श्रीललितासहस्रनामस्तोत्रम् नारदपुराणान्तर्गतम्
॥ नारदपुराणान्तर्गते सकवच श्रीललितासहस्रनामस्तोत्रम् ॥
सनत्कुमार उवाच-
अथा सामावृतिस्थानां शक्तीनां समयेन च ।
or together ?? अथासामावृतिस्थानां as अथ असां आवृत्तिस्थानां शक्तीनां
नाम्नां सहस्रं वक्ष्यामि गुरुध्यानपुरःसरम् ॥ १॥
नाथा नव प्रकाशाद्याः सुभगान्ताः प्रकीर्तिताः ।
भूम्यादीनि शिवान्तानि विद्धि तत्त्वानि नारद ॥ २॥
गुरुजन्मादिपर्वाणि दर्शान्तानि च सप्त वै ।
एतानि प्राङ्मनोवृत्त्या चिन्तयेत्साधकोत्तमः ॥ ३॥
गुरुस्तोत्रं जपेच्चापि तद्गतेनान्तरात्मना ।
नमस्ते नाथ भगवञ्शिवाय गुरुरूपिणे ॥ ४॥
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ।
नवाय नवरूपाय परमार्थैकरूपिणे ॥ ५॥
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ।
स्वतन्त्राय दयाकॢप्तविग्रहाय शिवात्मने ॥ ६॥
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ।
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥ ७॥
प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ।
पुरस्तात्पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ॥ ८॥
सदा मच्चित्तसदने विधेहि भवदासनम् ।
इति स्तुत्वा गुरुं भक्त्या परां देवीं विचिन्तयेत् ॥ ९॥
गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् ।
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥ १०॥
प्रणमामि महादेवीं मातृकां परमेश्वरीम् ।
कालहृल्लोहलोल्लोहकलानाशनकारिणीम् ॥ ११॥
यदक्षरैकमात्रेऽपि संसिद्धे स्पर्द्धते नरः ।
रविताक्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः ॥ १२॥
यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् ।
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ १३॥
यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् ।
ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ १४॥
यदेकादशमाधारं बीजं कोणत्रयोद्भवम् ।
ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते ॥ १५॥
अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् ।
ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम् ॥ १६॥
नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम् ।
प्रणमामि महादेवीं परमानन्दरूपिणीम् ॥ १७॥
अथापि यस्या जानन्ति न मनागपि देवताः ।
केयं कस्मात्क्व केनेति सरूपारूपभावनाम् ॥ १८॥
वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् ।
देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम् ॥ १९॥
वर्गानुक्रमयोगेन यस्याख्योमाष्टकं स्थितम् ।
वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम् ॥ २०॥
कामपूर्णजकाराख्यसुपीठान्तर्न्निवासिनीम् ।
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् ॥ २१॥
एतत्स्तोत्रं तु नित्यानां यः पठेत्सुसमाहितः ।
