श्रीललितोपाख्यानम्

श्रीललितोपाख्यानम्

श्रीगणेशाय नमः । श्रीललितोपाख्यानस्य विषयानुक्रमणिका । (ब्रह्माण्डपुराणे उत्तरभागे अध्यायक्रमाङ्कः) प्रथमाध्याये - (५) अखिलमहीमण्डलं पर्यटतोऽगस्त्यस्य भगवता हयग्रीवेण समागमः । अगस्त्येन जगदुद्धारसाधनप्रश्ने हयग्रीवेण पराशक्त्यर्चनोपदेशः । द्वितीयाध्याये - (६) हयग्रीवं मुनिं प्रत्यगस्त्यकृतदेवीप्रादुर्भावादिप्रश्नः । इन्द्रं प्रति दुर्वासःशापवृत्तान्तकथनम् । इन्द्रबृहस्पत्योर्धर्माधर्मसंवादः तत्र हननदोषविचारः । स्तेयदोषविचारः । द्विजवर्मनामकिरातोपाख्यानम् । मद्यपानगुणदोषविचारः । तृतीयाध्याये - (७) बृहस्पतिं प्रति इन्द्रकृतागम्यागमनतत्प्रायश्चित्तादिप्रश्नः । अभोज्यवस्तुविचारः । चतुर्थाध्याये - (८) इन्द्रेण बृहस्पतिं प्रति स्वीयदौर्भाग्यप्रतीकारप्रश्नः विश्वरूपोपाख्यानम् । समुद्रमथनप्रस्तावः । क्षीराब्धेः श्रियः प्रादुर्भावः । पञ्चमाध्याये - (९) श्रीविष्णोर्मोहिनीरूपेणावतारः । मोहिनीचरितं श्रुत्वा महादेवेन विष्णुमायादर्शनाय विष्णुलोकगमनम् । भण्डासुरचरितारम्भः । भण्डासुरवधार्थं श्रीललिताम्बावतारः । षष्ठाध्याये - (१०) भण्डासुरोत्पत्तिकथनम् । भण्डासुरवरग्रहणम् । सप्तमाध्याये - (११) भण्डासुरपट्टाभिषेकादि । विष्णुकृतमायासृष्टिः । इन्द्रादिकृतमहायागविधानम् । श्रीललिताम्बिकाप्रादुर्भावः । अष्टमाध्याये - (१२) ललितास्तवराजः । नवमाध्याये - (१३) देवीदर्शनाय ब्रह्माद्यागमनादिकथनम् । दशमाध्याये - (१४) श्रीललिताम्बिकाकामेश्वरयोर्विवाहः । श्रीललिताम्बिकापट्टाभिषेकः । एकादशाध्याये - (१५) भण्डासुरवधाय देवीप्रस्थानकथनम् । सम्पत्करीदेव्या रणप्रस्थानम् । अश्वारूढादेव्याः प्रस्थानम् । दण्डनाथारणप्रस्थानम् । मन्त्रिण्यम्बारणप्रस्थानम् । श्रीललिताम्बिकाप्रस्थानवर्णनम् । द्वादशाध्याये - (१६) चक्रराजरथपर्वदेवतावर्णनम् । गीतिचक्ररथपर्वदेवतावर्णनम् । त्रयोदशाध्याये - (१७) किरिचकरथपर्वदेवतावर्णनम् । चतुर्दशाध्याये - (१८) शून्यनगरोत्पातप्रादुर्भावः । भण्डादीनां मन्त्रक्रमः । पञ्चदशाध्याये - (१९) विषङ्गकृतसन्मन्त्रोपदेशः । भण्डासुराहङ्कारवर्णनं च । षोडशाध्याये - (२०) भण्डासुरसेनासन्नाहः । सम्पत्करीकृतदुर्मदवधः । सप्तदशाध्याये - (२१) अथारुढाकृतकुरुण्डवधः । अष्टादशाध्याये - (२२) नकुलीदेवीकृतकरङ्कादिपञ्चसेनापतिवधः । एकोनविंशाध्याये - (२३) तिरस्करिणिकाम्बाकृतबलाहकादिसप्तसेनापतिवधः । विशाध्याये - (२४) रात्रौ विषङ्गकृतकूटयुद्धवर्णनम् । नित्यापराक्रमवर्णनम् । विषङ्गपलायनम् । एकविंशाध्याये - (२५) वह्निप्राकाररचना । द्वाविंशाध्याये - (२६) बालाम्बाकृतभण्डपुत्रवधः । त्रयोविंशाध्याये - (२७) भण्डासुरप्रलापः । विशुक्रकृतजयविघ्नयन्त्रम् । गणेश्वरप्रादुर्भावः । गणेश्वरपराक्रमः । चतुर्विंशाध्याये - (२८) विशुक्रविषङ्गयुद्धवर्णनम् । रणमध्ये सुधासिन्धोराविर्भावः । विशुक्रविषङ्गवधः । पञ्चविंशाध्याये - (२९) श्रीललिताभण्डासुरयुद्धम् । षड्विंशाध्याये - (३०) श्रीललिताभण्डासुरदिव्यास्त्रप्रयोगः । भण्डासुरवधः । सप्तविंशाध्याये - (३१) ब्रह्मादिकृतललितास्तुतिः । मन्मथस्य पुनरुज्जीवनम् । शिवपार्वत्योर्विवाहः । महासेनोद्भवः । तारकासुरवधश्च । अष्टाविंशाध्याये - (३२) श्रीनगरनिर्माणकथनम् । लोहादिसप्तसाललक्षणानि । मातझोपाख्यानम् । सप्तसालरक्षकदेवतादिकथनम् । एकोनत्रिशाध्याये - (३३) रत्नसाललक्षणादिकथनम् । त्रिंशाध्याये - (३४) रुद्रालयरुदविशेषनामादिकथनम् । एकत्रिंशाध्याये - (३५) महापद्माटवीवर्णनम् । द्वाविंशाध्याये - (३६) चिन्तामणिगृहान्तरवर्णनम् । प्रयस्त्रिंशाध्याये - (३७) गृहराजान्तरकथनम् । चतुर्विंशाध्याये - (३८) मनराजतत्साधनादिकथनम् । पञ्चत्रिंशाध्याये - (३९) काञ्चीनगरीमाहात्म्यवर्णनम् । षत्रिंशाध्याये - (४०) श्रीमत्रिपुरसुन्दर्या दशरथाय पुत्रवरदानम् । सप्तत्रिंशाध्याये - (४१) श्रीयन्त्रराजप्रकारोपासनादिकथनम् । अष्टत्रिंशाध्याये - (४२) मुद्रालक्षणप्रकारादिकथनम् । एकोनचत्वारिंशाध्याये - (४३) देवीदर्शनदीक्षावर्णनम् । चत्वारिंशाध्याये - (४४) मन्त्रोपासनप्रकारादिकथनम् । फलश्रुतिः (ग्रन्थोपसंहारः) इति श्रीललितोपाख्यानानुक्रमणी ॥ cहप्तेर्‍ श्रीः । अथ ब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीललितोपाख्यानं प्रारभ्यते ।

अथागस्त्ययात्राजनार्दनाविर्भावो नाम पञ्चमोऽध्यायः ॥ ५॥

ललितोपाख्याने प्रथमोऽध्यायः । (ब्रह्माण्डपुराणे उत्तरभागे पञ्चमोऽध्यायः) श्रीमत्रिपुरसुन्दर्यै ललिताम्बायै नमः । (अखिलमहीमण्डलं पर्यटतोऽगस्त्यस्य काञ्चीनगरे भगवता हयग्रीवेण समागमः १, अगस्त्येन जगदुद्धारसाधनप्रश्ने हयग्रीवेण श्रीललिताम्बापरिचर्योपदेशः २) शुक्लाम्बरधरं विष्णुं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे । पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥ १॥ अस्तु वः श्रेयसे नित्यं वस्तु वामाङ्गसुन्दरम् । (वामाङ्गमैश्वरम्) यतस्तृतीयो विदुषां तृतीयस्तु परं महः ॥ २॥ (तुरीयं तत्परं महः) अगस्त्यो नाम देवर्षिर्वेदवेदाङ्गपारगः । सर्वसिद्धान्तसारज्ञो ब्रह्मानन्दरसात्मकः ॥ ३॥ चचाराद्भुतहेतूनि तीर्थान्यायतनानि च । शैलारण्यापगामुख्यान्सर्वाञ्जनपदानपि ॥ ४॥ तेषु तेष्वखिलाञ्जन्तूनज्ञानतिमिरावृतान् । शिश्नोदरपरान्दृष्ट्वा चिन्तयामास तान्प्रति ॥ ५॥ तस्य चिन्तयमानस्य चरतो वसुधामिमाम् । प्राप्तमासीन्महापुण्यं काञ्चीनगरमुत्तमम् ॥ ६॥ तत्र वारणशैलेन्द्रमेकाम्रनिलयं शिवम् । कामाक्षीं कलिदोषघ्नीमपूजयदथात्मवान् ॥ ७॥ लोकहेतोर्दयार्द्रस्य धीमतश्चिन्तनो मुहुः । चिरकालेन तपसा तोषितोऽभूज्जनार्दनः ॥ ८॥ हयग्रीवां तनुं कृत्वा साक्षाच्चिन्मात्रविग्रहाम् । शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम् ॥ ९॥ पूरयित्रीं जगत्कृत्स्नं प्रभया देहजातया । प्रादुर्बभूव पुरतो मुनेरमिततेजसा ॥ १०॥ तं दृष्ट्वानन्दभरितः प्रणम्य च मुहुर्मुहुः । विनयावनतो भूत्वा सन्तुष्टाव जगत्पतिम् ॥ ११॥ अथोवाच जगन्नाथस्तुष्टोऽस्मि तपसा तव । वरं वरय भद्रं ते भविता भूसुरोत्तमः ॥ १२॥ इति पृष्टो भगवता प्रोवाच मुनिसत्तमः । यदि तुष्टोऽसि भगवन्निमे पामरजन्तवः ॥ १३॥ केनोपायेन मुक्ताः स्युरेतन्मे वक्तुमर्हसि । इति पृष्टो द्विजेनाथ देवदेवो जनार्दनः ॥ १४॥ एष एव पुरा प्रश्नः शिवेन चरितो मम । अयमेव कृतः प्रश्नो ब्रह्मणा तु ततः परम् ॥ १५॥ कृतो दुर्वाससा पश्चाद्भवता तु ततः परम् ॥ १६॥ भवद्भिः सर्वभूतानां गुरुभूतैर्महात्मभिः । ममोपदेशो लोकेषु प्रथितोऽस्तु वरो मम ॥ १७॥ अहमादिर्हि भूतानामादिकर्ता स्वयं प्रभुः । सृष्टिस्थितिलयानां तु सर्वेषामपि कारकः ॥ १८॥ त्रिमूर्तिस्त्रिगुणातीतो गुणहीनो गुणाश्रयः ॥ १९॥ इच्छाविहारो भूतात्मा प्रधानपुरुषात्मकम् । एवं भूतस्य मे ब्रह्मंस्त्रिजगद्रूपधारिणः ॥ २०॥ द्विधाकृतमभूद्रूपं प्रधानपुरुषात्मकम् । मम प्रधानं यद्रूपं सर्वलोकगुणात्मकम् ॥ २१॥ अपरं यद्गुणातीतं परात्परतरं महत् । एवमेव तयोर्ज्ञात्वा मुच्यते ते उभे किमु ॥ २२॥ तपोभिश्चिरकालोत्थैर्यमैश्च नियमैरपि । त्यागैर्दुष्कर्मनाशान्ते मुक्तिराश्वेव लभ्यते ॥ २३॥ यद्रूपं यद्गुणयुतं तद्गुण्यैक्येन लभ्यते । अन्यत्सर्वजगद्रूपं कर्मभोगपराक्रमम् ॥ २४॥ कर्मभिर्लभ्यते तच्च तत्त्यागेनापि लभ्यते । दुस्तरस्तु तयोस्त्यागः सकलैरपि तापस ॥ २५॥ अनपायं च सुगमं सदसत्कर्मगोचरम् ॥ २६॥ आत्मस्थेन गुणेनैव सता चाप्यसतापि वा । आत्मैक्येनैव यज्ज्ञानं सर्वसिद्धिप्रदायकम् ॥ २७॥ वर्णत्रयविहीनानां पापिष्ठानां नृणामपि । यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते ॥ २८॥ येऽर्चयन्ति परां शक्तिं विधिनाऽविधिनापि वा । न ते संसारिणो नूनं मुक्ता एव न संशयः ॥ २९॥ शिवो वा यां समाराध्य ध्यानयोगबलेन च । ईश्वरः सर्वसिद्धानामर्द्धनारीश्वरोऽभवत् ॥ ३०॥ अन्येऽब्जप्रमुखा देवाः सिद्धास्तद्ध्यानवैभवात् । तस्मादशेषलोकानां त्रिपुराराधनं विना ॥ ३१॥ न स्तो भोगापवर्गौ तु यौगपद्येन कुत्रचित् । तन्मनास्तद्गतप्राणस्तद्याजी तद्गतेहकः ॥ ३२॥ तादात्म्येनैव कर्माणि कुर्वन्मुक्तिमवाप्स्यसि । एतद्रहस्यमाख्यातं सर्वेषां हितकाम्यया ॥ ३३॥ सन्तुष्टेनैव तपसा भवतो मुनिसत्तम । देवाश्च मुनयः सिद्धा मानुषाश्च तथापरे । त्वन्मुखाम्भोजतोऽवाप्यसिद्धिं यान्तु परात्पराम् ॥ ३४॥ इति तस्य वचः श्रुत्वा हयग्रीवस्य शार्ङ्गिणः । प्रणिपत्य पुनर्वाक्यमुवाच मधुसूदनम् ॥ ३५॥ भगवन्कीदृशं रूपं भवता यत्पुरोदितम् । किंविहारं किम्प्रभावमेतन्मे वक्तुमर्हसि ॥ ३६॥ हयग्रीव उवाच । एषोऽंशभूतो देवर्षे हयग्रीवो ममापरः । श्रोतुमिच्छसि यद्यत्त्वं तत्सर्वं वक्तुमर्हति ॥ ३७॥ इत्यादिश्य जगन्नाथो हयग्रीवं तपोधनम् । पुरतः कुम्भजातस्य मुनेरन्तरधाद्धरिः ॥ ३८॥ ततस्तु विस्मयाविष्टो हृष्टरोमा तपोधनः । हयग्रीवेण मुनिना स्वाश्रमं प्रत्यपद्यत ॥ ३९॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने अगस्त्ययात्राजनार्दनाविर्भावो नाम पञ्चमोऽध्यायः ॥ ५॥

अथ हिंसाद्यस्वरूपकथनं नाम षष्ठोऽध्यायः ॥ ६॥

अथोपवेश्य चैवैनमासने परमाद्भुते । हयाननमुपागत्यागस्त्यो वाक्यं समब्रवीत् ॥ १॥ भगवन्सर्वधर्मज्ञ सर्वसिद्धान्तवित्तम । लोकाभ्युदयहेतुर्हि दर्शनं हि भवादृशाम् ॥ २॥ आविर्भावं महादेव्यास्तस्या रूपान्तराणि च । विहाराश्चैव मुख्या ये तान्नो विस्तरतो वद ॥ ३॥ हयग्रीव उवाच । अनादिरखिलाधारा सदसत्कर्मरूपिणी । ध्यानैकदृश्या ध्यानाङ्गी विद्याङ्गी हृदयास्पदा ॥ ४॥ आत्मैक्याद्व्यक्तिमायाति चिरानुष्ठानगौरवात् ॥ ५॥ आदौ प्रादुरभूच्छक्तिर्ब्रह्मणो ध्यानयोगतः । प्रकृतिर्नाम सा ख्याता देवानामिष्टसिद्धिदा ॥ ६॥ द्वितीयमुदभूद्रूपं प्रवृत्तेऽमृतमन्थने । शर्वसम्मोहजनकमवाङ्मनसगोचरम् ॥ ७॥ यद्दर्शनादभूदीशः सर्वज्ञोऽपि विमोहितः । विसृज्य पार्वतीं शीघ्रं तया रुद्धोऽतनोद्रतम् ॥ ८॥ तस्यां वै जनयामास शास्तारमसुरार्दनम् ॥ ९॥ अगस्त्य उवाच । कथं वै सर्वभूतेशो वशी मन्मथ शासनः । अहो विमोहितो देव्या जनयामास चात्मजम् ॥ १०॥ हयग्रीव उवाच । पुरामरपुराधीशो विजयश्रीसमृद्धिमान् । त्रैलोक्यं पालयामास सदेवासुरमानुषम् ॥ ११॥ कैलासशिखराकारं गजेन्द्रमधिरुह्य सः । चचाराखिललोकेषु पूज्यमानोऽखिलैरपि । तं प्रमत्तं विदित्वाथ भवानीपतिरव्ययः ॥ १२॥ दुर्वाससमथाहूय प्रजिघाय तदन्तिकम् । खण्डाजिनधरो दण्डी धूरिधूसरविग्रहः । उन्मत्तरूपधारी च ययौ विद्याधराध्वना ॥ १३॥ एतस्मिन्नन्तरे काले काचिद्विद्याधराङ्गना । यदृच्छया गता तस्य पुरश्चारुतराकृतिः ॥ १४॥ चिरकालेन तपसा तोषयित्वा पराम्बिकाम् । तत्समर्पितमाल्यं च लब्ध्वा सन्तुष्टमानसा ॥ १५॥ तां दृष्ट्वा मृगुशावाक्षीमुवाच मुनिपुङ्गवः । कुत्र वा गम्यते भीरु कुतो लब्धमिदं त्वया ॥ १६॥ प्रणम्य सा महात्मानमुवाच विनयान्विता । चिरेण तपसा ब्रह्मन्देव्या दत्तं प्रसन्नया ॥ १७॥ तच्छ्रुत्वा वचनं तस्याः सोऽपृच्छन्माल्यमुत्तमम् । पृष्टमात्रेण सा तुष्टा ददौ तस्मै महात्मने ॥ १८॥ कराभ्यां तत्समादाय कृतार्थोऽस्मीति सत्वरम् । दधौ स्वशिरसा भक्त्या तामुवाचातिर्षितः ॥ १९॥ ब्रह्मादीनामलभ्यं यत्तल्लब्धं भाग्यतो मया । भक्तिरस्तु पदाम्भोजे देव्यास्तव समुज्ज्वला ॥ २०॥ भविष्यच्छोभनाकारे गच्छ सौम्ये यथासुखम् । सा तं प्रणम्य शिरसा ययौ तुष्टा यथागतम् ॥ २१॥ प्रेषयित्वा स तां भूयो ययौ विद्याधराध्वना । विद्याधरवधूहस्तात्प्रतिजग्राह वल्लकीम् ॥ २२॥ दिव्यस्रगनुलेपांश्च दिव्यान्याभरणानि च । क्वचिद्दधौ क्वचिद्गृह्णन्क्वचिद्गायन्क्वचिद्धसन् ॥ २३॥ स्वेच्छाविहारी स मुनिर्ययौ यत्र पुरन्दरः । स्वकरस्थां ततो मालां शक्राय प्रददौ मुनिः ॥ २४॥ तां गृहीत्वा गजस्कन्धे स्थापयामास देवराट् । गजस्तु तां गृहीत्वाथ प्रेषयामास भूतले ॥ २५॥ तां दृष्ट्वा प्रेषितां मालां तदा क्रोधेन तापसः । उवाच न धृता माला शिरसा तु मयार्पिता ॥ २६॥ त्रैलोक्यैश्वर्यमत्तेन भवता ह्यवमानिता । महादेव्या धृता या तु ब्रह्माद्यैः पूज्यते हि सा ॥ २७॥ त्वया यच्छासितो लोकः सदेवासुरमानुषः । अशोभनो ह्यतेजस्को मम शापाद्भविष्यति ॥ २८॥ इति शप्त्वा विनीतेन तेन सम्पूजितोऽपि सः । तूष्णीमेव ययौ ब्रह्मन्भाविकार्यमनुस्मरन् ॥ २९॥ विजयश्रीस्ततस्तस्य दैत्यं तु बलिमन्वगात् । नित्यश्रीर्नित्यपुरुषं वासुदेवमथान्वगात् ॥ ३०॥ इन्द्रोऽपि स्वपुरं गत्वा सर्वदेवसमन्वितः । विषण्णचेता निःश्रीकश्चिन्तयामास देवराट् ॥ ३१॥ अथामरपुरे दृष्ट्वा निमित्तान्यशुभानि च । बृहस्पतिं समाहूय वाक्यमेतदुवाच ह ॥ ३२॥ भगवन्सर्वधर्मज्ञ त्रिकालज्ञानकोविद । दृश्यतेऽदृष्टपूर्वाणि निमित्तान्यशुभानि च ॥ ३३॥ किम्फलानि च तानि स्युरुपायो वाऽथ कीदृशः । इति तद्वचनं श्रुत्वा देवेन्द्रस्य बृहस्पतिः । प्रत्युवाच ततो वाक्यं धर्मार्थसहितं शुभम् ॥ ३४॥ कृतस्य कर्मणो राजन्कल्पकोटिशतैरपि । प्रायश्चित्तोपभोगाभ्यां विना नाशो न जायते ॥ ३५॥ इन्द्र उवाच । कर्म वा कीदृशं ब्रह्मन्प्रायश्चित्तं च कीदृशम् । तत्सर्वं श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥ ३६॥ बृहस्पतिरुवाच । हननस्तेयहिंसाश्च पानमन्याङ्गनारतिः । कर्म पञ्चविधं प्राहुर्दुष्कृतं धरणीपतेः ॥ ३७॥ ब्रह्मक्षत्रियविट्शूद्रगोतुरङ्गखरोष्ट्रकाः । चतुष्पदोऽण्डजाब्जाश्च तिर्यचोऽनस्थिकास्तथा ॥ ३८॥ अयुतं च सहस्रं च शतं दश तथा दश । दशपञ्चत्रिरेकार्धमानुपूर्व्यादिदं भवेत् ॥ ३९॥ ब्रह्मक्षत्रविशां स्त्रीणामुक्तार्थे पापमादिशेत् । पितृमातृगुरुस्वामि पुत्राणां चैव निष्कृतिः ॥ ४०॥ गुर्वाज्ञया कृतं पापं तदाज्ञालङ्घनेऽर्थकम् । दशब्राह्मणभृत्यर्थमेकं हन्याद्द्विजं नृपः ॥ ४१॥ शतब्राह्मणभृत्यर्थं ब्राह्मणो ब्राह्मणं तु वा । पञ्चब्रह्मविदामर्थे त्रैश्यमेकं तु दण्डयेत् ॥ ४२॥ वैश्यं दशविशामर्थे विशां वा दण्डयेत्तथा । तथा शतविशामर्थे द्विजमेकं तु दण्डयेत् ॥ ४३॥ शूद्राणां तु सहस्राणां दण्डयेद्ब्राह्मणं तु वा । तच्छतार्धं तु वा वैश्यं तद्दशार्द्धं तु शूद्रकम् ॥ ४४॥ बन्धूनां चैव मित्राणामिष्टार्थे तु त्रिपादकम् । अर्थं कलत्रपुत्रार्थे स्वात्मार्थे न तु किञ्चन ॥ ४५॥ आत्मानं हन्तुमारब्धं ब्राह्मणं क्षत्रियं विशम् । गां वा तुरगमन्यं वा हत्वा दोषैर्न लिप्यते ॥ ४६॥ आत्मदारात्मजभ्रातृबन्धूनां च द्विजोत्तम । क्रमाद्दशगुणो दोषो रक्षणे च तथा फलम् ॥ ४७॥ भूपद्विजश्रोत्रियवेदविद्व्रतीवेदान्तविद्वेदविदां विनाशे । एकद्विपञ्चाशदथायुतं च स्यान्निष्कृतिश्चेति वदन्ति सन्तः ॥ ४८॥ तेषां च रक्षणविधौ हि कृते च दाने पूर्वोदितोत्तरगुणं प्रवदन्ति पुण्यम् । तेषां च दर्शनविधौ नमने च कार्ये शूश्रूषणेऽपि चरतां सदृशांश्च तेषाम् ॥ ४९॥ सिंहव्याघ्रमृगादीनि लोकहिंसाकराणि तु । नृपो हन्याच्च सततं देवार्थे ब्राह्मणार्थके ॥ ५०॥ आपत्स्वात्मार्थके चापि हत्वा मेध्यानि भक्षयेत् ॥ ५१॥ नात्मार्थे पाचयेदन्न नात्मार्थे पाचयेत्पशून् । देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते ॥ ५२॥ पुरा भगवती माया जगदुज्जीवनोन्मुखी । ससर्ज सर्वदेवांश्च तथैवासुरमानुषान् ॥ ५३॥ तेषां संरक्षणार्थाय पशूनपि चतुर्दश । यज्ञाश्च तद्विधानानि कृत्वा चैनानुवाच ह ॥ ५४॥ यजध्वं पशुभिर्देवान्विधिनानेन मानवाः । इष्टानि ये प्रदास्यन्ति पुष्टास्ते यज्ञभाविताः ॥ ५५॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । दरिद्रो नारकश्चैव भवेज्जन्मनि जन्मनि ॥ ५६॥ देवतार्थे च पित्रर्थे तथैवाभ्यागते गुरौ । महदागमने चैव हन्यान्मेध्यान्पशून्द्विजः ॥ ५७॥ आपत्सु ब्राह्मणो मांसं मेध्यमश्नन्न दोषभाक् । विहितानि तु कार्याणि प्रतिषिद्धानि वर्जयेत् ॥ ५८॥ पुराभूद्युवनाश्वस्य देवतानां महाक्रतुः । ममायमिति देवानां कलहः समजायत ॥ ५९॥ तदा विभज्य देवानां मानुषांश्च पशूनपि । विभज्यैकैकशः प्रदाद्ब्रह्मा लोकपितामहः ॥ ६०॥ ततस्तु परमा शक्तिर्भूतसङ्घसहायिनी । कुपिताभूत्ततो ब्रह्मा तामुवाच नयान्वितः ॥ ६१॥ प्रादुर्भूता समुद्वीक्ष्य भूतानन्दभयान्वितः । प्राञ्जलिः प्रणतस्तुत्वा प्रसीदेति पुनः पुनः ॥ ६२॥ प्रादुर्भूता यतोऽसि त्वं कृतार्थोऽस्मि पुरो मम । त्वयैतदखिलं कर्म निर्मितं सुशुभाशुभम् ॥ ६३॥ श्रुतयः स्मृतयश्चैव त्वयैव प्रतिपादिताः । त्वयैव कल्पिता यागा मन्मुखात्तु महाक्रतौ ॥ ६४॥ ये विभक्तास्तु पशवो देवानां परमेश्वरि । ते सर्वे तावकाः सन्तु भूतानामपि तृप्तये ॥ ६५॥ इत्युक्त्वान्तर्दधे तेषां पुर एव पितामहः । तदुक्तेनैव विधिना चकार च महाक्रतून् ॥ ६६॥ इयाज च परां शक्तिं हत्वा मेध्यान्पशूनपि । तत्तद्विभागो वेदेषु प्रोक्तत्वादिह नोदितः ॥ ६७॥ स्त्रियः शूद्रास्तथा मांसमादद्युर्ब्राह्मणं विना । आपत्सु ब्राह्मणो वापि भक्षयेद्गुर्वनुज्ञया ॥ ६८॥ शिवोद्भवमिदं पिण्डमत्यथ शिवतां गतम् । उद्बुध्यस्व पशो त्वं हि नाशिवः सञ्छिवो ह्यसि ॥ ६९॥ ईशः सर्वजगत्कर्ता प्रभवः प्रलयस्तथा । यतो विश्वाधिको रुद्रस्तेन रुद्रोऽसि वै पशो ॥ ७०॥ अनेन तुरगं गा वा गजोष्ट्रमहिषादिकम् । आत्मार्थं वा परार्थं वा हत्वा दोषैर्न लिप्यते ॥ ७१॥ गृहानिष्टकरान्वापि नागाखुबलिवृश्चिकान् । एतद्गृहाश्रमस्थानां क्रियाफलमभीप्सताम् । मनःसङ्कल्पसिद्धानां महतां शिववर्चसाम् ॥ ७२॥ पशुयज्ञेन चान्येषामिष्टा पूर्तिकरं भवेत् । जपहोमार्चनाद्यैस्तु तेषामिष्टं च सिध्यति ॥ ७३॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने हिंसाद्यस्वरूपकथनं नाम षष्ठोऽध्यायः ॥ ६॥

अथ स्तेयपानकथनं नाम सप्तमोऽध्यायः ॥ ७॥

इन्द्र उवाच । भगवन्सर्वमाख्यातं हिंसाद्यस्य तु लक्षणम् । स्तेयस्य लक्षणं किं वा तन्मे विस्तरतो वद ॥ १॥ बृहस्पतिरुवाच । पापानामधिकं पापं हननं जीवजातिनाम् । एतस्मादधिकं पापं विश्वस्ते शरणं गते ॥ २॥ विश्वस्य हत्वा पापिष्ठं शूद्रं वाप्यन्त्यजातिजम् । ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः ॥ ३॥ ब्रह्मज्ञस्य दरिद्रस्य कृच्छ्रार्जितधनस्य च । बहुपुत्रकलत्रस्य तेन जीवितुमिच्छतः । तद्द्रव्यस्तेयदोषस्य प्रायश्चित्तं न विद्यते ॥ ४॥ विश्वस्तद्रव्यहरणं तस्याप्यधिकमुच्यते । विश्वस्ते वाप्यविश्वस्ते न दरिद्रधनं हरेत् ॥ ५॥ ततो देवद्विजातीनां हेमरत्नापहारकम् । यो हन्यादविचारेण सोऽश्वमेधफलं लभेत् ॥ ६॥ गुरुदेवद्विजसुहृत्पुत्रस्वात्मसुखेषु च । स्तेयादधःक्रमेणैव दशोत्तरगुणं त्वघम् ॥ ७॥ अन्त्यजात्पादजाद्वैश्यात्क्षत्रियाद्ब्राह्मणादपि । दशोत्तरगुणैः पापैर्लिप्यते धनहारकः ॥ ८॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । रहस्यातिरहस्यं च सर्वपापप्रणाशनम् ॥ ९॥ पुरा काञ्चीपुरे जातो वज्राख्यो नाम चोरकः । तस्मिन्पुरवरे रम्ये सर्वैश्वर्यसमन्विताः । सर्वे नीरोगिणो दान्ताः सुखिनो दययाञ्चिताः ॥ १०॥ सर्वैश्वर्यसमृद्धेऽस्मिन्नगरे स तु तस्करः । स्तोकास्तोकक्रमेणैव बहुद्रव्यमपाहरत् ॥ ११॥ तदरण्येऽवटं कृत्वा स्थापयामास लोभतः । तद्गोपनं निशार्धायां तस्मिन्दूरं गते सति ॥ १२॥ किरातः कश्चिदागत्य तं दृष्ट्वा तु दशांशतः । जहाराविदितस्तेन काष्ठभारं वहन्ययौ ॥ १३॥ सोऽपि तच्छिलयाच्छाद्य मृद्भिरापूर्ययत्नतः । पुनश्च तत्पुरं प्रायाद्वज्रोऽपि धनतृष्णया ॥ १४॥ एवं बहुधनं हृत्वा निश्चिक्षेप महीतले । किरातोऽपि गृहं प्राप्य बभाषे मुदितः प्रियाम् ॥ १५॥ मया काष्ठं समाहर्तुं गच्छता पथि निर्जने । लब्धं धनमिदं भीरु समाधत्स्व धनार्थिनि ॥ १६॥ तच्छ्रुत्वा तत्समादाय निधायाभ्यन्तरे ततः । चिन्तयन्ती ततो वाक्यमिदं स्वपतिमब्रवीत् ॥ १७॥ नित्यं सञ्चरते विप्रो मामकानां गृहेषु यः । मां विलोक्यैवमचिराद्बहुभाग्यवती भवेत् ॥ १८॥ चातुर्वर्ण्यासु नारीषु स्थेयं चेद्राजवल्लभा । किं तु भिल्ले किराते च शैलूषे चान्त्यजातिजे । लक्ष्मीर्न तिष्ठति चिरं शापाद्वल्मीकजन्मनः ॥ १९॥ तथापि बहुभाग्यानां पुण्यानामपि पात्रिणे । दृष्टपूर्वं तु तद्वाक्यं न कदाचिद्वृथा भवेत् ॥ २०॥ अथ वात्मप्रयासेन कृच्छ्राद्यल्लभ्यते धनम् । तदेव तिष्ठति चिरादन्यद्गच्छति कालतः ॥ २१॥ स्वयमागतवित्तं तु धर्मार्थैर्विनियोजयेत् । कुरुष्वैतेन तस्मात्त्वं वापीकूपादिकाञ्छुभान् ॥ २२॥ इति तद्वचनं श्रुत्वा भाविभाग्यप्रबोधितम् । बहूदकसमं देशं तत्र तत्र व्यलोकयत् ॥ २३॥ निर्ममेऽथ महेन्द्रस्य दिग्भागे विमलोदकम् । सुबहुद्रव्यसंसाध्यं तटाङ्कं चाक्षयोदकम् ॥ २४॥ दत्तेषु कर्मकारिभ्यो निखिलेषु धनेषु च । असम्पूर्णं तु तत्कर्म दृष्ट्वा चिन्ताकुलोऽभवत् ॥ २५॥ तं चोर वज्रनामानमज्ञातोऽनुचराम्यहम् । तेनैव बहुधा क्षिप्तं धनं भूरि महीतले ॥ २६॥ स्तोकंस्तोकं हरिष्यामि तत्रतत्र धनं बहु । इति निश्चित्य मनसा तेनाज्ञातस्तमन्वगात् ॥ २७॥ तथैवाहृत्य तद्द्रव्यं तेन सेतुमपूरयत् । मध्ये जलावृतस्तेन प्रासादश्चापि शार्ङ्गिणः ॥ २८॥ तत्तटाकमभूद्दिव्यमशोषितजलं महत् । सेतुमध्ये चकारासौ शङ्करायतनं महत् ॥ २९॥ काननं च क्षयं नीतं बहुसत्त्वसमाकुलम् । तेनाग्र्याणि महार्हाणि क्षेत्राण्यपि चकार सः ॥ ३०॥ देवताभ्यो द्विजेभ्यश्च प्रदत्तानि विभज्य वै । ब्राह्मणांश्च समामन्त्र्य देवव्रातमुखान्बहून् ॥ ३१॥ सन्तोष्य हेमवस्त्राद्यैरिदं वचनमब्रवीत् । क्व चाहं वीरदत्ताख्यः किरातः काष्ठविक्रयी ॥ ३२॥ क्व वा महासेतुबन्धः क्व देवालयकल्पना । क्व वा क्षेत्राणि कॢप्तानि ब्राह्मणायतनानि च ॥ ३३॥ कृपयैव कृतं सर्वं भवतां भूसुरोत्तमाः । प्रतिगृह्य तथैवैतद्देवव्रातमुखा द्विजाः ॥ ३४॥ द्विजवर्मेति नामास्मै तस्यै शीलवतीति च । चक्रुः सन्तुष्टमनसो महात्मानो महौजसः ॥ ३५॥ तेषां संरक्षणार्थाय बन्धुमिः सहितो वशी । तत्रैव वसतिं चक्रे मुदितो भार्यया सह ॥ ३६॥ पुरोहिताभिधानेन देवरातपुरं त्विति । नाम चक्रे पुरस्यास्य तोष यन्नखिलान्द्विजान् ॥ ३७॥ ततः कालवशं प्राप्तो द्विजवर्मा मृतस्तदा । यमस्य ब्रह्मणो विष्णोर्दूता रुद्रस्य चागताः ॥ ३८॥ अन्योऽन्यमभवत्तेषां युद्धं देवासुरोपमम् । अत्रान्तरे समागत्य नारदो मुनिरब्रवीत् ॥ ३९॥ मा कुर्वन्तु मिथो युद्धं श‍ृण्वन्तु वचनं मम । अयं किरातश्चौर्येण सेतुबन्धं पुराकरोत् ॥ ४०॥ वायुभूतश्चरेदेको यावद्द्रव्यवतो मृतिः । स बहुभ्यो हरेद्द्रव्यं तेषां यावत्तथा मृतिः ॥ ४१॥ गतेष्वखिलदूतेषु श्रुत्वा नारदभाषितम् । चचार द्वादशाब्दं तु वायुभूतोऽन्तरिक्षगः ॥ ४२॥ भार्यां तस्याह स मुनिस्तव दोषो न किञ्चन । त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज ॥ ४३॥ वायुभूतं पतिं दृष्ट्वा नेच्छति ब्रह्ममन्दिरम् । निर्वेदं परमापन्ना मुनिमेवमभाषत ॥ ४४॥ विना पतिमहं तेन न गच्छेयं पितामहम् । इहैवास्ते पतिर्यावत्स्वदेहं लभते तथा ॥ ४५॥ ततस्तु या गतिस्तस्य तामेवानुचराम्यहम् । परिहारोऽथवा किं तु मया कार्यस्तु तेन वा ॥ ४६॥ इति तस्या वचः श्रुत्वा प्रीतः प्राह तपोधनः । भोगात्मकं शरीरं तु कर्म कार्यकरं तव ॥ ४७॥ मम प्रभावाद्भविता परिहारं वदामि ते । निराहारो महातीर्थे स्नात्वा नित्यं हि साम्बिकम् ॥ ४८॥ पूजयित्वा शिवं भक्त्या कन्दमूलफलाशनः । ध्यात्वा हृदि महेशानं शतरुद्रमनुं जपेत् ॥ ४९॥ ब्रह्महा मुच्यते पापैरष्टोत्तरसहस्रतः । पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः ॥ ५०॥ इत्यादिश्य ददौ तस्यै रुद्राध्यायं तपोधनः । अनुगृह्येति तां नारीं तत्रैवान्तर्द्धिमागमत् ॥ ५१॥ भर्तुः प्रियार्थे सङ्कल्प्य जजाप परमं जपम् । विमुक्तस्तेयदोषेण स्वशरीरमवाप सः ॥ ५२॥ ततो वज्राभिधश्चौरः कालधर्ममुपागतः । अन्ये तद्द्रव्यवन्तोऽपि कालधर्ममुपागताः ॥ ५३॥ यमस्तु तान्समाहूय वाक्यं चैतदुवाच ह ॥ ५४॥ भवद्भिस्तु कृतं पापं दैवात्सुकृतमप्युत । किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा ॥ ५५॥ इति तस्य वचः श्रुत्वा प्रोचुर्वज्रादिकास्ततः । सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते ॥ ५६॥ पुनराह यमो यूयं पुत्रमित्र कलत्रकैः । एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम् ॥ ५७॥ तेऽधिरुह्य विमानाग्र्यं द्विजवर्माणमाश्रिताः । यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा ॥ ५८॥ द्विजवर्माखिलाँल्लोकानतीत्य प्रमदासखः । गाणपत्यमनुप्राप्य कैलासेऽद्यापि मोदते ॥ ५९॥ इन्द्र उवाच । तारतम्यविभागं च कथय त्वं महामते । सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम् ॥ ६०॥ बृहस्पतिरुवाच । पुण्यस्यार्द्धफलं प्राप्य द्विजवर्मा महायशाः । वज्रः प्राप्य तदर्धं तु तदर्धेन युताः परे ॥ ६१॥ मनोवाक्कायचेष्टाभिश्चतुर्धा क्रियते कृतिः । विनश्येत्तेन तेनैव कृतैस्तत्परिहारकैः ॥ ६२॥ इन्द्र उवाच । आसवस्य तु किं रूपं को दोषः कश्च वा गुणः । अन्नं दोषकरं किं तु तन्मे विस्तरतो वद ॥ ६३॥ बृहस्पतिरुवाच । पैष्टिकं तालजं कैरं माधूकं गुडसम्भवम् । क्रमान्न्यूनतरं पापं तदर्द्धार्द्धार्द्धतस्तथा ॥ ६४॥ क्षत्रियादित्रिवर्णानामासवं पेयमुच्यते । स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना ॥ ६५॥ पतिहीना च कन्या च त्यजेदृतुमती तथा । अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा ॥ ६६॥ उन्मादिनीति साख्याता तां त्यजेदन्त्यजामिव ॥ ६७॥ दशाष्टषट्चतस्रस्तु द्विजातीनामयं भवेत् । स्त्रीणां मद्यं तदर्द्धं स्यात्पादं स्याद्भर्तृसङ्गमे ॥ ६८॥ मद्यं पीत्वा द्विजो मोहात्कृच्छ्रचान्द्रायणं चरेत् । जपेच्चायुतगायत्रीं जातवेदसमेव वा ॥ ६९॥ अम्बिका हृदयं वापि जपेच्छुद्धो भवेन्नरः । क्षत्रियोऽपि त्रिवर्णानां द्विजादर्धोऽर्धतः क्रमात् ॥ ७०॥ स्त्रीणामर्धार्धकॢप्तिः स्यात्कारयेद्वा द्विजैरपि । अन्तर्जले सहस्रं वा जपेच्छुद्धिमवाप्नुयात् ॥ ७१॥ लक्ष्मीः सरस्वती गौरी चण्डिका त्रिपुराम्बिका । भैरवो भैरवी काली महाशास्त्री च मातरः ॥ ७२॥ अन्याश्च शक्तयस्तासां पूजने मधु शस्यते । ब्राह्मणस्तु विना तेन यजेद्वेदाङ्गपारगः ॥ ७३॥ तन्निवेदितमश्नन्तस्तदनन्यास्तदात्मकाः । तासां प्रवाहा गच्छन्ति निर्लेपास्ते परां गतिम् ॥ ७४॥ कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा । प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः ॥ ७५॥ अनभ्यर्च्य परां शक्तिं पिबेन्मद्यं तु योऽधमः । रौरवे नरकेऽब्दं तु निवसेद्बिन्दुसङ्ख्यया ॥ ७६॥ भोगेच्छया तु यो मद्यं पिबेत्स मानुषाधमः । प्रायश्चित्तं न चैवास्य शिलाग्निपतनादृते ॥ ७७॥ द्विजो मोहान्न तु पिबेत्स्नेहाद्वा कामतोऽपि वा । अनुग्रहाच्च महतामनुतापाच्च कर्मणः ॥ ७८॥ अर्चनाच्च पराशक्तेर्यमैश्च नियमैरपि । चान्द्रायणेन कृच्छ्रेण दिनसङ्ख्याकृतेन च । शुद्ध्येच्च ब्राह्मणो दोषाद्द्विगुणाद्बुद्धिपूर्वतः ॥ ७९॥ इति ब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीललितोपाख्याने स्तेयपानकथनं नाम सप्तमोऽध्यायः ॥ ७॥

