श्रीलक्ष्मीहयवदन प्रपत्तिः
विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ १॥
ब्रह्माणमादौ व्यदधादमुष्मै वेदाश्च यः स्म प्रहिणोति नित्यान् ।
स्वगोचरज्ञानविधायिनं तं देवं हयग्रीवमहं प्रपद्ये ॥ २॥
उद्गीथतारस्वरपूर्वमन्तःप्रविश्य पातालतलादहार्षीत् ।
आम्नायमाकण्ठहयो य एतं देवं हयग्रीवमहं प्रपद्ये ॥ ३॥
प्रदाय पुत्राय पुनः श्रुतीर्यो जघान दैत्यौ नियताब्धिवासम् ।
हव्यैश्च कव्यैश्च तमर्च्यमानं देवं हयग्रीवमहं प्रपद्ये ॥ ४॥
यन्नाभिनालीकदलस्थनीरविन्दूत्थितौ तौ मधुकैटभाख्यौ ।
वेदापहाराय तमो रजस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ५॥
काम्यार्च्यतां प्राप्य वरं सुरेषु गतेषु यज्ञाग्रहरोऽर्थितो यः ।
अदर्शयत् काय हयं वपुस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ६॥
यो जायमानं पुरुषं प्रपश्यन् मोक्षार्थचिन्तापरमातनोति ।
विद्याधिदेवं मधुसूदनं तं देवं हयग्रीवमहं प्रपद्ये ॥ ७॥
आदित्यबिम्बेऽश्ववपुर्दधत्सन् अयातयामान् निगमानदिक्षत् ।
यो याज्ञवल्क्याय दयानिधिं तं देवं हयग्रीवमहं प्रपद्ये ॥ ८॥
विज्ञानदानप्रथिता जगत्यां व्यासादयो वागपि दक्षिणा सा ।
यद्वीक्षणांशाहितवैभवांस्तं देवं हयग्रीवमहं प्रपद्ये ॥ ९॥
मत्स्यादिरूपाणि यथा तथैव नानाविधाचार्यवपूंषि गृह्णन् ।
वेदान्तविद्याः प्रचिनोति यस्तं देवं हयग्रीवमहं प्रपद्ये ॥ १०॥
श्रेष्ठः कृतज्ञः सुलभोऽन्वितानां शान्तः सुबुद्धिः प्रथितो हि वाजी ।
तदाननाविष्कृतसद्गुणौघं देवं हयग्रीवमहं प्रपद्ये ॥ ११॥
हस्तैर्दधानं दरचक्रकोशव्याख्यानमुद्राः सितपद्मपीठम् ।
विद्याख्यलक्ष्म्यञ्चितवामभागं देवं हयग्रीवमहं प्रपद्ये ॥ १२॥
इति श्रीलक्ष्मीहयवदनप्रपत्तिः समाप्ता ।
Proofread by PSA Easwaran psaeaswaran at gmail.com