श्रीललितालकारादिशतनामस्तोत्रम्

श्रीललितालकारादिशतनामस्तोत्रम्

श्रीललितात्रिपुरसुन्दर्यै नमः । श्रीललितालकारादिशतनामस्तोत्रसाधना । विनियोगः - ॐ अस्य श्रीललितालकारादिशतनाममालामन्त्रस्य श्रीराजराजेश्वरो ॠषिः । अनुष्टुप्छन्दः । श्रीललिताम्बा देवता । क ए ई ल ह्रीं बीजम् । स क ल ह्रीं शक्तिः । ह स क ह ल ह्रीं उत्कीलनम् । श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगः । ॠष्यादि न्यासः - ॐ श्रीराजराजेश्वरोॠषये नमः- शिरसि । ॐ अनुष्टुप्छन्दसे नमः- मुखे । ॐ श्रीललिताम्बादेवतायै नमः- हृदि । ॐ क ए ई ल ह्रीं बीजाय नमः- लिङ्गे । ॐ स क ल ह्रीं शक्त्तये नमः- नाभौ । ॐ ह स क ह ल ह्रीं उत्कीलनाय नमः- सर्वाङ्गे । ॐ श्रीललिताम्बादेवताप्रसादसिद्धये षट्कर्मसिद्ध्यर्थे तथा धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगाय नमः- अञ्जलौ । करन्यासः - ॐ ऐं क ए ई ल ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं ह स क ह ल ह्रीं तर्जनीभ्यां नमः । ॐ सौः स क ल ह्रीं मध्यमाभ्यां नमः । ॐ ऐं क ए ई ल ह्रीं अनामिकाभ्यां नमः । ॐ क्लीं ह स क ह ल ह्रीं कनिष्ठिकाभ्यां नमः । ॐ सौं स क ल ह्रीं करतलकरपृष्ठाभ्यां नमः । अङ्गन्यासः - ॐ ऐं क ए ई ल ह्रीं हृदयाय नमः । ॐ क्लीं ह स क ह ल ह्रीं शिरसे स्वाहा । ॐ सौं स क ल ह्रीं शिखायै वषट् । ॐ ऐं क ए ई ल ह्रीं कवचाय हुम् । ॐ क्लीं ह स क ह ल ह्रीं नेत्रत्रयाय वौषट् । ॐ सौं स क ल ह्रीं अस्त्राय फट् । ध्यानम् । बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥ मानसपूजनम् । ॐ लं पृथिव्यात्मकं गन्धं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं श्रीललितात्रिपुराप्रीतये घ्रापयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं श्रीललितात्रिपुराप्रीतये दर्शयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीललितात्रिपुराप्रीतये निवेदयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीललितात्रिपुराप्रीतये समर्पयामि नमः ॥ श्रीललितात्रिपुरसुन्दर्यै नमः । श्रीललितालकारादिशतनामस्तोत्रसाधना । पूर्वपीठिका - कैलासशिखरासीनं देवदेवं जगद्गरूम् । पप्रच्छेशं परानन्दं भैरवी परमेश्वरम् ॥ १॥ श्रीभैरव्युवाच । कौलेश ! श्रोतुमिच्छामि सर्वमन्त्रोत्तमोत्तमम् । ललिताया शतनाम सर्वकामफलप्रदम् ॥ २॥ श्रीभैरवोवाच । श‍ृणु देवी महाभागे स्तोत्रमेतदनुत्तमं पठनद्धारणादस्य सर्वसिद्धीश्वरो भवेत् ॥ ३॥ षट्कर्माणि सिद्ध्यन्ति स्तवस्यास्य प्रसादतः । गोपनीयं पशोरग्रे स्वयोनिमपरे यथा ॥ ४॥ विनियोगः । ललिताया लकारादि नामशतकस्य देवि ! । राजराजेश्वरो ऋषिः प्रोक्तो छन्दोऽनुष्टुप् तथा ॥ ५॥ देवता ललितादेवी षट्कर्मसिद्ध्यर्थे तथा । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ६॥ वाक्कामशक्त्तिबीजेन करषडङ्गमाचरेत् । प्रयोगे बालात्र्यक्षरी योजयित्वा जपं चरेत् ॥ ७॥ अथ मूल श्रीललितालकारादिशतनामस्तोत्रम् । ललिता लक्ष्मी लोलाक्षी लक्ष्मणा लक्ष्मणार्चिता । लक्ष्मणप्राणरक्षिणी लाकिनी लक्ष्मणप्रिया ॥ १॥ लोला लकारा लोमशा लोलजिह्वा लज्जावती । लक्ष्या लाक्ष्या लक्षरता लकाराक्षरभूषिता ॥ २॥ लोललयात्मिका लीला लीलावती च लाङ्गली । लावण्यामृतसारा च लावण्यामृतदीर्घिका ॥ ३॥ लज्जा लज्जामती लज्जा ललना ललनप्रिया । लवणा लवली लसा लाक्षकी लुब्धा लालसा ॥ ४॥ लोकमाता लोकपूज्या लोकजननी लोलुपा । लोहिता लोहिताक्षी च लिङ्गाख्या चैव लिङ्गेशी ॥ ५॥ लिङ्गगीति लिङ्गभवा लिङ्गमाला लिङ्गप्रिया । लिङ्गाभिधायिनी लिङ्गा लिङ्गनामसदानन्दा ॥ ६॥ लिङ्गामृतप्रिता लिङ्गार्चनप्रिता लिङ्गपूज्या । लिङ्गरूपा लिङ्गस्था च लिङ्गालिङ्गनतत्परा ॥ ७॥ लतापूजनरता च लतासाधकतुष्टिदा । लतापूजकरक्षिणी लतासाधनसध्दिदा ॥ ८॥ लतागृहनिवाकसिनी लतापूज्या लताराध्या । लतापुष्पा लतारता लताधारा लतामयी ॥ ९॥ लतास्पर्शनसन्तुष्टा लताऽऽलिङ्गनहर्षिता । लताविद्या लतासारा लताऽऽचारा लतानिधी ॥ १०॥ लवङ्गपुष्पसन्तुष्टा लवङ्गलतामध्यस्था । लवङ्गलतिकारूपा लवङ्गहोमसन्तुष्टा ॥ ११॥ लकाराक्षारपूजिता च लकारवर्णोद्भवा । लकारवर्णभूषिता लकारवर्णरूचिरा ॥ १२॥ लकारबीजोद्भवा तथा लकाराक्षरस्थिता । लकारबीजनिलया लकारबीजसर्वस्वा ॥ १३॥ लकारवर्णसर्वाङ्गी लक्ष्यछेदनतत्परा । लक्ष्यधरा लक्ष्यघूर्णा लक्षजापेनसिद्धदा ॥ १४॥ लक्षकोटिरूपधरा लक्षलीलाकलालक्ष्या । लोकपालेनार्चिता च लाक्षारागविलेपना ॥ १५॥ लोकातीता लोपामुद्रा लज्जाबीजस्वरूपिणी । लज्जाहीना लज्जामयी लोकयात्राविधायिनी ॥ १६॥ लास्यप्रिया लयकरी लोकलया लम्बोदरी । लघिमादिसिद्धदात्री लावण्यनिधिदायिनी । लकारवर्णग्रथिता लम्बीजा ललिताम्बिका ॥ १७॥ फलश्रुतिः । इति ते कथितं ! गुह्याद्गुह्यतरं परम् । प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि । यः पठेत्साधकश्रेष्ठो त्रैलोक्यविजयी भवेत् ॥ १॥ सर्वपापिविनिर्ममुक्तः स याति ललितापदम् । शून्यागारे शिवारण्ये शिवदेवालये तथा ॥ २॥ शून्यदेशे तडागे च नदीतीरे चतुष्पथे । एकलिङ्गे ऋतुस्नातागेहे वेश्यागृहे तथा ॥ ३॥ पठेदष्टोत्तरशतनामानि सर्वसिद्धये । साधको वाञ्छां यत्कुर्यात्तत्तथैव भविष्यति ॥ ४॥ बह्माण्डगोलके याश्च याः काश्चिज्जगतीतले । समस्ताः सिद्धयो देवी ! करामलकवत्सदा ॥ ५॥ साधकस्मृतिमात्रेण यावन्त्यः सन्ति सिद्धयः । स्वयमायान्ति पुरतो जपादीनां तु का कथा ॥ ६॥ अयुतावर्त्तनाद्देवि ! पुरश्चर्याऽस्य गीयते । पुरश्चर्यायुतः स्तोत्रः सर्वकर्मफलप्रदः ॥ ७॥ सहस्रं च पठेद्यस्तु मासार्ध साधकोत्तमः । दासीभूतं जगत्सर्वं मासार्धाद्भवति ध्रुवम् ॥ ८॥ नित्यं प्रतिनाम्ना हुत्वा पालशकुसुमैर्नरः । भूलोकस्थाः सर्वकन्याः सर्वलोकस्थितास्तथा ॥ ९॥ पातालस्थाः सर्वकन्याः नागकन्याः यक्षकन्याः । वशीकुर्यान्मण्डलार्धात्संशयो नात्र विद्यते ॥ १०॥ अश्वत्थमूले पठेत्शतवार ध्यानपूर्वकम् । तत्क्षणाद्व्याधिनाशश्च भवेद्देवी ! न संशयः ॥ ११॥ शून्यागारे पठेत्स्तोत्रं सहस्रं ध्यानपूर्ववकम् । लक्ष्मी प्रसीदति ध्रुवं स त्रैलोक्यं वशिष्यति ॥ १२॥ प्रेतवस्त्रं भौमे ग्राह्यं रिपुनाम च कारयेत् । प्राणप्रतिष्ठा कृत्वा तु पूजां चैव हि कारयेत् ॥ १३॥ श्मशाने निखनेद्रात्रौ द्विसहस्रं पठेत्ततः । जिहवास्तम्भनमाप्नोति सद्यो मूकत्वमाप्नुयात् ॥ १४॥ श्मशाने पठेत् स्तोत्रं अयुतार्ध सुबुद्धिमान् । शत्रुक्षयो भवेत् सद्यो नान्यथा मम भाषितम् ॥ १५॥ प्रेतवस्त्रं शनौ ग्राह्यं प्रतिनाम्ना सम्पुटितम् । शत्रुनाम लिखित्वा च प्राणप्रतिष्ठां कारयेत् ॥ १६॥ ततः ललितां सम्पूज्यय कृष्णधत्तूरपुष्पकैः । श्मशाने निखनेद्रात्रौ शतवारं पठेत् स्तोत्रम् ॥ १७॥ ततो मृत्युमवाप्नोति देवराजसमोऽपि सः । श्मशानाङ्गारमादाय मङ्गले शनिवारे वा ॥ १८॥ प्रेतवस्त्रेण संवेष्ट्य बध्नीयात् प्रेतरज्जुना । दशाभिमन्त्रितं कृत्वा खनेद्वैरिवेश्मनि ॥ १९॥ सप्तरात्रान्तरे तस्योच्चाटनं भ्रामणं भवेत् । कुमारी पूजयित्वा तु यः पठेद्भक्तितत्परः ॥ २०॥ न किञ्चिद्दुर्लभं तस्य दिवि वा भुवि मोदते । दुर्भिक्षे राजपीडायां सग्रामे वैरिमध्यके ॥ २१॥ यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः । तत्र तत्राभयं तस्य भवत्येव न संशयः ॥ २२॥ वामपार्श्वे समानीय शोधितां वरकामिनीम् । जपं कृत्वा पठेद्यस्तु सिद्धिः करे स्थिता ॥ २३॥ दरिद्रस्तु चतुर्दश्यां कामिनीसङ्गमैः सह । अष्टवारं पठेद्यस्तु कुबेरसदृशो भवेत् ॥ २४॥ श्रीललिता महादेवीं नित्यं सम्पूज्य मानवः । प्रतिनाम्ना जुहुयात्स धनराशिमवाप्नुयात् ॥ २५॥ नवनीत चाभिमन्त्र्य स्त्रीभ्यो दद्यान्महेश्वरि । वन्ध्यां पुत्रप्रदं देवि ! नात्र कार्या विचारणा ॥ २६॥ कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे । बहुपुत्रवती नारी सुभगा जायते ध्रुवम ॥ २७॥ उग्र उग्रं महदुग्रं स्तवमिदं ललितायाः । सुविनीताय शान्ताय दान्तायातिगुणाय च ॥ २८॥ भक्त्ताय ज्येष्ठपुत्राय गरूभक्त्तिपराय च । भक्तभक्ताय योग्याय भक्तिशक्तिपराय च ॥ २९॥ वेश्यापूजनयुक्ताय कुमारीपूजकाय च । दुर्गाभक्ताय शैवाय कामेश्वरप्रजापिने ॥ ३०॥ अद्वैतभावयुक्ताय शक्तिभक्तिपराय च । प्रदेयं शतनामाख्यं स्वयं ललिताज्ञया ॥ ३१॥ खलाय परतन्त्राय परनिन्दापराय च । भ्रष्टाय दुष्टसत्त्वाय परीवादपराय च ॥ ३२॥ शिवाभक्त्ताय दुष्टाय परदाररताय च । वेश्यास्त्रीनिन्दकाय च पञ्चमकारनिन्दके ॥ ३३॥ न स्त्रोत्रं दर्शयेद्देवी ! मम हत्याकरो भवेत् । तस्मान्न दापयेद्देवी ! मनसा कर्मणा गिरा ॥ ३४॥ अन्यथा कुरुते यस्तु स क्षीणायुर्भवेद्ध्रुवम । पुत्रहारी च स्त्रीहारी राज्यहारी भवेद्ध्रुवम ॥ ३५॥ मन्त्रक्षोभश्च जायते तस्य मृत्युर्भविष्यति । क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा ॥ ३६॥ क्रमदीक्षायुतो देवी ! क्रमाद् राज्यमवाप्नुयात् । क्रमदीक्षासमायुक्तः कल्पोक्तसिद्धिभाग् भवेत् ॥ ३७॥ विधेर्लिपिं तु सम्मार्ज्य किङ्करत्व विसृज्य च । सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ ३८॥ क्रमदीक्षायुतो देवी ! मम समो न संशयः । गोपनीयं गोपनीयं गोपनीयं सदाऽनघे ॥ ३९॥ स दीक्षितः सुखी साधुः सत्यवादी नजितेन्द्रयः । स वेदवक्ता स्वाध्यायी सर्वानन्दपरायणाः ॥ ४०॥ स्वस्मिन्ललिता सम्भाव्य पूजयेज्जगदम्बिकाम् । त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ॥ ४१॥ गुरुरूपं शिवं ध्यात्वा शिवरूपं गुरुं स्मरेत् । सदाशिवः स एव स्यान्नात्र कार्या विचारणा ॥ ४२॥ इति श्रीकौलिकार्णवे श्रीभैरवीसंवादे षट्कर्मसिद्धदायक श्रीमल्ललिताया लकारादिशतनामस्तोत्रं सम्पूर्णम् । Encoded and proofread by Girdhari Lal Koul glkoul.18 at gmail.com
% Text title            : lalitAlakArAdishatanAmastotram
% File name             : lalitAlakArAdishatanAmastotram.itx
% itxtitle              : lalitAlakArAdishatanAmastotram
% engtitle              : lalitAlakArAdishatanAmastotram
% Category              : aShTottarashatanAma, devii, dashamahAvidyA, devI, lalitA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Girdhari Lal Koul glkoul.18 at gmail.com
% Proofread by          : Girdhari Lal Koul glkoul.18 at gmail.com, NA
% Indexextra            : (Hindi)
% Latest update         : April 9, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org