अथाष्टमोऽध्यायः ॥ ८॥

इन्द्र उवाच । अगम्यागमनं किं वा को दोषः का च निष्कृतिः । एतन्मे मुनिशार्दूल विस्तराद्वक्तुमर्हसि ॥ १॥ बृहस्पतिरुवाच । अगम्यागमनं नाम मातृस्वसृगुरुस्त्रियः । मातुलस्य प्रिया चेति गत्वेमा नास्ति निष्कृतिः ॥ २॥ मातृसङ्गे तु यदघं तदेव स्वसृसङ्गमे । गुरुस्त्रीसङ्गमे तद्वद्गुरवो बहवः स्मृताः ॥ ३॥ ब्रह्मोपदेशमारभ्य यावद्वेदान्तदर्शनम् । एकेन वक्ष्यते येन स महागुरुरुच्यते ॥ ४॥ ब्रह्मोपदेशमेकत्र वेदशास्त्राण्यथैकतः । आचार्यः स तु विज्ञेयस्तदेकैकास्तु देशिकाः ॥ ५॥ गुरोरात्मान्तमेव स्यादाचार्यस्य प्रियागमे । द्वादशाब्दं चरेत्कृच्छ्रमेकैकं तु षडब्दतः ॥ ६॥ मातुलस्य प्रियां गत्वा षडब्दं कृच्छ्रमाचरेत् । ब्राह्मणस्तु सजातीयां प्रमदां यदि गच्छति ॥ ७॥ उपोषितस्त्रिरात्रं तु प्राणायामशतं चरेत् । कुलटां तु सजातीयां त्रिरात्रेण विशुध्यति ॥ ८॥ पञ्चाहात्क्षत्रियां गत्वा सप्ताहाद्वैश्यजामपि । चक्रीकिरातकैवर्तकर्मकारादियोषितः ॥ ९॥ शुद्धिः स्याद्द्वादशाहेन धराशक्त्यर्चनेन च । अन्त्यजां ब्राह्मणो गत्वा प्रमादादब्दतः शुचिः ॥ १०॥ देवदासी ब्रह्मदासी स्वतन्त्रा शूद्रदासिका । दासी चतुर्विधा प्रोक्ता द्वे चाद्ये क्षत्रियासमे ॥ ११॥ अन्यावेश्याङ्गनातुल्या तदन्या हीनजातिवत् । आत्मदासीं द्विजो मोहादुक्तार्थे दोषमाप्नुयात् ॥ १२॥ स्वस्त्रीमृतुमतीं गत्वा प्राजापत्यं चरेद्व्रतम् । द्विगुणेन परां नारीं चतुर्भिः क्षत्रियाङ्गनाम् ॥ १३॥ अष्टभिर्वैश्यनारीं च शूद्रां षोडशभिस्तथा । द्वात्रिंशता सङ्करजां वेश्यां शूद्रामिवाचरेत् ॥ १४॥ रजस्वलां तु यो भार्यां मोहतो गन्तुमिच्छति । स्नात्वान्यवस्त्रसंयुक्तमुक्तार्थेनैव शुध्यति ॥ १५॥ उपोष्य तच्छेषदिनं स्नात्वा कर्म समाचरेत् । तथैवान्याङ्गनां गत्वा तदुक्तार्थं समाचरेत् ॥ १६॥ पित्रोरनुज्ञया कन्यां यो गच्छेद्विधिना विना । त्रिरात्रोपोषणाच्छुद्धिस्तामेवोद्वाहयेत्तदा ॥ १७॥ कन्यां दत्त्वा तु योऽन्यस्मै दत्ता यश्चानुयच्छति । पित्रोरनुज्ञया पाददिनार्धेन विशुध्यति ॥ १८॥ ज्ञातः पितृभ्यां यो मासं कन्याभावे तु गच्छति । वृषलः स तु विज्ञेयः सर्वकर्मबहिष्कृतः ॥ १९॥ ज्ञातः पितृभ्यां यो गत्वा परोढां तद्विनाशने । विधवा जायते नेयं पूर्वगन्तारमाप्नुयात् ॥ २०॥ अनुग्रहाद्द्विजातीनामुद्वाहविधिना तथा । त्यागकर्माणि कुर्वीत श्रौतस्मार्तादिकानि च ॥ २१॥ आदावुद्वाहिता वापि तद्विनाशेऽन्यदः पिता । भोगेच्छोः साधनं सा तु न योग्याखिलकर्मसु ॥ २२॥ ब्रह्मादिपिपीलकान्तं जगत्स्थावरजङ्गमम् । पञ्चभूतात्मकं प्रोक्तं चतुर्वासनयान्वितम् ॥ २३॥ जन्माद्याहारमथननिद्राभीत्यश्च सर्वदा । आहारेण विना जन्तुर्नाहारो मदनात्स्मृतः ॥ २४॥ दुस्तरो मदनस्तस्मात्सर्वेषां प्राणिनामपि । पुन्नारीरूपवत्कृत्वा मदनेनैव विश्वसृक् ॥ २५॥ प्रवृत्तिमकरोदादौ सृष्टिस्थितिलयात्मिकाम् । तत्प्रवृत्त्या प्रवर्तन्ते तन्निवृत्त्याक्षयां गतिम् ॥ २६॥ प्रवृत्त्यैव यथा मुक्तिं प्राप्नुयुर्ये न धीयुताः । तद्रहस्यं तदोपायं श‍ृणु वक्ष्यामि साम्प्रतम् ॥ २७॥ सर्वात्मको वासुदेवः पुरुषस्तु पुरातनः । इयं हि मूलप्रकृतिर्लक्ष्मीः सर्वजगत्प्रसूः ॥ २८॥ पञ्चापञ्चात्मतृप्त्यर्थं मथनं क्रियतेतराम् । एवं मन्त्रानुभावात्स्यान्मथनं क्रियते यदि ॥ २९॥ तावुभौ मन्त्रकर्माणौ न दोषो विद्यते तयोः ॥ ३०॥ तपोबलवतामेतत्केवलानामधो गतिः । स्वस्त्रीविषय एवेदं तयोरपि विधेर्बलात् ॥ ३१॥ परस्परात्म्यैक्यहृदोर्देव्या भक्त्यार्द्रचेतसोः । तयोरपि मनाक्चेन्न निषिद्धदिवसेष्वघम् ॥ ३२॥ इयमम्बा जगद्धात्री पुरुषोऽयं सदाशिवः । पञ्चविंशतितत्त्वानां प्रीतये मथ्यतेऽधुना ॥ ३३॥ एतन्मन्त्रानुभावाच्च मथनं क्रियते यदि । तावुभौ पुण्यकर्माणौ न दोषो विद्यते तयोः ॥ ३४॥ इदं च श‍ृणु देवेन्द्र रहस्यं परमं महत् । सर्वेषामेव पापानां यौगपद्येन नाशनम् ॥ ३५॥ भक्तिश्रद्धासमायुक्तः स्नात्वान्तर्जलसंस्थितः । अष्टोत्तरसहस्रं तु जपेत्पञ्चदशाक्षरीम् ॥ ३६॥ आराध्य च परां शक्तिं मुच्यते सर्वकिल्बिषैः । तेन नश्यन्ति पापानि कल्पकोटिकृतान्यपि । सर्वापद्भ्यो विमुच्येत सर्वाभीष्टं च विन्दति ॥ ३७॥ इन्द्र उवाच । भगवन्सर्वधर्मज्ञ सर्वभूतहिते रत । संयोगजस्य पापस्य विशेषं वक्तुमर्हसि ॥ ३८॥ बृहस्पतिरुवाच । संयोगजं तु यत्पापं तच्चतुर्धा निगद्यते । कर्ता प्रधानः सहकृन्निमित्तोऽनुमतः क्रमात् ॥ ३९॥ क्रमाद्दशांशतोऽघं स्याच्छुद्धिः पूर्वोक्तमार्गतः ॥ ४०॥ मद्यं कलञ्जं निर्यासं छत्राकं गृञ्जनं तथा । लशुनं च कलिङ्गं च महाकोशातकीं तथा ॥ ४१॥ बिम्बीं च कवकं चैव हस्तिनीं शिशुलम्बिकाम् । औदुम्बरं च वार्ताकं कतकं बिल्वमल्लिका ॥ ४२॥ क्रमाद्दशगुणं न्यूनमघमेषां विनिर्दिशेत् । पुरग्रामाङ्गवैश्याङ्गवेश्योपायनविक्रयी ॥ ४३॥ सेवकः पुरसंस्थश्च कुग्रामस्थोऽभिशस्तकः । वैद्यो वैखानसः शैवो नारीजीवोऽन्नविक्रयी ॥ ४४॥ शस्त्रजीवी परिव्राट् च वैदिकाचारनिन्दकः । क्रमाद्दशगुणान्न्यूनमेषामन्नादने भवेत् ॥ ४५॥ स्वतन्त्रं तैलकॢप्तं तु ह्युक्तार्थं पापमादिशेत् । तैरेव दृष्टं तद्भुक्तमुक्तपापं विनिर्दिशेत् ॥ ४६॥ ब्रह्मक्षत्रविशां चैव सशूद्राणां यथौदनम् । तैलपक्वमदृष्टं च भुञ्जन्पादमघं भवेत् ॥ ४७॥ द्विजात्मदासीकॢप्तं च तया दृष्टे तदर्धके । वेश्यायास्तु त्रिपादं स्यात्तथा दृष्टे तदोदने ॥ ४८॥ शूद्रावत्स्यात्तु गोपान्नं विना गव्यचतुष्टयम् । तैलाज्यगुडसंयुक्तं पक्वं वैश्यान्न दुष्यति ॥ ४९॥ वैश्यावद्ब्राह्मणी भ्रष्टा तया दृष्टेन किञ्चन ॥ ५०॥ ब्रुवस्यान्नं द्विजो भुक्त्वा प्राणायामशतं चरेत् । अथवान्तर्जले जप्त्वा द्रुपदां वा त्रिवारकम् ॥ ५१॥ इदं विष्णुस्त्र्यम्बकं वा तथैवान्तर्जले जपेत् । उपोष्य रजनीमेकां ततः पापाद्विशुध्यति ॥ ५२॥ अथवा प्रोक्षयेदन्नमब्लिङ्गैः पावमानिकैः । अन्नसूक्तं जपित्वा तु भृगुर्वै वारुणीति च ॥ ५३॥ ब्रह्मार्पणमिति श्लोकं जप्त्वा नियममाश्रितः । उपोष्य रजनीमेकां ततः शुद्धो भविष्यति ॥ ५४॥ स्त्री भुक्त्वा तु ब्रुवाद्यन्नमेकाद्यान्भोजयेद्द्विजान् । आपदि ब्राह्मणो ह्येषामन्नं भुक्त्वा न दोषभाक् ॥ ५५॥ इदं विष्णुरिति मन्त्रेण सप्तवाराभिमन्त्रितम् । सोऽहम्भावेन तद्ध्यात्वा भुक्त्वा दोषैर्न लिप्यते ॥ ५६॥ अथवा शङ्करं ध्यायञ्जप्त्वा त्रैय्यम्बकं मनुम् । सोऽहम्भावेन तज्ज्ञानान्न दोषैः प्रविलिप्यते ॥ ५७॥ इदं रहस्यं देवेन्द्र श‍ृणुष्व वचनं मम । ध्यात्वा देवीं परां शक्तिं जप्त्वा पञ्चदशाक्षरीम् ॥ ५८॥ तन्निवेदितबुद्ध्यादौ योऽश्नाति प्रत्यहं द्विजः । नास्यान्नदोषजं किञ्चिन्न दारिद्र्यभयं तथा ॥ ५९॥ न व्याधिजं भयं तस्य न च शत्रुभयं तथा । जपतो मुक्तिरेवास्य सदा सर्वत्र मङ्गलम् ॥ ६०॥ एष ते कथितः शक्र पापानामपि विस्तरः । प्रायश्चित्तं तथा तेषां किमन्यच्छ्रोतुमिच्छसि ॥ ६१॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्यानेऽष्टमोऽध्यायः ॥ ८॥

अथामृतमन्थनं नाम नवमोऽध्यायः ॥ ९॥

इन्द्र उवाच । भगवन्सर्व धर्मज्ञ त्रिकालज्ञानवित्तम । दुष्कृतं तत्प्रतीकारो भवता सम्यगीरितः ॥ १॥ केन कर्मविपाकेन ममापदि यमागता । प्रायश्चित्तं च किं तस्य गदस्व वदतां वर ॥ २॥ बृहस्पतिरुवाच । काश्यपस्य ततो जज्ञे दित्यां दनुरिति स्मृतः । कन्या रूपवती नाम धात्रे तां प्रददौ पिता ॥ ३॥ तस्याः पुत्रस्ततो जातो विश्वरूपो महाद्युतिः । नारायणपरो नित्यं वेदवेदाङ्गपारगः ॥ ४॥ ततो दैत्येश्वरो वव्रे भृगुपुत्रं पुरोहितम् । भवानधिकृतो राज्ये देवानामिव वासवः ॥ ५॥ ततः पूर्वे च काले तु सुधर्मायां त्वयि स्थिते । त्वया कश्चित्कृतः प्रश्न ऋषीणां सन्निधौ तदा ॥ ६॥ संसारस्तीर्थयात्रा वा कोऽधिकोऽस्ति तयोर्गुणः । वदन्तु तद्विनिश्चित्य भवन्तो मदनुग्रहात् ॥ ७॥ तत्प्रश्नस्योत्तरं वक्तुं ते सर्व उपचक्रिरे । तत्पूर्वमेव कथितं मया विधिबलेन वै ॥ ८॥ तीर्थ यात्रा समधिका संसारादिति च द्रुतम् । तच्छ्रुत्वा ते प्रकुपिताः शेपुर्मामृषयोऽखिलाः ॥ ९॥ कर्मभूमिं व्रजेः शीघ्रं दारिद्र्यणे मितैः सुतैः । एवं प्रकुपितैः शप्तः खिन्नः काञ्चीं समाविशम् ॥ १०॥ पुरीं पुरोधसा हीनां वीक्ष्य चिन्ताकुलात्मना । भवता सह देवैस्तु पौरोहित्यार्थमादरात् ॥ ११॥ प्रार्थितो विश्वरूपस्तु बभूव तपतां वरः । स्वस्रीयो दानवानां तु देवानां च पुरोहितः ॥ १२॥ नात्यर्थमकरोद्वैरं दैत्येष्वपि महातपाः । बभूवतुस्तुल्यबलौ तदा दैत्येन्द्रवासवौ ॥ १३॥ ततस्त्वं कुपितो राजन्स्वस्रीयं दानवेशितुः । हन्तुमिच्छन्नगाश्चाशु तपसः साधनं वनम् ॥ १४॥ तमासनस्थं मुनिभिस्त्रिश‍ृङ्गमिव पर्वतम् । त्रयी मुखरदिग्भागं ब्रह्मानदैकनिष्ठितम् ॥ १५॥ सर्वभूतहितं तं तु मत्वा चेशानुकूलितः । शिरांसि यौगपद्येन छिन्नात्यासंस्त्वयैव तु ॥ १६॥ तेन पापेन संयुक्तः पीडितश्च मुहुर्मुहुः । ततो मेरुगुहां नीत्वा बहूनब्दान्हि संस्थितः ॥ १७॥ ततस्तस्य वचः श्रुत्वा ज्ञात्वा तु मुनिवाक्यतः । पुत्र शोकेन सन्तप्तस्त्वां शशाप रुषान्वितः ॥ १८॥ निःश्रीको भवतु क्षिप्रं मम शापेन वासवः । अनाथकास्ततो देवा विषण्णा दैत्यपीडिताः ॥ १९॥ त्वया मया च रहिताः सर्वे देवाः पलायिताः । गत्वा तु ब्रह्मसदनं नत्वा तद्वृत्तमूचिरे ॥ २०॥ ततस्तु चिन्तयामास तदघस्य प्रतिक्रियाम् । तस्य प्रतिक्रियां वेत्तुं न शशाकात्मभूस्तदा ॥ २१॥ ततो देवैः परिवृतो नारायणमुपागमत् ॥ २२॥ नत्वा स्तुत्वा चतुर्वक्रस्तद्वृत्तान्तं व्यजिज्ञपत् । विचिन्त्य सोऽपि बहुधा कृपया लोकनायकः ॥ २३॥ तदघं तु त्रिधा भित्त्वा त्रिषु स्थानेष्वथार्पयत् । स्त्रीषु भूम्यां च वृक्षेषु तेषामपि वरं ददौ ॥ २४॥ तदा भर्त्तृसमायोगं पुत्रावाप्तिमृतुष्वपि । छेदे पुनर्भवत्वं तु सर्वेषामपि शाखिनाम् ॥ २५॥ खातपूर्तिं धरण्यश्च प्रददौ मधुसूदनः । तेष्वघं प्रबभूवाशु रजोनिर्यासमूषरम् ॥ २६॥ निर्गतो गह्वरात्तस्मात्त्वमिन्द्रो देवनायकः । राज्यश्रियं च सम्प्राप्तः प्रसादात्परमेष्ठिनः ॥ २७॥ तेनैव सान्त्वितो धाता जगाद च जनार्दनम् । मम शापो वृथा न स्यादस्तु कालान्तरे मुने ॥ २८॥ भगवांस्तद्वचः श्रुत्वा मुनेरमिततेजसः । प्रहृष्टो भाविकार्यज्ञस्तूष्णीमेव तदा ययौ ॥ २९॥ एतावन्तमिमं कालं त्रिलोकीं पालयन्भवान् । ऐश्वर्यमदमत्तत्वात्कैलासाद्रिमपीडयत ॥ ३०॥ सर्वज्ञेन शिवेनाथ प्रेषितो भगवान्मुनिः । दुर्वासास्त्वन्मदभ्रंशं कर्त्तुकामः शशाप ह ॥ ३१॥ एकमेव फलं जातमुभयोः शापयोरपि । अधुना पश्यनिः श्रीकं त्रैलोक्यं समजायत ॥ ३२॥ न यज्ञाः सम्प्रवर्त्तन्ते न दानानि च वासव । न यमा नापि नियमा न तपांसि च कुत्रचित् ॥ ३३॥ विप्राः सर्वेऽपि निःश्रीका लोभोपहतचेतसः । निःस्त्त्वा धैर्यहीनाश्च नास्तिकाः प्रायशोऽभवन् ॥ ३४॥ निरौषधिरसा भूमिर्निवीर्या जायतेतराम् । भास्करो धूसराकारश्चन्द्रमाः कान्तिवर्जितः ॥ ३५॥ निस्तेजस्को हविर्भोक्ता मरुद्धूलिकृताकृतिः । न प्रसन्ना दिशां भागा नभो नैव च निर्मलम् ॥ ३६॥ दुर्बला देवताः सर्वा विभान्त्यन्यादृशा इव । विनष्टप्रायमेवास्ति त्रैलोक्यं सचराचरम् ॥ ३७॥ हयग्रीव उवाच । इत्थं कथयतोरेव बृहस्पतिमहेन्द्रयोः । मलकाद्या महादैत्याः स्वर्गलोकं बबाधिरे ॥ ३८॥ नन्दनोद्यानमखिलं चिच्छिदुर्बलगर्विताः । उद्यानपालकान्सर्वानायुधैः समताडयन् ॥ ३९॥ प्राकारमवभिद्यैव प्रविश्य नगरान्तरम् । मन्दिरस्थान्सुरान्सर्वानत्यन्तं पर्यपीडयन् ॥ ४०॥ आजह्रुरप्सरोरत्नान्यशेषाणि विशेषतः । ततो देवाः समस्ताश्च चक्रुर्भृशमबाधिताः ॥ ४१॥ तादृशं घोषमाकर्ण्य वासवः प्रोज्झितासनः । सर्वैरनुगतो देवैः पलायनपरोऽभवत् ॥ ४२॥ ब्राह्मं धाम समभ्येत्य विषण्णवदनो वृषा । यथावत्कथयामास निखिलं दैत्यचेष्टितम् ॥ ४३॥ विधातापि तदाकर्ण्य सर्वदेवसमन्वितम् । हतश्रीकं हरिहयमालोक्येदमुवाच ह ॥ ४४॥ इन्द्रत्वमखिलैर्द्देवैर्मुकुन्दं शरणं व्रज । दैत्यारातिर्जगत्कर्ता स ते श्रेयो विधास्यति ॥ ४५॥ इत्युक्त्वा तेन सहितः स्वयं ब्रह्मा पितामहः । समस्तदेवसहितः क्षीरोदधिमुपाययौ ॥ ४६॥ अथ ब्रह्मादयो देवा भगवन्तं जनार्दनम् । तुष्टुवुर्वाग्वरिष्ठाभिः सर्वलोकमहेश्वरम् ॥ ४७॥ अथ प्रसन्नो भगवान्वासुदेवः सनातनः । जगाद स कलान्देवाञ्जगद्रक्षणलम्पटः ॥ ४८॥ श्रीभगवानुवाच । भवतां सुविधास्यामि तेजसैवोपबृंहणम् । यदुच्यते मयेदानीं युष्माभिस्तद्विधीयताम् ॥ ४९॥ ओषधिप्रवराः सर्वाः क्षिपत क्षीरसागरे । असुरैरपि सन्धाय सममेव च तैरिह ॥ ५०॥ मन्थानं मन्दरं कृत्वा कृत्वा योक्त्रं च वासुकिम् । मयि स्थिते सहाये तु मथ्यताममृतं सुराः ॥ ५१॥ समस्तदानवाश्चापि वक्तव्याः सान्त्वपूर्वकम् । सामान्यमेव युष्माकमस्माकं च फलं त्विति ॥ ५२॥ मथ्यमाने तु दुग्धाब्धौ या समुत्पद्यते सुधा । तत्पानाद्बलिनो यूयममर्त्याश्च भविष्यथ ॥ ५३॥ यथा दैत्याश्च पीयूषं नैतत्प्राप्स्यन्ति किञ्चन । केवलं क्लेशवन्तश्च करिष्यामि तथा ह्यहम् ॥ ५४॥ इति श्रीवासुदेवेन कथिता निखिलाः सुराः । सन्धानं त्वतुलैर्दैत्यैः कृतवन्तस्तदा सुराः । नानाविधौषधिगणं समानीय सुरासुराः ॥ ५५॥ क्षीराब्धिपयसि क्षिप्त्वा चन्द्रमोऽधिकनिर्मलम् । मन्थानं मन्दरं कृत्वा कृत्वा योक्त्रं तु वासुकिम् । प्रारेभिरे प्रयत्नेन मन्थितुं यादसां पतिम् ॥ ५६॥ वासुकेः पुच्छभागे तु सहिताः सर्वदेवताः । शिरोभागे तु दैतेया नियुक्तास्तत्र शौरिणा ॥ ५७॥ बलवन्तोऽपि ते दैत्यास्तन्मुखोच्छ्वासपावकैः । निर्दग्धवपुषः सर्वे निस्तेजस्कास्तदाभवन् ॥ ५८॥ पुच्छदेशे तु कर्षन्तो मुहुराप्यायिताः सुराः । अनुकूलेन वातेन विष्णुना प्रेरितेन तु ॥ ५९॥ आदिकूर्माकृतिः श्रीमान्मध्ये क्षीरपयोनिधेः । भ्रमतो मन्दराद्रेऽस्तु तस्याधिष्ठानतामगात् ॥ ६०॥ मध्ये च सर्वदेवानां रूपेणान्येन माधवः । चकर्ष वासुकिं वेगाद्दैत्यमध्ये परेण च ॥ ६१॥ ब्रह्मरूपेण तं शैलं विधार्याक्रान्तवारिधिम् । अपरेण च देवर्षिर्महता तेजसा मुहुः ॥ ६२॥ उपबृंहितवान्देवान्येन ते बलशालिनः । तेजसा पुनरन्येन बलात्कारसहेन सः ॥ ६३॥ उपबृंहितवान्नागं सर्वशक्तिजनार्दनः । मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः ॥ ६४॥ आविर्बभूव पुरतः सुरभिः सुरपूजिता । मुदं जग्मुस्तदा देवा दैतेयाश्च तपोधन ॥ ६५॥ मथ्यमाने पुनस्तस्मिन्क्षीराब्दौ देवदानवैः । किमेतदिति सिद्धानां दिवि चिन्तयतां तदा ॥ ६६॥ उत्थिता वारुणी देवी मदाल्लोलविलोचना । असुराणां पुरस्तात्सा स्मयमाना व्यतिष्ठत ॥ ६७॥ जगृहुर्नैव तां दैत्या असुराश्चाभवंस्ततः । सुरा न विद्यते येषां तेनैवासुरशब्दिताः ॥ ६८॥ अथ सा सर्वदेवानामग्रतः समतिष्ठत । जगृहुस्तां मुदा देवाः सूचिताः परमेष्ठिना । सुराग्रहणतोऽप्येते सुरशब्देन कीर्तिताः ॥ ६९॥ मथ्यमाने ततो भूयः पारिजातो महाद्रुमः । आविरासीत्सुङ्गधेन परितो वासयञ्जगत् ॥ ७०॥ अत्यर्थसुन्दराकारा धीराश्चाप्सरसां गणाः । आविर्भूताश्च देवर्षे सर्वलोकमनोहराः ॥ ७१॥ ततः शीतांशुरुदभूत्तं जग्राह महेश्वरः । विषजातं तदुत्पन्नं जगृहुर्नागजातयः ॥ ७२॥ कौस्तुभाख्यं ततो रत्नमाददे तज्जनार्दनः । ततः स्वपत्रगन्धेन मदयन्ती महौषधीः । विजया नाम सञ्जज्ञे भैरवस्तामुपाददे ॥ ७३॥ ततो दिव्याम्बरधरो देवो धन्वन्तरिः स्वयम् । उपस्थितः करे बिभ्रदमृताढ्यं कमण्डलुम् ॥ ७४॥ ततः प्रहृष्टमनसो देवा दैत्याश्च सर्वतः । मुनयश्चाभवंस्तुष्टास्तदानीं तपसां निधे ॥ ७५॥ ततो विकसितां भोजवासिनी वरदायिनी । उत्थिता पद्महस्ता श्रीस्तस्मात्क्षीरमहार्णवात् ॥ ७६॥ अथ तां मुनयः सर्वे श्रीसुक्तेन श्रियं पराम् । तुष्टुवुस्तुष्ट हृदया गन्धर्वाश्च जगुः परम् ॥ ७७॥ विश्वाचीप्रमुखाः सर्वे ननृतुश्चाप्सरोगणाः । गङ्गाद्याः पुण्यनद्यश्च स्नानार्थमुपतस्थिरे ॥ ७८॥ अष्टौ दिग्दन्तिनश्चैव मेध्यपात्रस्थितं जलम् । आदाय स्नापयाञ्चक्रुस्तां श्रियं पद्मवासिनीम् ॥ ७९॥ तुलसीं च समुत्पन्नां परार्ध्यामैक्यजां हरेः । पद्ममालां ददौ तस्यै मूर्तिमान्क्षीरसागरः ॥ ८०॥ भूषणानि च दिव्यानि विश्वकर्मा समर्पयत् । दिव्यमाल्यां बरधरा दिव्यभूषणभूषिता । ययौ वक्षस्थलं विष्णोः सर्वेषां पश्यतां रमा ॥ ८१॥ तुलसी तु धृता तेन विष्णुना प्रभविष्णुना । पश्यति स्म च सा देवी विष्णुवक्षस्थलालया । देवान्दयार्द्रया दृष्ट्या सर्वलोकमहेश्वरी ॥ ८२॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने अमृतमन्थनं नाम नवमोऽध्यायः ॥ ९॥

