श्रीकामाक्षीसुप्रभातम्
जगदवन-विधौ त्वं जागरूका भवानि
तव तु जननि निद्रामात्मवत् कल्पयित्वा ।
प्रतिदिवसमहं त्वां बोधयामि प्रभाते
त्वयि कृतमपराधं सर्वमेतं क्षमस्व ॥ १॥
यदि प्रभातं तव सुप्रभातं
तदा प्रभातं मम सुप्रभातम् ।
तस्मात् प्रभाते तव सुप्रभातं
वक्ष्यामि मातः कुरु सुप्रभातम् ॥ २॥
गुरु ध्यानम् ।
यस्याङ्घ्रिपद्म-मकरन्द-निषेवणात् त्वं
जिह्वां गताऽसि वरदे मम मन्दबुद्धेः ।
यस्याम्ब नित्यमनघे हृदये विभासि
तं चन्द्रशेखर-गुरुं प्रणमामि नित्यम् ॥ ३॥
जयेज्जयेन्द्रो गुरुणा गृहीतो
मठाधिपत्ये शशिशेखरेण ।
यथा गुरुस्सर्व-गुणोपपन्नो
जयत्यसौ मङ्गलमातनोतु ॥ ४॥
शुभं दिशतु नो देवी कामाक्षी सर्वमङ्गला
शुभं दिशतु नो देवी कामकोटी-मठेशः ।
शुभं दिशतु तच्छिष्यः सद्गुरुर्नो जयेन्द्रो
सर्वं मङ्गलमेवास्तु मङ्गलानि भवन्तु नः ॥ ५॥
॥ शुभम् ॥
॥ श्रीः ॥
कामाक्षि देव्यम्ब तवार्द्र-दृष्ट्या
मूकः स्वयं मूककविर्यथाऽसीत् ।
तथा कुरु त्वं परमेश-जाये
त्वत्पाद-मूले प्रणतं दयार्द्रे ॥
उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदीश्वरि ।
उत्तिष्ठ जगदाधारे त्रैलोक्यं मङ्गलं कुरु ॥ १॥
शृणोषि कच्चिद्-ध्वनिरुत्थितोऽयम्
मृदङ्गभेरी-पटहानकानाम् ।
वेदध्वनिं शिक्षित-भूसुराणाम् ।
शृणोषि भद्रे कुरु सुप्रभातम् ॥ २॥
शृणोषि भद्रे ननु शङ्ख-घोषम्
वैतालिकानां मधुरं च गानम् ।
शृणोषि मातः पिक-कुक्कुटानाम्
ध्वनिं प्रभाते कुरु सुप्रभातम् ॥ ३॥
मातर्निरीक्ष्य वदनं भगवान् शशाङ्को
लज्जान्वितः स्वयमहो निलयं प्रविष्टः ।
द्रष्टुं त्वदीय वदनं भगवान् दिनेशो
ह्यायाति देवि सदनं कुरु सुप्रभातम् ॥ ४॥
पश्याम्ब केचिद्-धृतपूर्णकुम्भाः
केचिद्-दयार्द्रे धृतपुष्पमालाः ।
काचित् शुभाङ्ग्यो ननु वाद्यहस्ताः
तिष्ठन्ति तेषां कुरु सुप्रभातम् ॥ ५॥
भेरीमृदङ्ग-पणवानक-वाद्यहस्ताः
स्तोतुं महेशदयिते स्तुति-पाठकास्त्वाम् ।
तिष्ठन्ति देवि समयं तव काङ्क्षमाणाः
ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् ॥ ६॥
मातर्निरीक्ष्य वदनं भगवान् त्वदीयम्
नैवोत्थितः शशिधिया शयितस्तवाङ्के ।
सम्बोधयाशु गिरिजे विमलं प्रभातम्
जातं महेशदयिते कुरु सुप्रभातम् ॥ ७॥
अन्तश्चरन्त्यास्तव भूषणानाम्
झल्झल्ध्वनिं नूपुर-कङ्कणानाम् ।
श्रुत्वा प्रभाते तव दर्शनार्थी
द्वारि स्थितोऽहं कुरु सुप्रभातम् ॥ ८॥