पूजादौ तस्य सर्वास्ता वरदाः स्युर्न संशयः ॥ २२॥
अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् ।
येन देवासुरनरजयी स्यात्साधकः सदा ॥ २३॥
सर्वतः सर्वदाऽऽत्मानं ललिता पातु सर्वगा ।
कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ २४॥
दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ।
नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम् ॥ २५॥
तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी ।
महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ २६॥
वामपार्श्वं सदा पातु इतीमेलरिता ततः ।
माहेश्वरी दिशं पातु त्वरितं सिद्धदायिनी ॥ २७॥
पातु मामूर्ध्वतः शश्वद्देवता कुलसुन्दरी ।
अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ २८॥
करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ।
देहेन्द्रियमनःप्राणाञ्ज्वालामालिनिविग्रहा ॥ २९॥
पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु ।
कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ ३०॥
पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा ।
असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा ।
स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति ॥ ३१॥
नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः ।
तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ ३२॥
सिंहारूढास्तथा पान्तु पान्तु ऋक्षगता अपि ।
रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ ३३॥
तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगताश्च ताः ।
भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा ॥ ३४॥
भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् ।
द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ ३५॥
गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः ।
असङ्ख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा ॥ ३६॥
सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् ।
कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ ३७॥
इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् ।
यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ ३८॥
अथ नाम्नां सहस्रं ते वक्ष्ये सावरणार्चनम् ।
षोडशानामपि मुने स्वस्वक्रमगतात्मकम् ॥ ३९॥
ॐ ललिता चापि वा कामेश्वरी च भगमालिनी ।
नित्यक्लिन्ना च भेरुण्डा कीर्तिता वह्निवासिनी ॥ ४०॥
वज्रेश्वरी तथा दूती त्वरिता कुलसुन्दरी ।
नित्या संवित्तथा नीलपताका विजयाह्वया ॥ ४१॥
सर्वमङ्गलिका चापि ज्वालामालिनिसञ्ज्ञिता ।
चित्रा चेति क्रमान्नित्याः षोडशापीष्टविग्रहाः ॥ ४२॥
कुरुकुल्ला च वाराही द्वे एते चेष्टविग्रहे ।
वशिनी चापि कामेशी मोहिनी विमलारुणा ॥ ४३॥
तपिनी च तथा सर्वेश्वरीचाप्यथ कौलिनी ।
