श्रीकमलाम्बिकास्तवः अथवा श्रीकमलाम्बिकाष्टकम्
कमलालयतटशोभितविमलालयविलसत्
कमलापति-कमलासन-कमलार्चितविभवम् ।
कमलाङ्घ्रिक-कमलानन-कमलाम्बिक-विलसत्
कमलाभिधमहमान्तरकमले मम कलये ॥ १॥
यजनपर-मनुजवर-शिववदनजार्चितां
भजनपर-सनकमुख-मुनिहृदयसंस्थिताम् ।
अजजनक-हयवदन-हरिहयसुपूजितां
भज हृदय रविजलज गुरुवरदशाङ्करीम् ॥ २॥
ईशानकोणे कमलालयस्य श्रीत्यागराजस्य तु वायुकोणे ।
ईशानदृष्टिः कमलाम्बिकायाः या भाति सा श्रीरमृता सतां हि ॥ ३॥
मदम्बिका हृत्कमलान्तरस्था चिदम्बिका श्रीकमलालयस्था ।
अनन्तसौख्यं कमलासनस्था तनोतु देवी कमलाम्बिका मे ॥ ४॥
अनिन्धनं समेधिते निरन्तरं हृदन्तरे
चिदाशुशुक्षणौ महाविमोहरात्रिनाशके ।
अवाच्यवैभवे परे विचित्रमाविकासिते
जुहोम्यहं धरादिमं शिवान्ततत्त्वमम्बिके ॥ ५॥
अक्षरत्रयरूपिणीमखिलाक्षवृत्तिविनाशिनीं
ऋक्षराजसुभाविताममृताक्षराङ्घ्रियुगां भजे ।
अक्षरासनसंस्थितामजशिक्षकेभमुखप्रियां
चिक्षुरादिविनाशिनीं वरलक्षणां कमलाम्बिकाम् ॥ ६॥
मकारवर्जं तव वामनेत्रबिन्द्वाढ्यमाद्ये कमलेति नाम ।
श्रीकामरजाख्यवरार्णरूपं भजन्ति साध्याः स्वकबोधसिद्धये ॥ ७॥ सान्याः?
स्वरेश चन्द्राह्वयशीतबीजत्रयाढ्यमाधे कमलेति नाम ।
मकारवर्जं तव मूलविद्यां विद्योतयत्येव गुरुस्वरूपे ॥ ८॥
शान्तस्वरूपा विमलप्रकाशा त्वमात्मरूपा च गुहान्तरस्था ।
मातश्चिदानन्दतनुर्विभासि त्वमम्बिकेऽनन्तसुखप्रदात्रि ॥ ९॥
अनन्तसूत्रग्रथिता सुवर्णमालातिमाधुर्यवचस्सुमाढ्या ।
गुरुस्वरूपा कमलाम्बिका या तदङ्घ्रिपद्मं समलङ्करोतु ॥
॥ इति श्रीमच्चिदानन्दनाथाख्य सद्गुरुपादाब्जामृतपायिना
अनन्तानन्दनाथेन रचितः श्रीकमलाम्बिकास्तवः सम्पूर्णः ॥
Proofread by PSA Easwaran