वाणी पुस्तकमम्बिके गिरिसुते पद्मानि पद्मासना
रम्भा त्वम्बर-डम्बरं गिरिसुता गङ्गा च गङ्गाजलम् ।
काली तालयुगं मृदङ्ग-युगलं वृन्दा च नन्दा तथा ।
नीला निर्मल-दर्पणं धृतवती तासां प्रभातं शुभम् ॥ ९॥
उत्थाय देवि शयनाद्भगवान् पुरारिः
स्नातुं प्रयाति गिरिजे सुरलोक-नद्याम् ।
नैको हि गन्तुमनघे रमते दयार्द्रे
ह्युत्तिष्ठ देवि शयनात् कुरु सुप्रभातम् ॥ १०॥
पश्याम्ब केचित्फल-पुष्पहस्ताः
केचित्पुराणानि पठन्ति मातः ।
पठन्ति वेदान्बहवस्तवाग्रे
तेषां जनानां कुरु सुप्रभातम् ॥ ११॥
लावण्य-शेवधिमवेक्ष्य चिरं त्वदीयम्
कन्दर्प-दर्पदलनोऽपि वशं गतस्ते ।
कामारि-चुम्बित-कपोलयुगं त्वदीयं
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ १२॥
गाङ्गेय-तोयममवाह्य मुनीश्वरास्त्वां
गङ्गाजलैः स्नपयितुं बहवो घटांश्च ।
धृत्वा शिरःसु भवतीमभिकाङ्क्षमाणाः
द्वारि स्थिता हि वरदे कुरु सुप्रभातम् ॥ १३॥
मन्दार-कुन्द-कुसुमैरपि जातिपुष्पैः
मालाकृता विरचितानि मनोहराणि ।
माल्यानि दिव्य-पदयोरपि दातुमम्ब
तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् ॥ १४॥
काञ्चीकलाप-परिरम्भ-नितम्बबिम्बम्
काश्मीर-चन्दन-विलेपित-कण्ठदेशम् ।
कामेश-चुम्बित-कपोलमुदारनासां
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ १५॥
मन्दस्मितं विमलचारु-विशालनेत्रम्
कण्ठस्थलं कमल-कोमल-गर्भगौरम् ।
चक्राङ्कितं च युगलं पदयोर्मृगाक्षि
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ १६॥
मन्दस्मितं त्रिपुरनाशकरं पुरारेः
कामेश्वर-प्रणयकोपहरं स्मितं ते ।
मन्दस्मितं विपुलहासमवेक्षितुं ते
मातः स्थिता वयमये कुरु सुप्रभातम् ॥ १७॥
माता शिशूनां परिरक्षणार्थम्
न चैव निद्रावशमेति लोके ।
माता त्रयाणां जगतां गतिस्त्वम्
सदा विनिद्रा कुरु सुप्रभातम् ॥ १८॥
मातर्मुरारि-कमलासन-वन्दिताङ्घ्र्याः
हृद्यानि दिव्यमधुराणि मनोहराणि ।
श्रोतुं तवाम्ब वचनानि शुभप्रदानि
द्वारि स्थिता वयमये कुरु सुप्रभातम् ॥ १९॥
दिगम्बरो ब्रह्मकपालपाणिः
विकीर्णकेशः फणिवेष्टिताङ्गः ।
तथाऽपि मातस्तव देविसङ्गात्
महेश्वरोऽभूत् कुरु सुप्रभातम् ॥ २०॥
अयि तु जननि दत्त-स्तन्यपानेन देवि
द्रविड-शिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः ।
द्रविड-तनय-भुक्त-क्षीरशेषं भवानि
वितरसि यदि मातः सुप्रभातं भवेन्मे ॥ २१॥