मुद्राणन्तनुरिष्वर्णरूपा चापार्णविग्रहा ॥ ४४॥
पाशवर्णशरीरा चाकुर्वर्णसुवपुर्द्धरा ।
त्रिखण्डा स्थापनी सन्निरोधनी चावगुण्ठनी ॥ ४५॥
सन्निधानेषु चापाख्या तथा पाशाङ्कुशाभिधा ।
नमस्कृतिस्तथा सङ्क्षोभणी विद्रावणी तथा ॥ ४६॥
आकर्षणी च विख्याता तथैवावेशकारिणी ।
उन्मादिनी महापूर्वा कुशाथो खेचरी मता ॥ ४७॥
बीजा शक्त्युत्थापना च स्थूलसूक्ष्मपराभिधा ।
अणिमा लघिमा चैव महिमा गरिमा तथा ॥ ४८॥
प्राप्तिः प्रकामिता चापि चेशिता वशिता तथा ।
भुक्तिः सिद्धिस्तथैवेच्छा सिद्धिरूपा च कीर्तिता ॥ ४९॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराहीन्द्राणी चामुण्डा महालक्ष्मीस्वरूपिणी ॥ ५०॥
कामा बुद्धिरहङ्कारशब्दस्पर्शस्वरूपिणी ।
रूपरूपा रसाह्वा च गन्धवित्तधृतिस्तथा ॥ ५१॥
नाभबीजामृताख्या च स्मृतिदेहात्मरूपिणी ।
कुसुमा मेखला चापि मदना मदनातुरा ॥ ५२॥
रेखा संवेगिनी चैव ह्यङ्कुशा मालिनीति च ।
सङ्क्षोभिणी तथा विद्राविण्याकर्षणरूपिणी ॥ ५३॥
आह्लादिनीति च प्रोक्ता तथा सम्मोहिनीति च ।
स्तम्भिनी जम्भिनी चैव वशङ्कर्यथ रञ्जिनी ॥ ५४॥
उन्मादिनी तथैवार्थसाधिनीति प्रकीर्तिता ।
सम्पत्तिपूर्णा सा मन्त्रमयी द्वन्द्वक्षयङ्करी ॥ ५५॥
सिद्धिः सम्पत्प्रदा चैव प्रियमङ्गलकारिणी ।
कामप्रदा निगदिता तथा दुःखविमोचिनी ॥ ५६॥
मृत्युप्रशमनी चैव तथा विघ्ननिवारिणी ।
अङ्गसुन्दरिका चैव तथा सौभाग्यदायिनी ॥ ५७॥
ज्ञानैश्वर्यप्रदा ज्ञानमयी चैव च पञ्चमी ।
विन्ध्यवासनका घोरस्वरूपा पापहारिणी ॥ ५८॥
तथानन्दमयी रक्षारूपेप्सितफलप्रदा ।
जयिनी विमला चाथ कामेशी वज्रिणी भगा ॥ ५९॥
त्रैलोक्यमोहना स्थाना सर्वाशापरिपूरणी ।
सर्वसंक्षोभणगता सौभाग्यप्रदसंस्थिता ॥ ६०॥
सवार्थसाधकागारा सर्वरोगहरास्थिता ।
सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता ॥ ६१॥
सर्वानन्दमयाधारबिन्दुस्थानशिवात्मिका ।
प्रकृष्टा च तथा गुप्ता ज्ञेया गुप्ततरापि च ॥ ६२॥
सम्प्रदायस्वरूपा च कुलकौलनिगर्भगा ।
रहस्यापरापरप्राकृत्तथैवातिरहस्यका ॥ ६३॥
त्रिपुरा त्रिपुरेशी च तथैव पुरवासिनी ।
श्रीमालिनी च सिद्धान्ता महात्रिपुरसुन्दरी ॥ ६४॥
नवरत्नमयद्वीपनवखण्डविराजिता ।
कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चका ॥ ६५॥
कालमुद्रा मातृकाख्या रत्नदेशोपदेशिका ।
तत्त्वाग्रहाभिधा मूर्तिस्तथैव विषयद्विपा ॥ ६६॥
देशकालाकारशब्दरूपा सङ्गीतयोगिनी ।
समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक् ॥ ६७॥
वह्निसूर्येन्दुभूताह्वा तथात्माष्टाक्षराह्वया ।
पञ्चधार्चास्वरूपा च नानाव्रतसमाह्वया ॥ ६८॥
निषिद्धाचाररहिता सिद्धचिह्नस्वरूपिणी ।
चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरूपिणी ॥ ६९॥
दमनादिसमभ्यर्चा षट्कर्मसिद्धिदायिनी ।
तिथिवारपृथग्द्रव्यसमर्चनशुभावहा ॥ ७०॥
वायोश्यनङ्गकुसुमा तथैवानङ्गमेखला ।
अनङ्गमदनानङ्गमदनातुरसाह्वया ॥ ७१॥