अथ मोहिनीप्रादुर्भावमलकासुरवधो नाम दशमोऽध्यायः ॥ १०॥

हयग्रीव उवाच । अथ देवा महेन्द्रा द्या विष्णुना प्रभविष्णुना । अङ्गीकृता महाधीराः प्रमोदं परमं ययुः ॥ १॥ मलकाद्यास्तु ते सर्वे दैत्या विष्णुपराङ्मुखाः । सन्त्यक्ताश्च श्रिया देव्या भृशमुद्वेगमागताः ॥ २॥ ततो जगृहिरे दैत्या धन्वन्तरिकरस्थितम् । परमामृतसाराढ्यं कलशं कनकोद्भवम् । अथासुराणां देवानामन्योन्यं कलहोऽभवत् ॥ ३॥ एतस्मिन्नन्तरे विष्णुः सर्वलोकैकरक्षकः । सम्यगाराधयामासललितां स्वैक्यरूपिणीम् ॥ ४॥ सुराणामसुराणां च रणं वीक्ष्य सुदारुणम् । ब्रह्मा निजपदं प्राप शम्भुः कैलासमास्थितः ॥ ५॥ मलकं योधयामास दैत्यानामधिपं वृषा । असुरैश्च सुराः सर्वे साम्परायमकुर्वत ॥ ६॥ भगवानपि योगीन्द्रः समाराध्य महेश्वरीम् । तदेकध्यानयोगेन तद्रूपः समजायत ॥ ७॥ सर्वसम्मोहिनी सा तु साक्षाच्छृङ्गारनायिका । सर्वश‍ृङ्गारवेषाढ्या सर्वाभरणभूषिता ॥ ८॥ सुराणामसुराणां च निवार्य रणमुल्वणम् । मन्दस्मितेन दैतेयान्मोहयन्ती जगाद ह ॥ ९॥ अलं युद्धेन किं शस्त्रैर्मर्मस्थानविभेदिभिः । निष्ठुरैः किं वृथालापैः कण्ठशोषणहेतुभिः ॥ १०॥ अहमेवात्र मध्यस्था युष्माकं च दिवौकसाम् । यूयं तथामी नितरामत्र हि क्लेशभागिनः ॥ ११॥ सर्वेषां सममेवाद्य दास्याम्यमृतमद्भुतम् । मम हस्ते प्रदातव्यं सुधापात्रमनुत्तमम् ॥ १२॥ इति तस्या वचः श्रुत्वा दैत्यास्तद्वाक्यमोहिताः । पीयूषकलशं तस्यै ददुस्ते मुग्धचेतसः ॥ १३॥ सा तत्पात्रं समादाय जगन्मोहनरूपिणी । सुराणामसुराणां च वृथक्पङ्क्तिं चकार ह ॥ १४॥ द्वयोः पङ्क्त्योश्च मध्यस्थास्तानुवाच सुरासुरान् । तूष्णीं भवन्तु सर्वेऽपि क्रमशो दीयते मया ॥ १५॥ तद्वाक्यमुररीचक्रुस्ते सर्वे समवायिनः । सा तु सम्मोहिताश्लेषलोका दातुं प्रचक्रमे ॥ १६॥ क्वणत्कनकदर्वीका क्वणन्मङ्गलकङ्कणा । कमनीयविभूषाढ्या कला सा परमा बभौ ॥ १७॥ वामे वामे कराम्भोजे सुधाकलशमुज्ज्वलम् । सुधां तां देवतापङ्क्तौ पूर्वं दर्व्या तदादिशत् ॥ १८॥ दिशन्ती क्रमशस्तत्र चन्द्रभास्करसूचितम् । दर्वीकरेण चिच्छेद सैंहिकेयं तु मध्यगम् । पीतामृतशिरोमात्रं तस्य व्योम जगाम च ॥ १९॥ तं दृष्ट्वाऽप्यसुरास्तत्र तूष्णीमासन्विमोहिताः । एवं क्रमेण तत्सर्वं विबुधेभ्यो वितीर्य सा । असुराणां पुरः पात्रं सानिनाय तिरोदधे ॥ २०॥ रिक्तपात्रं तु तं दृष्ट्वा सर्वे दैतेयदानवाः । उद्वेलं केवलं क्रोधं प्राप्ता युद्धचिकीर्षया ॥ २१॥ इन्द्रा दयः सुराः सर्वे सुधापानाद्बलोत्तराः । दुर्बलैरसुरैः सार्धं समयुद्ध्यन्त सायुधाः ॥ २२॥ ते विध्यमानाः शतशो दानवेन्द्राः सुरोत्तमैः । दिगन्तान्कतिचिज्जग्मुः पातालं कतिचिद्ययुः ॥ २३॥ दैत्यं मलकनामानं विजित्य विबुधेश्वरः । आत्मीयां श्रियमाजह्रे श्रीकटाक्ष समीक्षितः ॥ २४॥ पुनः सिंहासनं प्राप्य महेन्द्रः सुरसेवितः । त्रैलोक्यं पालयामास पूर्ववत्पूर्वदेवजित् ॥ २५॥ निर्भया निखिला देवास्त्रैलोक्ये सचराचरे । यथाकामं चरन्ति स्म सर्वदा हृष्टचेतसः ॥ २६॥ तदा तदखिलं दृष्ट्वा मोहिनीचरितं मुनिः । विस्मितः कामचारी तु कैलासं नारदो गतः ॥ २७॥ नन्दिना च कृतानुज्ञः प्रणम्य परमेश्वरम् । तेन सम्भाव्यमानोऽसौ तुष्टो विष्टरमास्त सः ॥ २८॥ आसनस्थं महादेवो मुनिं स्वेच्छाविहारिणम् । पप्रच्छ पार्वतीजानिः स्वच्छस्फटिकसन्निभः ॥ २९॥ भगवन्सर्ववृत्तज्ञ पवित्रीकृतविष्टर । कलहप्रिय देवर्षे किं वृत्तं तत्र नाकिनाम् ॥ ३०॥ सुराणामसुराणां वा विजयः समजायत । किं वाप्यमृतवृत्तान्तं विष्णुना वापि किं कृतम् ॥ ३१॥ इति पृष्टो महेशेन नारदो मुनिसत्तमः । उवाच विस्मयाविष्टः प्रसन्नवदनेक्षणः ॥ ३२॥ सर्वं जानासि भगवन्सर्वज्ञोऽसि यतस्ततः । तथापि परिपृष्टेन मया तद्वक्ष्यतेऽधुना ॥ ३३॥ तादृशे समरे घोरे सति दैत्यदिवौकसाम् । आदिनारायणः श्रीमान्मोहिनीरूपमादधे ॥ ३४॥ तामुदारविभूषाढ्यां मूर्तां श‍ृङ्गारदेवताम् । सुरासुराः समालोक्य विरताः समरोद्यमात् ॥ ३५॥ तन्मायामोहिता दैत्याः सुधापात्रं च याचिताः । कृत्वा तामेव मध्यस्थामर्पयामासुरञ्जसा ॥ ३६॥ तदा देवी तदादाय मन्दस्मितमनोहरा । देवेभ्य एव पीयूषमशेषं विततार सा ॥ ३७॥ तिरोहितामदृष्ट्वा तां दृष्ट्वा शून्यं च पात्रकम् । ज्वलन्मन्युमुखा दैत्या युद्धाय पुनरुत्थिताः ॥ ३८॥ अमरैरमृतास्वादादत्युल्वणपराक्रमैः । पराजिता महादैत्या नष्टाः पातालमभ्ययुः ॥ ३९॥ इमं वृत्तान्तमाकर्ण्य भवानीपतिरव्ययः । नारदं प्रेषयित्वाशु तदुक्तं सततं स्मरन् ॥ ४०॥ अज्ञातः प्रमथैः सर्वैः स्कन्दनन्दिविनायकैः । पार्वतीसहितो विष्णुमाजगाम सविस्मयः ॥ ४१॥ क्षीरोदतीरगं दृष्ट्वा सस्त्रीकं वृषवाहनम् । भोगिभोगासनाद्विष्णुः समुत्थाय समागतः ॥ ४२॥ वाहनादवरुह्येशः पार्वत्या सहितः स्थितम् । तं दृष्ट्वा शीघ्रमागत्य सम्पूज्यार्घ्यादितो मुदा ॥ ४३॥ सस्नेहं गाढमालिङ्ग्य भवानीपतिमच्युतः । तदागमनकार्यं च पृष्टवान्विष्टरश्रवाः ॥ ४४॥ तमुवाच महादेवो भगवन्पुरुषोत्तम । महायोगेश्वर श्रीमन्सर्वसौभाग्यसुन्दरम् ॥ ४५॥ सर्वसम्मोहजनकमवाङ्मनसगोचरम् । यद्रूपं भवतोपात्तं तन्मह्यं सम्प्रदर्शय ॥ ४६॥ द्रष्टुमिच्छामि ते रूपं श‍ृङ्गारस्याधिदैवतम् । अवश्यं दर्शनीयं मे त्वं हि प्रार्थितकामधृक् ॥ ४७॥ इति सम्प्रार्थितः शश्वन्महादेवेन तेन सः । यद्ध्यानवैभवाल्लब्धं रूपमद्वैतमद्भुतम् ॥ ४८॥ तदेवानन्यमनसा ध्यात्वा किञ्चिद्विहस्य सः । तथास्त्विति तिरोऽधत्त महायोगेश्वरो हरिः ॥ ४९॥ शर्वोऽपि सर्वतश्चक्षुर्मुहुर्व्यापारयन्क्वचित् । अदृष्टपूर्वमाराममभिरामं व्यलोकयत् ॥ ५०॥ विकसत्कुसुमश्रेणीविनोदिमधुपालिकम् । चम्पकस्तबकामोदसुरभीकृतदिक्तटम् ॥ ५१॥ माकन्दवृन्दमाध्वीकमाद्यदुल्लोलकोकिलम् । अशोकमण्डलीकाण्डसताण्डवशिखण्डिकम् ॥ ५२॥ भृङ्गालिनवझङ्कारजितवल्लकिनिस्वनम् । पाटलोदारसौरभ्यपाटलीकुसुमोज्ज्वलम् ॥ ५३॥ तमालतालहिन्तालकृतमालाविलासितम् । पर्यन्तदीर्घिकादीर्घपङ्कजश्रीपरिष्कृतम् ॥ ५४॥ वातपातचलच्चारुपल्लवोत्फुल्लपुष्पकम् । सन्तानप्रसवामोदसन्तानाधिकवासितम् ॥ ५५॥ तत्र सर्वत्र पुष्पाढ्ये सर्वलोकमनोहरे । पारिजाततरोर्मूले कान्ता काचिददृश्यत ॥ ५६॥ बालार्कपाटलाकारा नवयौवनदर्पिता । आकृष्टपद्मरागाभा चरणाब्जनखच्छदा ॥ ५७॥ यावकश्रीविनिक्षेपपादलौहित्यवाहिनी । कलनिःस्वनमञ्जीरपदपद्ममनोहरा ॥ ५८॥ अनङ्गवीरतूणीरदर्पोन्मदनजङ्घिका । करिशुण्डाकदलिकाकान्तितुल्योरुशोभिनी ॥ ५९॥ अरुणेन दुकूलेन सुस्पर्शेन तनीयसा । अलङ्कृतनितम्बाढ्या जघनाभोगभासुरा ॥ ६०॥ नवमाणिक्यसन्नद्धहेमकाञ्चीविराजिता । नतनाभिमहावर्त्तत्रिवल्यूर्मिप्रभाझरा ॥ ६१॥ स्तनकुड्मलहिन्दोलमुक्तादामशतावृता । अतिपीवरवक्षोजभारभङ्गुरमध्यभूः ॥ ६२॥ शिरीषकोमलभुजा कङ्कणाङ्गदशालिनी । सोर्मिकां गुलिमन्मृष्टशङ्खसुन्दरकन्धरा ॥ ६३॥ मुखदर्पणवृत्ताभचुबुकापाटलाघरा । शुचिभिः पङ्क्तिभिः शुद्धैर्विद्यारूपैर्विभास्वरैः ॥ ६४॥ कुन्दकुड्मलसच्छायैर्दन्तैर्दर्शितचन्द्रि का । स्थूलमौक्तिकसन्नद्धनासाभरणभासुरा ॥ ६५॥ केतकान्तर्द्दलद्रो णिदीर्घदीर्घविलोचना । अर्धेन्दुतुलिताफाले सम्यक्कॢप्तालकच्छटा ॥ ६६॥ पालीवतंसमाणिक्यकुण्डलामण्डितश्रुतिः । नवकर्पूरकस्तूरीरसामोदितवीटिका ॥ ६७॥ शरच्चारुनिशानाथमण्डलीमधुरानना । स्फुरत्कस्तूरितिलका नीलकुन्तलसंहतिः ॥ ६८॥ सीमन्तरेखाविन्यस्तसिन्दूरश्रेणिभासुरा ॥ ६९॥ स्फुरच्चन्द्रकलोत्तंसमदलोलविलोचना । सर्वश‍ृङ्गारवेषाढ्या सर्वाभरणमण्डिता ॥ ७०॥ तामिमां कन्दुकक्रीडालोलामालोलभूषणाम् । दृष्ट्वा क्षिप्रमुमां त्यक्त्वा सोऽन्वधावदथेश्वरः ॥ ७१॥ उमापि तं समावेक्ष्य धावन्तं चात्मनः प्रियम् । स्वात्मानं स्वात्मर्सोन्दर्यं निन्दन्ती चातिविस्मिता । तस्थाववाङ्मुखी तूष्णीं लज्जासूयासमन्विता ॥ ७२॥ गृहीत्वा कथमप्येनामालिलिङ्ग मुहुर्मुहुः । उद्धूयोद्धूय साप्येवं धावति स्म सुदूरतः ॥ ७३॥ पुनर्गृहीत्वा तामीशः कामं कामवशीकृतः । आश्लिष्टं चातिवेगेन तद्वीर्यं प्रच्युतं तदा ॥ ७४॥ ततः समुत्थितो देवो महाशास्ता महाबलः । अनेककोटिदैत्येन्द्र गर्वनिर्वापणक्षमः ॥ ७५॥ तद्वीर्यबिन्दुसंस्पर्शात्सा भूमिस्तत्रतत्र च । रजतस्वर्णवर्णाभूल्लक्षणाद्विन्ध्यमर्दन ॥ ७६॥ तथैवान्तर्दधे सापि देवता विश्वमोहिनी । निवृत्तः स गिरीशोऽपि गिरिं गौरीसखो ययौ ॥ ७७॥ अथाद्भुतमिदं वक्ष्ये लोपामुद्रा पते श‍ृणु । यन्न कस्यचिदाख्यातं ममैव हृदये स्थितम् ॥ ७८॥ पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः । पूर्वं देवान्बहुविधान्यः शास्ता स्वेच्छया पटुः ॥ ७९॥ विशुक्रं नाम दैतेयं वर्गसंरक्षणक्षमम् । शुक्रतुल्यं विचारज्ञं दक्षांसेन ससर्ज सः ॥ ८०॥ वामांसेन विषाङ्गं च सृष्टवान्दुष्टशेखरम् । धूमिनीनामधेयां च भगिनीं भण्डदानवः ॥ ८१॥ भ्रातृभ्यामुग्रवीर्याभ्यां सहितो निहताहितः । ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः ॥ ८२॥ ब्रह्मविष्णुमहेशाश्च तं दृष्ट्वा दीप्ततेजसम् । पलायनपराः सद्यः स्वे स्वे धाम्नि सदावसन् ॥ ८३॥ तदानीमेव तद्बाहुसम्मर्द्दन विमूर्च्छिताः । श्वसितुं चापि पटवो नाभवन्नाकिनां गणाः ॥ ८४॥ केचित्पातालगर्भेषु केचिदम्बुधिवारिषु । केचिद्दिगन्तकोणेषु केचित्कुञ्जेषु भूभृताम् ॥ ८५॥ विलीना भृशवित्रस्तास्त्यक्तदारसुतस्त्रियः । भ्रष्टाधिकारा ऋभवो विचेरुश्छन्नवेषकाः ॥ ८६॥ यक्षान्महोरगान्सिद्धान्साध्यान्समरदुर्मदान् । ब्रह्माणं पद्मनाभं च रुद्रं वज्रिणमेव च । मत्वा तृणायितान्सर्वांल्लोकान्भण्डः शशासह ॥ ८७॥ अथ भण्डासुरं हन्तुं त्रैलोक्यं चापि रक्षितुम् । तृतीयमुदभूद्रूपं महायागानलान्मुने ॥ ८८॥ यद्रूपशालिनीमाहुर्ललितां परदेवताम् । पाशाङ्कुशधनुर्बाणपरिष्कृतचतुर्भुजाम् ॥ ८९॥ सा देवी परमा शक्तिः परब्रह्मस्वरूपिणी । जघान भण्डदैत्येन्द्रं युद्धे युद्धविशारदा ॥ ९०॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने मोहिनीप्रादुर्भावमलकासुरवधो नाम दशमोऽध्यायः ॥ १०॥ समाप्तश्चोपोद्घातखण्डः ।

अथ भण्डासुरप्रादुर्भावो नामैकादशोऽध्यायः ॥ ११॥

अगस्त्य उवाच । कथं भण्डासुरो जातः कथं वा त्रिपुराम्बिका । कथं बभञ्ज तं सङ्ख्ये तत्सर्वं वद विस्तरात् ॥ १॥ हयग्रीव उवाच । पुरा दाक्षायणीं त्यक्त्वा पितुर्यज्ञविनाशनम् ॥ २॥ आत्मानमात्मना पश्यञ्ज्ञानानन्दरसात्मकः । उपास्यमानो मुनिभिरद्वन्द्वगुणलक्षणः ॥ ३॥ गङ्गाकूले हिमवतः पर्यन्ते प्रविवेश ह । सापि शङ्करमाराध्य चिरकालं मनस्विनी ॥ ४॥ योगेन स्वां तनुं त्यक्त्वा सुतासीद्धिमभूभृतः ॥ ५॥ स शैलो नारदाच्छ्रुत्वा रुद्रा णीति स्वकन्यकाम् । तस्य शुश्रूषणार्थाय स्थापयामास चान्तिके ॥ ६॥ एतस्मिन्नन्तरे देवास्तारकेण हि पीडिताः । ब्रह्मणोक्ताः समाहूय मदनं चेदमब्रुवन् ॥ ७॥ सर्गादौ भगवान्ब्रह्म सृजमानोऽखिलाः प्रजाः । न निर्वृतिरभूत्तस्य कदाचिदपि मानसे । तपश्चचार सुचिरं मनोवाक्कायकर्मभिः ॥ ८॥ ततः प्रसन्नो भगवान्सलक्ष्मीको जनार्दनः । वरेण च्छन्दयामास वरदः सर्वदेहिनाम् ॥ ९॥ ब्रह्मोवाच । यदि तुष्टोऽसि भगवन्ननायासेन वै जगत् । चराचरयुतं चैतत्सृजामि त्वत्प्रसादतः ॥ १०॥ एवमुक्तो विधात्रा तु महालक्ष्मीमुदैक्षत । तदा प्रादुरभूस्त्वं हि जगन्मोहनरूपधृक् ॥ ११॥ तवायुधार्थं दत्तं च पुष्पबाणेक्षुकार्मुकम् । विजयत्वमजेयत्वं प्रादात्प्रमुदितो हरिः ॥ १२॥ असौ सृजति भूतानि कारणेन स्वकर्मणा । साक्षिभूतः स्वजनतो भवान्भजतु निर्वृतिम् ॥ १३॥ एष दत्तवरो ब्रह्मा त्वयि विन्यस्य तद्भरम् । मनसो निर्वृतिं प्राप्य वर्ततेऽद्यापि मन्मथ ॥ १४॥ अमोघं बलवीर्यं ते न ते मोघः पराक्रमः ॥ १५॥ सुकुमाराण्यमोघानि कुसुमास्त्राणि ते सदा । ब्रह्मदत्तवरोऽयं हि तारको नाम दानवः ॥ १६॥ बाधते सकलाँल्लोकानस्मानपि विशेषतः । शिवपुत्रादृतेऽन्यत्र न भयं तस्य विद्यते ॥ १७॥ त्वां विनास्मिन्महाकार्ये न कश्चित्प्रवदेदपि । स्वकराच्च भवेत्कार्यं भवतो नान्यतः क्वचित् ॥ १८॥ आत्म्यैक्यध्याननिरतः शिवो गौर्या समन्वितः । हिमाचलतले रम्ये वर्तते मुनिभिर्वृतः ॥ १९॥ तं नियोजय गौर्यां तु जनिष्यति च तत्सुतः । ईषत्कार्यमिदं कृत्वा त्रायस्वास्मान्महाबल ॥ २०॥ एवमभ्यर्थितो देवैः स्तूयमानो मुहुर्मुहुः । जगामात्मविनाशाय यतो हिमवतस्तटम् ॥ २१॥ किमप्याराधयान्तं तु ध्यानसम्मीलितेक्षणम् । ददर्शेशानमासीनं कुसुमषुरुदायुधः ॥ २२॥ एतस्मिन्नन्तरे तत्र हिमवत्तनया शिवम् । आरिराधयिषुश्चागाद्बिभ्राणा रूपमद्भुतम् ॥ २३॥ समेत्य शम्भुं गिरिजां गन्धपुष्पोपहारकैः । शुश्रूषणपरां तत्र ददर्शातिबलः स्मरः ॥ २४॥ अदृश्यः सर्वभूतानान्नातिदूरेऽस्य संस्थितः । सुमनोमार्गणैरग्र्यैस्स विव्याध महेश्वरम् ॥ २५॥ विस्मृत्य स हि कार्याणि बाणविद्धोऽन्तिके स्थिताम् । गौरीं विलोकयामास मन्मथाविष्टचेतनः ॥ २६॥ धृतिमालम्ब्य तु पुनः किमेतदिति चिन्तयन् । ददर्शाग्रे तु सन्नद्धं मन्मथं कुसुमायुधम् ॥ २७॥ तं दृष्ट्वा कुपितः शूली त्रैलोक्यदहनक्षमः । तार्तीयं चक्षुरुन्मील्य ददाह मकरध्वजम् ॥ २८॥ शिवेनैवमवज्ञाता दुःखिता शैलकन्यका । अनुज्ञया ततः पित्रोस्तपः कर्तुमगाद्वनम् ॥ २९॥ अथ तद्भस्म संवीक्ष्य चित्रकर्मा गणेश्वरः । तद्भस्मना तु पुरुषं चित्राकारं चकार सः ॥ ३०॥ तं विचित्रतनुं रुद्रो ददर्शाग्रे तु पूरुषम् । तत्क्षणाज्जात जीवोऽभून्मूर्तिमानिव मन्मथः । महाबलोऽतितेजस्वी मध्याह्नार्कसमप्रभः ॥ ३१॥ तं चित्रकर्मा बाहुभ्यां समालिङ्ग्य मुदान्वितः । स्तुहि बाल महादेवं स तु सर्वार्थसिद्धिदः ॥ ३२॥ इत्युक्त्वा शतरुद्री यमुपादिशदमेयधीः । ननाम शतशो रुद्रं शतरुद्रि यमाजपन् ॥ ३३॥ ततः प्रसन्नो भगवान्महादेवो वृषध्वजः । वरेण च्छन्दयामास वरं वव्रे स बालकः ॥ ३४॥ प्रतिद्वन्द्विबलार्थं तु मद्बलेनोपयोक्ष्यति । तदस्त्रशस्त्रमुख्यानि वृथा कुर्वन्तु नो मम ॥ ३५॥ तथेति तत्प्रतिश्रुत्य विचार्य किमपि प्रभुः । षष्टिवर्षसहस्राणि राज्यमस्मै ददौ पुनः ॥ ३६॥ एतद्दृष्ट्वा तु चरितं धाता भण्डिति भण्डिति । यदुवाच ततो नाम्ना भण्डो लोकेषु कथ्यते ॥ ३७॥ इति दत्त्वा वरं तस्मै सर्वैर्मुनिगणैर्वृतः । दत्त्वाऽस्त्राणि च शस्त्राणि तत्रैवान्तरधाच्च सः ॥ ३८॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने भण्डासुरप्रादुर्भावो नामैकादशोऽध्यायः ॥ ११॥

अथ ललिताप्रादुर्भावो नाम द्वादशोऽध्यायः ॥ १२॥

रुद्रकोपानलाज्जातो यतो भण्डो महाबलः । तस्माद्रौद्रस्वभावो हि दानवश्चाभवत्ततः ॥ १॥ अथागच्छन्महातेजाः शुक्रो दैत्यपुरोहितः । समायाताश्च शतशो दैतेयाः सुमहाबलाः ॥ २॥ अथाहूय मयं भण्डो दैत्यवंश्यादिशिल्पिनम् । नियुक्तो भृगुपुत्रेण निजगादार्थवद्वचः ॥ ३॥ यत्र स्थित्वा तु दैत्येन्द्रै स्त्रैलोक्यं शासितं पुरा । तद्गत्वा शोणितपुरं कुरुष्व त्वं यथापुरम् ॥ ४॥ तच्छ्रुत्वा वचनं शिल्पी स गत्वाथ पुरं महत् । चक्रेऽमरपुरप्रख्यं मनसैवेक्षणेन तु ॥ ५॥ अथाभिषिक्तः शुक्रेण दैतेयैश्च महाबलैः । शुशुभे परया लक्ष्म्या तेजसा च समन्वितः ॥ ६॥ हिरण्याय तु यद्दत्तं किरीटं ब्रह्मणा पुरा । सजीवमविनाश्यं च दैत्येन्द्रै रपि भूषितम् । दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम् ॥ ७॥ चामरे चन्द्रसङ्काशे सजीवे ब्रह्म निर्मिते । न रोगो न च दुःखानि सन्दधौ यन्निषेवणात् ॥ ८॥ तस्यातपत्रं प्रददौ ब्रह्मणैव पुरा कृतम् । यस्य च्छायानिषण्णास्तु बाध्यन्ते नास्त्रकोटिभिः ॥ ९॥ धनुश्च विजयं नाम शङ्खं च रिपुघातिनम् । अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान् ॥ १०॥ तस्य सिंहासनं प्रादादक्षय्यं सूर्यसन्निभम् । ततः सिंहासनासीनः सर्वाभरणभूषितः । बभूवातीव तेजस्वी रत्नमुत्तेजितं यथा ॥ ११॥ बभूवुरथ दैतेयास्तयाष्टौ तु महाबलाः । इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः । उग्रकर्मोग्रधन्वा च विजयश्रुति पारगः ॥ १२॥ सुमोहिनी कुमुदिनी चित्राङ्गी सुन्दरी तथा । चतस्रो वनितास्तस्य बभूवुः प्रियदर्शनाः ॥ १३॥ तमसेवन्त कालज्ञा देवाः सर्वे सवासवाः । स्यन्दनास्तुरगा नागाः पादाताश्च सहस्रशः ॥ १४॥ सम्बभूवुर्महाकाया महान्तो जितकाशिनः । बभूवुर्दानवाः सर्वे भृगुपुत्रमतानुगाः ॥ १५॥ अर्चयन्तो महादेवमास्थिताः शिवशासने । बभूवुर्दानवास्तत्र पुत्रपौत्रधनान्विताः । गृहेगृहे च यज्ञाश्च सम्बभूवुः समन्ततः ॥ १६॥ ऋचो यजूंषि सामानि मीमांसान्यायकादयः । प्रवर्तन्ते स्म दैत्यानां भूयः प्रतिगृहं तदा ॥ १७॥ यथाश्रमेषु मुख्येषु मुनीनां च द्विजन्मनाम् । तथा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः ॥ १८॥ एवं कृतवतोऽप्यस्य भण्डस्य जितकाशिनः । षष्टिवर्षसहस्राणि व्यतीतानि क्षणार्धवत् ॥ १९॥ वर्धमानमथो दैत्यं तपसा च बलेन च । हीयमानबलं चेन्द्रं सम्प्रेक्ष्य कमलापतिः ॥ २०॥ ससर्ज सहसा काञ्चिन्मायां लोकविमोहिनीम् । तामुवाच ततो मायां देवदेवो जनार्दनः ॥ २१॥ त्वं हि सर्वाणि भूतानि मोहयन्ती निजौजसा । विचरस्व यथाकामं त्वां न ज्ञास्यति कश्चन ॥ २२॥ त्वं तु शीघ्रमितो गत्वा भण्डं दैतेयनायकम् । मोहयित्वाचिरेणैव विषयानुपभोक्ष्यसे ॥ २३॥ एवं लब्ध्वा वरं माया तं प्रणम्य जनार्दनम् । ययाचेऽप्सरसो मुख्याः सहायार्थं तु काश्चन ॥ २४॥ तया सम्प्रार्थितो भूयः प्रेषयामास काश्चन । ताभिर्विश्वाचिमुख्याभिः सहिता सा मृगेक्षणा । प्रययौ मानसस्याग्यं तटमुज्ज्वलभूरुहम् ॥ २५॥ यत्र क्रीडति दैत्येन्द्रो निजनारीभिरन्वितः । तत्र सा मृगशावाक्षी मूले चम्पकशाखिनः । निवासमकरोद्रम्यं गायन्ती मधुरस्वरम् ॥ २६॥ अथागतस्तु दैत्येन्द्रो बलिभिर्भन्त्रिभिर्वृतः । श्रुत्वा तु वीणानिनदं ददर्श च वराङ्गनाम् ॥ २७॥ तां दृष्ट्वा चारुसर्वाङ्गीं विद्युल्लेखामिवापराम् । मायामये महागर्ते पतितो मदनाभिधे ॥ २८॥ अथास्य मन्त्रिणोऽभूवन्हृदये स्मरतापि ताः ॥ २९॥ तेन दैतेयनाथेन चिरं सम्प्रर्थिता सती । तैश्च सम्प्रर्थितास्ताश्च प्रतिशुश्रुवुरञ्जसा ॥ ३०॥ यास्त्वलभ्या महायज्ञैरश्वमेधादिकैरपि । ता लब्ध्वा मोहिनीमुख्या निर्वृतिं परमां ययुः ॥ ३१॥ विसस्मरुस्तदा वेदांस्तथा देवमुमापतिम् । विजहुस्ते तथा यज्ञक्रियाश्चान्याः शुभावहाः ॥ ३२॥ अवमानहतश्चासीत्तेषामपि पुरोहितः । मुहूर्त्तमिव तेषां तु ययावब्दायुतं तदा ॥ ३३॥ मोहितेष्वथ दैत्येषु सर्वे देवाः सवासवाः । विमुक्तोपद्रवा ब्रह्मन्नामोदं परमं ययुः ॥ ३४॥ कदाचिदथ देवेन्द्रं वीक्ष्य सिंहासने स्थितम् । सर्वदेवैः परिवृतं नारदो मुनिराययौ ॥ ३५॥ प्रणम्य मुनिशार्दूलं ज्वलन्तमिव पावकम् । कृताञ्जलिपुटो भूत्वा देवेशो वाक्यमब्रवीत् ॥ ३६॥ भगवन्सर्वधर्मज्ञ परापरविदां वर । तत्रैव गमनं ते स्याद्यं धन्यं कर्तुमिच्छसि ॥ ३७॥ भविष्यच्छोभनाकारं तवागमनकारणम् । त्वद्वाक्यामृतमाकर्ण्य श्रवणानन्दनिर्भरम् । अशेषदुःखान्युत्तीर्य कृतार्थः स्यां मुनीश्वर ॥ ३८॥ नारद उवाच । अथ सम्मोहितो भण्डो दैत्येन्द्रो विष्णुमायया । तया विमुक्तो लोकांस्त्रीन्दहेताग्निरिवापरः ॥ ३९॥ अधिकस्तव तेजोभिरस्त्रैर्मायाबलेन च । तस्य तेजोऽपहारस्तु कर्तव्योऽतिबलस्य तु ॥ ४०॥ विनाराधनतो देव्याः पराशक्तेस्तु वासव । अशक्योऽन्येन तपसा कल्पकोटिशतैरपि ॥ ४१॥ पुरैवोदयतः शत्रोराराधयत बालिशाः । आराधिता भगवती सा वः श्रेयो विधास्यति ॥ ४२॥ एवं सम्बोधितस्तेन शक्रो देवगणेश्वरः । तं मुनिं पूजयामास सर्वदेवैः समन्वितः । तपसे कृतसन्नाहो ययौ हैमवतं तटम् ॥ ४३॥ तत्र भागीरथीतीरे सर्वर्तुकुसुमोज्ज्वले । पराशक्तेर्महापूजां चक्रेऽखिलसुरैः समम् । इन्द्रप्रस्थमभून्नाम्ना तदाद्यखिलसिद्धिदम् ॥ ४४॥ ब्रह्मात्मजोपदिष्टेन कुर्वतां विधिना पराम् । देव्यास्तु महतीं पूजां जपध्यानरतात्मनाम् ॥ ४५॥ उग्रे तपसि संस्थानामनन्यार्पितचेतसाम् । दशवर्षसहस्राणि दशाहानि च संययुः ॥ ४६॥ मोहितानथ तान्दृष्ट्वा भृगुपुत्रो महामतिः । भण्डासुरं समभ्येत्य निजगाद पुरोहितः ॥ ४७॥ त्वामेवाश्रित्य राचैन्द्र सदा दानवसत्तमाः । निर्भयास्त्रिषु लोकेषु चरन्तीच्छाविहारिणः ॥ ४८॥ जातिमात्रं हि भवतो हन्ति सर्वान्सदा हरिः । तेनैव निर्मिता माया यया सम्मोहितो भवान् ॥ ४९॥ भवन्तं मोहितं दृष्ट्वा रन्ध्रान्वेषण तत्परः । भवतां विजयार्थाय करोतीन्द्रो महत्तपः ॥ ५०॥ यदि तुष्टा जगद्धात्री तस्यैव विजयो भवेत् । इमां मायामयीं त्यक्त्वा मन्त्रिभिः सहितो भवान् । गत्वा हैमवतं शैलं परेषां विघ्नमाचर ॥ ५१॥ एवमुक्तस्तु गुरुणा हित्वा पर्यङ्कमुत्तमम् । मन्त्रिवृद्धानुपाहूय यथावृत्तान्तमाह सः ॥ ५२॥ तच्छ्रुत्वा नृपतिं प्राह श्रुतवर्मा विमृश्य च । षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम् ॥ ५३॥ तस्मादप्यधिकं वीर गतमासीदनेकशः । अशक्यप्रतिकार्योऽयं यः कालशिवचोदितः ॥ ५४॥ अशक्यप्रतिकार्योऽयं तदभ्यर्चनतो विना । काले तु भोगः कर्त्तव्यो दुःखस्य च सुखस्य वा ॥ ५५॥ अथाह भीमकर्माख्यो नोपेक्ष्योऽरिर्यथाबलम् । क्रियाविघ्ने कृतेऽस्माभिर्विजयस्ते भविष्यति ॥ ५६॥ तव युद्धे महाराज परार्थं बलहारिणी । दत्ता विद्या शिवेनैव तस्मात्ते विजयः सदा ॥ ५७॥ अनुमेने च तद्वाक्यं भण्डो दानवनायकः । निर्गत्य सहसेनाभिर्ययौ हैमवतं तटम् ॥ ५८॥ तपोविघ्नकरान्दृष्ट्वा दानवाञ्जगदम्बिका । अलङ्घ्यमकरोदग्रे महाप्राकारमुज्ज्वलम् ॥ ५९॥ तं दृष्ट्वा दानवेन्द्रोऽपि किमेतदिति विस्मितः । सङ्क्रुद्धो दानवास्त्रेण बभञ्जातिबलेन तु ॥ ६०॥ पुनरेव तदग्रेऽभूदलङ्घ्यः सर्वदानवैः । वायव्यास्त्रेण तं धीरो बभञ्ज च ननाद च ॥ ६१॥ पौनः पुन्येन तद्भस्म प्राभूत्पुनरुपस्थितम् । एतद्दृष्ट्वा तु दैत्येन्द्रो विषण्णः स्वपुरं ययौ ॥ ६२॥ तां च दृष्ट्वा जगद्धात्रीं दृष्ट्वा प्राकारमुज्ज्वलम् । भयाद्विव्यथिरे देवा विमुक्तसकलक्रियाः ॥ ६३॥ तानुवाच ततः शक्रो दैत्येन्द्रोऽयमिहागतः । अशक्यः समरे योद्धुमस्माभिरखिलैरपि ॥ ६४॥ पलायितानामपि नो गतिरन्या न कुत्रचित् । कुण्डं योजनविस्तारं सम्यक्कृत्वा तु शोभनम् ॥ ६५॥ महायागविधानेन प्रणिधाय हुताशनम् । यजामः परमां शक्तिं महामासैर्वयं सुराः ॥ ६६॥ ब्रह्मभूता भविष्यामो भोक्ष्यामो वा त्रिविष्टपम् । एवमुक्तास्तु ते सर्वे देवाः सेन्द्रपुरोगमाः ॥ ६७॥ विधिवज्जुहुवुर्मांसान्युत्कृत्योत्कृत्य मन्त्रतः । हुतेषु सर्वमांसेषु पादेषु च करेषु च ॥ ६८॥ होतुमिच्छत्सु देवेषु कलेवरमशेषतः । प्रादुर्बभूव परमन्तेजःपुञ्जो ह्यनुत्तमः ॥ ६९॥ तन्मध्यतः समुदभूच्चक्राकारमनुत्तमम् । तन्मध्ये तु महादेवीमुदयार्कसमप्रभाम् ॥ ७०॥ जगदुज्जीवनकरीं ब्रह्मविष्णुशिवात्मिकाम् । सौन्दर्यसारसीमां तामानन्दरससागराम् ॥ ७१॥ जपाकुसुमसङ्काशां दाडिमीकुसुमाम्बराम् । सर्वाभरणसंयुक्तां श‍ृङ्गारैकरसालयाम् ॥ ७२॥ कृपातरङ्गितापाङ्गनयनालोककौमुदीम् । पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥ ७३॥ तां विलोक्य महादेवीं देवाः सर्वे सवासवाः । प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिकम् ॥ ७४॥ तया विलोकिताः सद्यस्ते सर्वे विगतज्वराः । सम्पूर्णाङ्गा दृढतरा वज्रदेहा महाबलाः । तुष्टुवुश्च महादेवीमम्बिकामखिलार्थदाम् ॥ ७५॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने ललिताप्रादुर्भावो नाम द्वादशोऽध्यायः ॥ १२॥

