुच्यते नात्र संशयः ॥ इष्टमन्त्राश्च सिध्यन्ति तथा लक्षाच्च सुमन्त्रिताः । सौरमन्त्रास्तदर्धेन गुह्यमेतदुदाहृतम् ॥ पादं पादं सप्रणवं हंसमन्त्रं पठन् सुधीः । तस्मादर्धमथार्धं च सकलं च पुनः पुनः ॥ एवं सप्तार्घ्यदानेन सप्तजन्माघनाशनम् । पित्रून्नयेत्सूर्यलोकमात्मानं च न संशयः ॥ पिण्डांस्तिलोदकं चापि तत्र स्नात्वा ददेन्नरः । भानुवारेपि सङ्क्रान्तौ व्यतीपाते शशिक्षये ॥ योगे च षष्टिसप्तम्योस्सूर्यतीर्थे जपेदलम् । योजनो ज्ञायते पुण्यं सूर्यतीर्थं स्मरन् धिया ॥ इह भोगांश्च सुचिरं भुक्त्वा सूर्यपुरं व्रजेत् ॥ इति श्री स्कान्दपुराणे कृष्णवेणीमाहात्म्ये सूर्यतीर्थवर्णनं नाम नवमोऽध्यायः ॥
नारद उवाच । तस्मादनन्तरं सप्तकोटितीर्थं प्रचक्षते । पवित्रं परमं यस्मिन् शिलासेतुः प्रदृश्यते ॥ तत्रैव कोटिशश्चैव तीर्थानीत्यकल्पयन् । तत्र माध्याह्निकं कर्म चक्रे लोकगुरुर्बहिः ॥ कुम्भेनोदकमादाय तस्मात्तीर्थात्तु माधवः । सङ्गमेस्थापयामास प्राह चैतन्महाफलम् ॥ लोकानां ज्ञापनार्थाय चिह्नं तत्र शिलातले । शङ्खचक्रे च लोकेशस्तत्तीर्थं ह्युत्तमोत्तमम् ॥ मलापहारिणीसङ्गमवैभवम् तस्मात्पूर्वं महातीर्थं सङ्गमोलोकविश्रुतः । यावन्मलापहारिण्या सिद्धसेव्यं प्रदृश्यते ॥ तदेतत्परमं तीर्थं दुर्लभं पापकर्मणाम् । न मे प्रगल्भते वाणी तस्य माहात्म्यवर्णने ॥ क्रोशमात्रं तु विस्तीर्णं सङ्गमक्षेत्रमुत्तमम् । गोपादादीनि तीर्थानि तत्रैव निवसन्त्यतः ॥ प्रणवस्था यथा वेदाश्शिवस्थास्सर्वदेवताः । तथा सर्वाणि तीर्थानि सङ्गमस्थानि सुव्रताः ॥ सिद्धक्षेत्रं शिवक्षेत्रं तत्पुण्यं क्षेत्रमुच्यते । नियतोऽत्र वसन् पापैर्मुच्यते च स्मरन्नरः ॥ वाराणास्युत्तरेदेशे दक्षिणे सङ्गमस्तथा । अतस्ते हंसभावेन तीर्थानां सप्तकोटयः ॥ तदर्थं समनुप्राप्ताः ख्यातास्तत्रैव तद्गिरौ । तस्मात्पूर्वमिदं तीर्थं सेवितव्यं मनीषिभिः ॥ दानश्राद्धजपाद्यत्र सर्वं कोटिगुणं भवेत् । तस्मादनन्तरं तीर्थं चक्रतीर्थमुदाहृतम् ॥ शिलासेतुर्विभक्तं तद्भुक्तिमुक्तिफलप्रदम् । अम्बरीषेण पृष्टं हि प्राक्छिराज्ञानसाधनम् ॥ किन्तीर्थमिति लोकानां हितार्थं प्राह केशवम् । क्षिप्तमेतन्महाचक्रं सुदर्शनमनुव्रज ॥ दर्शयिष्यति ते तीर्थमित्युक्त्वा प्राह तद्विभुः । तेनैव दर्शितं तीर्थं ततः प्राप्नोति भूतलम् ॥ चक्रतीर्थमिति ख्यातिं राजा चात्रावसच्चिरम् । कात्यायनी च तत्रास्ते तच्चक्रस्य समीपतः ॥ तीर्थमेतद्धि तस्माच्चक्रतीर्थं विदुर्बुधाः । चक्रतीर्थे वसन्मर्त्यष्षण्मासाल्लभते ध्रुवम् ॥ ज्ञानं संसारचक्रघ्नं प्रसादेनैव चक्रिणः । ततः पूर्वं महातीर्थं शङ्खतीर्थमिति श्रुतम् । शङ्खाकृतिश्शिलायां च दृश्यते तत्र वै खलु ॥ कदाचिद्देवदेवेशो गच्छन् दक्षिणदिग्जयम् । मम क्षेत्रमिति प्राह स्वयं देवो महेश्वरः ॥ ईश्वरः श्रीशैले च प्रयागे च श्मशानेऽसुरकण्टके । सङ्गमे सेतुबन्धे च वसामि क्षेत्रगौरवात् ॥ विश्वेशं वारणास्यां हि सङ्गमे शङ्करं तथा । दृष्ट्वा रामेश्वरं सेतुं वा जन्माघं तु व्यपोहति ॥ गत्वा तु तानि क्षेत्राणि योर्चयेन्मां त्रिधा स्थितम् । तस्याहं सुलभो देवि किमु स्वर्गादिकं फलम् ॥ लोके प्रसिद्धप्राधान्यादष्टमूर्तिं हरिः यतः । रामप्रतिष्ठितं लिङ्गं स्वयम्भूतश्च शङ्करः ॥ पञ्चलिङ्गोमृतेशश्चेत्यष्टमूर्तिरहं स्थितः । नदीमध्ये बहिश्चापि क्षेत्रेस्मिन् स्वयमुत्थितः ॥ स्थितं सहस्रं लिङ्गानां प्राधान्यादुक्तमष्टधा । वाराणस्यां यथोङ्कारः कृत्तिवासाः कपर्दिनः ॥ विश्वेशो मध्यमेशश्च तद्धि लिङ्गात्मकं परम् । पञ्चभूतात्मकान्याहुः पञ्चलिङ्गानि भामिनि ॥ अवृतो यजमानोर्को रामेशश्शङ्करः शशी । लिङ्गनामाष्टकं ह्येतत्स्मृतं जन्माघनाशनम् ॥ शिवलोकप्रदं दृष्टमर्चितं मुक्तिदायकम् ॥ नारद उवाच । इत्यादद्यनन्तमाहात्म्यं दिव्यं स्कन्दाय च प्रभुः । प्रोक्ता जगद्धितार्थाय तस्थौ तत्र गणैस्सह ॥ क्षेत्रं प्रदक्षिणं कृत्वा भूप्रदक्षिणजं फलम् । लभन्तेत्र नरा यस्मात्सर्वं तत्र सदा स्थितम् ॥ पञ्चलिङ्गानि नित्यानि धनुषां तु शतद्वये । रुद्रपादौ स्थितौ दृष्ट्वा विप्रा धन्याश्च वै नराः ॥ रुद्रः कपालीतीर्थानि चरन् ब्रह्मकपालभृत् । तत्र स्थित्वार्चयेत्पञ्चलिङ्गब्रह्ममयं शिवम् ॥ तस्य प्रत्यङ्मुखौ पादौ स्थितावद्यापि सुव्रताः । जगद्धितार्थं विन्यस्तौ जगत्पापहरौ शुभौ ॥ पिण्डप्रदानं तत्रैव गयायामिव शस्यते । दातुश्च तत्पितॄणां च सुलभं हि गतिप्रदम् ॥ त्रिरात्रे सङ्गमे स्नात्वा मुच्यते सर्वपातकैः । संवत्सरं तु निवसञ्च्छिवसालोक्यमाप्नुयात् ॥ तत्रैव मरणान्मोक्षं ततः प्राप्नोत्यसंशयः । प्रसङ्गेनापि योगश्चेत्कदाचित्सङ्गमेश्वरम् ॥ निर्गुणस्यापि तत्तस्य पर्याप्तं जन्मनः फलम् । अन्यदेशे मनुष्येभ्यस्तत्रस्थास्तु नरा वराः ॥ तत्रस्थास्तु नरास्सर्वे महेश्वरगणेश्वराः । जन्मस्थितिप्रणाशो वा प्राकृतैर्नात्र लभ्यते ॥ तस्मिन्न किञ्चिद्गृह्येत न हिंस्यात्स्वेदजानपि । सर्वाघसङ्क्षयं धर्ममर्थकामावथापि वा ॥ मोक्षं च शीघ्रमन्विच्छन्निवसेत्सङ्गमे सुधीः । तस्यैव तीर्थस्नानानुप्रभावात्स्वर्गं प्रयाता बहुशोथ शूराः ॥ विप्रर्षिराजर्षिसुरर्षिवर्या महाधिकारान्लभन्त पूर्वम् ॥ इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये सप्तकोटिसङ्गमशङ्ख- चक्रतीर्थवर्णनं नाम दशमोध्यायः ॥