मददेगिनिका चैव तथा भुवनपालिनी ।
शशिलेखा समुद्दिष्टा गतिलेखाह्वया मता ॥ ७२॥
श्रद्धा प्रीती रतिश्चैव धृतिः कान्तिर्मनोरमा ।
मनोहरा समाख्याता तथैव हि मनोरथा ॥ ७३॥
मदनोन्मादिनी चैव मोदिनी शङ्खिनी तथा ।
शोषिणी चैव शङ्कारी सिञ्जिनी सुभगा तथा ॥ ७४॥
पूषाचेद्वासुमनसा रतिः प्रीतिर्धृतिस्तथा ।
ऋद्धिः सौम्या मरीचिश्च तथैव ह्यंशुमालिनी ॥ ७५॥
शशिनी चाङ्गिरा छाया तथा सम्पूर्णमण्डला ।
तुष्टिस्तथामृताख्या च डाकिनी साथ लोकपा ॥ ७६॥
बटुकेभास्वरूपा च दुर्गा क्षेत्रेशरूपिणी ।
कामराजस्वरूपा च तथा मन्मथरूपिणी ॥ ७७॥
कन्दर्प्परूपिणी चैव तथा मकरकेतना ।
मनोभवस्वरूपा च भारती वर्णरूपिणी ॥ ७८॥
मदना मोहिनी लीला जम्भिनी चोद्यमा शुभा ।
ह्लादिनी द्राविणी प्रीती रती रक्ता मनोरमा ॥ ७९॥
सर्वोन्मादा सर्वमुखा ह्यभङ्गा चामितोद्यमा ।
अनल्पाव्यक्तविभवा विविधाक्षोभविग्रहा ॥ ८०॥
रागशक्तिर्द्वेषशक्तिस्तथा शब्दादिरूपिणी ।
नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा ॥ ८१॥
मदद्रवा द्राविणी च द्रविणी चेति कीर्तिता ।
मदाविला मङ्गला च मन्मथानी मनस्विनी ॥ ८२॥
मोहा मोदा मानमयी माया मन्दा मितावती ।
विजया विमला चैव शुभा विश्वा तथैव च ॥ ८३॥
विभूतिर्विनता चैव विविधा विनता क्रमात् ।
कमला कामिनी चैव किराता कीर्तिरूपिणी ॥ ८४॥
कुट्टिनी च समुद्दिष्टा तथैव कुलसुन्दरी ।
कल्याणी कालकोला च डाकिनी शाकिनी तथा ॥ ८५॥
लाकिनी काकिनी चैव राकिनी काकिनी तथा ।
इच्छाज्ञाना क्रियाख्या चाप्यायुधाष्टकधारिणी ॥ ८६॥
कपर्दिनी समुद्दिष्टा तथैव कुलसुन्दरी ।
ज्वालिनी विस्फुलिङ्गा च मङ्गला सुमनोहरा ॥ ८७॥
कनका किनवा विद्या विविधा च प्रकीर्तिता ।
मेषा वृषाह्वया चैव मिथुना कर्कटा तथा ॥ ८८॥
सिंहा कन्या तुला कीटा चापा च मकरा तथा ।
कुम्भा मीना च सारा च सर्वभक्षा तथैव च ॥ ८९॥
विश्वात्मा विविधोद्भूतचित्ररूपा च कीर्तिता ।
निःसपत्ना निरातङ्का याचनाचिन्त्यवैभवा ॥ ९०॥
रक्ता चैव ततः प्रोक्ता विद्याप्राप्तिस्वरूपिणी ।
हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा ॥ ९१॥
निरञ्जना रागवती तथैव मदनावती ।
मेखला द्राविणी वेगवती चैव प्रकीर्तिता ॥ ९२॥
कमला कामिनी कल्पा कला च कलिताद्भुता ।
किराता च तथा काला कदना कौशिका तथा ॥ ९३॥
कम्बुवादनिका चैव कातरा कपटा तथा ।
कीर्तिश्चापि कुमारी च कुङ्कुमा परिकीर्तिता ॥ ९४॥
भञ्जिनी वेगिनी नागा चपला पेशला सती ।
रतिः श्रद्धा भोगलोला मदोन्मत्ता मनस्विनी ॥ ९५॥
विह्वला कर्षिणी लोला तथा मदनमालिनी ।
विनोदा कौतुका पुण्या पुराणा परिकीर्तिता ॥ ९६॥
वागीशी वरदा विश्वा विभवा विघ्नकारिणी ।
बीजविघ्नहरा विद्या सुमुखी सुन्दरी तथा ॥ ९७॥
सारा च सुमना चैव तथा प्रोक्ता सरस्वती ।
समया सर्वगा विद्धा शिवा वाणी च कीर्तिता ॥ ९८॥
दूरसिद्धा तथा प्रोक्ताथो विग्रहवती मता ।
नादा मनोन्मनी प्राणप्रतिष्ठारुणवैभवा ॥ ९९॥