जननि तव कुमारः स्तन्यपान-प्रभावात्
शिशुरपि तव भर्तुः कर्णमूले भवानि ।
प्रणव-पद-विशेषं बोधयामास देवि
यदि मयि च कृपा ते सुप्रभातं भवेन्मे ॥ २२॥
त्वं विश्वनाथस्य विशालनेत्रा
हालास्य-नाथस्य नु मीननेत्रा ।
एकाम्रनाथस्य नु कामनेत्रा
कामेशजाये कुरु सुप्रभातम् ॥ २३॥
श्रीचन्द्रशेखर-गुरुर्भगवान् शरण्ये
त्वत्पादभक्ति-भरितः फलपुष्पपाणिः ।
एकाम्रनाथ-दयिते तव दर्शनार्थी
तिष्ठत्ययं यतिवरो मम सुप्रभातम् ॥ २४॥
एकाम्रनाथ-दयिते ननु कामपीठे
सम्पूजिताऽसि वरदे गुरुशङ्करेण ।
श्रीशङ्करादि-गुरुवर्य-समर्चिताङ्घ्रिम्
द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥ २५॥
दुरित-शमन-दक्षौ मृत्यु-सन्त्रास-दक्षौ
चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ ।
अभयवरद-हस्तौ द्रष्टुमम्ब स्थितोऽहं
त्रिपुरदलन-जाये सुप्रभातं ममार्ये ॥ २६॥
मातस्त्वदीय-चरणं हरिपद्मजाद्यैः
वन्द्यं रथाङ्ग-सरसीरुह-शङ्ख-चिह्नम् ।
द्रष्टुं च योगिजन-मानस-राजहंसं
द्वारि स्थितोऽस्मि वरदे कुरु सुप्रभातम् ॥ २७॥
पश्यन्तु केचिद्वदनं त्वदीयं
स्तुवन्तु कल्याण-गुणांस्तवान्ये ।
नमन्तु पादाब्ज-युगं त्वदीयाः
द्वारि स्थितानां कुरु सुप्रभातम् ॥ २८॥
केचित्सुमेरोः शिखरेऽतितुङ्गे
केचिन्मणिद्वीपवरे विशाले ।
पश्यन्तु केचित्त्वमृताब्धि-मध्ये
पश्याम्यहं त्वामिह सुप्रभातम् ॥ २९॥
शम्भोर्वामाङ्क-संस्थां शशिनिभ-वदनां नील-पद्मायताक्षीं
श्यामाङ्गां चारुहासां निबिडतर-कुचां पक्व-बिम्बाधरोष्ठीम् ।
कामाक्षीं कामदात्रीं कुटिल-कचभरां भूषणैर्भूषिताङ्गीं
पश्यामः सुप्रभाते प्रणत-जनिमतामद्य नः सुप्रभातम् ॥ ३०॥
कामप्रदा कल्पतरुर्विभासि
नान्या गतिर्मे ननु चातकोऽहम् ।
वर्षस्यमोघाः कनकाम्बुधाराः
काश्चित्तु धारा मयि कल्पयाशु ॥ ३१॥
त्रिलोचन-प्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् ।
त्रिलोक-नायिकां वन्दे सुप्रभातं ममाम्बिके ॥ ३२॥
कृतज्ञता
कामाक्षि देव्यम्ब तवार्द्र-दृष्ट्या
कृतं मयेदं खलु सुप्रभातम् ।
सद्यः फलं मे सुखमम्ब लब्धं
तथा च मे दुःखदशा गता हि ॥ ३३॥
प्रार्थना
ये वा प्रभाते पुरतस्तवार्ये
पठन्ति भक्त्या ननु सुप्रभातम् ।
शृण्वन्ति ये वा त्वयि बद्धचित्ताः
तेषां प्रभातं कुरु सुप्रभातम् ॥ ३४॥
Encoded by Sunder Hattangadi
Proofread by Sunder Hattangadi, Rajani Arjun Shankar