ऋणापाकरणतीर्थवैभवकथनम् नारद उवाच । इदमप्यपरं गुह्यं शृणुध्वं मुनिसत्तमाः । स्कन्देन सृष्टो यत्प्राह शङ्करो लोकशङ्करः ॥ स्कन्दः ऋणैस्त्रिभिश्च संयुक्तः पुरुषोजायते खलु । इज्याऽध्ययनसन्तानैर्देवादीनामिति श्रुतिः ॥ ऋणापाकरणं सम्यगकुर्वन्निह वै मृतः । निगृह्यते द्विजोत्यर्थं परलोके न संशयः ॥ ऋणापाकरणं चैव दुष्करं प्रतिभाति मे । कर्मतन्त्रस्य जीवस्य ततस्तत्सङ्कटं परम् ॥ अज्ञानिनश्चरोगाद्यैरिह विघ्नैरथापि वा । एतत्कथं न कुर्वन्ति कुर्युर्वा करुणानिधे ॥ ईश्वरः साधु वत्स त्वया पृष्टं प्रायशो भवदुःखतः । ऋणेभ्यो बिभ्यतस्साधो ऋणमुक्तिं शृणुष्व ह ॥ सर्वपातकनाशाय नरश्चेदिच्छति स्वयम् । निष्कृतिर्नत्वशक्या सा कृष्णवेणी हि विद्यते ॥ कृष्णवेण्योभयतटे योजनाभ्यन्तरे स्थितम् । तत्क्षेत्रं मुक्तिदं प्राहुरन्तरासह्यसागरौ ॥ ग्रामेवायदिवारण्ये गिरौ यत्र च तत्र वा । कृष्णवेण्यम्भसि स्नातो वाजपेयफलं लभेत् ॥ षष्टिवर्षसहस्राणि भागीरथ्यवगाहनम् । कृष्णवेणीनदीस्नानसमं कन्यागते रवौ ॥ कन्यागते सोमवारे नृणां विष्णुशुभे दिने । वेण्यां च वपनं स्नानं कोटिजन्माघनाशनम् ॥ कृष्णायां वपनं स्नानमृक्षे चैव तु वैष्णवे । सोमवारे विष्णुदिने वेण्यां तु वपनं नृणाम् ॥ कोटिजन्माघनाशस्स्यादृक्षे चैव तु वैष्णवे । कन्यागते गुरौ यद्यत्सप्तकोट्यघनाशनम् ॥ ऋणत्रयं स्वकं चैव पितृमातृकृतं तथा । निश्शेषं कुर्वतो जन्तोर्नदी कृष्णा परायणम् ॥ तस्यान्तु तीर्थप्रवरं सङ्गमं लोकविश्रुतम् । स्नानमात्रेण सर्वेषां मोचनं पापनाशनम् ॥ तत्राप्युदाहरन्तीममितिहासं पुरातनम् । दाल्भ्यो नाम द्विजः कश्चिदातिथ्यं कृतवान् पुरा ॥ गृहीत्वा स्वगृहे शाकं प्रयच्छामीति पुत्रक । नादत्तं विस्मृतं तेन ऋणमप्यधिकं भवेत् ॥ कालेन च मृतस्सोपि तिर्यक्त्वं प्रतिपन्नवान् । महाचले गिरौ शून्ये पर्वते कण्टकावृते ॥ निर्जले व्याघ्रभूयिष्ठे सृगालत्वं प्रपन्नवान् । पुनः गृध्रत्वमापन्नः पुनश्चैव सृगालताम् ॥ पूर्वजन्मस्मृतिश्चैव तपोमाहात्म्यकारणात् । उद्विग्नः किङ्करोमीति दुःखार्तो विन्ध्यपर्वते ॥ वेणीनदीमनुप्राप्तो गौतमं तत्र दृष्टवान् । जानात्येव स तत्सर्वं यद्दाल्भ्येन कृतं पुरा ॥ तेनोक्त्वा मुनिवर्येण ऋणपापनिवृत्तये ॥ गौतमः दाल्भ्यत्वमसि धर्मज्ञो ऋणसम्बन्धकारणात् । तिर्यक्त्वं दुःखबहुलं प्राप्तवानसि सुव्रत ॥ दाल्भ्यः भगवन् किं मया कार्यं न जानामीह निष्कृतिम् । यद्यस्तिमयि कारुण्यं कथयाघनिवृत्तये ॥ गौतमः कृष्णवेणी नदी नाम ह्युद्गता सह्यपर्वतात् । सृष्टा च ब्रह्मणा पूर्वं सर्वपापनिवृत्तये ॥ देवर्षिसिद्धसेव्या सा त्रैलोक्यहितकारिणी । कल्पकोटिजनस्याशु पापं नाशयति क्षणात् ॥ तत्स्नानादचिरेणैव मनुष्यत्वं भविष्यति । ततो गत्वा ऋणान्मोक्षं तत्र स्नानं समाचर ॥ स्कन्दः दाल्भ्याय गौतमः पूर्वं सर्वपापनिवृत्तये । दाल्भ्य-गौतम संवादः कस्मिन्वै कृष्णवेण्यां तु स्नानं साधनमुक्तवान् । ईश्वरः दाल्भ्यगौतमसंवादं पापघ्नं प्रियदर्शनम् । वदाम्यहं त्वयि प्रीत्या शृणु पुत्र षडानन ॥ गत्वाहं कृष्णवेण्यां च कुत्र स्नानं समाचरे । ब्रूहि त्वं मुनिवर्येति पृष्टः प्राह स गौतमः ॥ तीर्थनाम प्रभावं च ज्ञातुं वक्तुं च तत्त्वतः । स समर्थोस्ति लोकेस्मिन् तथा विप्रस्तु तेन्विह ॥ वक्ष्याम्यहं च दाल्भ्याद्य तव पापनिवृत्तये । मलापहारिणी नाम नदी सह्यसमुद्गता ॥ निर्मिता चैव कल्याणी ब्रह्मणा पापशान्तये । तस्यास्तु सलिलं सद्यः परं हरति किल्बिषम् ॥ तदाश्रिताश्च ये वर्याः प्रयान्ति परमां गतिम् । तस्याश्च सङ्गमं गत्वा पवित्रं पापनाशनम् ॥ रुद्रं पशुपतिं स्थाणुं तत्र स्नात्वा नमस्कुरु । मृगरूपं परित्यज्य ऋषित्वं प्राप्स्यसि ध्रुवम् ॥ य कश्चिदपि तत्रैव स्नानाद् ज्ञानं समश्नुते । मर्त्यलोके ये मर्त्या भक्त्या गच्छन्ति सङ्गमम् ॥ प्रयान्ति नूनं ते मोक्षं स्नानं कृत्वा स्मरन्ति ये । अहो धन्यतरा मर्त्याः कीर्तयन्ति स्मरन्ति च ॥ सङ्गमं परमं स्नानं नूनं ते मोक्षभागिनः । इति देवाश्च पितरो गायन्ति सततं दिवि ॥ कृष्णवेणी नदी नाम यत्र यत्रैव गच्छति । स्नातस्य तत्र तत्रैव शतधेनुफलं लभेत् ॥ पौर्णमास्याममायां चाप्यष्टम्यां चन्द्रसूर्ययोः । ग्रहणे स्नानमात्रेण गोसहस्रफलं लभेत् ॥ जपो दानं तपो होमः श्राद्धं सद्गुरुसेवनम् । अक्षयं तु भवेद्दाल्भ्य पापं चापि विनश्यति ॥ नदीनामुत्तमा वेणी देवानामुत्तमो हरिः । विद्यानामुत्तमो वेदो वर्णानां विप्र उत्तमः ॥ कृष्णवेणीजलं पीत्वा किरातेष्वपि यो वसेत् । तं तु षण्मासपर्यन्तं तद्दोषो न समाश्रयेत् ॥ निद्रामात्रं प्रकुर्वन्ति यदि तत्तीरवासिनः । प्राणसन्धारणे पुण्यं लभन्ते तपसः फलम् ॥ नदीनामादिभूता सा कामधेनुरिव स्वयम् । ये पिबन्ति च तत्तोयं नूनन्ते मुक्तिभागिनः ॥ पदे पदे च तत्रैव तीर्थानि प्रभवन्त्युत । तस्मादगम्यं तत्तीर्थं पापिनां दुर्मनस्विनाम् ॥ दानरूपेण तत्रैव तिलांशं यः प्रयच्छति । मेरुतुल्यफलं प्राप्य तदन्ते मुक्तिमाप्नुयात् ॥ अणोरणुतरं पापं तत्र कृत्वा नराधमाः । ब्रह्माण्डं सदृशं दुःखं प्राप्नुवन्ति सुदुस्सहम् ॥ अन्यत्र यत्कृतं पापं सङ्गमे नश्यति क्षणात् । अत्रैव यत्कृतं पापं न तदन्यत्र नश्यति ॥ तत्र पापफलं भोक्तुं कल्पकोटिशतेष्वपि । कृमित्वं स्थावरत्वं च गच्छन्ति न हि संशयः ॥ क्रोशमात्रं तु विस्तीर्णं सङ्गमक्षेत्रमुत्तमम् ॥ तत्र स्नात्वा महानद्यां गोसहस्रफलं लभेत् । तत्रापि सङ्गमे स्नानमुत्कृष्टं द्विजसत्तमाः ॥ अश्वमेधसहस्राणां फलं प्राप्नोति मानवः । भ्रूणहत्यादिभिः पापैस्तदाचैनोपपातकैः ॥ विमुक्तास्स्नानमात्रेण मर्त्या यान्ति परं पदम् । तत्र पिण्डप्रदानेन मुक्तिरेव न संशयः ॥ पिण्डमात्रप्रदानेन विघ्नाश्शान्तिं प्रयान्ति वै । व्याधयश्चापिशान्तास्स्युरैश्वर्यं कामदं भवेत् ॥ भरतश्चदिलीपश्च ययातिर्नहुषस्तथा । भगीरथोथ रामश्च मान्धातृप्रमुखास्तथा ॥ असितो देवलश्चैव दत्तात्रेयपुरोगमाः । तत्र स्नात्वा तपः कृत्वा भक्तिज्ञानपदेस्थिताः ॥ अन्ये च ऋषयो देवास्तत्र तिष्ठन्ति नित्यशः । रामः पुरा जगन्नाथो भार्गवः क्षत्रियान्तकः ॥ तत्र कृत्वा तपो घोरं पापशान्तिं प्रपन्नवान् । शूर्पारिश्च महेन्द्रश्च सङ्गमक्षेत्रमुत्तमाः ॥ त्रिषु स्थानेषु देवेशो रामस्तिष्ठति सर्वदा । प्रातः कालेतु शूर्पारं मध्याह्ने सिन्धुसङ्गमे ॥ रात्रौ महेन्द्रे वसति रामः क्षत्रकुलान्तकः । अतस्त्रयं महापुण्यं रामस्यैवाश्रयादिदम् ॥ पृथिव्यामन्तरिक्षे वा यानि तीर्थानि सन्ति वै । तानि तत्र वसन्त्येव धातुर्वचनकारणात् ॥ तत्र स्नात्वा नमस्कुर्यान्नामभिश्शश्वतं शिवम् । माघमासे नरस्स्नात्वा कार्तिके मुक्तिमाप्नुयात् ॥ परशुरामतीर्थयात्राप्रसङ्गः ऋषय ऊचुः । अहोमाहात्म्यमतुलं प्रसादाद्भवतश्श्रुतम् । भूयः कथयतामत्र तपश्चक्रे कथं प्रभुः ॥ नारद उवाच । त्रिस्सप्तकृतो नृपतीन्निर्मूलितकृतवान् भुवि । तस्योपशान्त्यै तीर्थानि चचार खलु भार्गवः ॥ स्कन्दे परशुरामं तं क्षत्रहत्यामलीमसम् । प्रदर्शनाय लोकानामृषिसङ्घवृतो ययौ ॥ स्नातस्समस्ततीर्थेषु पूजयन्निष्टदेवताः । अलब्धाघक्षयो देवः प्रययौ सह मलापहम् ॥ सह्यपादात्सृता लोकहितायामृतवाहिनी । या सर्वमलहन्तृत्वात्प्रख्यातात्र मलापहा ॥ योजने योजने यस्यां तीर्थानां शतमुत्तमम् । लिङ्गद्वयं च प्रख्यातं सुरसिद्धनिषेवितम् ॥ सह्यप्राणात्सृतां देवीं सेव्यमानो जगत्पतिः । आनुलोम्यात्पितॄन्देवानर्चयन् सङ्गमं ययौ ॥ अथैतस्य कुठाराग्रे क्षत्रहत्यातिविह्वला । निर्गत्य मूर्त्या विप्रेषु पश्यत्स्वित्याह भार्गवम् ॥ त्वद्देहाश्रयणे भीता त्वयैवानुमता प्रभो । कुठाराग्रे स्थिता त्वत्र ज्वालानद्यां निमज्जिता ॥ सेयमम्बुमयी देवी धर्माणां तु सुधामयी । ज्वालामयी त्वधर्माणामित्युक्त्वा वा गतालयम् ॥ नारद उवाच । अथ हृष्टश्च भगवान् भार्गवो मुनिसन्निधौ । प्रदर्श्याश्चर्यमेतत्तु प्रशसंस मलापहाम् ॥ श्रीरामोवाच । प्रायश्चित्तार्थिनां विप्रा महापातकिनामपि । मलापहैव शरणं विरक्तानां न संशयः ॥ नद्योन्याश्च प्रशंस्यन्तां स्वर्गादिफलदानने । मलापहरणे त्वस्यास्समा काचिन्न विद्यते ॥ उदग्वहति सा यत्र स्नानदानजपादिकम् । तत्रप्रशस्यतेत्यर्थं भानुवारेत्वनन्तकम् ॥ तत्रापि कपिलातीर्थाद्यावदेव तु सङ्गमात् । अत्रापि सुलभा मुक्तिः यथा कामयते नरः ॥ नारद उवाच । इत्युक्त्वा जगतान्नाथः प्रहृष्टैस्तैर्द्विजैस्सह । विधिवत्सङ्गमे स्नात्वा तर्पयन् पितृदेवताः ॥ अथासौ सङ्गमेक्षेत्रे देवयात्राक्रमं नृणाम् । दर्शयन्मुनिभिस्सा इति । Encoded and proofread by Dr.G.Sankaranarayanan P. R. Kannan. Sri Krishnaveni Mahatmyam, a part of Skanda Purana, was available in a manuscript form in Telugu script with a scholar in Vijayawada. Through the efforts of Sri Sankaracharya Swamijis of Kanchi Kamakoti Peetham, who were at Vijayawada for Chaturmasyam in July-Sep 2016, this manuscript came to light and was transcribed into Devanagari script by Dr.G.Sankaranarayanan of Sanskrit Department in Sri Chandrasekharendra Saraswathi University in Enathur near Kanchipuram

% Text title            : kRiShNaveNImAhAtmya
% File name             : kRiShNaveNImAhAtmya.itx
% itxtitle              : kRiShNaveNImAhAtmyam (skAndapurANAntargatam)
% engtitle              : Importance of kRiShNA River
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : G. Sankaranarayanan
% Proofread by          : G. Sankaranarayanan
% Source                : skAndapurANa
% Indexextra            : (Commentary)
% Latest update         : November 2, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP