श्रीलक्ष्मीकवचम्
नारायण उवाच ।
शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् ।
पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ॥ १॥
सम्प्राप्य कवचं ब्रह्मा तत्पद्मे ससृजे जगत् ।
पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ॥ २॥
पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः ।
पाद्येन पद्मकल्पे च कवचं परमाद्भुतम् ॥ ३॥
दत्तं सनत्कुमाराय प्रियपुत्राय धीमते ।
कुमारेण च यद्दत्तं पुष्कराय च नारद ॥ ४॥
यद्धृत्वा पाठनाद् ब्रह्मा सर्वसिद्धेश्वरो महान् ।
परमैश्वर्यसंयुक्तः सर्वसम्पत्समन्वितः ॥ ५॥
यद्धृत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः ।
स्वायम्भुवो मनुः श्रीमान्पठनाद्धारणाद्यतः ॥ ६॥
प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने ।
पृथुः पृथ्वीपतिः सद्यो ह्यभवद्वारणाद्यतः ॥ ७॥
कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः ।
धर्मश्च कर्मणां साक्षी पाता यस्य प्रसादतः ॥ ८॥
यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः ।
भक्त्या विधत्ते कण्ठे च शेषो नारायणांशकः ॥ ९॥
यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः ।
सर्वदेवाधिपः श्रीमान्महेन्द्रो धारणाद्यतः ॥ १०॥
राजा मरुतो भगवानभवद्धारणाद्यतः ।
त्रैलोक्याधिपतिः श्रीमान्नहुषो यस्य धारणात् ॥ ११॥
विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः ।
मुचुकुन्दो यतः श्रीमान्मान्धातृतनयो महान् ॥ १२॥
सर्वसम्पत्पदस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम् ॥ १३॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥ १४॥
ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् ।
श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः । १५॥।
ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु ।
ॐ श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम ॥ १६॥
ॐ श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु ।
ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु ॥ १७॥
ॐ श्रीं नारायणेशायै मम कण्ठं सदाऽवतु ।
ॐ श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु ॥॥ १८॥
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु ।
ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु ॥ १९॥
ओं श्रीं मों कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ।
ओं ह्रीं श्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु ॥ २०॥
ॐ श्रीनिवासकान्तायै मम पदौ सदाऽवतु ।
ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥ २१॥
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ।
पद्मा मां दक्षिणे पातु नैरृत्यां श्रीर्हरिप्रिया ॥ २२॥
पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम् ।
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ॥ २३॥
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ।
सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ २४॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ २५॥
सुवर्णपर्वतं दत्वा मेरुतुल्यं द्विजातये ।
यत्फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ २६॥
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ स श्रीमान्प्रतिजन्मनि ॥ २७॥
अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम् ।
देवेन्द्रैश्चासुरेन्द्रैश्च सोऽवध्यो निश्चितं भवेत् ॥ २८॥
स सर्वपुण्यवान्धीमान्सर्वयज्ञेषु दीक्षितः ।
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ २९॥
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ।
गुरुभक्ताय शिष्याय शरण्याय प्रकाशयेत् ॥ ३०॥
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रसूम् ।
कोटिसङ्ख्यं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ३१॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे
श्रीलक्ष्मीकवचवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः ॥ ३८॥
Brahmavaqivartapurana 3 Ganapati Khanda, adhyAya 38, Verses 52-82