अथ ललितास्तवराजो नाम त्रयोदशोऽध्यायः ॥ १३॥

देवा ऊचुः । जय देवि जगन्मातर्जय देवि परात्परे । जय कल्याणनिलये जय कामकलात्मिके ॥ १॥ जयकारि च वामाक्षि जय कामाक्षि सुन्दरि । जयाखिलसुराराध्ये जय कामेशि मानदे ॥ २॥ जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके । जय नारायणि परे नन्दिताशेषविष्टपे ॥ ३॥ जय श्रीकण्ठदयिते जय श्रीललितेम्बिके । जय श्रीविजये देवि विजय श्रीसमृद्धिदे ॥ ४॥ जातस्य जायमानस्य इष्टापूर्तस्य हेतवे । नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ ५॥ कलामुहूर्तकाष्ठाहर्मासर्तुशरदात्मने । नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ६॥ नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । अणोरणुतरे देवि महतोऽपि महीयसि ॥ ७॥ परात्परतरे मातस्तेजस्तेजीयसामपि । अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ ८॥ रसातलं कटीदेशः कुक्षिस्ते धरणी भवेत् । हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ ९॥ दृशश्चन्द्रा र्कदहना दिशस्ते बाहवओम्बिके । मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ १०॥ क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः । आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ ११॥ दृश्यादृश्य स्वरूपाणि रूपाणि भुवनानि ते । शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ १२॥ धर्माद्या बाहवस्ते स्युरधर्माद्यायुधानि ते । यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ १३॥ स्तनौ स्वाहास्वधाकरौ लोकोज्जीवनकारकौ । प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ १४॥ प्रत्याहारस्त्विन्द्रि याणि ध्यानं ते धीस्तु सत्तमा । मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ १५॥ महीरुहास्तेङ्गरुहाः प्रभातं वसनं तव । भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ १६॥ यज्ञरूपा जगद्धात्री विश्वरूपा च पावनी । आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः ॥ १७॥ हृदयस्थापि लोकानामदृश्या मोहनात्मिका ॥ १८॥ नामरूपविभागं च या करोति स्वलीलया । तान्यधिष्ठाय तिष्ठन्ती तेष्वसक्तार्थकामदा । नमस्तस्यै महादेव्यै सर्वशक्त्यै नमोनमः ॥ १९॥ यदाज्ञया प्रवर्तन्ते वह्निसूर्येन्दुमारुताः । पृथिव्यादीनि भूतानि तस्यै देव्यै नमोनमः ॥ २०॥ या ससर्जादिधातारं सर्गादावादिभूरिदम् । दधार स्वयमेवैका तस्यै देव्यै नमोनमः ॥ २१॥ यथा धृता तु धरिणी ययाकाशममेयया । यस्यामुदेति सविता तस्यै देव्यै नमोनमः ॥ २२॥ यत्रोदेति जगत्कृत्स्नं यत्र तिष्ठति निर्भरम् । यत्रान्तमेति काले तु तस्यै देव्यै नमोनमः ॥ २३॥ नमोनमस्ते रजसे भवायै नमोनमः सात्त्विकसंस्थितायै । नमोनमस्ते तमसे हरायै नमोनमो निर्गुणतः शिवायै ॥ २४॥ नमोनमस्ते जगदेकमात्रे नमोनमस्ते जगदेकपित्रे । नमोनमस्तेऽखिलरूपतन्त्रे नमोनमस्तेऽखिलयन्त्ररूपे ॥ २५॥ नमोनमो लोकगुरुप्रधाने नमोनमस्तेऽखिलवाग्विभूत्यै । नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै नमोनमः शाम्भवि सर्वशक्त्यै ॥ २६॥ अनादिमध्यान्तमपाञ्चभौतिकं ह्यवाङ्मनोगम्यमतर्क्यवैभवम् । अरूपमद्वन्द्वमदृष्टिगोचरं प्रभावमग्र्यं कथमम्ब वर्णये ॥ २७॥ प्रसीद विश्वेश्वरि विश्ववन्दिते प्रसीद विद्येश्वरि वेदरूपिणि । प्रसीद मायामयि मन्त्रविग्रहे प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ २८॥ इति स्तत्वा महादेवीं देवाः सर्वे सवासवाः । भूयोभूयो नमस्कृत्य शरणं जग्मुरञ्जसा ॥ २९॥ ततः प्रसन्ना सा देवी प्रणतं वीक्ष्य वासवम् । वरेण च्छन्दयामास वरदाखिलदेहिनाम् ॥ ३०॥ इन्द्र उवाच । यदि तुष्टासि कल्याणि वरं दैत्येन्द्रपीडितः । दुर्धरं जीवितं देहि त्वां गताः शरणार्थिनः ॥ ३१॥ श्रीदेव्युवाच । अहमेव विनिर्जित्य भण्डं दैत्यकुलोद्भवम् । अचिरात्तव दास्यामि त्रैलोक्यं सचराचरम् ॥ ३२॥ निर्भया मुदिताः सन्तु सर्वे देवगणास्तथा । ये स्तोष्यन्ति च मां भक्त्या स्तवेनानेन मानवाः ॥ ३३॥ भाजनं ते भविष्यन्ति धर्मश्रीयशसां सदा । विद्याविनयसम्पन्ना नीरोगा दीर्घजीविनः ॥ ३४॥ पुत्रमित्रकलत्राढ्या भवन्तु मदनुग्रहात् । इति लब्धवरा देवा देवेन्द्रोऽपि महाबलः ॥ ३५॥ आमोदं परमं जग्मुस्तां विलोक्य मुहुर्मुहुः ॥ ३६॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने ललितास्तवराजो नाम त्रयोदशोऽध्यायः ॥ १३॥

अथ मदनकामेश्वरप्रादुर्भावो नाम चतुर्दशोऽध्यायः ॥ १४॥

हयग्रीव उवाच । एतस्मिन्नेव काले तु ब्रह्मा लोकपितामहः । आजगामाथ देवेशीं द्रष्टुकामो महर्षिभिः ॥ १॥ आजगाम ततो विष्णुरारूढो विनतासुतम् । शिवोऽपि वृषमारूढः समायातोऽखिलेश्वरीम् ॥ २॥ देवर्षयो नारदाद्याः समाजग्मुर्महेश्वरीम् । आययुस्तां महादेवीं सर्वे चाप्सरसां गणाः ॥ ३॥ विश्वावसुप्रभृतयो गन्धर्वाश्चैव यक्षकाः । ब्रह्मणाथ समादिष्टो विश्वकर्मा विशाम्पतिः ॥ ४॥ चकार नगरं दिव्यं यथामरपुरं तथा । ततो भगवती दुर्गा सर्वमन्त्राधिदेवता ॥ ५॥ विद्याधिदेवता श्यामा समाजग्मतुरम्बिकाम् । ब्राह्याद्या मातरश्चैव स्वस्वभूतगणावृताः ॥ ६॥ सिद्धयो ह्यणिमाद्याश्च योगिन्यश्चैव कोटिशः । भैरवाः क्षेत्रपालाश्च महाशास्ता गणाग्रणीः ॥ ७॥ महागणेश्वरः स्कन्दो बटुको वीरभद्रकः । आगत्य ते महादेवीं तुष्टुवुः प्रणतास्तदा ॥ ८॥ तत्राथ नगरीं रम्यां साट्टप्राकारतोरणाम् । गजाश्वरथशालाढ्यां राजवीथिविराजिताम् ॥ ९॥ सामन्तानाममात्यानां सैनिकानां द्विजन्मनाम् । वेतालदासदासीनां गृहाणि रुचिराणि च ॥ १०॥ मध्यं राजगृहं दिव्यं द्वारगोपुरभूषितम् । शालाभिर्बहुभिर्युक्तं सभाभिरुपशोभितम् ॥ ११॥ सिंहासनसभां चैव नवरत्नमयीं शुभाम् । मध्ये सिंहासनं दिव्यं चिन्तामणिविनिर्मितम् ॥ १२॥ स्वयं प्रकाशमद्वन्द्वमुदयादित्यसन्निभम् । विलोक्य चिन्तयामास ब्रह्मा लोकपितामहः ॥ १३॥ यस्त्वेतत्समधिष्ठाय वर्तते बालिशोऽपि वा । पुरस्यास्य प्रभावेण सर्वलोकाधिको भवेत् ॥ १४॥ न केवला स्त्री राज्यार्हा पुरुषोऽपि तया विना । मङ्गलाचार्यसंयुक्तं महापुरुषलक्षणम् । अनुकूलाङ्गनायुक्तमभिषिञ्चेदिति श्रुतिः ॥ १५॥ विभातीयं वरारोहा मूर्ता श‍ृङ्गारदेवता । वरोऽस्यास्त्रिषु लोकेषु न चान्यः शङ्करादृते ॥ १६॥ जटिलो मुण्डधारी च विरूपाक्षः कपालभृत् । कल्माषी भस्मदिग्धाङ्गः श्मशानास्थिविभूषणः ॥ १७॥ अमङ्गलास्पदं चैनं वरयेत्सा सुमङ्गला । इति चिन्तयमानस्य ब्रह्मणोऽग्रे महेश्वरः ॥ १८॥ कोटिकन्दर्पलावण्ययुक्तो दिव्य शरीरवान् । दिव्याम्बरधरः स्रग्वी दिव्यगन्धानुलेपनः ॥ १९॥ किरीटहारकेयूरकुण्डलाद्यैरलङ्कृतः । प्रादुर्बभूव पुरतो जगन्मोहनरूपधृक् ॥ २०॥ तं कुमारमथालिङ्ग्य ब्रह्मा लोकपितामहः । चक्रे कामेश्वरं नाम्ना कमनीयवपुर्धरम् ॥ २१॥ तस्यास्तु परमाशक्तेरनुरूपो वरस्त्वयम् । इति निश्चित्य तेनैव सहितास्तामथाययुः ॥ २२॥ अस्तुवंस्ते परां शक्तिं ब्रह्मविष्णुमहेश्वराः । तां दृष्ट्वा मृगशावाक्षीं कुमारो नीललोहितः । अभवन्मन्मथाविष्टो विस्मृत्य सकलाः क्रियाः ॥ २३॥ सापि तं वीक्ष्य तन्वङ्गो मूर्तिम्मन्तमिव स्मरम् । मदनाविष्टसर्वाङ्गी स्वात्मरूपममन्यत । अन्योन्यालोकनासक्तौ तावृभौ मदनातुरौ ॥ २४॥ सर्वभावविशेषज्ञौ धृतिमन्तौ मनस्विनौ । परैरज्ञातचारित्रौ मुहूर्तास्वस्थचेतनौ ॥ २५॥ अथोवाच महादेवीं ब्रह्मा लोकैकनायिकाम् । इमे देवाश्च ऋषयो गन्धर्वाप्सरसां गणाः । त्वामीशां द्रष्टुमिच्छन्ति सप्रियां परमाहवे ॥ २६॥ को वानुरूपस्ते देवि प्रियो धन्यतमः पुमान् । लोकसंरक्षणार्थाय भजस्व पुरुषं परम् ॥ २७॥ राज्ञी भव पुरस्यास्य स्थिता भव वरासने । अभिषिक्तां महाभागैर्देवार्षे भिरकल्मषैः ॥ २८॥ साम्राज्यचिह्नसंयुक्तां सर्वाभरणसंयुताम् । सप्रियामासनगतां द्रष्टुमिच्छामहे वयम् ॥ २९॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने मदनकामेश्वरप्रादुर्भावो नाम चतुर्दशोऽध्यायः ॥ १४॥

अथ वैवाहिकोत्सवो नाम पञ्चदशोऽध्यायः ॥ १५॥

तच्छ्रुत्वा वचनं देवी मन्दस्मितमुखाम्बुजा । उवाच स ततो वाक्यं ब्रह्मविष्णुमुखान्सुरान् ॥ १॥ स्वतन्त्राहं सदा देवाः स्वेच्छाचारविहारिणी । ममानुरूपचरितो भविता तु मम प्रियः ॥ २॥ तथेति तत्प्रतिश्रुत्य सर्वैर्देवैः पितामहः । उवाच च महादेवीं धर्मार्थसहितं वचः ॥ ३॥ कालक्रीता क्रयक्रीता पितृदत्ता स्वयंयुता । नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः ॥ ४॥ कालक्रीता तु वेश्या स्यात्क्रयक्रीता तु दासिका । गन्धर्वोद्वाहिता युक्ता भार्या स्यात्पितृदत्तका ॥ ५॥ समानधर्मिणी युक्ता भार्या पितृवशंवदा । यदद्वैतं परं ब्रह्म सदसद्भाववर्जितम् ॥ ६॥ चिदानन्दात्मकं तस्मात्प्रकृतिः समजायत । त्वमेवासीच्च तद्ब्रह्म प्रकृतिः सा त्वमेव हि ॥ ७॥ त्वमेवानादिरखिला कार्यकारणरूपिणी । त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥ ८॥ सदसत्कर्मरूपां च व्यक्ताव्यक्तो दयात्मिकाम् । त्वामेव हि प्रशंसन्ति पञ्चब्रह्मस्वरूपिणीम् ॥ ९॥ त्वामेव हि सृजस्यादौ त्वमेव ह्यवसि क्षणात् । भजस्व पुरुषं कञ्चिल्लोकानुग्रहकाम्यया ॥ १०॥ इति विज्ञापिता देवी ब्रह्मणा सकलैः सुरैः । स्रजमुद्यम्य हस्तेन चिक्षेप गगनान्तरे ॥ ११॥ तयोत्सृष्टा हि सा माला शोभयन्ती नभस्थलम् । पपात कण्ठदेशे हि तदा कामेश्वरस्य तु ॥ १२॥ ततो मुमुदिरे देवा ब्रह्मविष्णुपुरो गमाः । ववृषुः पुष्पवर्षाणि मन्दवातेरिता घनाः ॥ १३॥ अथोवाच विधाता तु भगवन्तं जनार्दनम् । कर्तव्यो विधिनोद्वाहस्त्वनयोः शिवयोर्हरे ॥ १४॥ मुहूर्तो देवसम्प्राप्तो जगन्मङ्गलकारकः । त्वद्रूपा हि महादेवी सहजश्च भवानपि ॥ १५॥ दातुमर्हसि कल्याणीमस्मै कामशिवाय तु । तच्छ्रुत्वा वचनं तस्य देवदेवस्त्रिविक्रमः ॥ १६॥ ददौ तस्यै विधानेन प्रीत्या तां शङ्कराय तु । देवर्षिपितृमुख्यानां सर्वेषां देवयोगिनाम् ॥ १७॥ कल्याणं कारयामास शिवयोरादिकेशवः । उपायनानि प्रददुः सर्वे ब्रह्मादयः सुराः ॥ १८॥ ददौ ब्रह्मेक्षुचापं तु वज्रसारमनश्वरम् । तयोः पुष्पायुधं प्रादादम्लानं हरिरव्ययम् ॥ १९॥ नागपाशं ददौ ताभ्यां वरुणो यादसाम्पतिः । अङ्कुशं च ददौ ताभ्यां विश्वकर्मा विशाम्पतिः ॥ २०॥ किरीटमग्निः प्रायच्छत्ताटङ्कौ चन्द्रभास्करौ । नवरत्नमयीं भूषां प्रादाद्रत्नाकरः स्वयम् ॥ २१॥ ददौ सुराणामधिपो मधुपात्रमथाक्षयम् । चिन्तामणिमयीं मालां कुबेरः प्रददौ तदा ॥ २२॥ साम्राज्यसूचकं छत्रं ददौ लक्ष्मीपतिः स्वयम् । गङ्गा च यमुना ताभ्यां चामरे चन्द्रभास्वरे ॥ २३॥ अष्टौ च वसवो रुद्रा आदित्याश्चाश्विनौ तथा । दिक्पाला मरुतः साध्या गन्धर्वाः प्रमथेश्वराः । स्वानिस्वान्यायुधान्यस्यै प्रददुः परितोषिताः ॥ २४॥ रथांश्च तुरगान्नागान्महावेगान्महाबलान् । उष्ट्रानरोगानश्वांस्तान्क्षुत्तृष्णापरिवर्जितान् । ददुर्वज्रोपमाकारान्सायुधान्सपरिच्छदान् ॥ २५॥ अथाभिषेकमातेनुः साम्राज्ये शिवयोः शिवम् । अथाकरोद्विमानं च नाम्ना तु कुसुमाकरम् ॥ २६॥ विधाताम्लानमालं वै नित्यं चाभेद्यमायुधैः । दिवि भुव्यन्तरिक्षे च कामगं सुसमृद्धिमत् ॥ २७॥ यद्गन्धघ्राणमात्रेण भ्रान्तिरोगक्षुर्धातयः । तत्क्षणादेव नश्यन्ति मनोह्लादकरं शुभम् ॥ २८॥ तद्विमानमथारोप्य तावुभौ दिव्यदम्पती । चामरव्यजनच्छत्रध्वजयष्टिमनोहरम् ॥ २९॥ वीणावेणुमृदङ्गादिविविधैस्तौर्यवादनैः । सेव्यमाना सुरगणैर्निर्गत्य नृपमन्दिरात् ॥ ३०॥ ययौ वीथीं विहारेशा शोभयन्ती निजौजसा । प्रतिहर्म्याग्रसंस्थाभिरप्सरोभिः सहस्रशः ॥ ३१॥ सलाजाक्षतहस्ताभिः पुरन्ध्रीभिश्च वर्षिता । गाथाभिर्मङ्गलार्थाभिर्वीणावेण्वादिनिस्वनैः । तुष्यन्ती वीवीथिवीथीषु मन्दमन्दमथाययौ ॥ ३२॥ प्रतिगृह्याप्सरोभिस्तु कृतं नीराजनाविधिम् । अवरुह्य विमानग्रात्प्रविवेश महासभाम् ॥ ३३॥ सिंहासनमधिष्ठाय सह देवेन शम्भुना । यद्यद्वाञ्छन्ति तत्रस्था मनसैव महाजनाः । सर्वज्ञा साक्षिपातेन तत्तत्कामानपूरयत् ॥ ३४॥ तद्दृष्ट्वा चरितं देव्या ब्रह्मा लोकपितामहः । कामाक्षीति तदाभिख्यां ददौ कामेश्वरीति च ॥ ३५॥ ववर्षाश्चर्यमेघोऽपि पुरे तस्मिंस्तदाज्ञया । महार्हाणि च वस्तूनि दिव्यान्याभरणानि च ॥ ३६॥ चिन्तामणिः कल्पवृक्षः कमला कामधेनवः । प्रतिवेश्म ततस्तस्थुः पुरो देव्याजयाय ते ॥ ३७॥ तां सेवैकरसाकारां विमुक्तान्यक्रियागुणाः । सर्वकामार्थसंयुक्ता हृष्यन्तः सार्वकालिकम् ॥ ३८॥ पितामहो हरिश्चैव महादेवश्च वासवः । अन्ये दिशामधीशास्तु सकला देवतागणाः ॥ ३९॥ देवर्षयो नारदाद्याः सनकाद्याश्च योगिनः । महर्षयश्च मन्वाद्या वशिष्ठाद्यास्तपोधनाः ॥ ४०॥ गन्धर्वाप्सरसो यक्षा याश्चान्या देवजातयः । दिवि भूम्यन्तरिक्षेषु ससम्बाधं वसन्ति ये ॥ ४१॥ ते सर्वे चाप्यसम्बाधं निवसन्ति स्म तत्पुरे ॥ ४२॥ एवं तद्वत्सला देवी नान्यत्रैत्यखिलाज्जनात् । तोषयामास सततमनुरागेण भूयसा ॥ ४३॥ राज्ञो महति भूर्लोके विदुषः सकलेप्सिताम् । राज्ञी दुदोहाभीष्टानि सर्वभूतलवासिनाम् ॥ ४४॥ त्रिलोकैकमहीपाले साम्बिके कामशङ्करे । दशवर्षसहस्राणि ययुः क्षण इवापरः ॥ ४५॥ ततः कदाचिदागत्य नारदो भगवानृषिः । प्रणम्य परमां शक्तिं प्रोवाच विनयान्वितः ॥ ४६॥ पर ब्रह्म परं धाम पवित्रं परमेश्वरि । सदसद्भावसङ्कल्पविकल्पकलनात्मिका ॥ ४७॥ जगदभ्युदयार्थाय व्यक्तभावमुपागता । असज्जनविनाशार्था सज्जनाभ्युदयार्थिनी । प्रवृत्तिस्तव कल्याणि साधूनां रक्षणाय हि ॥ ४८॥ अयं भण्डोऽसुरो देवि बाधते जगतां त्रयम् । त्वयैकयैव जेतव्यो न शक्यस्त्वपरैः सुरैः ॥ ४९॥ त्वत्सेवैकपरा देवाश्चिरकालमिहोषिताः । त्वदाज्ञया गमिष्यन्ति स्वानिस्वानि पुराणि तु ॥ ५०॥ अमङ्गलानि शून्यानि समृद्धार्थानि सन्त्वतः । एवं विज्ञापिता देवी नारदेनाखिलेश्वरी । स्वस्ववासनिवासाय प्रेषयामास चामरान् ॥ ५१॥ ब्रह्माणं च हरिं शम्भुं वासवादीन्दिशां पतीन् । यथार्हं पूजयित्वा तु प्रेषयामास चाम्बिका ॥ ५२॥ अपराधं ततस्त्यक्तुमपि सम्प्रेषिताः सुराः । स्वस्वांशैः शिवयोः सेवामादिपित्रोरकुर्वत ॥ ५३॥ एतदाख्यानमायुष्यं सर्वमङ्गलकारणम् । आविर्भावं महादेव्यास्तस्या राज्याभिषेचनम् ॥ ५४॥ यः प्रातरुत्थितो विद्वान्भक्तिश्रद्धासमन्वितः । जपेद्धनसमृद्धः स्यात्सुधासम्मितवाग्भवेत् ॥ ५५॥ नाशुभं विद्यते तस्य परत्रेह च धीमतः । यशः प्राप्नोति विपुलं समानोत्तमतामपि ॥ ५६॥ अचला श्रीर्भवे तस्य श्रेयश्चैव पदेपदे । कदाचिन्न भयं तस्य तेजस्वी वीर्यवान्भवेत् ॥ ५७॥ तापत्रयविहीनश्च पुरुषार्थैश्च पूर्यते । त्रिसन्ध्यं यो जपेन्नित्यं ध्यात्वा सिंहासनेश्वरीम् ॥ ५८॥ षण्मासान्महतीं लक्ष्मीं प्राप्नुयाज्जापकोत्तमः ॥ ५९॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने वैवाहिकोत्सवो नाम पञ्चदशोऽध्यायः ॥ १५॥

अथ ससेनविजययात्रा नाम षोडशोऽध्यायः ॥ १६॥

अथ सा जगतां माता ललिता परमेश्वरी । त्रैलोक्यकण्टकं भण्डं दैत्यं जेतुं विनिर्ययौ ॥ १॥ चकार मर्दलाकारानम्भोराशींस्तु सप्त ते । प्रभूतमर्द्दलध्वानैः पूरयामासुरम्बरम् ॥ २॥ मृदङ्गमुरजाश्चैव पटहोऽतुकुलीङ्गणाः । सेलुकाझल्लरीराङ्घाहुहुकाहुण्डुकाघटाः ॥ ३॥ आनकाः पणवाश्चैव गोमुखाश्चार्धचन्द्रि काः । यवमध्या मुष्टिमध्या मर्द्दलाडिण्डिमा अपि ॥ ४॥ झर्झराश्च बरीताश्च इङ्ग्यालिङ्ग्यप्रभेदजाः । उद्धकाश्चैतुहुण्डाश्च निःसाणा बर्बराः परे ॥ ५॥ हुङ्कारा काकतुण्डाश्च वाद्यभेदास्तथापरे । दध्वनुः शक्तिसेनाभिराहताः समरोद्यमे ॥ ६॥ ललितापरमेशान्या अङ्कुशास्त्रान्समुद्गता । सम्पत्करी नाम देवी चचाल सह शक्तिभिः ॥ ७॥ अनेककोटिमातङ्गतुरङ्गरथपङ्क्तिभिः । सेविता तरुणादित्यपाटला सम्पदीश्वरी ॥ ८॥ मत्तमुद्दण्डसङ्ग्रामरसिकं शैलसन्निभम् । रणकोलाहलं नाम सारुरोह मतङ्गजम् ॥ ९॥ तामन्वगा ययौ सेना महती घोरराविणी । लोलाभिः केतुमालाभिरुल्लिखन्ती घनाघनात् ॥ १०॥ तस्याश्च सम्पन्नाथायाः पीनस्तनसुसङ्कटः । कण्टको घनसन्नाहो रुरुचे वक्षसि स्थितः ॥ ११॥ कम्पमाना खड्गलता व्यरुचत्तत्करे धृता । कुटिला कालनाथस्य भृकुटीव भयङ्करा ॥ १२॥ उत्पातवातसम्पाताच्चलिता इव पर्वताः । तामन्वगा ययुः कोटिसङ्ख्याकाः कुञ्जरोत्तमाः ॥ १३॥ अथ श्रीललितादेव्या श्रीपाशायुधसम्भवा । अतित्वरितविक्रान्तिरश्वारूढाचलत्पुरः ॥ १४॥ तया सह हयप्रायं सैन्यं हेषातरङ्गितम् । व्यचरत्खुरकुद्दालविदारितमहीतलम् ॥ १५॥ वनायुजाश्च काम्बोजाः पारदाः सिन्धुदेशजाः । टङ्कणाः पर्वतीयाश्च पारसीकास्तथा परे ॥ १६॥ अजानेया घट्टधरा दरदाः कालवन्दिजाः । वाल्मीकयावनोद्भूता गान्धर्वाश्चाथ ये हयाः ॥ १७॥ प्राग्देशजाताः कैराता प्रान्तदेशोद्भवास्तथा । विनीताः साधुवोढारो वेगिनः स्थिरचेतसः ॥ १८॥ स्वामिचित्तविशेषज्ञा महायुद्धसहिष्णवः । लक्षणैर्बहुभिर्युक्ता जितक्रोधा जितश्रमाः ॥ १९॥ पञ्चधारासु शिक्षाढ्या विनीताश्च प्लवान्विताः ॥ २०॥ फलशुक्तिश्रिया युक्ताः श्वेतशुक्तिसमन्विताः । देवपद्मं देवमणिं देवस्वस्तिकमेव च ॥ २१॥ अथ स्वस्तिकशुक्तिश्च गडुरं पुष्पगण्डिकाम् । एतानि शुभलक्ष्माणि जयराज्यप्रदानि च । वहन्तो वातजवना वाजिनस्तां समन्वयुः ॥ २२॥ अपराजितनामानमतितेजस्विनं चलम् । अत्यन्तोत्तुङ्गवर्ष्माणं कविकाविलसन्मुखम् ॥ २३॥ पार्श्वद्वयेऽपि पतितस्फुरत्केसरमण्डलम् । स्थूलवालधिविक्षेपक्षिप्यमाणपयोधरम् ॥ २४॥ जङ्घाकाण्डसमुन्नद्धमणिकिङ्किणिभासुरम् । वादयन्तमिवोच्चण्डैः खुरनिष्ठुरकुट्टनैः ॥ २५॥ भूमण्डलमहावाद्यं विजयस्य समृद्धये । घोषमाणं प्रति मुहुः सन्दर्शितगतिक्रमम् ॥ २६॥ आलोलचामरव्याजाद्वहन्तं पक्षती इव । भाण्डैर्मनोहरैर्युक्तं घर्घरीजालमण्डितम् ॥ २७॥ एषां घोषस्य कपटाद्धुङ्कुर्वतीमि वासुरान् । अश्वारूढा महादेवी समारूढा हयं ययौ ॥ २८॥ चतुर्भिर्बाहुभिः पाशमङ्कुशं वेत्रमेव च । हयवल्गां च दधती बहुविक्रमशोभिनी ॥ २९॥ तरुणादित्यसङ्काशा ज्वलत्काञ्चीतरङ्गिणी । सञ्चचाल हयारूढा नर्तयन्तीव वाजिनम् ॥ ३०॥ अथ श्रीदण्डनाथाया निर्याणपटहध्वनिः । उद्दण्डसिन्धुनिस्वानश्चकार बधिरं जगत् ॥ ३१॥ वज्रबाणैः कठोरैश्च भिन्दन्त्यः ककुभो दश । अन्युद्धतभुजाश्मानः शक्तयः काश्चिदुच्छ्रिताः ॥ ३२॥ काश्चिच्छ्रीदण्डनाथायाः सेनानासीरसङ्गताः । खड्गं फलकमादाय पुप्लुवुश्चण्डसक्तयः ॥ ३३॥ अत्यन्तसैन्यसम्बाधं वेत्रसन्ताडनैः शतैः । निवारयन्त्यो वेत्रिण्यो व्युच्चलन्ति स्मशक्तयः ॥ ३४॥ अथ तुङ्गध्वजश्रेणीर्महिषाङ्का मृगाङ्किकाम् । सिंहाङ्काश्चैव बिभ्राणाः शक्तयो व्यचलन्पुरा ॥ ३५॥ ततः श्रीदण्डनाथायाः श्वेतच्छत्रं सहस्रशः । स्फुरत्कराः प्रचलिताः शक्तयः काश्चिदाददुः ॥ ३६॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने ससेनविजययात्रा नाम षोडशोऽध्यायः ॥ १६॥

अथ दण्डनाथाश्यामलासेनायात्रा नाम सप्तदशोऽध्यायः ॥ १७॥

दण्डनाथाविनिर्याणे सङ्ख्यातीतैः सितप्रभैः । छत्रैर्गगनमारेजे निःसङ्ख्यशशिमण्डितम् ॥ १॥ अन्योन्यसक्तैर्धवलच्छत्रैरन्तर्घनीभवत् । तिमिरं नुनुदे भूयस्तत्काण्डमणिरोचिषा ॥ २॥ वज्रप्रभाधगधगच्छायापूरितदिङ्मुखाः । तालवृन्ताः शतविधाः क्रोडमुख्या बलेऽचलन् ॥ ३॥ चण्डो दण्डादयस्तीव्रा भैरवाः शूलपाणयः । ज्वलत्केशपिशङ्गाभास्तडिद्भासुरदिङ्मुखाः ॥ ४॥ दहत्य इव दैत्यौघांस्तीक्ष्णैर्मार्गणवह्निभिः । प्रचेलुर्दण्डनाथायास्सेना नासीरधाविताः ॥ ५॥ अथ पोत्रीमुखीदेवीसमानाकृतिभूषणाः । तत्समानायुधकरास्तत्समानस्ववाहनाः ॥ ६॥ तीक्ष्णदंष्ट्रविनिष्ठ्यूतवह्रिधूमामिताम्बराः । तमालश्यामलाकाराः कपिलाः क्रूरलोचनाः ॥ ७॥ सहस्रमहिषारूढाः प्रचेलुः सूकराननाः । अथ श्रीदण्डनाथा च करिचक्ररथोत्तमात् ॥ ८॥ अवरुह्य महासिंहमारुरोह स्ववाहनम् । वज्रघोष इति ख्यातं धूतकेसरमण्डलम् ॥ ९॥ व्यक्तास्यं विकटाकारं विशङ्कटविलोचनम् । दंष्ट्राकटकटत्कारबधिरीकृतदिक्तटम् ॥ १०॥ आदिकूर्मकठोरास्थि खर्परप्रतिमैर्नखैः । विबन्तमिव भूचक्रमापातालं निमज्जिभिः ॥ ११॥ योजनत्रयमुत्तुङ्गं वगादुद्धूतवालधिम् । सिंहवाहनमारुह्य व्यचलद्दण्डनायिका ॥ १२॥ तस्यामसुरसंहारे प्रवृत्तायां ज्वलत्क्रुधि । उद्वेगं बहुलं प्राप त्रैलोक्यं सचराचरम् ॥ १३॥ किमसौ धक्ष्यति रुषा विश्वमद्यैव पोत्रिणी । किं वा मुसलघातेन भूमिं द्वेधा करिष्यति ॥ १४॥ अथ वा हलनिर्घातैः क्षोभयिष्यति वारिधीन् । इति त्रस्तहृदः सर्वे गगने नाकिनां गणाः ॥ १५॥ दूराद्द्रुतं विमानैश्च सत्रासं ददृशुर्गताः । ववन्दिरे च तां देवा बद्धाञ्जलिपुटान्विताः । मुहुर्द्वादशनामानि कीर्तयन्तो नभस्तले ॥ १६॥ अगस्त्य उवाच । कानि द्वादशनामानि तस्या देव्या वद प्रभो । अश्वानन महाप्राज्ञ येषु मे कौतुकं महत् ॥ १७॥ हयग्रीव उवाच । श‍ृणु द्वादशनामानि तस्या देव्या घटोद्भव । यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति । पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी ॥ १८॥ तथा समयसङ्केता वाराही पोत्रिणी तथा । वार्ताली च महासेनाप्याज्ञा चक्रेश्वरी तथा ॥ १९॥ अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने । नामद्वादशकाभिख्यवज्रपञ्जरमध्यगः । सङ्कटे दुःखमाप्नोति न कदाचन मानवः ॥ २०॥ एतैर्नामभिरभ्रस्थाः सङ्केतां बहु तुष्टुवुः । तेषामनुग्रहार्थाय प्रचचाल च सा पुनः ॥ २१॥ अथ सङ्केतयोगिन्या मन्त्रनाथा पदस्पृशः । निर्याणसूचनकरी दिवि दध्वान काहली ॥ २२॥ श‍ृङ्गारप्रायभूषाणां शार्दूलश्यामलत्विषाम् । वीणासंयतपाणीनां शक्तीनां निर्ययौ बलम् ॥ २३॥ काश्चद्गायन्ति नृत्यन्ति मत्तकोकिलनिःस्वनाः । वीणावेणुमृदङ्गाद्याः सविलासपदक्रमाः ॥ २४॥ प्रचेलुः शक्तयः श्यामा हर्षयन्त्यो जगज्जनान् । मयूरवाहनाः काश्चित्कतिचिद्धंसवाहनाः ॥ २५॥ कतिचिन्नकुलारूढाः कतिचित्कोकिलासनाः । सर्वाश्च श्यामलाकाराः काश्चित्कर्णीरथस्थिताः ॥ २६॥ कादम्बमधुमत्ताश्च काश्चिदारूढसैन्धवाः । मन्त्रनाथां पुरस्कृत्य सम्प्रचेलुः पुरः पुरः ॥ २७॥ अथारुह्य समुत्तुङ्गध्वजचक्रं महारथम् । बालार्कवर्णकवचा मदालोलविलोचना ॥ २८॥ ईषत्प्रस्वेदकणिकामनोहरमुखाम्बुजा । प्रेक्षयन्ती कटाक्षौधैः किञ्चिद्भ्रूवल्लिताण्डवैः ॥ २९॥ समस्तमपि तत्सैन्यं शक्तीनामुद्धतोद्धतम् । पिच्छत्रिकोणच्छत्रेण बिरुदेन महीयसा ॥ ३०॥ आसां मध्ये न चान्यासां शक्तीनामुज्ज्वलोदया । निर्जगाम घनश्यामश्यामला मन्त्रनायिका ॥ ३१॥ तां तुष्टुवुः षोडशभिर्नामभिर्नाकवासिनः । तानि षोडशनामानि श‍ृणु कुम्भसमुद्भव ॥ ३२॥ सङ्गीतयोगिनी श्यामा श्यामला मन्त्रनायिका । मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया ॥ ३३॥ वीणावती वैणिकी च मुद्रि णी प्रियकप्रिया । नीपप्रिया कदम्बेशी कदम्बवनवासिनी ॥ ३४॥ सदामदा च नामानि षोडशैतानि कुम्भज । एतैर्यः सचिवेशानीं सकृत्स्तौति शरीरवान् । तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् ॥ ३५॥ मन्त्रिनाथा यत्रयत्र कटाक्षं विकिरत्यसौ । तत्रतत्र गताशङ्कं शत्रुसैन्यं पतत्यलम् ॥ ३६॥ ललितापरमेशान्या राज्यचर्चा तु यावती । शक्तीनामपि चर्चा या सा सर्वत्र जयप्रदा ॥ ३७॥ अथ सङ्गीतयोगिन्याः करस्थाच्छुकपोतकात् । निर्जगाम धनुर्वेदो वहन्सज्जंशरासनम् ॥ ३८॥ चतुर्बाहुयुतो वीरस्त्रिशिरास्त्रिविलोचनः । नमस्कृत्य प्रधानेशीमिदमाह स भक्तिमान् ॥ ३९॥ देवि भण्डासुरेन्द्रस्य युद्धाय त्वं प्रवर्त्तसे । अतस्तव मया साह्यं कर्तव्यं मन्त्रिनायिके ॥ ४०॥ चित्रजीवमिमं नाम कोदण्डं सुमहत्तरम् । गृहाण जगतामम्ब दानवानां निबर्हणम् ॥ ४१॥ इमौ चाक्षयबाणाढ्यौ तूणीरौ स्वर्णचित्रितौ । गृहाण दैत्यनाशाय ममानुग्रहहेतवे ॥ ४२॥ इति प्रणम्य शिरसा धनुर्वेदेन भक्तितः । अर्पितांश्चापतूणीराञ्जग्राह प्रियकप्रिया ॥ ४३॥ चित्रजीवं महाचापमादाय च शुकप्रिया । विस्फारं जनयामास मौर्वीमुद्वाद्य भूरिशः ॥ ४४॥ सङ्गीतयोगिनी चापध्वनिना पूरितं जगत् । नाकालयानां च मनोन यनानन्दसम्पदा ॥ ४५॥ यन्त्रिणी तन्त्रिणी चेति द्वे तस्याः परिचारिके । शुकं वीणां च सहसा वहन्त्यौ परिचेरतुः ॥ ४६॥ आलोलवलयक्वाणवर्धिष्णुगुणनिस्वनम् । धारयन्ती घनश्यामा चकारातिमनोहरम् ॥ ४७॥ चित्रजीवशरासेन भूषिता गीतयोगिनी । कदम्बिनीव रुरुचे कदम्बच्छत्रकार्मुका ॥ ४८॥ कालीकटाक्षवत्तीक्ष्णो नृत्यद्भुजगभीषणः । उल्लसन्दक्षिणे पाणौ विललास शिलीमुखः ॥ ४९॥ गेयचक्ररथारूढां तां पश्चाच्च सिषेविरे । तद्वच्छ्यामलशोभाढ्या देव्यो बाणधनुर्धराः ॥ ५०॥ सहस्राक्षौहिणीसङ्ख्यास्तीव्रवेगा मदालसाः । आपूरयन्त्यः ककुभं कलैः किलिकिलारवैः ॥ ५१॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने दण्डनाथाश्यामलासेनायात्रा नाम सप्तदशोऽध्यायः ॥ १७॥

