॥ ललितास्तवरत्नं महर्षिदूर्वासः प्रणीतम् ॥

आर्या द्विशती च ॥ श्री ललितास्तवरत्नम् पारायण क्रमः ॥ वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् । कुङ्कुमपरागशोणं कुवल्यिनीजार-कोरकापीडम् ॥ अस्य श्री ललितास्तवरत्नमालामहामन्त्रस्य । भगवान् श्रीदुर्वासा ऋषिः । पंक्तिः छन्दः । सपरिवारश्रीललितामहात्रिपुरसुन्दरी देवता ॥ ऐं तापिञ्चमेचकाभां तालीदलरचित कर्णताटङ्काम् । ताम्बूलपूरितमुखीं ताम्राधरबिम्बदरहासाम् ॥ इति बीजम् ॥ सौः धूर्तानामतिदूरा वार्ता शेषावलग्न कमनीया । आर्तालीशुभदात्री वार्ताली भवतु वाञ्चितार्थाय ॥ इति शक्तिः ॥ क्लीं आदिमरसावलम्बां अनिदम्प्रथमाक्तिवल्लरीकलिकाम् । आब्रह्मकीटजननींमन्तः कलयामि सुन्दरीमनिशम् ॥ इति कीलकम् ॥ मम सपरिवारश्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा सर्वाभीष्टसिद्ध्यर्थे पारायणे विनियोगः । कुङ्कुमललामभास्वन्निटिलां कुटिलतरछिल्लिका युगलाम् । नालीकतुल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥ अङ्गुष्टाभ्यां नमः । हृदयाय नमः ॥ १॥ अङ्कुरित मन्दहासां अरुणाधरकान्तिविजितबिम्बाभाम् । कस्तूरीमकरीयुतकपोलसंक्रान्तकनकताटङ्काम् ॥ तर्जनीभ्यां नमः । शिरसे स्वाहा ॥ २॥ कर्पूरसान्द्रवीटीकबलितवदनारविन्दकमनीयाम् । कम्बुसहोदरकण्ठप्रलम्बमानाच्छमौक्तिककलापाम् ॥ मध्यमाभ्यां नमः । शिखायै वषट् ॥ ३॥ कल्हारदामकोमल भुजयुगल स्फुरित रत्नकेयूराम् । करपद्ममूलविलसत् काञ्चनमयकटकवलयसन्दोहाम् ॥ अनामिकाभ्यां नमः । कवचाय हुं ॥ ४॥ पाणिचतुष्टयविलसत्पाशाङ्कुशपुण्ड्रचापपुष्पास्राम् । कूलङ्कषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ कनिष्टिकाभ्यां नमः । नेत्रत्रयाय वौषट् ॥ ५॥ कमलभवकञ्जलोचनकिरीटरत्नांशुरञ्जितपदाब्जाम् । उन्मस्तकानुकम्पामुत्तरलापाङ्कपोषितानङ्गाम् ॥ करतलकरपृष्टाभ्यां नमः । अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ६॥ ॥ ध्यानम् ॥ आदिमरसावलम्बाम् अनिदम्प्रथमोक्तिवल्लरीकलिकाम् । आब्रह्मकीटजननीं अन्तः कलयामि सुन्दरीमनिशम् ॥ १॥ नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः । नन्दितगिरिशाय नमो महसे नवनीपपाटलाय नमः ॥ २॥ पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि । रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ ३॥ कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे । वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥ ४॥ लमित्यादि पञ्चपूजा ॥ ततः पारायणान्तरमं हृदयादिन्यासं विधाय ध्यात्वा पञ्चोपचारेः सम्पूजयेत् ॥ ॥ महर्षिदुर्वासः प्रणीतं श्री ललितास्तवरत्नम् ॥ ॥ आर्या द्विशती ॥ वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् । कुङ्कुमपरागशोणं कुवलयिनीजार-कोरकापीडम् ॥ १॥ स जयति सुवर्णशैलः सकलजगच्चक्रसङ्घटितमूर्तिः । काञ्चन निकुञ्जवाटी कन्दलदमरीप्रपञ्च सङ्गीतः ॥ २॥ हरिहयनैऋतमारुतहरितामन्तेष्ववस्थितं तस्य । विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥ ३॥ मध्ये पुनर्मनोहररत्नरुचिस्तबक रञ्जितदिगन्तम् । उपरि चतुः शतयोजनमुत्तङ्ग शृङ्गम्पुङ्गवमुपासे ॥ ४॥ तत्र चतुः शतयोजनपरिणाहं देव शिल्पिना रचितम् । नानासालमनोज्ञं नमाम्यहं नगरं आदिविद्यायाः ॥ ५॥ प्रथमं सहस्रपूर्वक षट्शतसंख्याक योजनं परितः । वलयीकृतस्वगात्रं वरणं शरणं व्रजाम्ययो रूपम् ॥ ६॥ तस्योत्तरे समीरणयोजनदूरे तरङ्गितच्छायः । घटयतु मुदं द्वितीयो घण्टास्तनसार निर्मितः सालः ॥ ७॥ उभयोरन्तरसीमन्युद्दाम भ्रमररञ्जितोदारम् । उपवमनमुपास्महे वयमूरीकृत मन्दमारुत स्यन्दम् ॥ ८॥ आलिङ्ग्य भद्रकालीमासीनस्तत्र हरिशिलाश्यामाम् । मनसि महाकालो मे विहरतु मधुपानविभ्रमन्नेत्रः ॥ ९॥ तार्त्तीयीको वरणस्तस्योत्तरसीम्नि वातयोजनतः । ताम्रेण रचितमूर्तिस्तनुतादा चन्द्रतारकं भद्रम् ॥ १०॥ मध्ये तयोश्च मणिमयपल्लवशाखा प्रसूनपक्ष्मलिताम् । कल्पानोकहवाटीं कलये मकरन्दपङ्किलावालाम् ॥ ११॥ तत्र मधुमाधवश्रीतरुणीभ्यां तरलदृक्चकोराभ्याम् । आलिङ्गितोऽवतान्मामनिशं प्रथमर्तुरात्तपुष्पास्रः ॥ १२॥ नमत तदुत्तरभागे नाकिपथोल्लङ्घि शृङ्गसङ्घातम् । सीसाकृतिं तुरीयं सितकिरणालोकनिर्मलं सालम् ॥ १३॥ सालद्वयान्तराले सरलालिकपोत-चाटुसुभगायाम् । सन्तानवाटिकायां सक्तं चेतोऽस्तु सततमस्माकम् ॥ १४॥ तत्र तपनादिरूक्षः साम्राज्ञीचरण सान्द्रितस्वान्तः । शुक्र शुचिश्रीसहितो ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥ १५॥ उत्तरसीमनि तस्योन्नतशिखरोत्कम्पि हाटकपताकः । प्रकटयतु पञ्चमो नः प्राकारः कुशलमारकूटमयः ॥ १६॥ प्राकारयोश्च मध्ये पल्लवितान्यभृतपञ्चमोन्मेषा । हरिचन्दनद्रुवाटीहरतादामूलमस्मदनुतापम् ॥ १७॥ तत्र नभश्री मुख्यैस्तरुणी वर्गैः समन्वितः परितः । वज्राट्टऋहासमुखरो वाञ्छापूर्तिं तनोतु वर्षर्तुः ॥ १८॥ मारुतयोजनदूरे महनीयस्तस्य चोत्तरे भागे । भद्रं कृषीष्ट षष्ठः प्राकारः पञ्चलोहधातुमयः ॥ १९॥ अनयोर्मध्ये सन्ततमङ्कूरद्दिव्यकुसुमगन्धायाम् । मन्दारवाटिकायां मानसमङ्गीकरोतु मे विहृतिम् ॥ २०॥ तस्यामिषोर्जलक्ष्मीतरुणीभ्यां शरदृतुः सदा सहितः । अभ्यर्चयन् स जीयादम्बामामोदमेदुरैः कुसुमैः ॥ २१॥ तस्यर्षिसंख्ययोजनदूरे देदीप्यमानशृङ्गौघः । कलधौतकलितमूर्तिः कल्याणं दिशतु सप्तमः सालः ॥ २२॥ मध्ये तयोर्मरुत्पथ लङ्घिथविट-पाग्रविरुतकलकण्ठा । श्रीपारिजातवाटी श्रियमनिशं दिशतु शीतलोद्देशा ॥ २३॥ तस्यामतिप्रियाभ्यां सहखेलन् सहसहस्य लक्ष्मीभ्याम् । सामन्तो झषकेतोर्हेमन्तो भवतु हेमवृद्ध्यै नः ॥ २४॥ उत्तरतस्तस्य महानुद्भट हुत्भुक्षि स्वारुणः मयूखः । तपनीयखण्डरचितस्तनुतादायुष्यमष्टमो वरणः ॥ २५॥ कादम्बविपिनवाटीमनयोर्मध्यभुवि कल्पितावासाम् । कलयामि सूनकोरककन्दलितामोद-तुन्दिलसमीराम् ॥ २६॥ तस्यामति-शिशिराकृतिरासीनस्तपतपस्यलक्ष्मीभ्याम् । शिवमनिशं कुरुतान्मे शिशिरर्तुः सततशीतलदिगन्तः ॥ २७॥ तस्यां कदम्बवाट्यां तत्प्रसवामोदमिलित-मधुगन्धम् । सप्तावरणमनोज्ञं शरणं समुपैमि मन्त्रिणी-शरणम् ॥ २८॥ तत्रालये विशाले तपनीयारचित-तरल-सोपाने । माणिक्य मण्डपान्तर्महिते सिंहासने मणीखचिते ॥ २९॥ बिन्दु-त्रिपञ्च-कोण-द्विप-नृप-वसु-वेद-दल-कुरेखाढ्ये । चक्रे सदा निविष्टां षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥ ३०॥ तापिञ्छमेचकाभां तालीदलघटितकर्णताटङ्काम् । ताम्बूलपूरितमुखीं ताम्राधरबिम्बदृष्टदरहासाम् ॥ ३१॥ कुङ्कुमपङ्किलदेहां कुवलय-जीवातु-शावकावतंसाम् । कोकनदशोणचरणां कोकिल-निक्वाण-कोमलालापाम् ॥ ३२॥ वामाङ्गगलितचूलीं वनमाल्यकदम्बमालिकाभरणाम् । मुक्ताललन्तिकाञ्चित मुग्धालिक-मिलित-चित्रकोदाराम् ॥ ३३॥ करविधृतकीरशावक-कल-निनद-व्यक्त-निखिल-निगमार्थाम् । वामकुचसङ्गिवीणावादनसौख्यार्धमीलिताक्षियुगाम् ॥ ३४॥ आपाटलांशुकधरां आदिरसोन्मेषवासित कटाक्षाम् । आम्नायसारगुलिकां आद्यां सङ्गीतमातृकां वन्दे ॥ ३५॥ तस्य च सुवर्णसालस्योत्तरतस्तरुणकुङ्कुमच्छायः । शमयतु मम सन्तापं सालो नवमः स पुष्परागमयः ॥ ३६॥ अनयोरन्तरवसुधाः प्रणुमः प्रत्यग्रपुष्परागमयीः । सिंहासनेश्वरीमनुचिन्तन-निस्तन्द्र-सिद्धनीरन्ध्राः ॥ ३७॥ तत्सालोत्तरदेशे तरुणजपा-किरण-धोरणी-शोणः । प्रशमयतु पद्मरागप्राकारो मम पराभवं दशमः ॥ ३८॥ अन्तरभूकृतवासाननयोरपनीत चित्तवैमत्यान् । चक्रेशीपदभक्तांश्चारणवर्गानहर्निशं कलये ॥ ३९॥ सारङ्गवाहयोजनदूरेऽऽसङ्घटित केतनस्तस्य । गोमेदकेन रचितो गोपायतु मां समुन्नतः सालः ॥ ४०॥ वप्रद्वयान्तरोर्व्यां वटुकैर्विविधैश्च योगिनी बृन्दैः । सततं समर्चितायाः सङ्कर्षिण्याः प्रणौमि चरणाब्जम् ॥ ४१॥ तापसयोजनदूरे तस्य समुत्तुङ्गः गोपुरोपेतः । वाञ्छापूर्त्यै भवताद्वज्रमणी-निकर-निर्मितो वप्रः ॥ ४२॥ वरणद्वितयान्तरतो वासजुषो विहितमधुरसास्वादाः । रम्भादिविबुधवेश्याः रचयन्तु महान्तमस्मदानन्दम् ॥ ४३॥ तत्र सदा प्रवहन्ति तटिनी वज्राभिधा चिरं जीयात् । चटुलोर्मिजालनृत्यत् कलहंसीकुलकलक्वणितपुष्टा ॥ ४४॥ रोधसि तस्या रुचिरे वज्रेशी जयति वज्रभूषाढ्या । वज्रप्रदानतोषितवज्रिमुखत्रिदश-विनुतचारित्रा ॥ ४५॥ तस्योदीच्यां हरिति स्तवकितसुषमावलीढ-वियदन्तः । वैडूर्यरत्नरचितो वैमल्यं दिशतु चेतसो वरणः ॥ ४६॥ अधिमध्यमेतयोः पुनरम्बाचरणावलम्बितस्वान्ताम् । कार्कोटकादिनागान् कलयामः किं च बलिमुखान्दनुजान् ॥ ४७॥ गन्धवहसंख्य-योजनदूरे गगनोर्ध्वजाङ्घिकस्तस्य । वासवमणिप्रणीतो वरणो वर्धयतु वैदुषीं विशदाम् ॥ ४८॥ मध्यक्षोण्यामनयोर्महेन्द्रनीलात्मकानि च सरांसि । शातोदरी सहायान्भूपालानपि पुनः पुनः प्रणुमः ॥ ४९॥ आशुगयोजनदूरे तस्योर्ध्वं कान्तिधवलितदिगन्तः । मुक्ताविरचितगात्रो मुहुरस्माकं मुदे भवतु वप्रः ॥ ५०॥ आवृत्त्योरधिमध्यं पूर्वस्यां दिशि पुरन्दरः श्रीमान् । अभ्रमुविटाधिरूढो विभ्रममस्माकमनिशमातनुतात् ॥ ५१॥ तत्कोणे व्यजनस्रुक्तोमरपात्रस्रुवान्न शक्तिधरः । स्वाहास्वधासमेतः सुखयतु मां हव्यवाहनः सुचिरम् ॥ ५२॥ दक्षिणदिगन्तराले दण्डधरो नीलनीरदच्छायः । त्रिपुरपदाब्जभक्तस्तिरयतु मम निखिलमंहंसां निकरम् ॥ ५३॥ तस्यैव पश्चिमायां दिशि दलितेन्दीवर प्रभाश्यामः । खेटासि यष्टिधारी खेदानपनयतु यातुधानो मे ॥ ५४॥ तस्या उत्तरदेशे धवलाङ्गो विपुलझष वरारूढः । पाशायुधात्तपाणिः पाशी विदलयतु पाशजालानि ॥ ५५॥ वन्दे तदुत्तरहरित्कोणे वायुं चमूरूवरवाहम् । कोरकित तत्वबोधान्गोरक्ष प्रमुख योगिनोऽपि मुहुः ॥ ५६॥ तरुणीरिडाप्रधानास्तिस्रो वातस्य तस्य कृतवासाः । प्रत्यग्रकापिशायनपान-परिभ्रान्त-लोचनाः कलये ॥ ५७॥ तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् । अपि माणिभद्रमुख्यानम्बाचरणावलम्बिनो यक्षान् ॥ ५८॥ तस्यैव पूर्वसीमनि तपनीयारचितगोपुरे नगरे । कात्यायनीसहायं कलये शीतांशुखण्डचूडालम् ॥ ५९॥ तत्पुरुषोडशवरणस्थलभाजस्तरुणचन्द्रचूडालान् । रुद्राध्याये पठितान् रुद्राणीसहचरान् भजे रुद्रान् ॥ ६०॥ पवमानसंख्ययोजनदूरे बालतृण्मेचकस्तस्य । सालो मरकतरचितः सम्पदमचलां श्रियं च पुष्णातु ॥ ६१॥ आवृति युग्मान्तरतो हरितमणी-निवहमेचके देशे । हाटक-ताली-विपिनं हालाघटघटित-विटपमाकलये ॥ ६२॥ तत्रैव मन्त्रिणीगृहपरिणाहं तरलकेतनं सदनम् । मरकतसौधमनोज्ञं दद्यादायूषि दण्डनाथायाः ॥ ६३॥ सदने तव हरिन्मणिसङ्घटिते मण्डपे शतस्तम्भे । कार्त्तस्वरमयपीठे कनकमयाम्बुरुहकर्णिकामध्ये ॥ ६४॥ बिन्दुत्रिकोणवर्तुलषडस्रवृत्तद्वयान्विते चक्रे । सञ्चारिणी दशोत्तरशतार्ण-मनुराजकमलकलहंसी ॥ ६५॥ कोलवदना कुशेशयनयना कोकारिमण्डितशिखण्डा । सन्तप्तकाञ्चनाभा सन्ध्यारुण-चेल-संवृत-नितम्बा ॥ ६६॥ हलमुसलशङ्खचक्राङ्कुशपाशाभयवरस्फुरितहस्ता । कूलङ्कषानुकम्पा कुङ्कुमजम्बालितस्तनाभोगा ॥ ६७॥ धूर्तानामतिदूरावार्ताशेषावलग्नकमनीया । आर्तालीशुभदात्री वार्ताली भवतु वाञ्छितार्थाय ॥ ६८॥ तस्याः परितो देवीः स्वप्नेश्युन्मत्तभैरवीमुख्याः । प्रणमत जम्भिन्याद्याः भैरववर्गांश्च हेतुकप्रमुखान् ॥ ६९॥ पूर्वोक्तसंख्ययोजनदूरे पूयांशुपाटलस्तस्य । विद्रावयतु मदार्तिं विद्रुमसालो विशङ्कटद्वारः ॥ ७०॥ आवरणयोर्महर्निशमन्तरभूमौ प्रकाशशालिन्याम् । आसीनमम्बुजासनमभिनवसिन्दूरगौरमहमीडे ॥ ७१॥ वरणस्य तस्य मारुतयोजनतो विपुलगोपुरद्वारः । सालो नानारत्नैः संघटिताङ्गः कृषीष्ट मदभीष्टम् ॥ ७२॥ अन्तरकक्ष्यामनयोरविरलशोभापिचण्डिलोद्देशाम् । माणिख्यमण्डपाख्यां महतीमधिहृदयमनिशमाकलये ॥ ७३॥ तत्र स्तिथं प्रसन्नं तरुणतमालप्रवालकिरणाभम् । कर्णावलम्बिकुण्डलकन्दलिताभीशुकवचितकपोलम् ॥ ७४॥ शोणाधरं शुचिस्मितमेणाङ्कवदनमेधमानकृपम् । मुग्धैणमदविशेषकमुद्रितनिटिलेन्दुरेखिका रुचिरम् ॥ ७५॥ नालीकदलसहोदरनयनाञ्चलघटितमनसिजाकूतम् । कमलाकठिणपयोधरकस्तूरी-धुसृणपङ्किलोरस्कम् ॥ ७६॥ चाम्पेयगन्धिकैश्यं शम्पासब्रह्मचारिकौशेयम् । श्रीवत्सकौस्तुभधरं श्रितजनरक्षाधुरीणचरणाब्जम् ॥ ७७॥ कम्बुसुदर्शनविलसत्-करपद्मं कण्ठलोलवनमालम् । मुचुकुन्दमोक्षफलदं मुकुन्दमानन्दकन्दमवलम्बे ॥ ७८॥ तद्वरणोत्तरभागे तारापति-बिम्बचुम्बिनिजशृङ्गः । विविधमणी-गणघटितो वितरतु सालो विनिर्मलां धिषणाम् ॥ ७९॥ प्राकारद्वितयान्तरकक्ष्यां पृथुरत्ननिकर-सङ्कीर्णाम् । नमत सहस्रस्तम्भकमण्डपनाम्नातिविश्रुतां भुवने ॥ ८०॥ प्रणुमस्तत्र भवानीसहचरमीशानमिन्दुखण्डधरम् । शृङ्गारनायिकामनुशीलनभाजोऽपि भृङ्गिनन्दिमुखान् ॥ ८१॥ तस्यैणवाहयोजनदूरे वन्दे मनोमयं वप्रम् । अङ्कूरन्मणिकिरणामन्तरकक्ष्यां च निर्मलामनयोः ॥ ८२॥ तत्रैवामृतवापीं तरलतरङ्गावलीढतटयुग्माम् । मुक्तामय-कलहंसी-मुद्रित-कनकारविन्दसन्दोहाम् ॥ ८३॥ शक्रोपलमयभृङ्गीसङ्गीतोन्मेषघोषितदिगन्ताम् । काञ्चनमयाङ्गविलसत्कारण्डवषण्ड-ताण्डवमनोज्ञाम् ॥ ८४॥ कुरुविन्दात्म-कहल्लक-कोरक-सुषमा-समूह-पाटलिताम् । कलये सुधास्वरूपां कन्दलितामन्दकैरवामोदाम् ॥ ८५॥ तद्वापिकान्तराले तरले मणिपोतसीम्नि विहरन्तीम् । सिन्दूर-पाटलाङ्गीं सितकिरणाङ्कूरकल्पितवतंसाम् ॥ ८६॥ पर्वेन्दुबिम्बवदनां पल्लवशोणाधरस्फुरितहासाम् । कुटिलकवरीं कुरङ्गीशिशुनयनां कुण्डलस्फुरितगण्डाम् ॥ ८७॥ निकटस्थपोतनिलयाः शक्तीः शयविधृतहेमशृङ्गजलैः । परिषिञ्चन्तीं परितस्तारां तारुण्यगर्वितां वन्दे ॥ ८८॥ प्रागुक्तसङ्ख्ययोजनदूरे प्रणमामि बुद्धिमयसालम् । अनयोरन्तरकक्ष्यामष्टापदपुष्टमेदिनीं रुचिराम् ॥ ८९॥ कादम्बरीनिधानां कलयाम्यानन्दवापिकां तस्याम् । शोणाश्मनिवहनिर्मितसोपानश्रेणिशोभमानतटीम् ॥ ९०॥ माणिक्यतरणिनिलयां मध्ये तस्या मदारुणकपोलाम् । अमृतेशीत्यभिधानामन्तः कलयामि वारुणीं देवीम् ॥ ९१॥ सौवर्णकेनिपातनहस्ताः सौन्दर्यगर्विता देव्यः । तत्पुरतः स्थितिभाजो वितरन्त्वस्माकमायुषो वृद्धिम् ॥ ९२॥ तस्य पृषदश्वयोजनदूरेऽहङ्कारसालमतितुङ्गम् । वन्दे तयोश्च मध्ये कक्ष्यां वलमानमलयपवमानाम् ॥ ९३॥ विनुमो विमर्शवापीं सौषुम्नसुधास्वरूपिणीं तत्र । वेलातिलङ्घ्यवीचीकोलाहलभरितकूलवनवाटीम् ॥ ९४॥ तत्रैव सलिलमध्ये तापिञ्छदलप्रपञ्चसुषमाभाम् । श्यामलकञ्चुकलसितां श्यामा-विटबिम्बडम्बरहरास्याम् ॥ ९५॥ आभुग्नमसृणचिल्लीहसितायुग्मशरकार्मुकविलासाम् । मन्दस्मिताञ्चितमुखीं मणिमयताटङ्कमण्डितकपोलाम् ॥ ९६॥ कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम् । कुङ्कुमविलिप्तगात्रीं कुरुकुल्लां मनसि कुर्महे सततम् ॥ ९७॥ तत्सालोत्तरभागे भानुमयं वप्रमाश्रये दीप्तम् । मध्यं च विपुलमनयोर्मन्ये विश्रान्तमातपोद्गारम् ॥ ९८॥ तत्र कुरुविन्दपीठे तामरसे कनककर्णिकाघटिते । आसीनमरुणवाससमम्लानप्रसवमालिकाभरणम् ॥ ९९॥ चक्षुष्मतीप्रकाशनशक्तिच्छाया-समारचितकेलिम् । माणिक्यमुकुटरम्यं मन्ये मार्ताण्डभैरवं हृदये ॥ १००॥ इन्दुमयसालमीडे तस्योत्तरतस्तुषारगिरिगौरम् । अत्यन्त-शिशिरमारुतमनयोर्मध्यं च चन्द्रिकोद्गारम् ॥ १०१॥ तत्र प्रकाशमानं तारानिकरैश्च (सर्वतस्सेव्यम् ) परिष्कृतोद्देशम् । अमृतमयकान्तिकन्दलमन्तः कलयामि कुन्दसितमिन्दुम् ॥ १०२॥ शृङ्गारसालमीडे शृङ्गोल्लसितं तदुत्तरे भागे । मध्यस्थले तयोरपि महितां शृङ्गारपूर्विकां परिखाम् ॥ १०३॥ तत्र मणिनौस्थिताभिस्तपनीयारचितशृङ्गहस्ताभिः । शृङ्गारदेवताभिः सहितं परिखाधिपं भजे मदनम् ॥ १०४॥ शृङ्गारवरणवर्यस्योत्तरतः सकलविबुधसंसेव्यम् । चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे सदनम् ॥ १०५॥ मणिसदन सालयोरधिमध्यं दशतालभूमिरुहदीर्घैः । पर्णैः सुवर्णवर्णैर्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥ १०६॥ मृदुलैस्तालीपञ्चकमानैर्मिलितां च केसरकदम्बैः । सन्ततगलितमरन्दस्रोतोनिर्यन्मिलिन्दसन्दोहाम् ॥ १०७॥ पाटीरपवनबालकधाटीनिर्यत्परागपिञ्जरिताम् । कलहंसीकुलकलकलकूलङ्कषनिनदनिचयकमनीयाम् ॥ १०८॥ पद्माटवीं भजामः परिमलकल्लोलपक्ष्मलोपान्ताम् । देव्यर्घ्यपात्रधारी तस्याः पूर्वदिशि दशकलायुक्तः । वलयितमूर्तिर्भगवान् वह्निः कोशोन्नतश्चिरं पायात् ॥ १०९॥ तत्राधारे देव्याः पात्रीरूपः प्रभाकरः श्रीमान् । द्वादशकलासमेतो ध्वान्तं मम बहुलमान्तरं भिन्द्यात् ॥ ११०॥ तस्मिन् दिनेशपात्रे तरङ्गितामोदममृतमयमर्घ्यम् । चन्द्रकलात्मकममृतं सान्द्रीकुर्यादमन्दमानन्दम् ॥ १११॥ अमृते तस्मिन्नभितो विहरन्त्यो विविधतरणिभाजः । षोडशकलाः सुधांशोः शोकादुत्तारयन्तु मामनिशम् ॥ ११२॥ तत्रैव विहृतिभाजो धातृमुखानां च कारणेशानाम् । सृष्ट्यादिरूपिकास्ताः शमयन्त्वखिलाः कलाश्च सन्तापम् ॥११३॥ कीनाशवरुणकिन्नरराजदिगन्तेषु रत्नगेहस्य । कलयामि तान्यजस्रं कलयन्त्वायुष्यमर्घ्यपात्राणि ॥ ११४॥ पात्रस्थलस्य पुरतः पद्मारमणविधिपार्वतीशानाम् । भवनानि शर्मणे नो भवन्तु भासा प्रदीपितजगन्ति ॥ ११५॥ सदनस्यानलकोणे सततं प्रणमामि कुण्डमाग्नेयम् । तत्र स्थितं च वह्निं तरलशिखाजटिलमम्बिकाजनकम् ॥ ११६॥ तस्यासुरदिशि तादृशरत्नपरिस्फुरितपर्वनवकाढ्यम् । चक्रात्मकं शताङ्गं शतयोजनमुन्नतं भजे दिव्यम् ॥ ११७॥ तत्रैव दिशि निषण्णं तपनीयध्वजपरम्पराश्लिष्टम् । रथमपरं च भवान्या रचयामो मनसि रत्नमयचूडम् ॥ ११८॥ भवनस्य वायुभागे परिष्कृतो विविधवैजयन्तीभिः । रचयतु मुदं रथेन्द्रः सचिवेशान्याः समस्तवन्द्यायाः ॥ ११९॥ कुर्मोऽधिहृदयमनिशं क्रोडास्यायाः शताङ्कमूर्धन्यम् । रुद्रदिशि रत्नधाम्नो रुचिरशलाका प्रपञ्चकञ्चुकितम् ॥ १२०॥ परितो देवीधाम्नः प्रणीतवासा मनुस्वरूपिण्यः । कुर्वन्तु रश्मिमालाकृतयः कुशलानि देवता निखिलाः ॥ १२१॥ प्राग्द्वारस्य भवानीधाम्नः पार्श्वद्वयारचितवासे । मातङ्गी किटिमुख्यौ मणिसदने मनसि भावयामि चिरम् ॥ १२२॥ योजनयुगलाभोगा तत्कोशपरिणाहयैव भित्त्या च । चिन्तामणिगृह-भूमिर्जीयादाम्नायमयचतुर्द्वारा ॥ १२३॥ द्वारे द्वारे धाम्नः पिण्डीभूता नवीनबिम्बाभाः । विदधतु विपुलां कीर्तिं दिव्या लौहित्यसिद्ध्यो देव्यः ॥ १२४॥ मणिसदनस्यान्तरतो महनीये रत्नवेदिकामध्ये । बिन्दुमयचक्रमीडे पीठानामुपरि विरचितावासम् १२५॥ चक्राणां सकलानां प्रथममधः सीमफलकवास्तव्याः । अणिमादिसिद्धयो मामवन्तु देवी प्रभास्वरूपिण्यः ॥ १२६॥ अणिमादिसिद्धिफलकस्योपरिहरिणाङ्कखण्डकृतचूडाः । भद्रं पक्ष्मलयन्तु ब्राह्मीप्रमुखाय मातरोऽस्माकम् ॥ १२७॥ तस्योपरि मणिफलके तारुण्योत्तुङ्गपीनकुचभाराः । सङ्क्षोभिणीप्रधाना भ्रान्तिं विद्रावयन्तु दशमुद्राः ॥ १२८॥ फलकत्रयस्वरूपे पृथुले त्रैलोक्यमोहने चक्रे । दीव्यन्तु प्रकटाख्यास्तासां कर्त्रीं च भगवती त्रिपुरा ॥ १२९॥ तदुपरि विपुले धिष्ण्ये तरलदृशस्तरुणकोकनदभासः । कामाकर्षिण्याद्याः कलये देवीः कलाधरशिखण्डाः ॥ १३०॥ सर्वाशापरिपूरकचक्रेऽस्मिन् गुप्तयोगिनी सेव्याः । त्रिपुरेशी मम दुरितं तुद्यात् कण्ठावलम्बिमणिहारा ॥ १३१॥ तस्योपरि मणिपीठे ताम्राम्भोरुहदलप्रभाशोणाः । ध्यायाम्यनङ्गकुसुमाप्रमुखा देवीश्च विधृतकूर्पासाः ॥ १३२॥ सङ्क्षोभकारकेऽस्मिंश्चक्रे श्रीत्रिपुरसुन्दरी साक्षात् । गोप्त्री गुप्तराख्याः गोपायतुमां कृपार्द्रया दृष्ट्या ॥ १३३॥ संक्षोभिणीप्रधानाः शक्तीस्तस्योर्ध्ववलयकृतवासाः । आलोलनीलवेणीरन्तः कलयामि यौवनोन्मत्ताः ॥ १३४॥ सौभाग्यदायकेऽस्मिंश्चक्रेशी त्रिपुरवासिनी जीयात् । शक्तीश्च सम्प्रदायाभिधाः समस्ताः प्रमोदयन्त्वनिशम् ॥ १३५॥ मणिपीठोपरि तासां महति चतुर्हस्तविस्तृते वलये । सन्ततविरचितवासाः शक्तीः कलयामि सर्वसिद्धिमुखाः ॥ १३६॥ सर्वार्थसाधकाख्ये चक्रेऽमुष्मिन् समस्तफलदात्री । त्रिपुरा श्रीर्मम कुशलं दिशतादुत्तीर्णयोगिनीसेव्या ॥ १३७॥ तासां निलयस्योपरि धिष्ण्ये कौसुम्भकञ्चुकमनोज्ञाः । सर्वज्ञाद्या देव्यः सकलाः सम्पादयन्तु मम कीर्तिम् ॥ १३८॥ चक्रे समस्तरक्षाकरनाम्न्यस्मिन्समस्तजनसेव्याम् । मनसि निगर्भासहितां मन्ये त्रिपुरमालिनी देवीम् ॥ १३९॥ सर्वज्ञासदनस्योपरि चक्रे विपुले समाकलितगेहाः । वन्दे वशिनीमुख्याः शक्तीः सिन्दूररेणुशोणरुचः ॥ १४०॥ श्रीसर्वरोगहारिणिचक्रेऽस्मिन्त्रिपुरपूर्विकां सिद्धाम् । वन्दे रहस्यनाम्ना वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ १४१॥ वशिनीगृहोपरिष्टाद् विंशतिहस्तोन्नते महापीठे । शमयन्तु शत्रुबृन्दं शस्त्राण्यस्त्राणि चादिदम्पत्योः ॥ १४२॥ शस्त्रसदनोपरिष्टा वलये वलवैरिरत्नसङ्घटिते । कामेश्वरीप्रधानाः कलये देवीः समस्तजनवन्द्याः ॥ १४३॥ चक्रेऽत्र सर्वसिद्धिप्रदनामनि सर्वफलदात्री । त्रिपुराम्बावतु सततं परापररहस्ययोगिनीसेव्या ॥ १४४॥ कामेश्वरीगृहोपरिवलये विविधमनुसम्प्रदायज्ञाः । चत्वारो युगनाथा जयन्तु मित्रेशपूर्वका गुरवः ॥ १४५॥ नाथभवनोपरिष्टान्नानारत्नचयमेदुरे पीठे । कामेश्याद्या नित्याःकलयन्तु मुदं तिथिस्वरूपिण्यः ॥ १४६॥ नित्यासदनस्योपरि निर्मलमणिनिवहविरचिते धिष्ण्ये । कुशलं षडङ्गदेव्यः कलयन्त्वस्माकमुत्तरलनेत्राः ॥ १४७॥ सदनस्योपरि तासां सर्वानन्दमयनामके बिन्दौ । पञ्चब्रह्माकारां मञ्चं प्रणमामि मणिगणाकीर्णम् ॥ १४८॥ परितो मणिमञ्चस्य प्रलम्बमाना नियन्त्रिता पाशैः । मायामयी यवनिका मम दुरितं हरतु मेचकच्छाया ॥ १४९॥ मञ्चस्योपरि लम्बन्मदनीपुन्नागमालिकाभरितम् । हरिगोपमयवितानं हरतादालस्यमनिशमस्माकम् ॥ १५०॥ पर्यङ्कस्य भजामः पादान्बिम्बाम्बुदेन्दुहेमरुचः । अजहरिरुद्रेशमयाननलासुरमारुतेशकोणस्थान् ॥ १५१॥ फलकं सदाशिवमयं प्रणौमि सिन्दूररेणुकिरणाभम् । आरभ्याङ्गेशीनां सदनात्कलितं च रत्नसोपानम् ॥ १५२॥ पट्टोपधानगण्डकचतुष्टयस्फुरितपाटलास्तरणम् । पर्यङ्कोपरिघटितं पातु चिरं हंसतूलशयनं नः ॥ १५३॥ तस्योपरि निवसन्तं तारुण्यश्रीनिषेवितं सततम् । आवृन्तपुल्लहल्लकमरीचिकापुञ्जमञ्जुलच्छायम् ॥ १५४॥ सिन्दूरशोणवसनं शीतांशुस्तबकचुम्बितकिरीटम् । कुङ्कुमतिलकमनोहरकुटिलालिकहसितकुमुदबन्धुशिशुम् ॥ १५५॥ पूर्णेन्दुबिम्बवदनं फुल्लसरोजातलोचनत्रितयम् । तरलापाङ्गतरङ्गितशफराङ्कनशास्त्रसम्प्रदायार्थम् ॥ १५६॥ मणिमयकुण्डलपुष्यन्मरीचिकल्लोलमांसलकपोलम् । विद्रुमसहोदराधरविसृमरस्मित-किशोरसञ्चारम् ॥ १५७॥ आमोदिकुसुमशेखरमानीलभ्रूलतायुगमनोज्ञम् । वीटीसौरभंवीचीद्विगुणितवक्त्रारविन्दसौरभ्यम् ॥ १५८॥ पाशाङ्कुशेक्षुचापप्रसवशरस्फुरितकोमलकराब्जम् । काश्मीरपङ्किलाङ्गं कामेशं मनसि कुर्महे सततम् ॥ १५९॥ तस्याङ्कभुवि निषण्णां तरुणकदम्बप्रसूनकिरणाभाम् । शीतांशुखण्डचूडां सीमन्तन्यस्तसान्द्रसिन्दूराम् ॥ १६०॥ कुङ्कुमललामभास्वन्निटिलां कुटिलतरचिल्लिकायुगलाम् । नालीकतुल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥ १६१॥ अङ्कुरितमन्दहासमरुणाधरकान्तिविजितबिम्बाभाम् । कस्तूरीमकरीयुतकपोलसङ्क्रान्तकनकताटङ्काम् ॥ १६२॥ कर्पूरसान्द्रवीटीकबलित वदनारविन्द कमनीयाम् । कम्बुसहोदरकण्ठप्रलम्बमानाच्छमौक्तिककलापाम् ॥ १६३॥ कल्हारदामकोमलभुजयुगलस्फुरितरत्नकेयूराम् । करपद्ममूलविलसत् काञ्चनमयकटकवलयसन्दोहाम् ॥ १६४॥ पाणिचतुष्टय विलसत् पाशाङ्कुशपुण्ड्रचापपुष्पास्त्राम् । कूलङ्कषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ १६५॥ अणुदायादवलग्नामम्बुदशोभासनाभि-रोमलताम् । माणिक्यखचितकाञ्चीमरीचिकाक्रान्तमांसलनितम्बाम् ॥ १६६॥ करभोरुकाण्डयुगलां जङ्घाजितकामजैत्रतूणीराम् । प्रपदपरिभूतकूर्मां पल्लवसच्छायपदयुगमनोज्ञाम् ॥ १६७॥ कमलभवकञ्जलोचनकिरीटरत्नांशुरञ्जितपदाब्जाम् । उन्मस्तकानुकम्पामुत्तरलापाङ्गपोषितानङ्गाम् ॥ १६८॥ आदिमरसावलम्बामनिदं प्रथमोक्तिवल्लरीकलिकाम् । आब्रह्मकीटजननीं अन्तः कलयामि सुन्दरीमनिशम् ॥ १६९॥ कस्तु क्षितौ पटीयान्वस्तुस्तोतुं शिवाङ्कवास्तव्यम् । अस्तु चिरन्तनसुकृतैः प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥ १७०॥ प्रभुसम्मितोक्तिगम्ये परमशिवोत्सङ्गतुङ्गपर्यङ्कम् । तेजः किञ्चन दिव्यं पुरतो मे भवतु पुण्ड्रकोदण्डम् ॥ १७१॥ मधुरिमभरितशरासं मकरन्दस्पन्दिमार्गणोदारम् । कैरविणीविटचूडं कैवल्यायास्तु किञ्चन महो नः ॥ १७२॥ अक्षुद्रमिक्षुचापं परोक्षमवलग्नसीम्नि त्र्यक्षम् । क्षपयतु मे क्षेमेतरमुक्षरथप्रेमपक्ष्मलं तेजः ॥ १७३॥ भृङ्गरुचिसङ्गरकरापाङ्गं शृङ्गारतुङ्गमरुणाङ्गम् । मङ्गलमभङ्गुरं मे घटयतु गङ्गाधराङ्गसङ्गि महः ॥ १७४॥ प्रपदजितकूर्ममूर्मिलकरुणं भर्मरुचिनिर्मथनदेहम् । श्रितवर्म मर्म शम्भोः किञ्चन नर्म मम शर्मनिर्मातु ॥ १७५॥ कालकुरलालिकालिमकन्दलविजितालिवि धृतमणिवालि । मिलतु हृदि पुलिनजलघनं बहुलित गलगरलकेलि किमपि महः ॥ १७६॥ कुङ्कुमतिलकितफाला कुरुविन्दच्छायपाटलदुकूला । करुणापयोधिवेला काचन चित्ते चकास्तु मे लीला ॥ १७७॥ पुष्पन्धयरुचिवेण्यः पुलिनाभोगत्रपाकरश्रेण्यः । जीयासुरिक्षुपाण्यः काश्चन कामारिकेलिसाक्षिण्यः ॥ १७८॥ तपनीयांशुकभांसि द्राक्षामाधुर्यनास्तिकवचांसि । कतिचन शुचं महांसि क्षपयतु कपालितोषितमनांसि ॥ १७९॥ असितकचमायताक्षं कुसुमशरं कुलमुद्वहकृपार्द्रम् । आदिमरसाधिदैवतमन्तः कलये हराङ्कवासि महः ॥ १८०॥ कर्णोपान्ततरङ्गितकटाक्षनिस्पन्दि कण्ठदघ्नकृपाम् । कामेश्वराङ्कनिलयां कामपि विद्यां पुरातनीं कलये ॥ १८१॥ अरविन्दकान्त्यरुन्तुदविलोचनद्वन्द्वसुन्दरमुखेन्दुः । छन्दः कन्दलमन्दिरमन्तः पुरमैन्दुशेखरं वन्दे ॥ १८२॥ बिम्बनिकुरुम्बडम्बरविडम्बकच्छायमम्बरवलग्नम् । कम्बुगलमम्बुदकुचं बिम्बोकं कमपि चुम्बतु मनो मे ॥ १८३॥ कमपि कमनीयरूपं कलयाम्यन्तः कदम्बकुसुमाढ्यम् । चम्पकरुचिरसुवेषैः सम्पादितकान्त्यलंकृतदिगन्तम् ॥ १८४॥ शम्पारुचिभरगर्हा सम्पादक क्रान्ति कवचित दिगन्तम् । सिद्धान्तं निगमानां शुद्धान्तं किमपि शूलिनः कलये ॥ १८५॥ उद्यद्दिनकरशोणानुत्पलबन्धुस्तनन्धयापीडान् । करकलितपुण्ड्रचापान् कलये कानपि कपर्दिनः प्राणान् ॥ १८६॥ रशनालसज्जघनया रसनाजीवातु-चापभासुरया । घ्राणायुष्करशरया घ्रातं चित्तं कयापि वासनय ॥ १८७॥ सरसिजसहयुध्वदृशा शम्पालतिकासनाभिविग्रहया । भासा कयापि चेतो नासामणि शोभिवदनया भरितम् ॥ १८८॥ नवयावकाभसिचयान्वितया गजयानया दयापरया । धृतयामिनीशकलया धिया कयापि क्षतामया हि वयम् ॥ १८९॥ अलमलमकुसुमबाणैः बिम्बशोणैः पुण्ड्रकोदण्डैः । अकुमुदबान्धवचूडैरन्यैरिह जगति दैवतं मन्यैः ॥ १९०॥ कुवलयसदृक्षनयनैः कुलगिरिकूटस्थबन्धुकुचभारैः । करुणास्पन्दिकटाक्षैः कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥ १९१॥ नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः । नन्दित गिरिशाय नमो महसे नवनीपपाटलाय नमः ॥ १९२॥ कादम्बकुसुमधाम्ने कायच्छायाकणायितार्यम्णे । सीम्ने चिरन्तनगिरां भूम्ने कस्मैचिदादधे प्रणतिम् ॥ १९३॥ कुटिलकबरीभरेभ्यः कुङ्कुमसब्रह्मचारिकिरणेभ्यः । कूलङ्कषस्तनेभ्यः कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ १९४॥ कोकणदशोण चरणात् कोमल कुरलालि विजितशैवालात् । उत्पलसुगन्धि नयनादुररीकुर्मो न देवतमान्याम् ॥ १९५॥ आपाटलाधराणामानीलस्निग्धबर्बरकचानाम् । आम्नाय जीवनानामाकूतानां हरस्य दासोऽस्मि ॥ १९६॥ पुङ्खितविलासहासस्फुरितासु पुराहिताङ्कनिलयासु । मग्नं मनोमदीयं कास्वपि कामारि जीवनाडीषु ॥ १९७॥ ललिता पातु शिरो मे ललाटाम्बा च मधुमतीरूपा । भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥ १९८॥ पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् । अधरोष्टमादिशक्तिश्चक्रेशी पातु मे चिरं चिबुकम् ॥ १९९॥ कामेश्वरी च कर्णौ कामाक्षी पातु गण्डयोर्युगलम् । शृङ्गारनायिकाव्याद्वदनं सिंहासनेश्वरी च गलम् ॥ २००॥ स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे । पाणी च पद्मनिलया पायादनिशं नखावलीर्विजया ॥ २०१॥ कोदण्डिनी च वक्षः कुक्षिं चाव्यात् कुलाचलतनूजा । कल्याणी च वलग्नं कटिं च पायात्कलाधरशिखण्डा ॥ २०२॥ ऊरुद्वयं च पायादुमा मृडानी च जानुनी रक्षेत् । जङ्घे च षोडशी मे पायात् पादौ च पाशसृणि हस्ता ॥ २०३॥ प्रातः पातु परा मां मध्याह्ने पातु मणिगृहाधीशा । शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी साक्षात् ॥ २०४॥ भार्या रक्षतु गौरी पायात् पुत्रांश्च बिन्दुगृहपीठा । श्रीविद्या च यशो मे शीलं चाव्याश्चिरं महाराज्ञी ॥ २०५॥ पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि । रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ २०६॥ कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे । वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥ २०७॥ अभिनवसिन्दूराभामम्ब त्वां चिन्तयन्ति ये हृदये । उपरि निपतन्ति तेषामुत्पलनयनाकटाक्षकल्लोलाः ॥ २०८॥ वर्गाष्टकमिलिताभिर्वशिनीमुख्याभिरावृतां भवतीम् । चिन्तयतां सितवर्णां वाचो निर्यान्त्ययत्नतो वदनात् ॥ २०९॥ कनकशलाकागौरीं कर्णव्यालोलकुण्डलद्वितयाम् । प्रहसितमुखीं च भवतीं ध्यायन्तो ये त एव भूधनदाः ॥ २१०॥ शीर्षाम्भोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् । अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥ २११॥ मधुरस्मितां मदारुणनयनां मातङ्गकुम्भवक्षोजाम् । चन्द्रवतंसिनीं त्वां सविधे पश्यन्ति सुकृतिनः केचित् ॥ २१२॥ ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः । प्रतिदिनमवनौ पठतां फलानि वक्तुं प्रगल्भते सैव ॥ २१३॥ सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् । सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ २१४॥ ॥ इति महर्षिदुर्वासः प्रणीतं ललितास्तवरत्नं सम्पूर्णम् ॥ Encoded and proofread byDPD

% Text title            : Lalitastavaratnam or Arya Dvishati by durvasamaharshi
% File name             : lalitAstavaratnam.itx
% itxtitle              : lalitAstavaratnam athavA AryA dvishati (maharShidUrvAsapraNItam)
% engtitle              : lalitAstavaratnam orArya Dvishati by Durvasamuni
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory           : lalita
% Texttype              : pramukha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Latest update         : November 25, 2012, August 12, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP