श्रीकल्पकाम्बिकासुप्रभातम्

श्रीकल्पकाम्बिकासुप्रभातम्

नृत्तं च लास्यमखिलं पितृ-मातृ-दत्तं वित्तं विवर्धयति कुञ्चितपादलीलः । यत्संस्मृतेर्भवति वाग्विभवादि लाभः दद्यात्स नृत्यगणराण्मम सुप्रभातम् ॥ १॥ नीरार्णवोर्मिशिशिरीकृतकोमलाङ्गि नीलानुजे शतमघोपलरम्यवर्णे । श्रीनीलकण्ठतनुभागिनि भाग्यमूले श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ २॥ ओङ्काररूपकमयूरगतान्तरङ्गे ओङ्कारवर्णनविदूरगतिप्रणामे । ओङ्कारलोलहरिभागकृते मयूरि श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ३॥ मर्माणि शास्त्रनिगमप्रभवानि कीर- भाषाहृतानि कलयन्मेधया ते । हस्तागतां कीरशिशुकां कलयन्ज्ञां श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ४॥ बालार्करक्तनवभूमितलाब्जचेले बाले प्रसूनचपलप्रथितात्मभावे । मायूरनागरमहाजनभाग्यमूले श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ५॥ अत्रार्पयन्ति मनुजा मनसा महान्तः सर्वं स्वकर्मफलमुद्भवनाशमूलम् । त्वत्सुन्दरस्मितगतात्मविभावनाभिः श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ६॥ पूर्णानि पूर्णफलदान्यतिकोमलानि जायन्त इत्यधिकमर्थितचित्तमूलात् । त्वद्वीक्षणाढ्यकविवाचि हृदिस्पृशानि श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ७॥ मत्तेभकुम्भसमसुस्तनमुग्धकान्ते मन्दारकुन्दकरवीरसुमप्रियासि । सर्वाश्रये निगमपीठनिवासिमान्ये श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ८॥ ह्रीं ह्रीमिति प्रतिदिनं तव मन्दिरेऽस्मिन् त्वद्बीजमुख्यमननात्प्रभवन्ति सन्तः । सभ्योत्तमोत्तमपते सकलाण्डमान्ये श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ९॥ ह्रीं ह्रीं शिवे शुभतमे भव मे प्रसन्ना संसारवार्धितरणे भव मे सहाय्या । इत्यर्थिभिः प्रतिदिनं क्रियते निनादः श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ १०॥ नो वेद्म्यहं श्रुतिपदं निखिलांश्च मन्त्रान् त्वामेव वेद्मि करुणां जननीं मदीयाम् । तस्मात्कुरुष्व मयि पुत्रमतिं त्वदीये श्रीकल्पकाम्ब भवतात् तव सुप्रभातम् ॥ ११॥ वासन्तनागरगतस्तव शेषशायी वाधूलरामपदभृत् दश पद्यपुष्पैः । नव्यां तनोति नवरात्रिमहोत्सवेऽस्मिन् त्वत्सुप्रभातनुतिमम्बुजनाभदासः ॥ १२॥ इति वाधूलगोत्रोद्भवेन श्रीवेङ्कटेश्वरार्यस्य पुत्रेण श्रीशेषशायीशर्माख्येन विरचितं श्रीकल्पकाम्बिकासुप्रभातं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : Kalpakambika Suprabhatam
% File name             : kalpakAmbikAsuprabhAtam.itx
% itxtitle              : kalpakAmbikAsuprabhAtam
% engtitle              : kalpakAmbikAsuprabhAtam
% Category              : suprabhAta, devii, devI, otherforms
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Author                : sheShashAyIsharmA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Tamil)
% Latest update         : July 2, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org