अथ ललितापरमेश्वरीसेनाजय यात्रा नामाष्टादशोऽध्यायः ॥ १८॥

अथ राजनायिका श्रिताज्वलिताङ्कुशा फणिसमानपाशभृत् । कलनिक्वणद्वलयमैक्षवं धनुर्दधती प्रदीप्तकुसुमेषुपञ्चका ॥ १॥ उदयत्सहत्स्रमहसा सहस्रतोऽप्यतिपाटलं निजवपुः प्रभाझरम् । किरती दिशासु वदनस्य कान्तिभिः सृजतीव चन्द्रमयमभ्रमण्डलम् ॥ २॥ दशयोजनायतिमता जगत्त्रयीमभिवृण्वता विशदमौक्तिकात्मना । धवलातपत्रवलयेन भासुरा शशिमण्डलस्य सखितामुपेयुषा ॥ ३॥ अभिवीजिता च मणिकान्तशोभिना विजयादिमुख्यपरिचारिकागणैः । नवचन्द्रि कालहरिकान्तिकन्दलीचतुरेण चामरचतुष्टयेन च ॥ ४॥ शक्त्यैकराज्यपदवीमभिसूचयन्ती साम्राज्यचिह्नशतमण्डितसैन्यदेशा । सङ्गीतवाद्यरचनाभिरथामरीणां संस्तूयमानविभवा विशदप्रकाशा ॥ ५॥ वाचामगोचरमगोचरमेव बुद्धेरीदृक्तया न कलनीयमनन्यतुल्यम् ॥ ६॥ त्रैलोक्यगर्भपरिपूरितशक्तिचक्रसाम्राज्यसम्पदभिमानमभिस्पृशन्ती । आबद्धभक्तिविपुलाञ्जलिशेखराणामारादहम्प्रथमिका कृतसेवनानाम् ॥ ७॥ ब्रह्मेशविष्णुवृषमुख्यसुरोत्तमानां वक्त्राणिवर्षितनुतीनि कटाक्षयन्ती । उद्दीप्तपुष्पशरपञ्चकतः समुत्थैज्योतिर्मयं त्रिभुवनं सहसा दधाना ॥ ८॥ विद्युत्समद्युतिभिरप्सरसां समूहैर्विक्षिप्यमाणजयमङ्गललाजवर्षा । कामेश्वरीप्रभृतिभिः कमनीयभाभिः सङ्ग्रामवेषरचनासुमनोहराभिः ॥ ९॥ दीप्तायुधद्युतितिरस्कृतभास्कराभिर्नित्याभिरङ्घ्रिसविधे समुपास्यमाना । श्रीचक्रनामतिलकं दशयोजनातितुङ्गध्वजोल्लिखितमेघकदम्बमुच्चैः ॥ १०॥ तीव्राभिरावणसुशक्तिपरम्पराभिर्युक्तं रथं समरकर्मणि चालयन्ती । प्रोद्यत्पिशङ्गरुचिभागमलांशुकेन वीतामनोहररुचिस्समरे व्यभासीत् ॥ ११॥ पञ्चाधिकैर्विंशतिनामरत्नैः प्रपञ्चपापप्रशमातिदक्षैः । संस्तूयमाना ललिता मरुद्भिः सङ्ग्राममुद्दिश्य समुच्चचाल ॥ १२॥ अगस्त्य उवाच । वीजिवक्त्र महाबुद्धे पञ्चविंशतिनामभिः । ललितापरमेशान्या देहि कर्णरसायनम् ॥ १३॥ हयग्रीव उवाच । सिंहासना श्रीललिता महाराज्ञी पराङ्कुशा । चापिनी त्रिपुरा चैव महात्रिपुरसुन्दरी ॥ १४॥ सुन्दरी चक्रनाथा च साम्राजी चक्रिणी तथा । चक्रेश्वरी महादेवी कामेशी परमेश्वरी ॥ १५॥ कामराजप्रिया कामकोटिगा चक्रवर्तिनी । महाविद्या शिवानङ्गवल्लभा सर्वपाटला ॥ १६॥ कुलनाथाम्नायनाथा सर्वाम्नायनिवासिनी । श‍ृङ्गारनायिका चेति पञ्चविंशतिनामभिः ॥ १७॥ स्तुवन्ति ये महाभागां ललितां परमेश्वरीम् । ते प्राप्नुवन्ति सौभाग्यमष्टौ सिद्धीर्महद्यशः ॥ १८॥ इत्थं प्रचण्डसंरम्भं चालयन्ती महद्बलम् । भण्डासुरं प्रति क्रुद्धा चचाल ललिताम्बिका ॥ १९॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने ललितापरमेश्वरीसेनाजय यात्रा नामाष्टादशोऽध्यायः ॥ १८॥

अथैकोनविंशोऽध्यायः ॥ १९॥

(श्रीचक्रराजरथज्ञेयचक्ररथपर्वस्थदेवतानामप्रकाशनं नाम) अगस्त्य उवाच । चक्रराजरथेन्द्रस्य याः पर्वणि समाश्रिताः । देवता प्रकटाभिख्यास्तासामाख्यां निवेदय ॥ १॥ सङ्ख्याश्च तासामखिला वर्णभेदांश्च शोभनान् । आयुधानि च दिव्यानि कथयस्व हयानन ॥ २॥ हयग्रीव उवाच । नवमं पर्व दीप्तस्य रथस्य समुपस्थिताः । दश प्रोक्ता सिद्धिदेव्यस्तासां नामानि मच्छृणु ॥ ३॥ अणिमा महिमा चैव लघिमा गरिमा तथा । ईशिता वशिता चैव प्राप्तिः सिद्धिश्च सप्तमी ॥ ४॥ प्राकाम्यमुक्तिसिद्धिश्च सर्वकामाभिधापरा । एतादेव्यश्चतुर्बाह्व्यो जपाकुसुमसन्निभाः ॥ ५॥ चिन्तामणिकपालं च त्रिशूलं सिद्धिकज्जलम् । दधाना दयया पूर्णा योगिभिश्च निषेविताः ॥ ६॥ तत्र पूर्वार्द्धभागे च ब्रह्माद्या अष्ट शक्तयः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डा चैव सप्तमी ॥ ७॥ महालक्ष्मीरष्टमी च द्विभुजाः शोणविग्रहाः । कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥ ८॥ अथ वान्य प्रकारेण केचिद्ध्यानं प्रचक्षते । ब्रह्मादिसदृशाकारा ब्रह्मादिसदृशायुधाः ॥ ९॥ ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः । तासामूर्ध्वस्थानगतां मुद्रा देव्यो महत्तराः ॥ १०॥ मुद्रा विरचनायुक्तैर्हस्तैः कमलकान्तिभिः । दाडिमीपुष्पसङ्काशाः पीताम्बरमनोहराः ॥ ११॥ चतुर्भुजा भुजद्वन्द्वधृतचर्मकृपाणकाः । मदरक्तविलोलाक्ष्यस्तासां नामानि मच्छृणु ॥ १२॥ सर्वसङ्क्षोभिणी चैव सर्वविद्रा विणी तथा । सर्वाकर्षणकृन्मुद्रा तथा सर्ववशङ्करी ॥ १३॥ सर्वोन्मादनमुद्रा च यष्टिः सर्वमहाङ्कुशा । सर्वखेचरिका मुद्रा सर्वबीजा तथापरा ॥ १४॥ सर्वयोनिश्च नवमी तथा सर्वत्रिखण्डिका । सिद्धिब्राह्यादिमुद्रा स्ता एताः प्रकटशक्तयः ॥ १५॥ भण्डासुरस्य संहारं कर्तुं रक्तरथे स्थिताः । या गुप्ताख्याः पूर्वमुक्तास्तासां नामानि मच्छृणु ॥ १६॥ कामाकर्षणिका चैव बुद्ध्याकर्षणिका कला । अहङ्काराकर्षिणी च शब्दाकर्षणिका कला ॥ १७॥ स्पर्शाकर्षणिका नित्या रूपाकर्षणिका कला । रसाकर्षणिका नित्या गन्धाकर्षणिका कला ॥ १८॥ चित्ताकर्षणिका नित्या धैर्याकर्षणिका कला । स्मृत्या कर्षणिका नित्या नामाकर्णणिका कला ॥ १९॥ बीजाकर्षणिका नित्या चात्मकर्षणिका कला । अमृताकर्षणी नित्या शरीराकर्षिणी कला ॥ २०॥ एताः षोडश शीतांशुकलारूपाश्च शक्तयः । अष्टमं पर्व सम्प्राप्ता गुप्ता नाम्ना प्रकीर्तिताः ॥ २१॥ विद्रुमद्रुमसङ्काशा मन्दस्मित मनोहराः । चतुर्भुजास्त्रिनेत्राश्च चन्द्रा र्कमुकुटोज्ज्वलाः ॥ २२॥ चापबाणौ चर्मखड्गौ दधाना दिव्यकान्तयः । भण्डासुरवधार्थाय प्रवृत्ताः कुम्भसम्भव ॥ २३॥ सायन्तनज्वलद्दीपप्रख्यचक्ररथस्य तु । सप्तमे पर्वणि कृतावासा गुप्ततराभिधाः ॥ २४॥ अनङ्गमदनानङ्गमदनातुरया सह । अनङ्गलेखा चानङ्गवेगानङ्गाङ्कुशापि च ॥ २५॥ अनङ्गमालिङ्ग्यपरा एता देव्यो जपात्विषः । इक्षुचापं पुष्पशरान्पुष्पकन्दुकमुत्पलम् ॥ २६॥ बिभ्रत्योऽदभ्रविक्रान्तिशालिन्यो ललिताज्ञया । भण्डासुरमभिक्रुद्धाः प्रज्वलन्त्य इव स्थिताः ॥ २७॥ अथ चक्ररथेन्द्रस्य षष्ठं पर्व समाश्रिताः । सर्वसङ्क्षोभिणीमुख्याः सम्प्रदायाख्यया युताः ॥ २८॥ वेणीकृतकचस्तोमाः सिन्दूरतिलकोज्ज्वलाः । अतितीव्रस्वभावाश्च कालानलसमत्विषः ॥ २९॥ वह्निबाणं वह्निचापं वह्निरूपमसिं तथा । वह्निचक्राख्यफलकं दधाना दीप्तविग्रहाः ॥ ३०॥ असुरेन्द्रं प्रति क्रुद्धाः कामभस्मसमुद्भवाः । आज्ञाशक्तय एवैता ललिताया महौजसः ॥ ३१॥ सर्वसङ्क्षोभिणी चैव सर्वविद्रा विणी तथा । सर्वाकर्षणिका शक्तिः सर्वाह्लादिनिका तथा ॥ ३२॥ सर्वसम्मोहिनीशक्तिः सर्वस्तम्भनशक्तिका । सर्वजृम्भणशक्तिश्च सर्वोन्मादनशक्तिका ॥ ३३॥ सर्वार्थसाधिका शक्तिः सर्वसम्पत्तिपूरणी । सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ ३४॥ एवं तु सम्प्रदायानां नामानि कथितानि वै । अथ पञ्चमपर्वस्थाः कुलोत्तीर्णा इति स्मृताः ॥ ३५॥ ताश्च सप्तटिकसङ्काशाः परशुं पाशमेव च । गदां घण्टां मणिं चैव दधाना दीप्तविग्रहाः ॥ ३६॥ देवद्विषमति क्रुद्धा भ्रुकुटीकुटिलाननाः । एतासामपि नामानि समाकर्णय कुम्भज ॥ ३७॥ सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा । सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ॥ ३८॥ सर्वकामप्रदा देवी सर्वदुःखविमोचिनी ॥ ३९॥ सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी । सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥ ४०॥ दशैन्ताः कथिता देव्यो दयया पूरिताशयाः । चक्रे तुरीयपर्वस्था मुक्ताहारसमत्विषः ॥ ४१॥ निगर्भयोगिनीनाम्ना प्रथिता दश कीर्तिताः । सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ ४२॥ सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी । सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ ४३॥ सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी । दशमी देवताज्ञेया सर्वेप्सितफलप्रदा ॥ ४४॥ एताश्चतुर्भुजा ज्ञेया वज्रं शक्तिं च तोमरम् । चक्रं चैवाभिबिभ्राणा भण्डासुरवधोद्यताः ॥ ४५॥ अथ चक्ररथेन्द्रस्य तृतीयं पर्वसंश्रिताः । रहस्ययोगिनीनाम्ना प्रख्याता वागधीश्वराः ॥ ४६॥ रक्ताशोकप्रसूनाभाबाणकार्मुकपाणयः । कवचच्छन्नसर्वाङ्ग्यो वीणापुस्तकशोभिताः ॥ ४७॥ वशिनी चैव कामेशी भोगिनी विमला तथा । अरुणा च जविन्याख्या सर्वेशी कौलिनी तथा ॥ ४८॥ अष्टावेताः स्मृता देव्यो दैत्यसंहारहेतवः । अथ चक्ररथेन्द्रस्य द्वितीयं पर्वसंश्रिताः ॥ ४९॥ चापबाणौ पानपात्रं मातुलुङ्गं कृपाणिकाम् । तिस्रस्त्रिपीठनिलया अष्टबाहुसमन्विताः ॥ ५०॥ पलकं नागपाशं च घण्टां चैव महाध्वनिम् । विभ्राणा मदिरामत्ता अतिगुप्तरहस्यकाः ॥ ५१॥ कामेशी चैव वज्रेशी भगमालिन्यथापरा । तिस्र एताः स्मृता देव्यो भण्डे कोपसमन्विताः ॥ ५२॥ ललितासममाहात्म्या ललितासमतेजसः । एतास्तु नित्यं श्रीदेव्या अन्तरङ्गाः प्रकीर्तिताः ॥ ५३॥ अथानन्दमहापीठे रथमध्यमपर्वणि । परितो रचितावासाः प्रोक्ताः पञ्चदशाक्षराः ॥ ५४॥ तिथिनित्याः कालरूपा विश्वं व्याप्यैव संस्थिताः । भण्डासुरादिदैत्येषु प्रक्षुब्धभ्रुकुटीतटाः ॥ ५५॥ देवीसमनिजाकारा देवीसमनिजायुधाः । जगतामुपकाराय वर्तमाना युगेयुगे ॥ ५६॥ तासां नामानि मत्तस्त्वमवधारयकुम्भज । कामेशी भगमाला च नित्यक्लिन्ना तथैव च ॥ ५७॥ भेरुण्डा वह्निवासिन्यो महावज्रेश्वरी तथा । दती च त्वरिता देवी नवमी कुलसुन्दरी ॥ ५८॥ नित्या नीलपताका च विजया सर्वमङ्गला । ज्वालामालिनिकाचित्रे दश पञ्च च कीर्तिताः ॥ ५९॥ एताभिः सहिता देवी सदा सेवैकबुद्धिभिः । दुष्टं भण्डासुरं जेतुं निर्ययौ परमेश्वरी ॥ ६०॥ मन्त्रिनाथा महाचक्रे गीतिं चक्रे रथोत्तमे । सप्तपर्वाणि चोक्तानि तत्र देव्याश्च ताः श‍ृणु ॥ ६१॥ गेयचक्ररथे पर्वमध्यपीठनिकेतना । सङ्गीतयोगिनी प्रोक्ता श्रीदेव्या अतिवल्लभा ॥ ६२॥ तदेव प्रथमं पर्व मन्त्रिण्यास्तु निवासभूः । अथ द्वितीयपर्वस्था गेयचक्रे रथोत्तमे ॥ ६३॥ रतिः प्रीतिर्मनोजा च वीणाकार्मुकपाणयः । तमालश्यामलाकारा दानवोन्मूलनक्षमाः ॥ ६४॥ तृतीयपर्वसंरूढा मनोभूबाणदेवता । द्रा विणी शोषिणी चैव बन्धिनी मोहिनी तथा ॥ ६५॥ उन्मादिनीति पञ्चैता दीप्तकार्मुकपाणयः । तत्र पर्वण्यधस्तात्तु वर्तमाना महौजसः ॥ ६६॥ कामराजश्च कन्दर्पो मन्मथो मकरध्वजः । मनोभवः पञ्चमः स्यादेते त्रैलोक्यमोहनाः ॥ ६७॥ कस्तूरीतिलकोल्लासिभालामुक्ताविराजिताः । कवचच्छन्नसर्वाङ्गाः पलाशप्रसवत्विषः ॥ ६८॥ पञ्चकामा इमे प्रोक्ता भण्डासुरवधार्थिनः । जेयचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः ॥ ६९॥ ब्रह्मीमुख्यास्तु पूर्वोक्ताश्चण्डिका त्वष्टमी परा । तत्र पर्वण्यधस्ताच्च लक्ष्मीश्चैव सरस्वती ॥ ७०॥ रतिः प्रीतिः कीर्तिशान्ती पुष्टिस्तुष्टिश्च शक्तयः । एताश्चक्रोधरक्ताक्ष्यो दैत्यं हन्तुं महाबलम् ॥ ७१॥ कुन्तचक्रधराः प्रोक्ताः कुमार्यः कुम्भसम्भव । पञ्चमं पर्व सम्प्राप्ता वामाद्याः षोडशापराः ॥ ७२॥ गीतिं चक्रू रथेन्द्रस्य तासां नामानि मच्छृणु । वामा ज्येष्ठा च रौद्री च शान्तिः श्रद्धा सरस्वती ॥ ७३॥ श्रीभूशक्तिश्च लक्ष्मीश्च सृष्टिश्चैव तु मोहिनी । तथा प्रमाथिनी चाश्वसिनी वीचिस्तथैव च ॥ ७४॥ विद्युन्मालिन्यथ सुरानन्दाथो नागबुद्धिका । एतास्तु कुरविन्दाभा जगत्क्षोभणलम्पटाः ॥ ७५॥ महासरसमन्नाहमादधानाः पदेपदे । वज्रकङ्कटसञ्छन्ना अट्टहासोज्ज्वलाः परे । वज्रदण्डौ शतघ्नीं च सम्बिभ्राणा भुशुण्डिकाः ॥ ७६॥ अथ गीतिरथेन्द्रस्य षष्ठं पर्व समाश्रिताः । असिताङ्गप्रभृतयो भैरवाः शस्त्रभीषणाः ॥ ७७॥ त्रिशिखं पानपात्रं च बिभ्राणा नीलवर्चसः । असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तभैरवः ॥ ७८॥ कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः । अथ गीतिरथेन्द्रस्य सप्तमं पर्व संश्रिताः ॥ ७९॥ मातङ्गी सिद्धलक्ष्मीश्च महामातङ्गिकापि च । महती सिद्धलक्ष्मीश्च शोणा बाणधनुर्धराः ॥ ८०॥ तस्यैव पर्वणोऽधस्ताद्गणपः क्षेत्रपस्तथा । दुर्गाम्बा बटुकश्चैव सर्वे ते शस्त्रपाणयः ॥ ८१॥ तत्रैव पर्वणोऽधस्ताल्लक्ष्मीश्चैव सरस्वती । शङ्खः पद्मो निधिश्चैव ते सर्वे शस्त्रपाणयः ॥ ८२॥ लोकद्विषं प्रति क्रुद्धा भण्डं चण्डपराक्रमम् । शक्रादयश्च विष्ण्वन्ता दश दिक्चक्रनायकाः ॥ ८३॥ शक्तिरूपास्तत्र पर्वण्यधस्तात्कृतसंश्रयाः । वज्रे शक्तिं कालदण्डमसिं पाशं ध्वजं तथा ॥ ८४॥ गदां त्रिशूलं दर्भास्त्रं वज्रं च दधतस्त्वमी । सेवन्ते मन्त्रिनाथां तां नित्यं भक्तिसमन्विताः ॥ ८५॥ भण्डासुरान्दुर्दुरूढान्निहन्तुं विश्वकण्टकान् । मन्त्रिनाथाश्रयद्वारा ललिताज्ञापनोत्सुकाः ॥ ८६॥ गीतिचक्ररथोपान्ते दिक्पालाः संश्रयं ददुः । सर्वेषां चैव देवानां मन्त्रिणी द्वारतः कृता ॥ ८७॥ विज्ञापना महादेव्याः कार्यसिद्धिं प्रयच्छति । राक्षी विज्ञापना चेति प्रधानद्वारतः कृता ॥ ८८॥ यथा खलु फलप्राप्तिः सेवकानां हि जायते । अन्यथा कथमेतेषां सामर्थ्यं ज्वलितौजसः ॥ ८९॥ अपधृष्यप्रभावायाः श्रीदेव्या उपसर्पणे । सा हि सङ्गीतविद्येति श्रीदेव्या अतिवल्लभा ॥ ९०॥ नातिलङ्घति च क्वापि तदुक्तं कार्यसिद्धिषु । श्रीदेव्याःशक्तिसाम्राज्ये सर्वकर्माणि मन्त्रिणी ॥ ९१॥ अकर्त्तुमन्यथा कर्तुं कर्तुं चैव प्रगल्भते । तस्मात्सर्वेऽपि दिक्पालाः श्रीदेव्या जयकाङ्क्षिणः । तस्याः प्रधानभूतायाः सेवामेव वितन्वते ॥ ९२॥ इति श्रीललितादेव्याश्चक्रराजरथोत्तमे । पर्वस्थितानां देवीनां नामानि कथितान्यलम् ॥ ९३॥ भण्डासुरस्य संहारे तस्या दिव्यायुधान्यपि । प्रोक्तानि गेयचक्रस्य पर्वदेव्याश्च कीर्तिताः ॥ ९४॥ इमानि सर्वदेवीनां नामान्याकर्णयन्ति ये । सर्वपापविनिर्मुक्तास्ते स्युर्विजयिनो नराः ॥ ९५॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीललितोपाख्याने श्रीचक्रराजरथज्ञेयचक्ररथपर्वस्थदेवतानामप्रकाशनं नामैकोनविंशोऽध्यायः ॥ १९॥

अथ किरिचक्ररथदेवताप्रकाशनं नाम विंशोऽध्यायः ॥ २०॥

हयग्रीव उवाच । किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रिताः । देवताश्च श‍ृणु प्राज्ञ नाम यच्छृण्वतां जयः ॥ १॥ प्रथमं पर्वबिन्द्वाख्यं सम्प्राप्ता दण्डनायिका । सा तत्र जगदुद्दण्डकण्टकव्रातघस्मरी ॥ २॥ नानाविधाभिर्ज्वालाभिर्नर्तयन्ती जयश्रियम् ॥ ३॥ उद्दण्डपोत्रनिर्घातनिर्भिन्नोद्धतदानवाः । दंष्ट्राबालमृगाङ्कांशुविभावनविभावरी ॥ ४॥ प्रावृषेण्यपयोवाहव्यूहनीलवपुर्ल्लता । किरिचक्ररथेन्द्रस्य सालङ्कारायते सदा । पोत्रिणी पुत्रिताशेषविश्वावर्तकदम्बिका ॥ ५॥ तस्यैव रथनाभस्य द्वितीयं पर्व संश्रिताः । जृम्भिनी मोहिनी चैव स्तम्भिनी तिस्र एव हि । उत्फुल्लदाडिमीप्रख्यं सर्वदानवमर्दनाः ॥ ६॥ मुसलं च हलं हालापात्रं मणिगणार्पितम् । ज्वलन्माणिक्यवलयैर्बि भ्राणाः पाणिपल्लवैः ॥ ७॥ अतितीक्ष्णकरालाक्ष्यो ज्वालाभिर्दैत्यसैनिकान् । दहन्त्य इव निःशङ्कं सेवन्ते सूकराननाम् ॥ ८॥ किरिचक्ररथेन्द्रस्य तृतीयं पर्व संश्रिताः । अन्धिन्याद्याः पञ्च देव्यो देवीयन्त्रकृतास्पदाः ॥ ९॥ कठोरेणाट्टहासेन भिन्दन्त्यो भुवनत्रयम् । ज्वाला इव तु कल्पाग्नेरङ्गनावेषमाश्रिताः ॥ १०॥ भण्डासुरस्य सर्वेषां सैन्यानां रुधिरप्लुतिम् । लिलिक्षमाणा जिह्वाभिर्लेलिहानाभिरुज्ज्वलाः ॥ ११॥ सेवन्ते सततं दण्डनाथामुद्दण्डविक्रमाम् । किरिचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः ॥ १२॥ ब्रह्माद्याः पञ्चमीवर्ज्या अष्टमीवर्जिता अपि । षडेव देव्यः षट्चक्रज्वलज्ज्वालाकलेवराः ॥ १३॥ महता विक्रमौघेण पिबन्त्य इव दानवान् । आज्ञया दण्डनाथायास्तं प्रदेशमुपासते ॥ १४॥ तस्यैव पर्वणोऽधस्तात्त्वरिताः स्थानमाश्रिताः । यक्षिणी शङ्खिनी चैव लाकिनी हाकिनी तथा ॥ १५॥ शाकिनी डाकिनी चैव तासामैक्यस्वरूपिणी । हाकिनी सप्तमीत्येताश्चण्डदोर्दण्डविक्रमाः ॥ १६॥ पिबन्त्य इव भूतानि पिबन्त्य इव मेदिनीम् । त्वचं रक्तं तथा मांसं मेदोऽस्थि च विरोधिनाम् ॥ १७॥ मज्जानमथ शुक्रं च पिबन्त्यो विकटाननाः । निष्ठुरैः सिंहनादैश्च पूरयन्त्यो दिशो दश ॥ १८॥ धातुनाथा इति प्रोक्ता अणिमाद्यष्टसिद्धिदाः । मोहने मारणे चैव स्तम्भने ताडने तथा ॥ १९॥ भक्षणे दुष्टदैत्यानामामूलं च निकृन्तने । पण्डिताः खण्डिताशेषविपदो भक्तिशालिषु ॥ २०॥ धातुनाथा इति प्रोक्ताः सर्वधातुषु संस्थिताः । सप्तापि वारिधीनूर्मिमालासञ्चुम्बिताम्बरान् ॥ २१॥ क्षणार्धेनैव निष्पातुं निष्पन्नबहुसाहसाः । शकटा कारदन्ताश्च भयङ्करविलोचनाः ॥ २२॥ स्वस्वामिनीद्रो हकृतां स्वकीयसमयद्रुहाम् । वैदिकद्रो हणादेव द्रो हिणां वीरवैरिणाम् ॥ २३॥ यज्ञद्रो हकृतां दुष्टदैत्यानां भक्षणे समाः । नित्यमेव च सेवन्ते पोत्रिणीं दण्डनायिकाम् ॥ २४॥ तस्यैव पर्वणः पार्श्वे द्वितीये दिव्यमन्दिरे । क्रोधिनी स्तम्भिनी ख्याते वर्तेते देवते उभे ॥ २५॥ चामरे वीजयन्त्यौ च लोलकङ्कणदोर्लते । देवद्विषां चमूरक्तहालापानमहोद्धते ॥ २६॥ सदा विघूर्णमानाक्ष्यौ सदा प्रहसितानने । अथ तस्य रथेन्द्रस्य किरिचक्राश्रितस्य च ॥ २७॥ पार्श्वद्वयकृतावासमायुधद्वन्द्वमुत्तमम् । हलं च मुसलं चैव देवतारूपमास्थितम् ॥ २८॥ स्वकीयमुकुटस्थाने स्वकीयायुधविग्रहम् । आबिभ्राणं जग षिघस्मरं विबुधैः स्मृतम् ॥ २९॥ एतदायुधयुग्मेन ललिता दडनायिका । खण्डयिष्यति सङ्ग्रामं विषङ्गं नामदानहम् ॥ ३०॥ तस्यैव पर्वणो दण्डनाथाया अग्रसीमनि । वर्त्तमानो महाभीमः सिंहो नादैर्ध्वनन्नभः ॥ ३१॥ दंष्ट्राकटकटात्कार बधिरीकृतदिङ्मुखः । चण्डोच्चण्ड इति ख्यातश्चतुर्हस्तस्त्रिलोचनः ॥ ३२॥ शूलखड्गप्रेतपाशान्दधानो दीप्तविग्रहः । सदा संसेवते देवीं पश्यन्नेव हि पोत्रिणीम् ॥ ३३॥ किरिचक्ररथेन्द्रस्य षष्ठं पर्व समाश्रिताः । वार्त्ताल्याद्या अष्ट देव्यो दिक्ष्वष्टासूपविश्रुताः ॥ ३४॥ अष्टपर्वतनिष्पातघोरनिर्घातनिःस्वनाः । अष्टनागस्फुरद्भूषा अनष्टबलतेजसः ॥ ३५॥ प्रकृष्टदोष्प्रकाण्डोष्महुतदानवकोटयः । सेवन्ते ललितां देव्यो दण्डनाथामहर्निशम् ॥ ३६॥ तासामाख्याश्च विख्याताः समाकर्णय कुम्भज । वार्ताली चैव वाराही सा वाराहमुखी परा ॥ ३७॥ अन्धिनी रोधिनी चैव जृम्भिणी चैव मोहिनी । स्तम्भिनीति रिपुक्षोभस्तम्भनोच्चाटनक्षमाः ॥ ३८॥ तासां च पर्वणो वामभागे सततसंस्थितिः । दण्डनाथोपवाह्यस्तु कासरो धूसराकृतिः ॥ ३९॥ अर्धक्रोशायतः श‍ृङ्गद्वितये क्रोशविग्रहः । खड्गवन्निष्ठुरैर्लोमजातैः संवृतविग्रहः ॥ ४०॥ कालदण्डवदुच्चण्डबालकाण्डभयङ्करः । नीलाञ्जनाचलप्रख्यो विकटोन्नतरुष्टभूः ॥ ४१॥ महानीलगिरिश्रेष्ठगरिष्ठस्कन्धमण्डलः । प्रभूतोष्मलनिश्वासप्रसराकम्पिताम्बुधिः ॥ ४२॥ घर्घरध्वनिना कालमहिषं विहसन्निव । वर्त्तते खुरविक्षिप्तपुष्कलावर्तवारिदः ॥ ४३॥ तस्यैव पर्वणोऽधस्ताच्चित्रस्थानकृतालयाः । इन्द्रा दयोऽनेकभेदा दिशामष्टकदेवताः ॥ ४४॥ ललितायां कार्यसिद्धिं विज्ञापयितुमागताः । इन्द्रश्चाप्सरसश्चैव स चतुष्षष्टिकोटयः ॥ ४५॥ सिद्ध अग्निश्च साध्याश्च विश्वेदेवास्तथापरे । विश्वकर्मा मयश्चैव मातरश्च बलोन्नताः ॥ ४६॥ रुद्राश्च परिचाराश्च रुद्राश्चैव पिशाचकाः । क्रन्दन्ति रक्षसां नाथा राक्षसा बहवस्तथा ॥ ४७॥ मित्राश्च तत्र गन्धर्वाः सदा गानविशारदाः । विश्वावसुप्रभृतयो विख्यातास्तत्पुरोगमाः ॥ ४८॥ तथा भूतगणाश्चान्ये वरुणो वासवः परे । विद्याधराः किन्नराश्च मारुतेश्वर एव च ॥ ४९॥ तथा चित्ररथश्चैव रथकारककारकाः । तुम्बुरुर्नारदो यक्षः सोमो यक्षेश्वरस्तथा ॥ ५०॥ देवैश्च भगवांस्तत्र गोविन्दः कमलापतिः । ईशानश्च जगच्चक्रभक्षकः शूलभीषणः ॥ ५१॥ ब्रह्मा चैवाश्विनीपुत्रो वैद्यविद्याविशारदौ । धन्वन्तरिश्च भगवानथान्ये गणनायकाः ॥ ५२॥ कटकाण्डगलद्दान सन्तर्पितमधुव्रताः । अनन्तो वासुकिस्तक्षः कर्कोटः पद्म एव च ॥ ५३॥ महापद्मः शङ्खपालो गुलिकः सुबलस्तथा । एते नागेश्वराश्चैव नागकोटिभिरावृताः ॥ ५४॥ एवम्प्रकारा बहवो देवतास्तत्र जाग्रति । पूर्वादिदिशमारभ्य परितः कृतमन्दिराः ॥ ५५॥ तत्रैव देवताश्चक्रे चक्राकारा मरुद्दिशः । आश्रित्य किल वर्तन्ते तदधिष्ठातृदेवताः ॥ ५६॥ जृम्भिणी स्तम्भिनी चैव मोहिनी तिस्र एव च । तस्यैव पर्वणः प्रान्ते किरिचक्रस्य भास्वतः ॥ ५७॥ कपालं च गदां बिभ्रदूर्ध्वकेशो महावपुः । पातालतलजम्बालबहुला कारकालिमा ॥ ५८॥ अट्टहासमहावज्रदीर्णब्रह्माण्डमण्डलः । भिन्दन्डमरुकध्वानै रोदसीकन्दरोदरम् ॥ ५९॥ फूत्कारीत्रिपुरायुक्तं फणिपाशं करे वहन् । क्षेत्रपालः सदा भाति सेवमानः किटीश्वरीम् ॥ ६०॥ तस्यैव च समीपस्थस्तस्या वाहनकेसरी । यमारुह्य प्रववृते भण्डासुरवधैषिणी ॥ ६१॥ प्रागुक्तमेव देवेशीवाहसिंहस्य लक्षणम् । तस्यैव पर्वणोऽधस्ताद्दण्डनाथासमत्विषः ॥ ६२॥ दण्डिनीसदृशाशेषभूषणायुधमण्डिताः । शम्याः क्रोडाननाश्चन्द्ररेखोत्तंसितकुन्तलाः ॥ ६३॥ हलं च मुसलं हस्ते घूर्णयन्त्यो मुहुर्मुहुः । ललिताद्रो हिणां श्यामाद्रो हिणां स्वामिनीद्रुहाम् ॥ ६४॥ रक्तस्रोतोभिरुत्कूलैः पूरयन्त्यः कपालकम् । निजभक्तद्रो हकृता मन्त्रमालाविभूषणाः ॥ ६५॥ स्वगोष्ठीसमयाक्षेपकारिणां मुण्डमण्डलैः । अखण्डरक्तविच्छर्दैर्बिभ्रत्यो वक्षसि स्रजः ॥ ६६॥ सहस्रं देवताः प्रोक्ताः सेवमानाः किटीश्वरीम् ॥ ६७॥ तासां नामानि सर्वासां दण्डिन्याः कुम्भसम्भव । सहस्रनामाध्याये तु वक्ष्यन्ते नाधुना पुनः ॥ ६८॥ अथ तासां देवतानां कोलास्यानां समीपतः । वाहनं कृष्णसारङ्गो दण्डिन्याः समये स्थितः ॥ ६९॥ क्रोशार्धार्द्धायतः श‍ृङ्गे तदर्धार्धायतो मुखे । क्रोशप्रमाणपादश्च सदा चोद्धृतवालधिः ॥ ७०॥ उदरे धवलच्छायो हुङ्कारेण महीयसा । हसन्मारुतवाहस्य हरिणस्य पराक्रमम् ॥ ७१॥ तस्यैव पर्वणो देशे वर्त्तते वाहनोत्तमम् । किरिचक्ररथेन्द्रस्य स्थितस्तत्रैव पर्वणि ॥ ७२॥ वर्त्तते मदिरासिन्धुर्देवतारूपमास्थिता । माणिक्यगिरिवच्छोणं हस्ते पिशितपिण्डकम् ॥ ७३॥ दधाना घूर्णमा नाक्षी हेमाम्भोजस्रगावृता । मदशक्त्या समाश्लिष्टा धृतरक्तसरोजया ॥ ७४॥ यदायदा भण्डदैत्यः सङ्ग्रामे सम्प्रवर्तते । युद्धस्वेद मनुप्राप्ताः शक्तयः स्युः पिपासिताः ॥ ७५॥ तदातदा सुरासिन्धुरात्मानं बहुधा क्षिपन् । रणे खेदं देवतानामञ्जसापाकरिष्यति ॥ ७६॥ तदप्यद्भुतमे वर्षे भविष्यति न संशयः । तदा श्रोष्यसि सङ्ग्रामे कथ्यमानं मया मुदा ॥ ७७॥ तस्यैव पर्वणोऽधस्तादष्टदिक्ष्वध एव हि । उपर्यपि कृतावासा हेतुकाद्या दश स्मृताः ॥ ७८॥ महान्तो भैरवश्रेष्ठाः ख्याता विपुलविक्रमाः । उद्दीप्तायुत तेजोभिर्द्दिवा दीपितभानवः ॥ ७९॥ कल्पान्तकाले दण्डिन्या आज्ञया विश्वघस्मराः । अत्युदग्रप्रकृतयो रददष्टौष्ठसम्पुटाः ॥ ८०॥ त्रिशूलाग्रविनिर्भिन्नमहावारिदमण्डलाः । हेतुकस्त्रिपुरारिश्च तृतीयश्चाग्निभैरवः ॥ ८१॥ यमजिह्वैकपादौ च तथा कालकरालकौ । भीमरूपो हाटकेशस्तथैवाचलनामवान् ॥ ८२॥ एते दशैव विख्याता दशकोटिभटान्विताः । तस्यैव किरिचक्रस्य वर्तन्ते पर्वसीमनि ॥ ८३॥ एवं हि दण्डनाथायाः किरिचक्रस्य देवताः । जृम्भिण्याद्यचलेन्द्रा तां प्रोक्तास्त्रैलोक्यपावनाः ॥ ८४॥ तत्रत्यैर्देवतावृन्दैर्बहवस्तत्र सङ्गरे । दानवा मारयिष्यन्ते पास्यन्ते रक्तवृष्टयः ॥ ८५॥ इत्थं बहुविधत्राणं पर्वस्थैर्देवतागणैः । किरिचक्रं दण्डनेत्र्या रथरत्नं चचाल ह ॥ ८६॥ चक्रराजरथो यत्र तत्र गेयरथोत्तमः । यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः ॥ ८७॥ एतद्रथत्रयं तत्र त्रैलोक्यमिव जङ्गमम् । शक्तिसेनासहस्रस्यान्तश्चचार तदा शुभम् ॥ ८८॥ मेरुमन्दरविन्ध्यानां समवाय इवाभवत् । महाघोषः प्रववृते शक्तीनां सैन्यमण्डले । चचाल वसुधा सर्वा तच्चक्ररवदारिता ॥ ८९॥ ललिता चक्रराजाख्या रथनाथस्य कीर्तिताः । षट्सारथय उद्दण्डपाशग्रहणकोविदाः ॥ ९०॥ यत्र गेयरथस्तत्र किरिचक्ररथोत्तमम् । इति देवी प्रथमतस्तथा त्रिपुरभैरवी ॥ ९१॥ संहारभैरवश्चान्यो रक्तयोगिनिवल्लभः । सारसः पञ्चमश्चैव चामुण्डा च तथा परा ॥ ९२॥ एतासु देवतास्तत्र रथसारथयः स्मृताः । गेयचक्ररथेन्द्रस्य सारथिस्तु हसन्तिका ॥ ९३॥ किरिचक्ररथेन्द्रस्य स्तम्भिनी सारथिः स्मृता । दशयोजनमुन्नम्रो ललितारथपुङ्गवः ॥ ९४॥ सप्तयोजनमुच्छ्रायो गीतचक्ररथोत्तमः । षड्योजनसमुन्नम्रो किरिचक्ररथो मुने ॥ ९५॥ महामुक्तातपत्रं तु दशयोजनविस्तृतम् । वर्तते ललितेशान्या रथ एव न चान्यतः ॥ ९६॥ तदेव शक्तिसाम्राज्यसूचकं परिकीर्तितम् । सामान्यमातपत्रं तु रथद्वन्द्वेपि वर्तते ॥ ९७॥ अथ सा ललितेशानी सर्वशक्तिमहेश्वरी । महासाम्राज्यपदवीमारूढा परमेश्वरी ॥ ९८॥ चचाल भण्डदैत्यस्य क्षयसिद्ध्यभिकाङ्क्षिणी । शब्दायन्ते दिशः सर्वाः कम्पते च वसुन्धरा ॥ ९९॥ क्षुभ्यन्ति सर्वभूतानि ललितेशाविनिर्गमे । देवदुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः ॥ १००॥ विश्वावसुप्रभृतयो गन्धर्वाः सुरगायकाः । तुम्बुरुर्नारदश्चैव साक्षादेव सरस्वती ॥ १०१॥ जयमङ्गल पद्यानि पठन्तः पटुगीतिभिः । हर्षसम्फुल्लवदनाः स्फुरत्पुलकभूषणाः । मुहुर्जयजयेत्येवं स्तुवाना ललितेश्वरीम् ॥ १०२॥ हर्षेणाढ्या मदोन्मत्ताः प्रनृत्यन्तः पदेपदे । सप्तर्षयो वशिष्ठाद्या ऋग्यजुः सामरूपिभिः ॥ १०३॥ अथर्वरूपैर्मन्त्रैश्च वर्धयन्तो जयश्रियम् । हविषेव महावह्निशिखामत्यन्तपाविनीम् ॥ १०४॥ आशीर्वादेन महता वर्धयामासुरुत्तमाः । तैः स्तूयमाना ललिता राजमाना रथोत्तमे ॥ १०५॥ भण्डासुरं विनिर्जेतुमुद्दण्डैः सह सैनिकैः ॥ १०६॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने किरिचक्ररथदेवताप्रकाशनं नाम विंशोऽध्यायः ॥ २०॥

