श्रीललिता नीराजनम्
श्रीललिता-त्रिपुर-सुन्दर्यै नमः ।
जय जय जय ललिते ।
जय जगदीश्वरि मातः श्रीसुन्दरी ललिते,
त्वं मां पालय नित्यं विश्वेश्वरि वरदे ।
मञ्जुल मङ्गलदायिनि परमानन्द प्रदे,
सकलमनोरथ पूरिणि मातः श्री ललिते ॥ १ जय जय जय ललिते
जय श्रीचक्रनिवासिनि कामेश्वरि त्रिपुरे,
दीनं मामवलोकय कृपया श्रीललिते ।
शिववामाङ्क-विहारिणी मोहित भूतपते,
कलित-कलाधरमुकुटे नेत्र त्रय-शोभे ॥ २ जय जय जय ललिते
धनुरङ्कुशरपाशैः शोभित-कर-कमले,
शिशुं स्वकीयं पालय मातः श्रीललिते ।
अरुण-विभा-भव-भासित-भुवनेश्वरि विद्ये,
भव-भय-भञ्जनकारिणि भवनाटकनिपुणे ॥ ३ जय जय जय ललिते
विधिहरिसुरपतिमुकुटैः वन्दितपदपद्मे ,
नीराजनमवलोकय भगवति चितिरूपे ।
संवित्त्व-स्वरूपिणि निगमागमगीते,
सन्तत-चिन्तित-सञ्चित्-स्वानन्दे ललिते ॥ ४ जय जय जय ललिते
बिन्दुनाद-भवभासिनि शिवशक्तिप्रथिते,
स्पन्दसुधारस-वर्णिणि शाम्भवि शक्ति शिवे ।
नीराजनमिदममलं आरात्त्रिक-समये,
भक्त्या गायति सकलं भद्रं सञ्चिनुते ॥ ५ जय जय जय ललिते
नृत्यति गायति कलयति मुदितमना मनुते,
रूपं पश्यति त्वरितं तव ललितं ललिते ।
निरुपाधिक-कामेश्वर-कामेश्वरि ललिते,
अरुणिम तरुणि-मण्डल मण्डित श्रीसदने ॥ ६ जय जय जय ललिते
निष्कल-तत्त्व-प्रकाशिनि परमेश्वरि ललिते,
दत्तात्रेयानन्दं नाथय श्रीललिते ।
चरणसरोजे नमितं लोकय श्रीललिते,
शरणागत-प्रतिपालिनि पालय श्रीललिते ॥ ७ जय जय जय ललिते
इति श्रीललितानीराजनसप्तकं सम्पूर्णम् ।
Encoded and proofread by Aaditya Kalyanaraman