प्राणापाना समाना च व्यानोदाना च कीर्तिता ।
नागा कूर्मा च कृकला देवदत्ता धनञ्जया ॥ १००॥
फट्कारी किङ्कराराध्या जया च विजया तथा ।
हुङ्कारी खेचरी चण्डं छेदिनी क्षपिणी तथा ॥ १०१॥
स्त्रीहुङ्कारी क्षेमकारी चतुरक्षररूपिणी ।
श्रीविद्यामतवर्णाङ्गी काली याम्या नृपार्णका ॥ १०२॥
भाषा सरस्वती वाणी संस्कृता प्राकृता परा ।
बहुरूपा चित्तरूपा रम्यानन्दा च कौतुका ॥ १०३॥
त्रयाख्या परमात्माख्याप्यमेयविभवा तथा ।
वाक्स्वरूपा बिन्दुसर्गरूपा विश्वात्मिका तथा ॥ १०४॥
तथा त्रैपुरकन्दाख्या ज्ञात्रादित्रिविधात्मिका ।
आयुर्लक्ष्मीकीर्तिभोगसौन्दर्यारोग्यदायिका ॥ १०५॥
ऐहिकामुष्मिकज्ञानमयी च परिकीर्तिता ।
जीवाख्या विजयाख्या च तथैव विश्वविन्मयी ॥ १०६॥
हृदादिविद्या रूपादिभानुरूपा जगद्वपुः ।
विश्वमोहनिका चैव त्रिपुरामृतसञ्ज्ञिका ॥ १०७॥
सर्वाप्यायनरूपा च मोहिनी क्षोभणी तथा ।
क्लेदिनी च समाख्याता तथैव च महोदया ॥ १०८॥
सम्पत्करी हलक्षार्णा सीमामातृतनू रतिः ।
प्रीतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा ॥ १०९॥
त्रिकूटा चापि षट्कूटा पञ्चकूटा विशुद्धगा ।
अनाहतगता चैव मणिपूरकसंस्थिता ॥ ११०॥
स्वाधिष्ठानसमासीनाधारस्थाज्ञासमास्थिता ।
षट्त्रिंशत्कूटरूपा च पञ्चाशन्मिथुनात्मिका ॥ १११॥
पादुकादिकसिद्धीशा तथा विजयदायिनी ।
कामरूपप्रदा वेतालरूपा च पिशाचिका ॥ ११२॥
विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिका ।
विशाला मदना तुष्टा कालकण्ठी महाभया ॥ ११३॥
माहेन्द्री शङ्खिनी चैन्द्री मङ्गला वटवासिनी ।
मेखला सकला लक्ष्मीर्मालिनी विश्वनायिका ॥ ११४॥
सुलोचना सुशोभा च कामदा च विलासिनी ।
कामेश्वरी नन्दिनी च स्वर्णरेखा मनोहरा ॥ ११५॥
प्रमोदा रागिणी सिद्धा पद्मिनी च रतिप्रिया ।
कल्याणदा कलादक्षा ततश्च सुरसुन्दरी ॥ ११६॥
विभ्रमा वाहका वीरा विकला कोरका कविः ।
सिंहनादा महानादा सुग्रीवा मर्कटा शठा ॥ ११७॥
बिडालाक्षा बिडालास्या कुमारी खेचरी भवा ।
मयूरा मङ्गला भीमा द्विपवक्त्रा खरानना ॥ ११८॥
मातङ्गी च निशाचारा वृषग्राहा वृकानना ।
सैरिभास्या गजमुखा पशुवक्त्रा मृगानना ॥ ११९॥
क्षोभका मणिभद्रा च क्रीडका सिंहचक्रका ।
महोदरा स्थूलशिखा विकृतास्या वरानना ॥ १२०॥
चपला कुक्कुटास्या च पाविनी मदनालसा ।
मनोहरा दीर्घजङ्घा स्थूलदन्ता दशानना ॥ १२१॥
सुमुखा पण्डिता क्रुद्धा वराहास्या सटामुखा ।
कपटा कौतुका काला किङ्करा कितवा खला ॥ १२२॥
भक्षका भयदा सिद्धा सर्वगा च प्रकीर्तिता ।
जया च विजया दुर्गा भद्रा भद्रकरी तथा ॥ १२३॥
अम्बिका वामदेवी च महामायास्वरूपिणी ।
विदारिका विश्वमयी विश्वा विश्वविभञ्जिता ॥ १२४॥
वीरा विक्षोभिणी विद्या विनोदा बीजविग्रहा ।
वीतशोका विषग्रीवा विपुला विजयप्रदा ॥ १२५॥
विभवा विविधा विप्रा तथैव परिकीर्तिता ।
मनोहरा मङ्गला च मदोत्सिक्ता मनस्विनी ॥ १२६॥
मानिनी मधुरा माया मोहिनी च तथा स्मृता ।
भद्रा भवानी भव्या च विशालाक्षी शुचिस्मिता ॥ १२७॥
ककुभा कमला कल्पा कलाथो पूरणी तथा ।
नित्या चाप्यमृता चैव जीविता च तथा दया ॥ १२८॥
अशोका ह्यमला पूर्णा पूर्णा भाग्योद्यता तथा ।
विवेका विभवा विश्वा वितता च प्रकीर्तिता ॥ १२९॥
कामिनी खेचरी गर्वा पुराणा परमेश्वरी ।
गौरी शिवा ह्यमेया च विमला विजया परा ॥ १३०॥
पवित्रा पद्मिनी विद्या विश्वेशी शिववल्लभा ।
अशेषरूपा ह्यानन्दाम्बुजाक्षी चाप्यनिन्दिता ॥ १३१॥
वरदा वाक्यदा वाणी विविधा वेदविग्रहा ।
विद्या वागीश्वरी सत्या संयता च सरस्वती ॥ १३२॥
निर्मलानन्दरूपा च ह्यमृता मानदा तथा ।
पूषा चैव तथा पुष्टिस्तुष्टिश्चापि रतिर्धृतिः ॥ १३३॥
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता कामदायिनीन्दुकलात्मिका ॥ १३४॥
तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बाधिनी धारिणी क्षमा ॥ १३५॥
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा ॥ १३६॥
घस्मरा विश्वकवला लोलाक्षी लोलजिह्विका ।
सर्वभक्षा सहस्राक्षी निःसङ्गा च गतिप्रिया ॥ १३७॥
अचिन्त्या चाप्रमेया च पूर्णरूपा दुरासदा ।
सर्वा संसिद्धिरूपा च पावनीत्येकरूपिणी ॥ १३८॥
तथा यामलवेधाख्या शाक्ते वेदस्वरूपिणी ।
तथा शाम्भववेधा च भावनासिद्धिसूचिनी ॥ १३९॥
वह्निरूपा तथा दस्रा ह्यमाविध्ना भुजङ्गमा ।
षण्मुखा रविरूपा च माता दुर्गा दिशा तथा ॥ १४०॥
धनदा केशवा चापि यमी चैव हरा शशा ।
अश्विनी च यमी वह्निरूपा धात्रीति कीर्तिता ॥ १४१॥
चन्द्रा शिवादितिर्जीवा सर्पिणी पितृरूपिणी ।
अर्यम्णा च भगा सूर्या त्वाष्ट्रिमारुतिसञ्ज्ञिका ॥ १४२॥
इन्द्राग्निरूपा मित्रा चापीन्द्राणी निरृतिर्जला ।
वैश्वदेवी हरितभूर्वासवी वरुणा जया ॥ १४३॥
अहिर्बुध्न्या पूषणी च तथा कारस्करामला ।
उदुम्बरा जम्बुका च खदिरा कृष्णरूपिणी ॥ १४४॥
वंशा च पिप्पला नागा रोहिणा च पलाशका ।
पक्षका च तथाम्बष्ठा बिल्वा चार्जुनरूपिणी ॥ १४५॥
विकङ्कता च ककुभा सरला चापि सर्जिका ।
बञ्जुला पनसार्का च शमी हलिप्रियाम्रका ॥ १४६॥
निम्बा मधूकसञ्ज्ञा चाप्यश्वत्था च गजाह्वया ।
नागिनी सर्पिणी चैव शुनी चापि बिडालिकी ॥ १४७॥
छागी मार्जारिका मूषी वृषभा माहिषी तथा ।
शार्दूली सैरिभी व्याघ्री हरिणी च मृगी शुनी ॥ १४८॥
कपिरूपा च गोघण्टा वानरी च नराश्विनी ।
नगा गौर्हस्तिनी चेति तथा षट्चक्रवासिनी ॥ १४९॥
त्रिखण्डा तीरपालाख्या भ्रामणी द्रविणी तथा ।
सोमा सूर्या तिथिर्वारा योगार्क्षा करणात्मिका ॥ १५०॥
यक्षिणी तारणा व्योमशब्दाद्या प्राणिनी च धीः ।
क्रोधिनी स्तम्भिनी चण्डोच्चण्डा ब्राह्म्यादिरूपिणी ॥ १५१॥
सिंहस्था व्याघ्रगा चैव गजाश्वगरुडस्थिता ।
भौमाप्या तैजसी वायुरूपिणी नाभसा तथा ॥ १५२॥
एकवक्त्रा चतुर्वक्त्रा नववक्त्रा कलानना ।
पञ्चविंशतिवक्त्रा च षड्विंशद्वदना तथा ॥ १५३॥
ऊनपञ्चाशदास्या च चतुःषष्टिमुखा तथा ।
एकाशीतिमुखा चैव शताननसमन्विता ॥ १५४॥
स्थूलरूपा सूक्ष्मरूपा तेजोविग्रहधारिणी ।
वृणावृत्तिस्वरूपा च नाथावृत्तिस्वरूपिणी ॥ १५५॥
तत्त्वावृत्तिस्वरूपापि नित्यावृत्तिवपुर्द्धरा ॥ १५६॥
अङ्गावृत्तिस्वरूपा चाप्यायुधावृत्तिरूपिणी ।
गुरुपङ्क्तिस्वरूपा च विद्यावृत्तितनुस्तथा ॥ १५७॥
ब्रह्माद्यावृत्तिरूपा च परा पश्यन्तिका तथा ।
मध्यमा वैखरी शीर्षकण्ठताल्वोष्ठदन्तगा ॥ १५८॥
जिह्वामूलगता नासागतोरःस्थलगामिनी ।
पदवाक्यस्वरूपा च वेदभाषास्वरूपिणी ॥ १५९॥
सेकाख्या वीक्षणाख्या चोपदेशाख्या तथैव च ।
व्याकुलाक्षरसङ्केता गायत्री प्रणवादिका ॥ १६०॥
जपहोमार्चनध्यानयन्त्रतर्पणरूपिणी ।
सिद्धसारस्वता मृत्युञ्जया च त्रिपुरा तथा ॥ १६१॥
गारुडा चान्नपूर्णा चाप्यश्वारूढा नवात्मिका ।
गौरी च देवी हृदया लक्षदा च मतङ्गिनी ॥ १६२॥
निष्कत्रयपदा चेष्टावादिनी च प्रकीर्तिता ।
राजलक्ष्मीर्महालक्ष्मीः सिद्धलक्ष्मीर्गवानना ॥ १६३॥
इत्येवं ललितादेव्या दिव्यं नामसहस्रकम् ।
सर्वार्थसिद्धिदं प्रोक्तं चतुर्वर्गफलप्रदम् ॥ १६४॥
एतन्नित्यमुषःकाले यो जपेच्छुद्धमानसः ।
स योगी ब्रह्मविज्ज्ञानी शिवयोगी तथाऽऽत्मवित् ॥ १६५॥
द्विरावृत्त्या प्रजपतो ह्यायुरारोग्यसम्पदः ।
लोकानुरञ्जनं नारीनृपावर्जनकर्म च ॥ १६६॥
अपृथक्त्वेन सिद्ध्यन्ति साधकस्यास्य निश्चितम् ।
त्रिरावृत्त्यास्य वै पुंसो विश्वं भूयाद्वशेऽखिलम् ॥ १६७॥
चतुरावृत्तितश्चास्य समीहितमनारतम् ।
फलत्येव प्रयोगार्हो लोकरक्षाकरो भवेत् ॥ १६८॥
पञ्चावृत्त्या नरा नार्यो नृपा देवाश्च जन्तवः ।
भजन्त्येनं साधकं च देव्यामाहितचेतसः ॥ १६९॥
षडावृत्त्या तन्मयः स्यात्साधकश्चास्य सिद्धयः ।
अचिरेणैव देवीनां प्रसादात्सम्भवन्ति च ॥ १७०॥
सप्तावृत्त्यारिरोगादिकृत्यापस्मारनाशनम् ।
अष्टावृत्त्या नरो भूपान्निग्रहानुग्रहक्षमः ॥ १७१॥
नवावृत्त्या मन्मथाभो विक्षोभयति भूतलम् ।
दशावृत्त्या पठेन्नित्यं वाग्लक्ष्मीकान्तिसिद्धये ॥ १७२॥
रुद्रा वृत्त्याखिलर्द्धिश्च तदायत्तं जगद्भवेत् ।
अर्कावृत्त्या सिद्धिभिः स्याद्दिग्भिर्मर्त्यो हरोपमः ॥ १७३॥
विश्वावृत्त्या तु विजयी सर्वतः स्यात्सुखी नरः ।
शक्रावृत्त्याखिलेष्टाप्तिः सर्वतो मङ्गलं भवेत् ॥ १७४॥
तिथ्यावृत्त्याखिलानिष्टानयत्नादाप्नुयान्नरः ।
षोडशावृत्तितो भूयान्नरः साक्षान्महेश्वरः ॥ १७५॥
विश्वं स्रष्टुं पालयितुं संहर्तुं च क्षमो भवेत् ।
मण्डलं मासमात्रं वा यो जपेद्यद्यदाशयः ॥ १७६॥
तत्तदेवाप्नुयात्सत्यं शिवस्य वचनं यथा ।
इत्येतत्कथितं विप्र नित्यावृत्त्यर्चनाश्रितम् ॥ १७७॥
नाम्नां सहस्रं मनसोऽभीष्टसम्पादनक्षमम् ॥ १७८॥
॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे
बृहदुपाख्याने सकवच श्रीललितासहस्रनामस्तोत्रं सम्पूर्णम् ॥ ८९॥
89th chapter of first part of Naradiyapurana
Encoded by Radhe Shyam Tiware, proofread by Rashmi Sharma
Proofread by PSA Easwaran