अथ भण्डासुराहङ्कारो नामैकविंशोऽध्यायः ॥ २१॥

आकर्ण्य ललितादेव्या यात्रानिगमनिस्वनम् । महान्तं क्षोभमायाता भण्डासुरपुरालयाः ॥ १॥ यत्र चास्ति दुराशस्य भण्डदैत्यस्य दुर्धियः । महेन्द्रपर्वतोपान्ते महार्णवतटे पुरम् ॥ २॥ तत्तु शून्यकनाम्नैव विख्यातं भुवनत्रये । विषङ्गाग्रजदैत्यस्य सदावासः किलाभवत् ॥ ३॥ तस्मिन्नेव पुरे तस्य शतयोजनविस्तरे । वित्रेसुर सुराः सर्वे श्रीदेव्यागमसम्भ्रमात् ॥ ४॥ शतयोजनविस्तीर्णं तत्सर्वं पुरमासुरम् । धूमैरिवावृतमभूदुत्पातजनितैर्मुहुः ॥ ५॥ अकाल एव निर्भिन्ना भित्तयो दैत्यपत्तने । घूर्णमाना पतन्ति स्म महोल्का गगनस्थलात् ॥ ६॥ उत्पातानां प्राथमिको भूकम्पः पर्यवर्तत । मही जज्वाल सकला तत्र शून्यकपत्तने ॥ ७॥ अकाल एव हृत्कम्पं भेजुर्दैत्यपुरौकसः । ध्वजाग्रवर्तिनः कङ्कगृध्राश्चैव बकाः खगाः ॥ ८॥ आदित्यमण्डले दृष्ट्वादृष्ट्वा चक्रन्दुरुच्चकैः । क्रव्यादा बहवस्तत्र लोचनैर्नावलोकिताः ॥ ९॥ मुहुराकाशवाणीभिः परुषाभिर्बभाषिरे । सर्वतो दिक्षु दृश्यन्ते केतवस्तु मलीमसाः ॥ १०॥ धूमायमानाः प्रक्षोभजनका दैत्यरक्षसाम् । दैत्यस्त्रीणां च विभ्रष्टा अकाले भूषणस्रजः ॥ ११॥ हाहेति दूरं क्रन्दन्त्यः पर्यश्रु समरोदिषुः । दपणानां वर्मणां च ध्वजानां खड्गसम्पदाम् ॥ १२॥ मणीनामम्बराणां च मालिन्यमभवन्मुहुः । सौधेषु चन्द्रशालासु केलिवेश्मसु सर्वतः ॥ १३॥ अट्टालकेषु गोष्ठेषु विपणेषु सभासु च । चतुष्किकास्वलिन्देषु प्रग्रीवेषु वलेषु च ॥ १४॥ सर्वतोभद्रवासेषु नन्द्यावर्तेषु वेश्मसु । विच्छन्दकेषु सङ्क्षुब्धेष्ववरोधनपालिषु । स्वस्तिकेषु च सर्वेषु गर्भागारपुटेषु च ॥ १५॥ गोपुरेषु कपाटेषु वलभीनां च सीमसु । वातायनेषु कक्ष्यासु धिष्ण्येषु च खलेषु च ॥ १६॥ सर्वत्र दैत्य नगरवासिभिर्जनमण्डलैः । अश्रूयन्त महाघोषाः परुषा भूतभाषिताः ॥ १७॥ शिथिली सवतो जाता घोरपर्णा भयानका । करटैः कटुकालापैरवलोकि दिवाकरः । आराविषु करोटीनां कोटयश्चापतन्भुवि ॥ १८॥ अपतन्वेदिमध्येषु बिन्दवः शोणिताम्भसाम् । केशौघकाश्च निष्पेतुः सर्वतो धूमधूसराः ॥ १९॥ भौमान्तरिक्षदिव्यानामुत्पातानामिति व्रजम् । अवलोक्य भृशं त्रस्ताः सर्वे नगरवासिनः । निवेदयामासुरमी भण्डाय प्रथितौजसे ॥ २०॥ स च भण्डः प्रचण्डोत्थैस्तैरुत्पातकदम्बकैः । असञ्जातधृतिभ्रंशो मन्त्र स्थानमुपागमत् ॥ २१॥ मेरोरिव वपुर्भेदं बहुरत्नविचित्रितम् । अध्यासामास दैत्येन्द्रः सिंहासनमनुत्तमम् ॥ २२॥ स्फुरन्मुकुटलग्नानां रत्नानां किरणैर्घनैः । दीपयन्नखिलाशान्तानद्युतद्दानवेश्वरः ॥ २३॥ एकयोजनविस्तारे महत्यास्थानमण्डपे । तुङ्गसिंहासनस्थं तं सिषेवाते तदानुजौ ॥ २४॥ विशुक्रश्च विषङ्गश्च महाबलपराक्रमौ । त्रैलोक्यकण्टकीभूतभुजदण्डभयङ्करौ ॥ २५॥ अग्रजस्य सदैवाज्ञामविलङ्घ्य मुहुर्मुहुः । त्रैलोक्यविजये लब्धं वर्धयन्तौ महद्यशः ॥ २६॥ न तेन शिरसा तस्य मृदूनन्तौ पादपीठिकाम् । कृताञ्जलिप्रणामौ च समुपाविशतां भुवि ॥ २७॥ अथास्थाने स्थिते तस्मिन्नमरद्वेषिणां वरे । सर्वे सामन्तदैत्येन्द्रा स्तं द्रष्टुं समुपागताः ॥ २८॥ तेषामेकैकसैन्यानां गणना न हि विद्यते । स्वंस्वं नाम समुच्चार्य प्रणेमुर्भण्डकेश्वरम् ॥ २९॥ स च तानसुरान्सर्वानतिधीरकनीनकैः । सम्भावयन्समालोकैः कियन्तं चित्क्षणं स्थितः ॥ ३०॥ अवोचत विशुक्रस्तमग्रजं दानवेश्वरम् । मथ्यमानमहासिन्धुसमानार्गलनिस्वनः ॥ ३१॥ देवत्वदीयदोर्द्दण्डविध्वस्तबलविक्रमाः । पापिनः पामराचारा दुरात्मानः सुराधमाः ॥ ३२॥ शरण्यमन्यतः क्वापि नाप्नुवन्तो विषादिनः । ज्वलज्ज्वालाकुले वह्नौ पतित्वा नाशमागताः ॥ ३३॥ तस्माद्देवात्समुत्पन्ना काचित्स्त्री बलगर्विता । स्वयमेव किलास्राक्षुस्तां देवा वासवादयः ॥ ३४॥ तैः पुनः प्रबलोत्साहैः प्रोत्साहितपराक्रमाः । बहुस्त्रीपरिवाराश्च विविधायुधमण्डिताः ॥ ३५॥ अस्माञ्जेतुं किलायान्ति हा कष्टं विधिवैशसम् । अबलानां समूहश्चेद्बलिनोऽस्मान्विजेष्यते ॥ ३६॥ तर्हि पल्लवभङ्गेन पाषाणस्य विदारणम् । ऊह्यमानमिदं हन्तुं परिहासाय कल्प्यते ॥ ३७॥ विडम्बना न किमसौ लज्जाकरमिदं न किम् । अस्मत्सैनिकनासीरभटेभ्योऽपि भवेद्भयम् ॥ ३८॥ कातरत्वं समापन्नाः शक्राद्यास्त्रिदिवौकसः । ब्रह्मादयश्च निर्विण्णविग्रहा मद्बलायुधैः ॥ ३९॥ विष्णोश्च का कथैवास्ते वित्रस्तः स महेश्वरः । अन्येषामिह का वार्ता दिक्पालास्ते पलायिताः ॥ ४०॥ अस्माकमिषुभिस्तीक्ष्णैरदृश्यैरङ्गपातिभिः । सर्वत्र विद्धवर्माणो दुर्मदा विबुधाः कृताः ॥ ४१॥ तादृशानामपि महापराक्रमभुजोष्मणाम् । अस्माकं विजयायाद्य स्त्री काचिदभिधावति ॥ ४२॥ यद्यपि स्त्री तथाप्येषा नावमान्या कदाचन । अल्पोऽपि रिपुरात्मज्ञैर्नावमान्यो जिगीषुभिः ॥ ४३॥ तस्मात्तदुत्सारणार्थं प्रेषणीयास्तु किङ्कराः । सकचग्रहमाकृष्य सानेतव्या मदोद्धता ॥ ४४॥ देव त्वदीय शुद्धान्तर्वर्तिनीनां मृगीदृशाम् । चिरेण चेटिकाभावं सा दुष्टा संश्रयिष्यति ॥ ४५॥ एकैकस्माद्भटादस्मात्सैन्येषु परिपन्थिनः । शङ्कते खलु वित्रस्तं त्रैलोक्यं सचराचरम् ॥ ४६॥ अन्यद्देवस्य चित्तं तु प्रमाणमिति दानव । निवेद्य भण्डदैत्यस्य क्रोधं तस्य व्यवीवृधत् ॥ ४७॥ विषङ्गस्तु महासत्त्वो विचारज्ञो विचक्षणः । इदमाह महादैत्यमग्रजन्मानमुद्धतम् ॥ ४८॥ देव त्वमेव जानासि सर्वं कार्यमरिन्दम । न तु ते क्वापि वक्तव्यं नीतिवर्त्मनि वर्तते ॥ ४९॥ सर्वं विचार्य कर्तव्यं विचारः परमा गतिः । अविचारेण चेत्कर्म समूलमवकृन्तति ॥ ५०॥ परस्य कटके चाराः प्रेषणीयाः प्रयत्नतः । तेषां बलाबलं ज्ञेयं जयसंसिद्धिमिच्छता ॥ ५१॥ चारचक्षुर्दृढप्रज्ञः सदाशङ्कितमानसः । अशङ्किताकारवांश्च गुप्तमन्त्रः स्वमन्त्रिषु ॥ ५२॥ षडुपायान्प्रयुञ्जानः सर्वत्राभ्यर्हिते पदे । विजयं लभते राजा जाल्मो मक्षु विनश्यति ॥ ५३॥ अविमृश्यैव यः कश्चिदारम्भः स विनाशकृत् । विमृश्य तु कृतं कर्म विशेषाज्जयदायकम् ॥ ५४॥ तिर्यगित्यपि नारीति क्षुद्रा चेत्यपि राजभिः । नावज्ञा वैरिणां कार्या शक्तेः सर्वत्र सम्भवः ॥ ५५॥ स्तम्भोत्पन्नेन केनापि नरतिर्यग्वपुर्भृता । भूतेन सर्वभूतानां हिरण्यकशिपुर्हतः ॥ ५६॥ पुरा हि चण्डिका नाम नारी मायाविजृम्भिणी । निशुम्भशुम्भौ महिषं व्यापादितवती रणे ॥ ५७॥ तत्प्रसङ्गेन बहवस्तया दैत्या विनाशिताः । अतो वदामि नावज्ञा स्त्रीमात्रे क्रियतां क्वचित् ॥ ५८॥ शक्तिरेव हि सर्वत्र कारणं विजयश्रियः । शक्तेराधारतां प्राप्तैः स्त्रीपुंलिङ्गैर्न नो भयम् ॥ ५९॥ शक्तिस्तु सर्वतो भाति संसारस्य स्वभावतः । तर्हि तस्या दुराशायाः प्रवृत्तिर्ज्ञायतां त्वया ॥ ६०॥ केयं कस्मात्समुत्पन्ना किमाचारा किमाश्रया । किम्बला किंसहाया वा देव तत्प्रविचार्यताम् ॥ ६१॥ इत्युक्तः स विषङ्गेण को विचारो महौजसाम् । अस्मद्बले महासत्त्वा अक्षौहिण्यधिपाः शतम् ॥ ६२॥ पातुं क्षमास्ते जलधीनलं दग्धुं त्रिविष्टपम् । अरे पापसमाचार किं वृथा शङ्कसे स्त्रियः ॥ ६३॥ तत्सर्वं हि मया पूर्वं चारद्वारावलोकितम् । अग्रे समुदिता काचिल्ललितानामधारिणी ॥ ६४॥ यथार्थनामवत्येषा पुष्पवत्पेशलाकृतिः । न सत्त्वं न च वीर्यं वा न सङ्ग्रामेषु वा गतिः ॥ ६५॥ सा चाविचारनिवहा किन्तु मायापरायणा । तत्सत्त्वेनाविद्यमानं स्त्रीकदम्बकमात्मनः ॥ ६६॥ उत्पादितवती किं ते न चैवं तु विचेष्टते । अथ वा भवदुक्तेन न्यायेनास्तु महद्बलम् ॥ ६७॥ त्रैलोक्योल्लङ्घिमहिमा भण्डः केन विजीयते ॥ ६८॥ इदानीमपि मद्बाहुबलसम्मर्दमूर्च्छिताः । श्वसितुं चापि पटवो न कदाचन नाकिनः ॥ ६९॥ केचित्पातालगर्भेषु केचिदम्बुधिवारिषु । केचिद्दिगन्तकोणेषु केचित्कुञ्जेषु भूभृताम् ॥ ७०॥ विलीना भृशवित्रस्तास्त्यक्तदारसुतश्रियः । भ्रष्टाधिकाराः पशवश्छन्नवेषाश्चरन्ति ते ॥ ७१॥ एतादृशं न जानाति मम बाहुपराक्रमम् । अबला न चिरोत्पन्ना तेनैषा दर्पमश्नुते ॥ ७२॥ न जानन्ति स्त्रियो मूढा वृथा कल्पितसाहसाः । विनाशमनुधावन्ति कार्याकार्यविमोहिताः ॥ ७३॥ अथ वा तां पुरस्कृत्य यद्यागच्छन्ति नाकिनः । यथा महोरगाः सिद्धाः साध्या वा युद्धदुर्मदाः ॥ ७४॥ ब्रह्मा वा पद्मनाभो वा रुद्रो वापि सुराधिपः । अन्ये वा हरितां नाथास्तान्सम्पेष्टुमहं पटुः ॥ ७५॥ अथ वा मम सेनासु सेनान्यो रणदुर्मदाः । पक्वकर्करिकापेषमवपेक्ष्यन्ति वैरिणः ॥ ७६॥ कुटिलाक्षः कुरण्डश्च करङ्कः कालवाशितः । वज्रदन्तो वज्रमुखो वज्रलोमा बलाहकः ॥ ७७॥ सूचीमुखः फलमुखो विकटो विकटाननः । करालाक्षः कर्कटको मदनो दीर्घजिह्वकः ॥ ७८॥ हुम्बको हलमुल्लुञ्चः कर्कशः कल्किवाहनः । पुल्कसः पुण्ड्रकेतुश्च चण्डबाहुश्च कुक्कुरः ॥ ७९॥ जम्बुकाक्षो जृम्भणश्च तीक्ष्णश‍ृङ्गस्त्रिकण्टक । चतुर्गुप्तश्चतुर्बाहुश्चकाराक्षश्चतुःशिराः ॥ ८०॥ वज्रघोषश्चोर्ध्वकेशो महामायामहाहनुः । मखशत्रुर्मखास्कन्दी सिंहघोषः शिरालकः ॥ ८१॥ अन्धकः सिन्धुनेत्रश्च कूपकः कूपलोचनः । गुहाक्षो गण्डगल्लश्च चण्डधर्मो यमान्तकः ॥ ८२॥ लडुनः पट्टसेनश्च पुरजित्पूर्वमारकः । स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः ॥ ८३॥ अतिमायो बृहन्माय उपमाय उलूकजित् । पुरुषेणो विषेणश्च कुन्तिषेणः परूषकः ॥ ८४॥ मलकश्च कशूरश्च मङ्गलो द्रघणस्तथा । कोल्लाटः कुजिलाश्वश्च दासेरो बभ्रुवाहनः ॥ ८५॥ दृष्टहासो दृष्टकेतुः परिक्षेप्तापकञ्चुकः । महामहो महादंष्ट्रो दुर्गतिः स्वर्गमेजयः ॥ ८६॥ षट्केतुः षड्वसुश्चैव षड्दन्त षट्प्रियस्तथा । दुःशठो दुर्विनीतश्च छिन्नकर्णश्च मूषकः ॥ ८७॥ अट्टहासी महाशी च महाशीर्षो मदोत्कटः । कुम्भोत्कचः कुम्भनासः कुम्भग्रीवो घटोदरः ॥ ८८॥ अश्वमेढ्रो महाण्डश्च कुम्भाण्डः पूतिनासिकः । पूतिदन्तः पूतिचक्षुः पूत्यास्यः पूतिमेहनः ॥ ८९॥ इत्येवमादयः शूरा हिरण्यकशिपोः समाः । हिरण्याक्ष समाश्चैव मम पुत्रा महाबलाः ॥ ९०॥ एकैकस्य सुतास्तेषु जाताः शूराः परःशतम् । सेनान्यो मे मदोद्वृत्ता मम पुत्रैरनुद्रुताः ॥ ९१॥ नाशयिष्यन्ति समरे प्रोद्धतानमराधमान् । ये केचित्कुपिता युद्धे सहस्राक्षौहिणी वराः । भस्मशेषा भवेयुस्तै हा हन्त किमुताबला ॥ ९२॥ मायाविलासाः सर्वेऽपि तस्याः समरसीमनि । महामायाविनोदाश्च कुप्युस्ते भस्मसाद्बलम् ॥ ९३॥ तद्वृथा शङ्कया खिन्नं मा ते भवतु मानसम् । इत्यक्त्वा भण्डदैत्येन्द्रः समुत्थाय नृपासनात् ॥ ९४॥ उवाच निजसेनान्यं कुटिलाक्षं महाबलम् । उत्तिष्ठ रे बलं सर्वं सन्नाहय समन्ततः ॥ ९५॥ शून्यकस्य समन्ताच्च द्वारेषु बलमर्पय । दुर्गाणि सङ्गृहाण त्वं कुरुक्षेपणिकाशतम् ॥ ९६॥ दुष्टाभिचाराः कर्तव्या मन्त्रिभिश्च पुरोहितैः । सज्जीकुरु त्वं शस्त्राणि युद्धमेतदुपस्थितम् ॥ ९७॥ सेनापतिषु यं केचिदग्रे प्रस्थापयाधुना । अनेकबलसङ्घातसहितं घोरदर्शनम् ॥ ९८॥ तेन सङ्ग्रामसमये सन्निपत्य विनिर्जितम् । केशेष्वाकृष्य तां मूढां देवसत्त्वे न दर्पिताम् ॥ ९९॥ इत्याभाष्य चमूनाथं सहस्रत्रितयाधिपम् । कुटिलाक्षं महासत्त्वं स्वयं चान्तःपुरं ययौ ॥ १००॥ अथापतन्त्याः श्रीदेव्या यात्रानिःसाणनिःस्वनाः । अश्रूयन्त च दैत्येन्द्रै रतिकर्णज्वरावहाः ॥ १०१॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने भण्डासुराहङ्कारो नामैकविंशोऽध्यायः ॥ २१॥

अथ दुर्मदकुरण्डवधो नाम द्वाविंशोऽध्यायः ॥ २२॥

अथ श्रीललितासेनानिस्साणप्रतिनिस्वनः । उच्चचालसुरेन्द्राणां योद्धतो दुन्दुभिध्वनिः ॥ १॥ तेन मर्दितदिक्केन क्षुभ्यद्गर्भपयोधिना । बधिरीकृतलोकेन चकम्पे जगतां त्रयी ॥ २॥ मर्दयन्ककुभां वृन्दं भिन्दन्भूधरकन्दराः । पुप्रोथे गगनाभोगे दैत्य निःसाणनिस्वनः ॥ ३॥ महानरहरिक्रुद्धहुङ्कारोद्धतिमद्ध्वनिः । विरसं विररासोच्चैर्विबुधद्वेषिझल्लरी ॥ ४॥ ततः किलकिलारावमुखरा दैत्यकोटयः । समनह्यन्त सङ्क्रुद्धाः प्रति तां परमेश्वरीम् ॥ ५॥ कश्चिद्रत्नविचित्रेण वर्मणाच्छन्नविग्रहः । चकाशे जङ्गम इव प्रोत्तुङ्गो रोहणाचलः ॥ ६॥ कालरात्रिमिवोदग्रां शस्त्रकारेण गोपिताम् । अधुनीत भटः कश्चिदतिधौतां कृपाणिकाम् ॥ ७॥ उल्लासयन्कराग्रेण कुन्तपल्लवमेकतः । आरूढतुरगो वीथ्यां चारिभेदं चकार ह ॥ ८॥ केचिदारुरुहुर्योधा मातङ्गांस्तुङ्गवर्ष्मणः । उत्पात वातसम्पातप्रेरितानिव पर्वतान् ॥ ९॥ पट्टिशैर्मुद्गरैश्चैव भिदुरैर्भिण्डिपालकैः । द्रुहणैश्च भुशुण्डीभिः कुठारैर्मुसलैरपि ॥ १०॥ गदाभिश्च शतघ्नीभिस्त्रिशिखैर्विशिखैरपि । अर्धचक्रैर्महाचक्रैर्वक्राङ्गैरुरगाननैः ॥ ११॥ फणिशीर्षप्रभेदैश्च धनुर्भिः शांर्गधन्विभिः । दण्डैः क्षेपणिकाशस्त्रैर्वज्रबाणैर्दृषद्वरैः ॥ १२॥ यवमध्यैर्मुष्टिमध्यैर्वललैः खण्डलैरपि । कटारैः कोणमध्यैश्च फणिदन्तैः परःशतैः ॥ १३॥ पाशायुधैः पाशतुण्डैः काकतुण्डैः सहस्रशः । एवमादिभिरत्युग्रैरायुधैर्जीवहारिभिः ॥ १४॥ परिकल्पितहस्ताग्रा वर्मिता दैत्यकोटयः । अश्वारोहा गजारोहा गर्दभारोहिणः परे ॥ १५॥ उष्ट्रारोहा वृकारोहा शुनकारोहिणः परे । काकादिरोहिणो गृध्रारोहाः कङ्कादिरोहिणः ॥ १६॥ व्याघ्रादिरोहिणश्चान्ये परे सिंहादिरोहिणः । शरभारोहिणश्चान्ये भेरुण्डारोहिणः परे ॥ १७॥ सूकरारोहिणो व्यालारूढाः प्रेतादिरोहिणः । एवं नानाविधैर्वाहवाहिनो ललितां प्रति ॥ १८॥ प्रचेलुः प्रबलक्रोधसम्मूर्च्छितनिजाशयाः । कुटिलं सैन्यभर्त्तारं दुर्मदं नाम दानवम् । दशाक्षौहिणिकायुक्तं प्राहिणोल्ललितां प्रति ॥ १९॥ दिधक्षुभिरिवाशेषं विश्वं सह बलोत्कटैः । भटैर्युक्तः स सेनानी ललिताभिमुखे ययौ ॥ २०॥ भिन्दन्पटहसंरावैश्चतुर्दश जगन्ति सः । अट्टहासान्वितन्वानो दुर्मदस्तन्मुखो ययौ ॥ २१॥ अथ भण्डासुराज्ञप्तः कुटिलाक्षो महाबलः । शून्यकस्य पुरद्वारे प्रचीने समकल्पयत् । रक्षणार्थं दशाक्षौ हिण्युपेतं तालजङ्घकम् ॥ २२॥ अवाचीने पुरद्वारे दशाक्षौहिणिकायुतम् । नाम्ना तालभुजं दैत्यं रक्षणार्थमकल्पयत् ॥ २३॥ प्रतीचीने पुरद्वारे दशाक्षौहिणिकायुतम् । तालग्रीवं नाम दैत्यं रक्षार्थं समकल्पयत् ॥ २४॥ उत्तरे तु पुरद्वारे तालकेतुं महा बलम् । आदिदेश स रक्षार्थं दशाक्षौहिणिकायुतम् ॥ २५॥ पुरस्य सालवलये कपिशीर्षकवेश्मसु । मण्डलाकारतो वस्तुं दशाक्षौहिणिमादिशत् ॥ २६॥ एवं पञ्चाशता कृत्वाक्षौहिण्या पुररक्षणम् । शून्यकस्य पुरस्यैव तद्वृत्तं स्वामिनेऽवदत् ॥ २७॥ कुटिलाक्ष उवाच । देव त्वदाज्ञया दत्तं सैन्यं नगररक्षणे । दुर्मदः प्रेषितः पूर्वं दुष्टां तां ललितां प्रति ॥ २८॥ अस्मत्किङ्कर मात्रेण सुनिराशा हि साबला । तथापि राज्ञामाचारः कर्त्तव्यं पुररक्षणम् ॥ २९॥ इत्युक्त्वा भण्डदैत्येन्द्रं कुबिलाक्षोऽतिगर्वितः । स्वसैन्यं सज्जयामास सेनापतिभिरन्वितः ॥ ३०॥ दूतस्तु प्रेषितः पूर्वं कुटिलाक्षेण दानवः । स ध्वनन्ध्वजिनीयुक्तो ललितासैन्यमावृणोत् ॥ ३१॥ कृत्वा किलकिलारावं भटास्तत्र सहस्रशः । दोधूयमानैरसिभिर्निपेतुः शक्तिसैनिकैः ॥ ३२॥ ताश्च शक्तय उद्दण्डाः स्फुरिताट्टहसस्वनाः । देदीप्यमानशस्त्राभाः समयुध्यन्त दानवैः ॥ ३३॥ शक्तीनां दानवानां च संशोभितजगत्त्रयः । समवर्तत सङ्ग्रामो धूलिग्रामतताम्बरः ॥ ३४॥ रथवंशेषु मूर्च्छन्त्यः करिकण्ठैः प्रपञ्चिताः । अश्वनिःश्वासविक्षिप्ता धूलयः खं प्रपेदिरे ॥ ३५॥ तमापतन्तमालोक्य दशाक्षौहिणिकावृतम् । सम्पत्सरस्वती क्रोधादभिदुद्रा व सङ्गरे ॥ ३६॥ सम्पत्करीसमानाभिः शक्तिभिः समधिष्ठिताः । अश्वाश्च दन्तिनो मत्ता व्यमर्दन्दानवीं चमूम् ॥ ३७॥ अन्योन्यतुमुले युद्धे जाते किलिकिलारवे । धूलीषु धूयमानासु ताड्यमानासु भेरिषु ॥ ३८॥ इतस्ततः प्रववृधे रक्तसिन्धुर्महीयसी । शक्तिभिः पात्यमानानां दानवानां सहस्रशः ॥ ३९॥ ध्वजानि लुठितान्यासन्विलूनानि शिलीमुखैः । विस्रस्ततत्तच्चिह्नानि समं छत्रकदम्बकैः ॥ ४०॥ रक्तारुणायां युद्धोर्व्यां पतितैश्छत्रमण्डलैः । आलम्भि तुलना सन्ध्यारक्ताभ्रहिमरोचिषा ॥ ४१॥ ज्वालाकपालः कल्पाग्निरिव चारुपयोनिधौ । दैत्यसैन्यानि निवहाः शक्तीनां पर्यवारयन् ॥ ४२॥ शक्तिच्छन्दोज्ज्वलच्छस्त्रधारानिष्कृत्तकन्धराः । दानवानां रणतले निपेतुर्मुण्डराशयः ॥ ४३॥ दष्टौष्ठैर्भ्रुकुटीक्रूरैः क्रोधसंरक्तलोचनैः । मुण्डैरखण्डमभवत्सङ्ग्रामधरणीतलम् ॥ ४४॥ एवं प्रवृत्ते समये जगच्चक्रभयङ्करे । शक्तयो भृशसङ्क्रुद्धा दैत्यसेनाममर्दयन् ॥ ४५॥ इतस्ततः शक्तिशस्त्रैस्ताडिता मूर्च्छिता इति । विनेशुर्दानवास्तत्र सम्पद्देवीबलाहताः ॥ ४६॥ अथ भग्नं समाश्वास्य निजं बलमरिन्दमः । उष्ट्रमारुह्य सहसा दुर्मदोऽभ्यद्र वच्चमूम् ॥ ४७॥ दीर्घग्रीवः समुन्नद्धः पृष्ठे निष्ठुरतोदनः । अधिष्ठितो दुर्मदेन वाहनोष्ट्रश्चचाल ह ॥ ४८॥ तमुष्ट्रवाहनं दुष्टमन्वीयुः क्रुद्धचेतसः । दानावनश्वसत्सर्वान्भीताञ्छक्तियुयुत्सया ॥ ४९॥ अवाकिरद्दिशो भल्लैरुल्लसत्फलशालिभिः । सम्पत्करीचमूचक्रं वनं वार्भिरिवाम्बुदः ॥ ५०॥ तेन दुःसहसत्त्वेन ताडिता बहुभिः शरैः । स्तम्भितेवाभवत्सेना सम्पत्कर्याः क्षणं रणे ॥ ५१॥ अथ क्रोधारुणं चक्षुर्दधाना सम्पदम्बिका । रणकोलाहलगजमारूढायुध्यतामुना ॥ ५२॥ आलोलकङ्कणक्वाणरमणीयतरः करः । तस्याश्चाकृष्य कोदण्डमौर्वीमाकर्णमाहवे ॥ ५३॥ लघुहस्ततयापश्यन्नाकृष्टन्न च मोक्षणम् । ददृशे घनुषश्चक्रं केवलं शरधारणे ॥ ५४॥ आश्वर्काबरसम्पर्कस्फुटप्रतिफलत्फलाः । शराः सम्पत्करीचापच्युताः समदहन्नरीन् ॥ ५५॥ दुर्मदस्याथ तस्याश्च समभूद्युद्धमुद्धतम् । अभूदन्योन्यसङ्घट्टाद्विस्फुलिङ्गशिलीमुखैः ॥ ५६॥ प्रथमं प्रसृतैर्बाणैः सम्पद्देवीसुरद्विषोः । अन्धकारः समभवत्तिरस्कुर्वन्नहस्करम् ॥ ५७॥ तदन्तरे च बाणानामतिसङ्घट्टयोनयः । विष्फुलिङ्गा विदधिरे दधिरे भ्रमचातुरीम् ॥ ५८॥ तयाधिरूढः संश्रोण्यारणकोलाहलः करी । पराक्रमं बहुविधं दर्शयामास सङ्गरे ॥ ५९॥ करेण कतिचिद्दैत्यान्पादघातेन कांश्चन । उदग्रदन्तमुसलघातैरन्यांश्च दानवान् ॥ ६०॥ वालकाण्डहतैरन्यान्फेत्कारैरपरान्रिपून् । गात्रव्यामर्द्दनैरन्यान्नखघातैस्तथापरान् ॥ ६१॥ पृथुमानाभिघातेन कांश्चिद्दैत्यन्व्यमर्दयत् । चतुरं चरितं चक्रे सम्पद्देवीमतङ्गजः ॥ ६२॥ सुदुर्मदः क्रुधा रक्तो दृढेनैकेन पत्रिणा । सम्पत्करीमुकुटगं मणिमेकमपाहरत् ॥ ६३॥ अथ क्रोधारुणदृशा तया मुक्तैः शिलीमुखैः । विक्षतो वक्षसि क्षिप्रं दुर्मदो जीवितं जहौ ॥ ६४॥ ततः किलकिला रावं कृत्वा शक्तिचमूवरैः । तत्सैनिकवरास्त्वन्ये निहता दानवोत्तमाः ॥ ६५॥ हतावशिष्टा दैत्यास्तु शक्तिबाणैः खिलीकृताः । पलायिता रणक्षोण्याः शून्यकं पुरमाश्रयन् ॥ ६६॥ तद्वृत्तान्तमथाकर्ण्य सङ्क्रुद्धो दानवेश्वरः ॥ ६७॥ प्रचण्डेन प्रभावेण दीप्यमान इवात्मनि । स पस्पर्श नियुद्धाय खड्गमुग्रविलोचनः । कुटिलाक्षं निकटगं बभाषे पृतनापतिम् ॥ ६८॥ कथं सा दुष्टवनिता दुर्मदं बलशालिनम् । निपातितवती युद्धे कष्ट एव विधेः क्रमः ॥ ६९॥ न सुरेषु न यक्षेषु नोरगेन्द्रे षु यद्बलम् । अभूत्प्रतिहतं सोऽपि दुर्मदोऽबलया हतः ॥ ७०॥ तां दुष्टवनितां जेतुमाक्रष्टुं च कचं हठात् । सेनापतिं कुरण्डाख्यं प्रेषयाहवदुर्मदम् ॥ ७१॥ इति सम्प्रोषितस्तेन कुटिलाक्षो महाबलम् । कुरण्डं चण्डदोर्द्दण्डमाजुहाव प्रभोः पुरः ॥ ७२॥ स कुरण्डः समागत्य प्रणाम स्वामिनेऽदिशत् । उवाच कुटिलाक्षस्तं गच्छ सज्जय सैनिकान् ॥ ७३॥ मायायां चतुरोऽसि त्वं चित्रयुद्धविशारद । कूटयुद्धे च निपुणस्तां स्त्रियं परिमर्दय ॥ ७४॥ इति स्वामिपुरस्तेन कुटिलाक्षेण देशितः । निर्जगाम पुरात्तूर्णं कुरण्डश्चण्डविक्रमः ॥ ७५॥ विंशत्यक्षौहिणीभिश्च समन्तात्परिवारितः । मर्दयन्स महीगोलं हस्तिवाजिपदातिभिः । दुर्मदस्याग्रजश्चण्डः कुरण्डः समरं ययौ ॥ ७६॥ धूलीभिस्तुमुलीकुर्वन्दिगन्तं धीरमानसः । शोकरोषग्रहग्रस्तो जवनाश्वगतो ययौ ॥ ७७॥ शार्ङ्गं धनुः समादाय घोरटङ्कारमुत्स्वनम् । ववर्ष शरधाराभिः सम्पत्कर्या महाचमूम् ॥ ७८॥ पापे मदनुजं हत्वा दुर्मदं युद्धदुर्मदम् । वृथा वहसि विक्रान्तिलवलेशं महामदम् ॥ ७९॥ इदानीं चैव भवतीमेतैर्नाराचमण्डलैः । अन्तकस्य पुरीमत्र प्रापयिष्यामि पश्य माम् ॥ ८०॥ अतिहृद्यमतिस्वादु त्वद्वपुर्बिलनिर्गतम् । अपूर्वमङ्गनारक्तं पिबन्तु रणपूतनाः ॥ ८१॥ ममानुजवधोत्थस्य प्रत्यवायस्य तत्फलम् । अधुना भोक्ष्यसे दुष्टे पश्य मे भुजयोर्बलम् ॥ ८२॥ इति सन्तर्जयन्सम्पत्करीं करिवरस्थिताम् । सैन्यं प्रोत्साहयामास शक्तिसेनाविमर्दने ॥ ८३॥ अथ तां पृतनां चण्डी कुरण्डस्य महौजसः । विमर्दयितुमुद्युक्ता स्वसैन्यं प्रोदसीसहत् ॥ ८४॥ अपुर्वाहवसञ्जातकौतुकाथ जगाद ताम् । अश्वरूढा समागत्य सस्नेहार्द्रमिदं वचः ॥ ८५॥ सखि सम्पत्करि प्रीत्या मम वाणी निशम्यताम् । अस्य युद्धमिदं देहि मम कर्तुं गुणोत्तरम् ॥ ८६॥ क्षणं सहस्व समरे मयैवैष नियोत्स्यते । याचितासि सखित्वेन नात्र संशयमाचर ॥ ८७॥ इति तस्या वचः श्रुत्वा सम्पद्देव्या शुचिस्मिता । निवर्तयामास चमूं कुरुण्डाभिमुखोत्थिताम् ॥ ८८॥ अथ बालार्कवर्णाभिः शक्तिभिः समधिष्ठिताः । तरङ्गा इव सैन्याब्धेस्तुरङ्गा वातरंहसः ॥ ८९॥ खरैः खुरपुटैः क्षोणीमुल्लिखन्तो मुहुर्मुहुः । पेतुरेकप्रवाहेण कुरण्डस्य चमूमुखे ॥ ९०॥ वल्गाविभागकृत्येषु संवर्तनविवर्तने । गतिभेदेषु चारेषु पञ्चधा खुरपातने ॥ ९१॥ प्रोत्साहने च संज्ञाभिः करपादाग्रयोनिभिः । चतुराभिस्तुरङ्गस्य हृदयज्ञाभिराहवे ॥ ९२॥ अश्वारूढाम्बिकासैन्यशक्तिभिः सह दानवाः । प्रोत्साहिताः कुरण्डेन समयुध्यन्त दुर्मदाः ॥ ९३॥ एवं प्रवृत्ते समरे शक्तीनां च सुरद्विषाम् । अपराजितनामानं हयमारुह्य वेगिनम् । अभ्यद्रवद्दुराचारमश्वारूढाः कुरण्डकम् ॥ ९४॥ प्रचलद्वेणिसुभगा शरच्चन्द्रकलोज्ज्वला । सन्ध्यानुरक्तशीतांशुमण्डलीसुन्दरानना ॥ ९५॥ स्मयमानेव समरे गृहीतमणिकार्मुका । अवाकिरच्छरासारैः कुरण्डं तुरगानना ॥ ९६॥ तुरगारूढयोत्क्षिप्ताः समाक्रामन्दिगन्तरान् । दिशो दश व्यानशिरे रुक्मपुङ्खाः शिलीमुखाः ॥ ९७॥ दुर्मदस्याग्रजः क्रुद्धः कुरण्डश्चण्डविक्रमः । विशिखैः शार्ङ्गनिष्ठ्यूतैरश्वारूढामवाकिरत् ॥ ९८॥ चण्डैः खुरपुटैः सैन्यं खण्डयन्नतिवेगतः । अश्वारूढातुरङ्गोऽपि मर्दयामास दानवान् ॥ ९९॥ तस्य हेषारवाद्दूरमुत्पाताम्बुधिनिःस्वनः । अमूर्च्छयन्ननेकानि तस्यानीतानि वैरिणः ॥ १००॥ इतस्ततः प्रचलितैर्दैत्यचक्रे हयासना । निजं पाशायुधं दिव्यं मुमोच ज्वलिताकृति ॥ १०१॥ तस्मात्पाशात्कोटिशोऽन्ये पाशा भुजगभीषणाः । समस्तमपि तत्सैन्यं बद्ध्वाबद्ध्वा व्यमूर्छयन् ॥ १०२॥ अथ सैनिकबन्धेन क्रुद्धः स च कुरण्डकः । सरेणैकेन चिच्छेद तस्या मणिधनुर्गुणम् ॥ १०३॥ छिन्नमौर्वि धनुस्त्यक्त्वा भृशं क्रुद्धा हयासना । अङ्कुशं पातयामास तस्य वक्षसि दुर्मतेः ॥ १०४॥ तेनाङ्कुशेन ज्वलता पीतजीवितशोणितः । कुरण्डो न्यपतद्भूमौ वज्ररुग्ण इव द्रुमः ॥ १०५॥ तदङ्कुशविनिष्ठ्यूताः पूतनाः काश्चिदुद्भटाः । तत्सैन्यं पाशनिष्यन्दं भक्षयित्वा क्षयं गताः ॥ १०६॥ इत्थं कुरुण्डे निहते विंशत्यक्षौहिणीपतौ । हतावशिष्टास्ते दैत्याः प्रपलायन्त वै द्रुतम् ॥ १०७॥ कुरण्डं सानुजं युद्धे शक्तिसैन्यैर्निपातितम् । श्रुत्वा शून्यकनाथोऽपि निशश्वास भुजङ्गवत् ॥ १०८॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने दुर्मदकुरण्डवधो नाम द्वाविंशोऽध्यायः ॥ २२॥

अथ करङ्कादिपञ्चसेनापतिवधो नाम त्रयोविंशोऽध्यायः ॥ २३॥

अथाश्वारूढया क्षिप्ते कुरण्डे भण्डदानवः । कुटिलाक्षमिदं प्रोचे पुनरेव युयुत्सया ॥ १॥ स्वप्नेऽपि यन्न सम्भाव्यं यन्न श्रुतमितः पुरा । यच्च नो शङ्कितं चित्ते तदेतत्कष्टमागतम् ॥ २॥ कुरण्डदुर्मदौ सत्त्वशालिनौ भ्रातरौ हितौ । दुष्टदास्याः प्रभावोऽयं मायाविन्या महत्तरः ॥ ३॥ इतः परं करङ्कादीन्पञ्चसेनाधिनायकान् । शतमक्षौहिणीनां च प्रस्थापय रणाङ्गणे ॥ ४॥ ते युद्धदुर्मदाः शूराः सङ्ग्रामेषु तनुत्यजः । सर्वथैव विजेष्यन्ते दुर्विदग्धविलासिनीम् ॥ ५॥ इति भण्डवचः श्रुत्वा भृशं चत्वरयान्वितः । कुटिलाक्षः करङ्कादीनाजुहाव चमूपतीन् ॥ ६॥ ते स्वामिनं नमस्कृत्य कुटिलाक्षेण देशिताः । अग्नौ प्रविष्णव इव क्रोधान्धा निर्ययुः पुरात् ॥ ७॥ तेषां प्रयाणनिःसाणरणितं भृशदुःसहम् । आकर्ण्य दिग्गजास्तूर्णं शीर्णकर्णा जुघूर्णिरे ॥ ८॥ शतमक्षौहिणीनां च प्राचलत्केतुमालकम् । उत्तरङ्गतुरङ्गादि बभौ मत्तमतङ्गजम् ॥ ९॥ ह्रेषमाणहयाकीर्णं क्रन्दद्भटकुलोद्भवम् । बृंहमाणगजं गर्जद्रथचक्रं चचाल तत् ॥ १०॥ चक्रनेमिहतक्षोणीरेणुक्षपितरोचिषा । बभूवे तुहिनासारच्छन्नेनेव विवस्वता ॥ ११॥ धूलीमयमिवाशेषमभवद्विश्वमण्डलम् । क्वचिच्छब्दमयं चैव निःसाणकठिनस्वनैः ॥ १२॥ उद्भूतैर्धूलिकाजालैराक्रान्ता दैत्यसैनिकाः । इयत्तयातः सेनायाः सङ्ख्यापि परिभाविता ॥ १३॥ ध्वजा बहुविधाकारा मीनव्यालादिचित्रिताः । प्रचेलुर्धूलिकाजाले मत्स्या इव महोदधौ ॥ १४॥ तानापतत आलोक्य ललितासैनिकं प्रति । वित्रेसुरमराः सर्वे शक्तीनां भङ्गशङ्कया ॥ १५॥ ते करङ्कमुखाः पञ्च सेनापतय उद्धताः । सर्पिणीं नाम समरे मायां चक्रुर्महीयसीम् ॥ १६॥ तैः समुत्पतिता दुष्टा सर्पिणी रमशाम्बरी । धूम्रवर्णा च धूम्रोष्ठी धूम्रवर्णपयोधरा ॥ १७॥ महोदधिरिवात्यन्तं गम्भीरकुहरोदरी । पुरश्चचाल शक्तीनां त्रासयन्ती मनो रणे ॥ १८॥ कद्रू रिवापरा दुष्टा बहुसर्पविभूषणा । सर्पाणामुद्भवस्थानं मायामयशरीरिणाम् ॥ १९॥ सेनापतीनां नासीरे वेल्लयन्तीमहीतले । वेल्लितं बहुधा चक्रे घोरारावविराविणी ॥ २०॥ तथैव मायया पूर्वं तेऽसुरेन्द्रा व्यजीजयन् । करङ्काद्या दुरात्मानः पञ्चपञ्चत्त्वकामुकाः ॥ २१॥ अथ प्रववृते युद्धं शक्तीनाममरद्रुहाम् । अन्योन्यवीरभाषाभिः प्रोत्साहितघनक्रुधाम् ॥ २२॥ अत्यन्तसङ्कुलतया न विज्ञातपरस्पराः । शक्तयो दानवश्चैव प्रजह्रुः शस्त्रपाणयः ॥ २३॥ अन्योन्यशस्त्रसङ्घट्टसमुत्थितहुताशने । प्रवृत्तविशिखस्रोतःप्रच्छन्नहरिदन्तरे ॥ २४॥ बहुरक्तनदीपूरह्रियमाणमतङ्गजे । मांसकर्दमनिर्मग्ननिष्पन्दरथमण्डले ॥ २५॥ विकीर्णकेशशैवालविलसद्रक्तनिर्झरे । अतिनिष्ठुरविध्वंसि सिंहनादभयङ्करे ॥ २६॥ रजोऽन्धकारतुमुले राक्षसीतृप्तिदायिनि । शस्त्रीशरणिविच्छिन्नदैत्यकण्ठोत्थितासृजि ॥ २७॥ प्रवृत्ते घोरसङ्ग्रामे शक्तीनां च सुरद्विषाम् । अथ स्वबलमादाय पञ्चभिः प्रेरिता सती । सर्पिणी बहुधा सर्पान्विससर्ज शरीरतः ॥ २८॥ तक्षकर्कोटकसमा वासुकिप्रमुखत्विषः । नानाविधवपुर्वर्णा नानादृष्टिभयङ्कराः ॥ २९॥ नानाविधविषज्वालानिर्दग्धभुवनत्रयाः । दारदं वत्सनाभं च कालकूटमथापरम् ॥ ३०॥ सौराष्ट्रं च विषं घोरं ब्रह्मपुत्रमथापरम् । प्रतिपन्नं शौक्लिकेयमन्यान्यपि विषाणि च ॥ ३१॥ व्यालैः स्वकीयवदनैर्विलोलरसनाद्वयैः । विकिरन्तः शक्तिसैन्ये विसस्रुः सर्पिणीतनोः ॥ ३२॥ धूम्रवर्णा द्विवदना सर्पा अतिभयङ्कराः । सर्पिण्या नयनद्वन्द्वादुत्थिताः क्रोधदीपिताः ॥ ३३॥ पीतवर्णास्त्रिफणका दंष्ट्राभिर्विकटाननाः । सर्पिण्याः कर्णकुहरादुत्थिताः सर्पकोटयः ॥ ३४॥ अग्रे पुच्छे च वदनं धारयन्तः फणान्वितम् । आस्यादा नीलवपुषः सर्पिण्याः फणिनोऽभवन् ॥ ३५॥ अन्यैश्च बलवर्णाश्च चतुर्वक्त्राश्चतुष्पदाः । नासिकाविवरात्तस्या उद्गता उग्ररोचिषः ॥ ३६॥ लम्बमानमहाचर्मावृत्तस्थूलपयोधरात् । नाभिकुण्डाच्च बहवो रक्तवर्णा भयानकाः ॥ ३७॥ हलाहलं वहन्तश्च प्रोत्थिताः पन्नगाधिपाः । विदशन्तः शक्तिसेनां दहन्तो विषवह्निभिः ॥ ३८॥ बध्नन्तो भोगपाशैश्च निघ्नन्तः फणमण्डलैः । अत्यन्तमाकुलां चक्रुर्ललितेशीचमूममी ॥ ३९॥ खण्ड्यमाना अपि मुहुः शक्तीनां शस्त्रकोटिभिः ॥ ४०॥ उपर्युपरि वर्धन्ते सपिण्डप्रविसर्पिणः । नश्यन्ति बहवः सर्पा जायन्ते चापरे पुनः ॥ ४१॥ एकस्य नाशसमये बहवोऽन्ये समुत्थिताः । मूलभूता यतो दुष्टा सर्पिणी न विनश्यति ॥ ४२॥ अतस्तत्कृतसर्पाणां नाशे सर्पान्तरोद्भवः । ततश्च शक्तिसैन्यानां शरीराणि विषानलैः ॥ ४३॥ दह्यमानानि दुःखेन विप्लुतान्यभवन्रणे । किङ्कर्तव्यविमूढेषु शक्तिचक्रेषु भोगिभिः ॥ ४४॥ पराक्रमं बहुविधं चक्रुस्ते पञ्च दानवाः । करीन्द्री गर्दभशतैर्युक्तं स्यन्दनमास्थितः ॥ ४५॥ चक्रेण तीक्ष्णधारेण शक्तिसेनाममर्दयत् । वज्रदन्ताभिधश्चान्यो भण्डदैत्यचमूपतिः ॥ ४६॥ वज्रबाणाभिघातेन होष्ट्रतो हि रणं व्यधात् । अथ वज्रमुखश्चैव चक्रिवन्तं महत्तरम् ॥ ४७॥ आरुह्य कुन्तधाराभिः शक्तिचक्रममर्दयत् । वज्रदन्ताभिधानोऽन्यश्चमूनामधिपो बली ॥ ४८॥ गृध्रयुग्मरथारूढः प्रजहार शिलीमुखैः । तैः सेनापतिभिर्दुष्टैः प्रोत्साहितमथाहवे ॥ ४९॥ शतमक्षौहिणीनां च निपपातैकहेलया । सर्पिणी च दुराचारा बहुमायापरिग्रहा ॥ ५०॥ क्षणेक्षणे कोटिसङ्ख्यान्विससर्ज फणाधरान् । तथा विकलितं सैन्यमवलोक्य रुषाकुला ॥ ५१॥ नकुली गरुडारूढा सा पपात रणाजिरे । प्रतप्तकनकप्रख्या ललितातालुसम्भवा ॥ ५२॥ समस्तवाङ्मयाकारा दन्तैर्वज्रमयैर्युता । सर्पिण्यभिमुखं तत्र विससर्ज निजं बलम् ॥ ५३॥ तयाधिष्ठिततुङ्गांसः पक्षविक्षिप्तभूधरः । गरुडः प्राचलद्युद्धे सुमेरुरिव जङ्गमः ॥ ५४॥ सर्पिणीमायया जातान्सर्पान्दृष्ट्वा भयानकान् । क्रोधरक्तेक्षणं व्यात्तं नकुली विदधे मुखम् ॥ ५५॥ अथ श्रीनकुलीदेव्या द्वात्रिंशद्दन्तकोटयः । द्वात्रिंशत्कोटयो जाता नकुलाः कनकप्रभाः ॥ ५६॥ इतस्ततः खण्डयन्तः सर्पिणीसर्पमण्डलम् । निजदंष्ट्राविमर्देन नाशयन्तश्च तद्विषम् । व्यभ्रमन्समरे घोरे विषघ्नाः स्वर्णबभ्रवः ॥ ५७॥ उत्कर्णाः क्रोध सम्पर्काद्धूनिताशेषलोमकाः । उत्फुल्ला नकुला व्यात्तवदना व्यदशन्नहीन् ॥ ५८॥ एकैकमायासर्पस्य बभ्रुरेकैक उद्गतः । तीक्ष्णदन्तनिपातेन खण्डयामास विग्रहम् ॥ ५९॥ भोगिभोगसृतै रक्तैः सृक्किणी शोणतां गते । लिहन्तो नकुला जिह्वापल्लवैः पुप्लुवुर्मृधे ॥ ६०॥ नकुलैर्दश्यमानानामत्यन्तचटुलं वपुः । मुहुः कुण्डलितैर्भोगैः पन्नगानां व्यचेष्टत ॥ ६१॥ नकुलावलिदष्टानां नष्टासूनां फणाभृताम् । फणाभरसमुत्कीर्णा मणयो व्यरुचन्रणे ॥ ६२॥ नकुलाघातसंशीर्णफणाचक्रैर्विनिर्गतैः । फणयस्तन्महाद्रो हवह्विज्वाला इवाबभुः ॥ ६३॥ एवम्प्रकारतो बभ्रुमण्डलैरवखण्डिते । मायामये सर्पजाले सर्पिणी कोपमादधे ॥ ६४॥ तया सह महद्युद्धं कृत्वा सा नकुलेश्वरी । गारुडास्त्रमतिक्रूरं समाधत्त शिलीमुखे ॥ ६५॥ तद्गारुडास्त्रमुद्दामज्वालादीपितदिङ्मुखम् । प्रविश्य सर्पिणीदेहं सर्पमायां व्यशोषयत् ॥ ६६॥ मायाशक्तेर्विनाशेन सर्पिणी विलयं गता । क्रोधं च तद्विनाशेन प्राप्ताः पञ्च चमूवराः ॥ ६७॥ यद्बलेन सुरान्सर्वान्सेनान्यस्तेऽवमेनिरे । सा सर्पिणी कथाशेषं नीता नकुलवीर्यतः ॥ ६८॥ अतःस्वबलनाशेन भृशं क्रुद्धाश्चमूचराः । एकोद्यमेन शस्त्रौघैर्नकुलीं तामवाकिरन् ॥ ६९॥ एकैव सा तार्क्ष्यरथा पञ्चभिः पृतनेश्वरी । लघुहस्ततया युद्धं चक्रे वै शस्त्रवर्षिणी ॥ ७०॥ पट्टिशैर्मुसलैश्चैव भिन्दिपालैः सहस्रशः । वज्रसारमयैर्दन्तैर्व्यदशन्मर्म सीमसु ॥ ७१॥ ततो हाहारुतं घोरं कुर्वाणा दैत्यकिङ्कराः । उदग्रदंशनकुलैर्नकुलैराकुलीकृताः ॥ ७२॥ उत्पत्य गगनात्केचिद्घोरचीत्कार कारिणः । दंशन्तस्तद्द्विषां सैन्य सकुलाः प्रज्वलक्रुधः ॥ ७३॥ कर्णेषु दष्ट्वा नासायामन्ये दष्टाः शिरस्तटे । पृष्ठतो व्यदशन्केचिदागत्य व्याकृतक्रियाः ॥ ७४॥ विकलाश्छिन्नवर्माणो भयविस्रस्तशस्त्रिकाः । नकुलैरभिभूतास्ते न्यपतन्नमरद्रुहः ॥ ७५॥ केचित्प्रविश्यनकुला व्यात्तान्यास्यानि वैरिणाम् । भोगिभोगानि वाकृष्य व्यदशन्रसनातलम् ॥ ७६॥ अन्ये कर्णेषु नकुलाः प्राविशन्देववैरिणाम् । सूक्ष्मरूपा विशन्तिस्म नानारन्ध्राणि बभ्रवः ॥ ७७॥ इति तैरभिभूतानि नकुलैरवलोकयन् । निजसैन्यानि दीनानि करङ्कः कोपमास्थितः ॥ ७८॥ अन्येऽपि च चमूनाथा लघुहस्ता महाबलाः ॥ ७९॥ प्रतिबभ्रु शरस्तोमान्ववृषुर्वारिदा इव । दैत्यसैन्यपतिप्रौढ कोदडोत्थाः शिलीमुखाः । बभ्रूणां दन्तकोटीषु कठोरघट्टनं व्यधुः ॥ ८०॥ चमूपतिशरव्यूहैराहतेभ्यः परःशतैः । बभ्रूणां वज्रदतेभ्यो निश्चक्राम हुताशनः । पञ्चापि ते चमूनाथविसृष्टैरेकहेलया ॥ ८१॥ स्फुरत्फलैः शरकुलैर्बभ्रुसेनां व्यमर्दयत् । इतस्ततश्चमूनाथविक्षिप्तशरकोटिभिः । विशीर्णगात्रा नकुला नकुलीं पर्यवारयन् ॥ ८२॥ अथ सा नकुली वाणी वाङ्मयस्यैकनायिका । नकुलानां परावृत्त्या महान्तं रोषमाश्रिता ॥ ८३॥ अक्षीणनकुलं नाम महास्त्रं सर्वतोमुखम् । वह्निज्वालापरीताग्रं सन्दधे शार्ङ्गधन्वनि ॥ ८४॥ तदस्त्रतो विनिष्ठ्यूता नकुलाः कोटिसङ्ख्याकाः । वज्राङ्गा वज्रलोमानो वज्रदंष्ट्रा महाजवा ॥ ८५॥ वज्रसाराश्च निबिडा वज्रजाल भयङ्करा । वज्राकारैर्नखैस्तूर्णं दारयन्तो महीतलम् ॥ ८६॥ वज्ररत्नप्रकाशेन लोचनेनापि शोभिताः । वज्रसम्पातसदृशा नासाचीत्कार कारिणः ॥ ८७॥ मर्दयन्ति सुरारातिसैन्यं दशनकोटिभिः । पराक्रमं बहुविधं तेनिरे ते निरेनसः ॥ ८८॥ एवं नकुलकोटीभिर्वज्रघोरैर्महाबलैः । विनष्टाः प्रत्यवयवं विनेशुर्दानवाधमाः ॥ ८९॥ एवं वज्रमयैर्बभ्रुमण्डलैः खण्डिते बले ॥ ९०॥ शताक्षौहिणिके सङ्ख्ये ते स्वमात्रावशेषिताः । अतित्रासेन रोषेण गृहीताश्च चमूवराः । सङ्ग्राममधिकं तेनुः समाकृष्टशरासनाः ॥ ९१॥ तैः समं बहुधा युद्धं तन्वाना नकुलेश्वरी । पट्टिशेन करङ्कस्य चिच्छेद कठिनं शिरः ॥ ९२॥ काकवाशितमुख्यानां चतुर्णामपि वैरिणाम् । उत्पत्योत्पत्य तार्क्ष्येण व्यलुनादसिना शिरः ॥ ९३॥ तादृशं लाघवं दृष्ट्वा नकुल्या श्यामलाम्बिका ॥ ९४॥ बहु मेने महासत्त्वां दुष्टासुरविनाशिनीम् । निजाङ्गदेवतत्त्वं च तस्यै श्यामाम्बिका ददौ ॥ ९५॥ लोकोत्तरे गुणे दृष्टे कस्य न प्रीतिसम्भवः । हतशिष्टा भीतभीता नकुलीशरणं गताः ॥ ९६॥ सापि तान्वीक्ष्य कृपया मा भैष्टेति विहस्य च । भवद्रा ज्ञे रणोदन्तमशेषं च निबोधत ॥ ९७॥ तयैवं प्रेषिताः शीघ्रं तदालोक्य रणक्षितिम् । मुदितास्ते पुनर्भीत्या शून्यकायां पलायिताः ॥ ९८॥ तदुदन्तं ततः श्रुत्वा भण्डश्चण्डो रुषाभवत् ॥ ९९॥ इति ब्रह्माण्डमहापुराणे उत्तरभागे श्रीललितोपाख्याने करङ्कादिपञ्चसेनापतिवधो नाम त्रयोविंशोऽध्यायः ॥ २३॥

अथ बलाहकादिसप्तसेनापतिवधो नाम चतुर्विंशोऽध्यायः ॥ २४॥

हतेषु तेषु रोषान्धो निश्वसञ्छून्यकेश्वरः । कुजलाशमिति प्रोचे युयुत्साव्याकुलाशयः ॥ १॥ भद्रसेनापतेऽस्माकमभद्रं समुपागतम् । करङ्काद्याश्चमूनाथाः कन्दलद्भुजविक्रमाः ॥ २॥ सर्पिणीमायया सर्वगीर्वाणमदभञ्जनाः । पापीयस्या तया गूढमायया विनिपातिताः ॥ ३॥ बलाहकप्रभृतयः सप्त ये सैनिकाधिपाः । तानुदग्रभुजासत्त्वान्प्राहिणु प्रधनं प्रति ॥ ४॥ त्रिशतं चाक्षौहिणीनां प्रस्थापय सहैव तैः । ते मर्दयित्वा ललितासैन्यं मायापरायणाः ॥ ५॥ अये विजयमाहार्य सम्प्राप्स्यन्ति ममान्तिकम् । कीकसागर्भसञ्जातास्ते प्रचण्डपराक्रमाः ॥ ६॥ बलाहकमुखाः सप्त भ्रातरो जयिनः सदा । तेषामवश्यं विजयो भविष्यति रणाङ्गणे ॥ ७॥ इति भण्डासुरेणोक्तः कुटिलाक्षः समाह्वयत् । बलाहकमुखान्सप्त सेनानाथान्मदोत्कटान् ॥ ८॥ बलाहकः प्रथमतस्तस्मात्सूचीमुखोऽपरः । अन्यः फालमुखश्चैव विकर्णो विकटाननः ॥ ९॥ करालायुः करटकः सप्तैते वीर्यशालिनः । भण्डासुरं नमस्कृत्य युद्धकौतूहलोल्वणाः ॥ १०॥ कीकसासूनवः सर्वे भ्रातरोऽन्योन्यमावृताः । अन्योन्यसुसहायाश्च निर्जग्मुर्नगरान्तरात् ॥ ११॥ त्रिशताक्षौहिणीसेनासेनान्योऽन्वगमंस्तदा । उल्लिखन्ति केतुजालैरम्बरे घनमण्डलम् ॥ १२॥ घोरसङ्ग्रामिणीपादा घातैर्मर्दितभूतला । पिबन्ति धूलिकाजालैरशेषानपि सागरान् ॥ १३॥ भेरीनिः साणतम्पोट्टपणवानकनिस्वनैः । नभोगुणमयं विश्वमादधानाः पदेपदे ॥ १४॥ त्रिशताक्षौहिणीसेनां तां गृहीत्वा मदेद्धताः । प्रवेष्टुमिव विश्वस्मिन्कैकसेयाः प्रतस्थिरे ॥ १५॥ धृतरोषारुणाः सूर्यमण्डलो द्दीप्तकङ्कटाः । उद्दीप्तशस्त्रभरणाश्चेलुर्द्दीप्तोर्ध्वकेशिनः ॥ १६॥ सप्त लोकान्प्रमथितुं प्रेषिताः पूर्वमुद्धताः । भण्डासुरेण महता जगद्विजयकारिणा ॥ १७॥ सप्तलोकविमर्देन तेन दृष्ट्वा महाबलाः । प्रोषिता ललितासैन्यं जेतुकामेन दुर्धिया ॥ १८॥ ते पतन्तो रणतलमुच्चलच्छत्रपाणयः । शक्तिसेनामभिमुखं सक्रोधमभिदुद्रुवुः ॥ १९॥ मुहुः किलकिलारावैर्घोषयन्तो दिशो दश । देव्यास्तु सैनिकं यत्र तत्र ते जग्मुरुद्धताः ॥ २०॥ सैन्यं च ललितादेव्याः सन्नद्धं शास्त्रभीषणम् । अभ्यमित्रीणमभवद्बद्धभ्रुकुटिनिष्ठुरम् ॥ २१॥ पाशिन्यो मुसलिन्यश्च चक्रिण्यश्चापरा मुने । मुद्गरिण्यः पट्टिशिन्यः कोदण्डिन्यस्तथापराः ॥ २२॥ अनेकाः शक्तयस्तीव्रा ललितासैन्यसङ्गताः । पिबन्त्य इव दैत्याब्धिं सन्निपेतुः सहस्रशः ॥ २३॥ आयातायात हे दुष्टाः पापिन्यो वनिताधमाः । मायापरिग्रहैर्दूरं मोहयन्त्यो जडाशयान् ॥ २४॥ नेष्यामो भवतीरद्य प्रेतनाथनिकेतनम् । श्वसद्भुजगसङ्काशैर्बाणैरत्यन्तभीषणैः । इति शक्तीर्भर्त्सयन्तो दानवाश्चक्रुराहवम् ॥ २५॥ काचिच्चिच्छेद दैत्येन्द्रं कण्ठे पट्टिशपातनात् । तद्गलोद्गलितो रक्तपूर ऊर्ध्वमुखोऽभवत् ॥ २६॥ तत्र लग्ना बहुतरा गृध्रा मण्डलतां गताः । तैरेव प्रेतनाथस्य च्छत्रच्छविरुदञ्चिता ॥ २७॥ काचिच्छक्तिः सुरारातिं मुक्तशक्त्यायुधं रणे । लूनतच्छक्तिनैकेन बाणेन व्यलुनीत च ॥ २८॥ एका तु गजमारूढा कस्यचिद्दैत्यदुर्मतेः । उरःस्थले स्वकरिणा वप्राघातमशिक्षयत् ॥ २९॥ काचित्प्रतिभटारूढं दन्तिनं कुम्भसीमनि । खड्गेन सहसा हत्वा गजस्य स्वप्रियं व्यधात् ॥ ३०॥ करमुक्तेन चक्रेण कस्यचिद्देववैरिणः । धनुर्दण्डं द्विधा कृत्वा स्वभ्रुवोः प्रतिमां तनोत् ॥ ३१॥ शक्तिरन्या शरैः शातैः शातयित्वा विरोधिनः । कृपाणपद्मा रोमाल्यां स्वकीयायां मुदं व्यधात् ॥ ३२॥ काचिन्मुद्गरपातेन चूर्णयित्वा विरोधिनः । रथचक्रनितम्बस्य स्वस्य तेनातनोन्मुदम् ॥ ३३॥ रथकूबरमुग्रेण कस्यचिद्दानवप्रभोः । खड्गेन छिन्दती स्वस्य प्रियमुव्यास्ततान ह ॥ ३४॥ अभ्यन्तरं शक्तिसेना दैत्यानां प्रविवेश ह । प्रविवेश च दैत्यानां सेना शक्तिबलान्तरम् ॥ ३५॥ नीरक्षीरवदत्यन्ताश्लेषं शक्तिसुरद्विषाम् । सङ्कुलाकारतां प्राप्तो युद्धकालेऽभवत्तदा ॥ ३६॥ शक्तीनां खड्गपातेन लूनशुण्डारदद्वयाः । दैत्यानां करिणो मत्ता महाक्रोडा इवाभवन् ॥ ३७॥ एवं प्रवृत्ते समरे वीराणां च भयङ्करे । अशक्ये स्मर्तुमप्यन्तं कातरत्ववतां नृणाम् । भीषणानां भीषणे च शस्त्रव्यापारदुर्गमे ॥ ३८॥ बलाहको महागृध्रं वज्रतीक्ष्णमुखादिकम् । कालदण्डोपमं जङ्घाकाण्डे चण्डपराक्रमम् ॥ ३९॥ संहारगुप्तनामानं पूर्वमग्रे समुत्थितम् । धूमवद्धूसराकारं पक्षक्षेपभयङ्करम् ॥ ४०॥ आरुह्य विविधं युद्धं कृतवान्युद्धदुर्मदः । पक्षौ वितत्य क्रोशार्धं स स्थितो भीमनिःस्वनैः । अङ्गारकुण्डवच्चञ्चुं विदार्याभक्षयच्चमूम् ॥ ४१॥ संहारगुप्तं स महागृध्रः क्रूरविलोचनः । बलाहकमुवाहोच्चैराकृष्टधनुषं रणे ॥ ४२॥ बलाहको वपुर्धुन्वन्गृध्रपृष्ठकृतस्थितिः । सपक्षकूटशैलस्थो बलाहक इवाभवत् ॥ ४३॥ सूचीमुखश्च दैत्येन्द्रः सूचीनिष्ठुरपक्षतिम् । काकवाहनमारुह्य कठिनं समरं व्यधात् ॥ ४४॥ मत्तः पर्वतश‍ृङ्गाभश्चञ्चूदण्डं समुद्वहन् । कालदण्डप्रमाणेन जङ्घाकाण्डेन भीषणः ॥ ४५॥ पुष्कलावर्तकसमा जम्बालसदृशद्यतिः । क्रोशमात्रायतौ पक्षावुभावपि समुद्वहन् ॥ ४६॥ सूचीमुखाधिष्ठितोऽसौ करटः कटुवासितः । मर्दयञ्चञ्चुघातेन शक्तीनां मण्डलं महत् ॥ ४७॥ अथो फलमुखः फालं गृहीत्वा निजमायुधम् । कङ्कमारुह्य समरे चकाशे गिरिसन्निभम् ॥ ४८॥ विकर्णाख्यश्च दैत्येन्द्रश्चमूभर्ता महाबलः । भेरुण्डपतनारूढः प्रचण्डयुद्धमातनोत् ॥ ४९॥ विकटानननामानं विलसत्पट्टिशायुधम् । उवाह समरे चण्डः कुक्कुटोऽतिभयङ्करः ॥ ५०॥ गर्जन्कण्ठस्थरोमाणि हर्षयञ्ज्वलदीक्षणः । पश्यन्पुरः शक्तिसैन्यं चचाल चरणायुधः ॥ ५१॥ करालाक्षश्च भूभर्ता षष्ठोऽत्यन्तगरिष्ठदः । वज्रनिष्ठुरघोषश्च प्राचलत्प्रेतवाहनः ॥ ५२॥ श्मशानमन्त्रशूरेण तेन संसाधितः पुरा । प्रेतो भूतसमाविष्टस्तमुवाह रणाजिरे ॥ ५३॥ अवाङ्मुखो दीर्घबाहुः प्रसारितपदद्वयः । प्रेतो वाहनतां प्राप्तः करालाक्षमथावहत् ॥ ५४॥ अन्यः करटको नाम दैत्यसेनाशिखामणिः । सर्दयामास शक्तीनां सैन्यं वेतालवाहनः ॥ ५५॥ योजनायतमूर्तिः सन्वेतालः क्रूरलोचनः । श्मशानभूमौ वेतालो मन्त्रेणानेन साधितः ॥ ५६॥ मर्दयामास पृतनां शक्तीनां तेन देशितः । तस्य वेतालवर्यस्य वर्तमानोंससीमनि । बहुधायुध्यत तदा शक्तिभिः सह दानवः ॥ ५७॥ एवमेते खलात्मानः सप्त सप्तार्णवोपमाः । शक्तीनां सैनिकं तत्र व्याकुलीचक्रुरुद्धताः ॥ ५८॥ ते सप्त पूर्वं तपसा सवितारमतोषयन् । तेन दत्तो वरस्तेषां तपस्तुष्टेन भास्वता ॥ ५९॥ कैकसेया महाभागा भवतां तपसाधुना । परितुष्टोऽस्मि भद्रं वो भवन्तो वृणतां वरम् ॥ ६०॥ इत्युक्ते दिननाथेन कैकसेयास्तपः कृशाः । प्रार्थयामासुरत्यर्थं दुर्दान्तं वरमीदृशम् ॥ ६१॥ रणेषु सन्निधातव्यमस्माकं नेत्रकुक्षिषु । भवता घोरतेजोभिर्दहता प्रतिरोधिनः ॥ ६२॥ त्वया यदा सन्निहितं तपनास्माकमक्षिषु । तदाक्षिविषयः सर्वो निश्चेष्टो भवतात्प्रभो ॥ ६३॥ त्वत्सान्निध्यसमिद्धेन नेत्रेणास्माकमीक्षिताः । स्तब्धशस्त्रा भविष्यन्ति प्रतिरोधकसैनिकाः ॥ ६४॥ ततः स्तब्धेषु शस्त्रेषु वीक्षणादेव नः प्रभो । निश्चेष्टा रिपवोऽस्माभिर्हन्तव्याः सुकरत्वतः ॥ ६५॥ इति पूर्वं वरः प्राप्तः कैकसेयैर्दिवाकरात् । वरदानेन ते तत्र युद्धे चेरुर्मदोद्धताः ॥ ६६॥ अथ सूर्यसमाविष्टनेत्रैस्तेस्तु निरीक्षिताः । शक्तयः स्तब्धशस्त्रौघा विफलोत्सा हतां गताः ॥ ६७॥ कीकसातनयैस्तैस्तु सप्तभिः सत्त्वशालिभिः । विष्टम्भितास्त्रशस्त्राणां शक्तीनां नोद्यमोऽभवत् ॥ ६८॥ उद्यमे क्रियभाणेऽपि शस्त्रस्तम्भेन भूयसा । अभिभूताः सनिश्वासं शक्तयो जोषमासत ॥ ६९॥ अथ ते वासरं प्राप्य नानाप्रहरणोद्यताः । व्यमर्दयञ्छक्तिसैन्यं दैत्याः स्वस्वामिदेशिताः ॥ ७०॥ शक्तयस्तास्तु सैन्येन निर्व्यापारा निरायुधाः । अक्षुभ्यन्त शरैस्तेषां वज्रकङ्कटभेदिभिः ॥ ७१॥ शक्तयो दैत्यशस्त्रौधैर्विद्धगात्राः सृतासृजः । सुपल्लवा रणे रेजुः कङ्कोललतिका इव ॥ ७२॥ हाहाकारं वितन्वत्यः प्रपन्ना ललितेश्वरीम् । चुक्रुशुः शक्तयः सर्वास्तैः स्तम्भितनिजायुधाः ॥ ७३॥ अथ देव्याज्ञया दण्डनाथा प्रत्यङ्गरक्षिणी । तिरस्करणिका देवी समुत्तस्थौ रणाजिरे ॥ ७४॥ तमोलिप्ताह्वयं नाम विमानं सर्वतोमुखम् । महामाया समारुह्य शक्तीनामभयं व्यधात् ॥ ७५॥ तमालश्यामलाकारा श्यामकञ्चुकधारिणी । श्यामच्छाये तमोलिप्ते श्यामयुक्ततुरङ्गमे ॥ ७६॥ वासन्ती मोहनाभिख्यं धनुरादाय सस्वनम् । सिंहनादं विनद्येषूनवर्षत्सर्पसन्निभान् ॥ ७७॥ कृष्णरूपभुजङ्ग भानधोमुसलसन्निभान् । मोहनास्त्रविनिष्ठ्यूतान्बाणान्दैत्या न सेहिरे ॥ ७८॥ इतस्ततो मर्द्यमाना महामायाशिलीमुखैः । प्रकोपं परमं प्राप्ता बलाहकमुखाः खलाः ॥ ७९॥ अथो तिरस्करण्यम्बा दण्डनाथानिदेशतः । अन्धाभिधं महास्त्रं सा मुमोच द्विषतां गणे ॥ ८०॥ बलाहकाद्यास्ते सप्त दिननाथवरोद्धताः । अन्धास्त्रेण निजं नेत्रं दधिरे च्छादितं यथा ॥ ८१॥ तिरस्करणिकादेव्या महामोहनधन्वनः । उद्गतेनान्धबाणेन चक्षुस्तेषां व्यधीयत ॥ ८२॥ अन्धीकृताश्च ते सप्त न तु प्रैक्षन्त किञ्चन । तद्वीक्षणस्य विरहाच्छस्त्रस्तम्भः क्षयं गतः ॥ ८३॥ पुनः ससिंहनादं ताः प्रोद्यतायुधपाणयः । चक्रुः समरसन्नाहं दैत्यानां प्रजिघांसया ॥ ८४॥ तिरस्करणिकां देवीमग्रे कृत्वा महाबलाम् । सदुपायप्रसङ्गेन भृशं तुष्टा रणं व्यधुः ॥ ८५॥ साधुसाधु महाभागे तिरस्करणिकाम्बिके । स्थाने कृततिरस्कारा द्विपामेषां दुरात्मनाम् ॥ ८६॥ त्वं हि दुर्जननेत्राणां तिरस्कारमहौषधी । त्वया बद्धदृशानेन दैत्यचक्रेण भूयते ॥ ८७॥ देवकार्यमिदं देवि त्वया सम्यगनुष्ठितम् । अस्मादृशामजय्येषु यदेषु व्यसनं कृतम् ॥ ८८॥ तत्त्वयैव दुराचारानेतान्सप्त महासुरान् । निहताँल्ललिता श्रुत्वा सन्तोषं परमाप्स्यति ॥ ८९॥ एवं त्वया विरचिते दण्डिनीप्रीति माप्स्यति । मन्त्रिण्यपि महाभागा यास्यत्येव परां मुदम् ॥ ९०॥ तस्मात्त्वमेव सप्तैतान्निगृहाण रणाजिरे । एषां सैन्यं तु निखिलं नाशयाम उदायुधाः ॥ ९१॥ इत्युक्त्वा प्रेरिता ताभिः शक्तिभिर्युद्धकौतुकान् । तमोलिप्तेन यानेन बलाहकबलं ययौ ॥ ९२॥ तामायान्तीं समावेक्ष्य ते सप्ताथ सुराधमाः । पुनरेव च सावित्रं वरं सस्मरुरञ्जसा ॥ ९३॥ प्रविष्टमपि सावित्रं नाशकं तन्निरोधने । तिरस्कृतं तु नेत्रस्थं तिरस्करणितेजसा ॥ ९४॥ वरदानास्त्ररोषान्धं महाबलपराक्रमम् । अस्त्रेण च रुषा चान्धं बलाहकमहासुरम् । आकृष्य केशेष्वसिना चकर्तान्तर्धिदेवता ॥ ९५॥ तस्य वाहनगृध्रस्य लुनाना पत्रिणा शिरः । सूचीमुखस्याभिमुखं तिरस्करणिका व्रजत् ॥ ९६॥ तस्य पट्टिशपातेन विलूय कठिनं शिरः । अन्येषामपि पञ्चानां पञ्चत्वमकरोच्छनैः ॥ ९७॥ तैः सप्तदैत्यमुण्डैश्च ग्रथितान्योन्यकेशकैः । हारदाम गले कृत्वा ननादान्तर्धिदेवता ॥ ९८॥ समस्तमपि तत्सैन्यं शक्तयः क्रोधमूर्च्छिताः । हत्वा तद्रक्तसलिलैर्बह्वीः प्रावाहयन्नदीः ॥ ९९॥ तत्राश्चर्यमभूद्भूरि माहामायाम्बिकाकृतम् । बलाहकादिसेनान्यां दृष्टिरोधनवैभवात् ॥ १००॥ हतशिष्टाः कतिपया बहुवित्राससङ्कुलाः । शरणं जग्मुरत्यार्त्ताः क्रन्दन्तं शून्यकेश्वरम् ॥ १०१॥ दण्डिनीं च महामायां प्रशंसन्ति मुहुर्मुहुः । प्रसादमपरं चक्षुस्तस्या आदाय पिप्रियुः ॥ १०२॥ साधुसाध्विति तत्रस्थाः शक्तयः कम्पमौलयः । तिरस्करणिकां देवीमश्लाघन्त पदेपदे ॥ १०३॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने बलाहकादिसप्तसेनापतिवधो नाम चतुर्विंशोऽध्यायः ॥ २४॥

अथ विषङ्गपलायनं नाम पञ्चविंशोऽध्यायः ॥ २५॥

ततः श्रुत्वा वधं तेषां तपोबलवतामपि । न्यश्वसत्कृष्णसर्पेन्द्र इव भण्डो महासुरः ॥ १॥ एकान्ते मन्त्रयामास स आहूय महोदरौ । भण्डः प्रचण्डशौण्डीर्यः काङ्क्षमाणो रणे जयम् ॥ २॥ युवराजोऽपि सक्रोधो विषङ्गेण यवीयसा । भण्डासुरं नमस्कृत्य मन्त्रस्थानमुपागमत् ॥ ३॥ अत्याप्तैर्मन्त्रिभिर्युक्तः कुटिलाक्षपुरःसरैः । ललिताविजये मन्त्रं चकार क्वथिताशयः ॥ ४॥ भण्ड उवाच । अहो बत कुलभ्रंशः समायातः सुरद्विषाम् । उपेक्षामधुना कर्तुं प्रवृत्तो बलवान्विधिः ॥ ५॥ मद्भृत्यनाममात्रेण विद्रवन्ति दिवौकसः । तादृशानामिहास्माकमागतोऽयं विपर्ययः ॥ ६॥ करोति बलिनं क्लीबं धनिनं धनवर्जितम् । दीर्घायुषमनायुष्कं दुर्धाता भवितव्यता ॥ ७॥ क्व सत्त्वमस्मद्बाहूनां क्वेयं दुर्ल्ललिता वधूः । अकाण्ड एव विधिना कृतोऽयं निष्ठुरो विधिः ॥ ८॥ सर्पिणीमाययोदग्रास्तया दुर्घटशौर्यया । अधिसङ्ग्रामभूचक्रे सेनान्यो विनिपातिताः ॥ ९॥ एवमुद्दामदर्पाढ्या वनिता कापि मायिनी । यदि सम्प्रहरत्यस्मान्धिग्बलं नो भुजार्जितम् ॥ १०॥ इमं प्रसङ्गं वक्तुं च जिह्वा जिह्वेति मामकी । वनिता किमु मत्सैन्यं मर्दयिष्यति दुर्मदा ॥ ११॥ तदत्र मूलच्छेदाय तस्या यत्नो विधीयताम् । मया चारमुखाज्ज्ञाता तस्या वृत्तिर्महाबला ॥ १२॥ सर्वेषामपि सैन्यानां पश्चादेवावतिष्ठते । अग्रतश्चलितं सैन्यं हयहस्तिरथादिकम् ॥ १३॥ अस्मिन्नेव ह्यवसरे पार्ष्णिग्राहो विधीयताम् । पार्ष्णिग्रहमिमं कर्तुं विषङ्गश्चतुरो भवेत् ॥ १४॥ तेन प्रौढमदोन्मत्ता बहुसङ्ग्रामदुर्मदाः । दश पञ्च च सेनान्यः सह यान्तु युयुत्सया ॥ १५॥ पृष्ठतः परिवारास्तु न तथा सन्ति ते पुनः । अल्पैस्तु रक्षिता वै स्यात्तेनैवासौ सुनिग्रहा ॥ १६॥ अतस्त्वं बहुसन्नाहमाविधाय मदोत्कटः । विषङ्ग गुप्तरूपेण पार्ष्णिग्राहं समाचर ॥ १७॥ अल्पीयसी त्वया सार्द्धं सेना गच्छतु विक्रमात् । सज्जाश्चलन्तु सेनान्यो दिक्पालविजयोद्धताः ॥ १८॥ अक्षौहिण्यश्च सेनानां दश पञ्च चलन्तु ते । त्वं गुप्तवेषस्तां दुष्टां सन्निपत्य दृढं जहि ॥ १९॥ सैव निःशेषशक्तीनां मूलभूता महीयसी । तस्याः समूलनाशेन शक्तिवृन्दं विनश्यति ॥ २०॥ कन्दच्छेदे सरोजिन्या दलजालमिवाम्भसि । सर्वेषामेव पश्चाद्यो रथश्चलति भासुरः ॥ २१॥ दशयोजनसम्पन्ननिजदेहसमुच्छ्रयः । महामुक्तातपत्रेण सर्वोद्ध्व परिशोभितः ॥ २२॥ वहन्मुहुर्वीज्यमानं चामराणां चतुष्टयम् । उत्तङ्गकेतुसङ्घातलिखिताम्बुदमण्डलः ॥ २३॥ तस्मिन्रथे समायाति सा दृष्टा हरिणेक्षणा । निभृतं सन्निपत्य त्वं चिह्नेनानेन लक्षिताम् ॥ २४॥ तां विजित्य दुराचारां केशेष्वाकृष्य मर्दय । पुरतश्चलिते सैन्ये सत्त्वशालिनि सा वधूः ॥ २५॥ स्त्रीमात्ररक्षा भवतो वशमेष्यति सत्त्वरम् । भवत्सहायभूतायां सेनेन्द्रा णामिहाभिधा ॥ २६॥ श‍ृणु यैर्भवतो युद्धे साह्यकार्यमतन्द्रि तैः । आद्यो मदनको नाम दीर्घजिह्वो द्वितीयकः ॥ २७॥ हुबको हुलुमुलुश्च कक्लसः कक्लिवाहनः । थुक्लसः पुण्ड्रकेतुश्च चण्डबाहुश्च कुक्कुरः ॥ २८॥ जम्बुकाक्षो जम्भनश्च तीक्ष्णश‍ृङ्गस्त्रिकण्टकः । चन्द्रगुप्तश्च पञ्चैते दश चोक्ताश्चमूवराः ॥ २९॥ एकैकाक्षौहिणीयुक्ताः प्रत्येकं भवता सह । आगमिष्यन्ति सेनान्यो दमनाद्या महाबलाः ॥ ३०॥ परस्य कटकं नैव यथा जानाति ते गतिम् । तथा गुप्तसमाचारः पार्ष्णिग्राहं समाचर ॥ ३१॥ अस्मिन्कार्ये सुमहतां प्रौढिमानं समुद्वहन् । निषङ्ग त्वं हि लभसे जयसिद्धिमनुत्तमाम् ॥ ३२॥ इति मन्त्रितमन्त्रोऽयं दुर्मन्त्री भण्डदानवः । विषङ्गं प्रेषयामास रक्षितं सैन्यपालकैः ॥ ३३॥ अथ श्रीललितादेव्याः पार्ष्णिग्राहकृतोद्यमे । युवराजानुजे दैत्ये सूर्योऽस्तगिरिमाययौ ॥ ३४॥ प्रथमे युद्धदिवसे व्यतीते लोकभीषणे । अन्धकारः समभवत्तस्य बाह्यचिकीर्षया ॥ ३५॥ महिषस्कन्धधूम्राभं वनक्रोडवपुर्द्युति । नीलकण्ठनिभच्छायं निबिडं पप्रथे तमः ॥ ३६॥ कुञ्जेषु पिण्डितमिव प्रधावदिव सन्धिषु । उज्जिहानमिव क्षोणीविवरेभ्यः सहस्रशः ॥ ३७॥ निर्गच्छदिव शैलानां भूरि कन्दरमन्दिरात् । क्वचिद्दीपप्रभाजाले कृतकातरचेष्टितम् ॥ ३८॥ दत्तावलम्बनमिव स्त्रीणां कर्णोत्पलत्विषि । एकीभूतमिव प्रौढदिङ्नागमिव कज्जले । आबद्धमैत्रकमिव स्फुरच्छाद्वलमण्डले ॥ ३९॥ कृतप्रियाश्लेषमिव स्फुरन्तीष्वसियष्टिषु । गुप्तप्रविष्टमिव च श्यामासु वनपङ्क्तिषु ॥ ४०॥ क्रमेण बहुलीभूतं प्रससार महत्तमः । त्रियामावामनयना नीलकञ्चुकरोचिषा ॥ ४१॥ तिमिरेणावृतं विश्वं न किञ्चित्प्रत्यपद्यत । असुराणां प्रदुष्टानां रात्रिरेव बलावहा ॥ ४२॥ तेषां मायाविलासोऽयं तस्यामेव हि वर्धते । अथ प्रचलितं सैन्यं विषङ्गेण महौजसा ॥ ४३॥ धौतखड्गलताच्छायावर्धिष्णु तिमिरच्छटम् । दमनाद्याश्च सेनान्यः श्मामकङ्कटधारिणः ॥ ४४॥ श्यामोष्णीषधराः श्यामवर्णसर्वपरिच्छदाः । एकत्वमिव सम्प्राप्तास्तिमिरेणातिभूयसा ॥ ४५॥ विषङ्गमनुसञ्चेलुः कृताग्रजनमस्कृतिम् । कूटेन युद्धकृत्येन विजिगीषुर्महेश्वरीम् ॥ ४६॥ मेघडम्बरकं नाम दधे वक्षसि कङ्कटम् । यथा तस्य निशायुद्धानुरूपो वेषसङ्ग्रहः ॥ ४७॥ तथा कृतवती सेना श्यामलं कञ्चुकादिकम् । न च दुन्दुभिनिस्वानो न च मर्द्दलगर्जितम् ॥ ४८॥ पणवानकभेरीणां न च घोषविजृम्भणम् । गुप्ताचाराः प्रचलितास्तिमिरेण समावृताः ॥ ४९॥ परैरदृश्यगतयो विष्कोशीकृतरिष्टयः । पश्चिमाभिमुखं यान्ति ललितायाः पताकिनीम् ॥ ५०॥ आवृतोत्तरमार्गेण पूर्वभागमशिश्रियन् । निश्वासमपि सस्वानमकुर्वन्तः पदेपदे ॥ ५१॥ सावधानाः प्रचलिताः पार्ष्णिग्राहाय दानवाः । भूयः पुरस्य दिग्भागं गत्वा मन्दपराक्रमाः ॥ ५२॥ ललितासैन्यमेव स्वान्सूचयन्तः प्रपृच्छतः । आगत्य निभृतं पृष्ठे कवचच्छन्नविग्रहाः ॥ ५३॥ चक्रराजरथं तुङ्गं मेरुमन्दरसन्निभम् । अपश्यन्नतिदीप्ताभिः शक्तिभिः परिवारितम् ॥ ५४॥ तत्र मुक्तातपत्रस्य वर्त्तमानामधःस्थले । सहस्रादित्यसङ्काशां पश्चिमाभिमुखीं स्थिताम् ॥ ५५॥ कामेश्वर्यादिनित्याभिः स्वसमानसमृद्धिभिः । नर्मालापविनोदेन सेव्यमानां रथोत्तमे ॥ ५६॥ तां तथाभूतवृत्तान्ताम तादृशरणोद्यमाम् । पुरोगतं महत्सैन्यं वीक्षमाण सकौतुकम् ॥ ५७॥ मन्वानश्च हि तामेव विषङ्गः सुदुराशयः । पृष्ठवंशे रथेन्द्रस्य घट्टयामास सैनिकैः ॥ ५८॥ तत्राणिमादिशक्तीनां परिवारवरूथिनी । महाकलकलं चक्रुरणिमाद्याः परःशतम् ॥ ५९॥ पट्टिशैर्द्रुघणैश्चैव भिन्दिपालैर्भुशुण्डिभिः । कठोरवज्रनिर्घातनिष्ठुरैः शक्तिमण्डलैः ॥ ६०॥ मर्दयन्तो महासत्त्वाः समरं बहुमेनिरे । आकस्मिकरणोत्साहविपर्याविष्टविग्रहम् ॥ ६१॥ अकाण्डक्षुभितं चासीद्रथस्थं शक्तिमण्डलम् । विपाटैः पाटयामासुरदृश्यैरन्धकारिणः ॥ ६२॥ ततश्चक्ररथेन्द्रस्य नवमे पर्वणि स्थिताः । अदृश्यमानशस्त्राणामदृश्यनिजवर्मणाम् ॥ ६३॥ तिमिरच्छन्नरूपाणां दानवानां शिलीमुखैः । इतस्ततो बहु क्लिष्टं छन्नवर्मितमर्मवत् ॥ ६४॥ शक्तीनां मण्डलं तेने क्रन्दनं ललितां प्रति । पूर्वानुक्रमतस्तत्र सम्प्राप्तं सुमहद्भयम् ॥ ६५॥ कर्णाकर्णिकयाकर्ण्य ललिता कोपमादधे । एतस्मिन्नन्तरे भण्डश्चण्डदुर्मन्त्रिपण्डितः ॥ ६६॥ दशाऽक्षौहिणिकायुक्तं कुटिलाक्षं महौजसम् । ललितासैन्यनाशाय युद्धाय प्रजिघाय सः ॥ ६७॥ यथा पश्चात्कलकलं श्रुत्वाग्रे वर्तिनी चमूः । नागच्छति तथा चक्रे कुटिलाक्षो महारणम् ॥ ६८॥ एवं चोभयतो युद्धं पश्चादग्रे तथाऽभवत् । अत्यन्ततुमुलं चासीच्छक्तीनां सैनिके महत् ॥ ६९॥ नक्तसत्त्वाश्च दैत्येन्द्रा स्तिमिरेण समावृताः । इतस्ततः शिथिलतां कण्टके निन्युरुद्धताः ॥ ७०॥ निषङ्गेण दुराशेन धमनाद्यैश्चमूवरैः । चमूभिश्च प्रणहिता न्यपतञ्छत्रुकोटयः ॥ ७१॥ ताभिर्दैत्यास्त्रमालाभिश्चक्रराजरथो वृतः । बकावलीनिबिडतः शैलराज इवाबभौ ॥ ७२॥ आक्रान्तपर्वणाधस्ताद्विषङ्गेण दुरात्मना । मुक्त एकः शरो देव्यास्तालवृन्तमचूर्णयत् ॥ ७३॥ अथ तेनाव्याहितेन सम्भ्रान्ते शक्तिमण्डले । कामेश्वरीमुखा नित्या महान्तं क्रोधमाययुः ॥ ७४॥ ईषद्भृकुटिसंसक्तं श्रीदेव्या वदनाम्बुजम् । अवलोक्य भृशोद्विग्ना नित्या दधुरतिश्रमम् ॥ ७५॥ नित्या कालस्वरूपिण्यः प्रत्येकं तिथिविग्रहाः । क्रोधमुद्वीक्ष्य सम्नाज्ञ्या युद्धाय दधुरुद्यमम् ॥ ७६॥ प्रणिपत्य च तां देवीं महाराज्ञीं महोदयाम् । ऊचुर्वाचमकाण्डोत्थां युद्धकौतुकगद्गदाम् ॥ ७७॥ तिथिनित्या ऊचुः । देवदेवी महाराज्ञी तवाग्रे प्रेक्षितां चमूम् । दण्डिनीमन्त्रनाथादिमहाशक्त्याभपालिताम् ॥ ७८॥ धर्षितु कातरा दुष्टा मायाच्छद्मपरायणाः । पार्ष्णिग्राहेण युद्धेन बाधन्ते रथपुङ्गवम् ॥ ७९॥ तस्मात्तिमिरसञ्छन्नमूर्तीनां विबुधद्रुहाम् । शमयामो वयं दर्पं क्षणमात्रं विलोकय ॥ ८०॥ या वह्निवासिनी नित्या या ज्वालामालिनी परा । ताभ्यां प्रदीपिते युद्धे द्रष्टुं शक्ताः सुरद्विषः ॥ ८१॥ प्रशमय्य महादर्पं पार्ष्णिग्राहप्रवर्तिनाम् । सहसैवागमिष्यामः सेवितुं श्रीपदाम्बुजम् । आज्ञां देहि महाराज्ञि मर्दनार्थं दुरात्मनाम् ॥ ८२॥ इत्युक्ते सति नित्याभिस्तथास्त्विति जगाद सा । अथ कामेश्वरी नित्या प्रणम्य ललितेश्वरीम् । तया सम्प्रेषिता ताभिः कुण्डलीकृत कार्मुका ॥ ८३॥ सा हन्तुं तान्दुराचारान्कूटयुद्धकृतक्षणान् । बालारुणमिव क्रोधारुणं वक्त्रं वितन्वती ॥ ८४॥ रे रे तिष्ठत पापिष्ठा मायानिष्ठाश्छिनद्मि वः । अन्धकारमनुप्राप्य कूटयुद्धपरायणाः ॥ ८५॥ इति तान्भर्त्सयन्ती सा तूणीरोत्खातसायकात् । पर्वावरोहणं चक्रे क्रोधेन प्रस्खलद्गतिः ॥ ८६॥ सज्जकार्मुकहस्ताश्च भगमालापुरःसराः । अन्याश्च चरिता नित्याः कृत पर्वावरोहणाः ॥ ८७॥ ज्वालामालिनि नित्या च या नित्या वह्निवासिनी । सज्जे युद्धे स्वतेजोभिः समदीपयतां रणे ॥ ८८॥ अथ ते दुष्टदनुजाः प्रदीप्ते युद्धमण्डले । प्रकाशवपुषस्तत्र मरान्तं क्रोधमाययुः ॥ ८९॥ कामेश्वर्यादिका नित्यास्ताः पञ्चदश सायुधाः । ससिंहनादास्तान्दैत्यानमृद्नन्नेव हेलया ॥ ९०॥ महाकलकलस्तत्र समभूद्युद्धसीमनि । मन्दरक्षोभिताम्भोधिवेल्लत्कल्लोलमण्डलः ॥ ९१॥ ताश्च नित्यावलत्क्वाणकङ्कणैर्युधि पाणिभिः । आकृष्य प्राणकोदण्डास्तेनिरे युद्धमुद्धतम् ॥ ९२॥ यामत्रितयपर्यन्तमेवं युद्धमवर्त्तत । नित्यानां निशितैर्बाणैरक्षौहिण्यश्च संहृताः ॥ ९३॥ जघान दमनं दुष्टं कामेशी प्रथमं शरैः । दीर्घजिह्वं चमूनाथं भगमाला व्यदारत् ॥ ९४॥ नित्यक्लिन्ना च भेरुण्डा हुम्बेकं हुलुमल्लकम् । कक्लसं वह्निवासा च निजघान शरैः शतैः ॥ ९५॥ महावज्रेश्वरी बाणैरभिनत्केकिवाहनम् । पुक्लसं शिवदूती च प्राहिणोद्यमसादनम् ॥ ९६॥ पुण्ड्रकेतुं भुजोद्दण्डं त्वरिता समदारयत् । कुलसुन्दरिका नित्या चण्डबाहुं च कुक्कुरम् ॥ ९७॥ अथ नीलपताका च विजया च जयोद्धते । जम्बुकाक्षं जृम्भणं च व्यतन्वातां रणे बलिम् । सर्वमङ्गलिका नित्या तीक्ष्णश‍ृङ्गमखण्डयत् । ज्वालामालिनिका नित्या जघानोग्रं त्रिकर्णकम् ॥ ९८॥ चन्द्रगुप्तं च दुःशीलं चित्रं चित्रा व्यदारत् । सेनानाथेषु सर्वेषु निहतेषु दुरात्मसु ॥ ९९॥ विषङ्गः परमः कुद्धश्चचाल पुरतो बली । अथ यामावशेषायां यामिन्यां घटिकाद्वयम् ॥ १००॥ नित्याभिः सह सङ्ग्रामं विधाय स दुराशयः । अशक्यत्वं समुद्दिश्य चक्राम प्रपलायितुम् ॥ १०१॥ कामेश्वरीकराकृष्टचापोत्थैर्निशितैः शरैः । भिन्नवर्मा दृढतरं विषङ्गो विह्वलाशयः । हतावशिष्टैर्योधैश्च सार्धमेव पलायितः ॥ १०२॥ ताभिर्न निहतो दुष्टो यस्माद्वध्यः स दानवः । दण्डनाथाशरेणैव कालदण्डसमत्विषा ॥ १०३॥ तस्मिन्पलायिते दुष्टे विषङ्गे भण्डसोदरे । सा विभाता च रजनी प्रसन्नाश्चाभवन्दिशः ॥ १०४॥ पलायितं रणे वीरमनुसर्त्तुमनौचिती । इति ताः समरान्नित्यास्तस्मिन्काले व्यरंसिषुः ॥ १०५॥ दैत्यशस्त्रव्रणस्यन्दिशोणितप्लुतविग्रहाः । नित्याः श्रीललितां देवीं प्रणिपेतुर्जयोद्धताः ॥ १०६॥ इत्थं रात्रौ महद्युद्धं तत्र जातं भयङ्करम् । नित्यानां रूपजालं च शस्त्रक्षतमलोकयत् ॥ १०७॥ श्रुत्वोदन्तं महाराज्ञी कृपापाङ्गेन सैक्षत । तदालोकनमात्रेण व्रणो निर्व्रणतामगात् ॥ १०८॥ नित्यानां विक्रमैश्चापि ललिता प्रीतिमासदत् ॥ १०९॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने विषङ्गपलायनं नाम पञ्चविंशोऽध्यायः ॥ २५॥

अथ भण्डपुत्रवधो नाम षड्विंशोऽध्यायः ॥ २६॥

प्रथमयुद्धदिवसः । दशाक्षौहिणिकायुक्तः कुटिलाक्षोऽपि वीर्यवान् । दण्डनाथाशरैस्तीक्ष्णै रणे भग्नः पलायितः । दशाक्षौहिणिकं सैन्यं तया रात्रौ विनाशितम् ॥ १॥ इमं वृत्तान्तमाकर्ण्य भण्डः क्षोभमथाययौ । रात्रौ कपटसङ्ग्रामं दुष्टानां निर्जरद्रुहाम् । मन्त्रिणी दण्डनाथा च श्रुत्वा निर्वेदमापतुः ॥ २॥ अहो बत महत्कष्टं दैत्यैर्देव्याः समागतम् । उत्तानबुद्धिभिर्दूरमस्माभिश्चलितं पुरः ॥ ३॥ महाचक्ररथेन्द्रस्य न जातं रक्षणं बलैः । एतं त्ववसरं प्राप्य रात्रौ दुष्टैः पराकृतम् ॥ ४॥ को वृत्तान्तोऽभवत्तत्र स्वामिन्या किं रणः कृतः । अन्या वा शक्तयस्तत्र चक्रुर्युद्धं महासुरैः ॥ ५॥ विम्रष्टव्यमिदं कार्यं प्रवृत्तिस्तत्र कीदृशी । महादेव्याश्च हृदये कः प्रसङ्गः प्रवर्तते ॥ ६॥ इति शङ्काकुलास्तत्र दण्डनाथापुरोगमाः । मन्त्रिणीं पुरतः कृत्वा प्रचेलुर्ललितां प्रति ॥ ७॥ शक्तिचक्रचमूनाथाः सर्वास्ताः पूजिता द्रुतम् । व्यतीतायां विभावर्यां रथेन्द्रं पर्यवारयन् ॥ ८॥ अवरुह्य स्वयानाभ्यां मन्त्रिणीदण्डनायिके । अधस्तात्सैन्यमावेश्य तदारुरुहतू रथम् ॥ ९॥ क्रमेण नव पर्वाणि व्यतीत्य त्वरितक्रमैः । तत्तत्सर्वगतैः शक्तिचक्रैः सम्यङ् निवेदितैः ॥ १०॥ अभजेतां महाराज्ञीं मन्त्रिणीदण्डनायिके । ते व्यजिज्ञपतां देव्या अष्टाङ्गस्पृष्टभूतले ॥ ११॥ महाप्रमादः समभूदिति नः श्रुतमम्बिके । कूटयुद्धप्रकारेण दैत्यैरपकृतं खलैः ॥ १२॥ स दुरात्मा दुराचारः प्रकाशसमारात्त्रसन् । कुहकव्यवहारेण जयसिद्धिं तु काङ्क्षति ॥ १३॥ दैवान्नः स्वामिनीगात्रे दुष्टानाममरद्रुहाम् । शरादिकपरामर्शो न जातस्तेन जीवति ॥ १४॥ एकावलम्बनं कृत्वा महाराज्ञि भवत्पदम् । वयं सर्वा हि जीवामः साधयामः समीहितम् ॥ १५॥ अतोऽस्माभिः प्रकर्तव्यं श्रीमत्यङ्गस्य रक्षणम् । मायाविनश्च दैत्येन्द्रा स्तत्र मन्त्रो विधीयताम् ॥ १६॥ आपत्कालेषु जेतव्या भण्डाद्या दानवाधमाः । कूटयुद्धं न कुर्वन्ति न विशन्ति चमूमिमाम् ॥ १७॥ तथा महेन्द्रशैलस्य कार्यं दक्षिणदेशतः । शिबिरं बहुविस्तारं योजनानां शतावधि ॥ १८॥ वह्लिप्राकारवलयं रक्षणार्थं विधीयताम् । अस्मत्सेनानिवेशस्य द्विषां दर्पशमाय च ॥ १९॥ शतयोजनमात्रस्तु मध्यतेशः प्रकल्प्यताम् । वह्निप्राकाराचक्रस्य द्वारं दक्षिणतो भवेत् ॥ २०॥ यतो दक्षिणदेशस्थं शून्यकं विद्विषां पुरम् । द्वारे च बहवः कल्प्याः परिवारा उदायुधाः ॥ २१॥ निर्गच्छतां प्रविशतां जनानामुपरोधकाः । अनालस्या अनिद्राश्च विधेयाः सततोद्यताः ॥ २२॥ एवं च सति दुष्टानां कूटयुद्धं चिकीर्षितम् । अवेलासु च सन्ध्यासु मध्यरात्रिषु च द्विषाम् । अशक्यमेव भवति प्रौढमाक्रमणं हठात् ॥ २३॥ नो चेद्दुराशया दैत्या बहुमायापरिग्रहाः । पश्यतोहरवत्सर्वं विलुठन्ति महद्बलम् ॥ २४॥ मन्त्रिण्या दण्डनाथाया इति श्रुत्वा वचस्तदा । शुचिदन्तरुचा मुक्ता वहन्ती ललिताब्रवीत् ॥ २५॥ भवतीनामयं मन्त्रश्चारुबुद्ध्या विचारितः । अयं कुशलधीमार्गो नीतिरेषा सनातनी ॥ २६॥ स्वचक्रस्य पुरो रक्षां विधाय दृढसाधनैः । परचक्राक्रमः कार्यो जिगीषद्भिर्महाजनैः ॥ २७॥ इत्युक्त्वा मन्त्रिणीदण्डनाथे सा ललितेश्वरी । ज्वालामालिनिकां नित्यामाहूयेदमुवाच ह ॥ २८॥ वत्से त्वं वह्निरूपासि ज्वालामालामयाकृतिः । त्वया विधीयतां रक्षा बलस्यास्य महीयसः ॥ २९॥ शतयोजनविस्तारं परिवृत्य महीतलम् । त्रिंशद्योजनमुन्नद्धं ज्वालाकारत्वमाव्रज ॥ ३०॥ द्वारयोजनमात्रं तु मुक्त्वान्यत्र ज्वलत्तनुः । वह्निज्वालात्वमापन्ना संरक्ष सकलं बलम् ॥ ३१॥ ज्वालामालिनिकां नित्यामित्युक्त्वा ललितेश्वरी । महेन्द्रो त्तरभूभागं चलितुं चक्र उद्यमम् ॥ ३२॥ सा च नित्यानित्यमयी ज्वलज्ज्वालामयाकृतिः । चतुर्दशीतिथिमयी तथेति प्रणनाम ताम् ॥ ३३॥ तयैव पूर्वनिर्दिष्टं महेन्द्रो त्तरभूतलम् । कुण्डलीकृत्य जज्वालशालरूपेण सा पुनः ॥ ३४॥ नभोवलयजम्बालज्वालामालामयाकृतिः । बभासे दण्डनाथाया मन्त्रिनाथचमूरपि ॥ ३५॥ अन्यासामपि शक्तीनां महतीनां महद्बलम् । विशङ्कटोदरं सालं प्रविवेश गतक्लमा ॥ ३६॥ राजचक्ररथेन्द्रं तु मध्ये संस्थाप्य दण्डिनी । वामपक्षे रथं स्वीयं दक्षिणे श्यामलारथम् ॥ ३७॥ पश्चाद्भागे सम्पदेशीं पुरस्ताश्च हयासनाम् । एवं संवेश्य परितश्चक्रराजरथस्य च ॥ ३८॥ द्वारे निवेशयामास विंशत्यक्षौहिणीयुताम् । ज्वलद्दण्डायुधोदग्रां स्तम्भिनीं नाम देवताम् ॥ ३९॥ या देवी दण्डनाथाया विघ्नदेवीति विश्रुता । एवं सुरक्षितं कृत्वा शिबिरं योत्रिणी तथा । पूषण्युदितभूयिष्ठे पुनर्युद्धमुपाश्रयत् ॥ ४०॥ कृत्वा किलकिलारावं ततः शक्तिमहाचमूः । अग्निप्राकारकद्वारान्निर्जगाम महारवा ॥ ४१॥ इत्थं सुरक्षितं श्रुत्वा ललिताशिबिरोदरम् । भूयः सञ्ज्वरमापन्नः प्रचण्डो भण्डदानवः ॥ ४२॥ मन्त्रयित्वा पुनस्तत्र कुटिलाक्षपुरोगमैः । विषङ्गेण विशुक्रेणासममात्मसुतैरपि ॥ ४३॥ एकौघस्य प्रसारेण युद्धं कर्तुं महाबलः । चतुर्बाहुमुखान्पुत्रांश्चतुर्जलधिसन्निभान् ॥ ४४॥ चतुरान्युद्धकृत्येषु समाहूय स दानवः । प्रेषयामास युद्धाय भण्डश्चण्डक्रुधा ज्वलन् ॥ ४५॥ त्रिंशत्सङ्ख्याश्च तत्पुत्रा महाकाया महाबलाः । तेषां नामानि वक्ष्यामि समाकर्णय कुम्भज ॥ ४६॥ चतुर्बाहुश्चकोराक्षस्तृतीयस्तु चतुःशिराः । वज्रघोषश्चोर्ध्वकेशो महाकायो महाहनुः ॥ ४७॥ मखशत्रुर्मखस्कन्दीसिंहघोषः सिरालकः । लडुनः पट्टसेनश्च पुराजित्पूर्वमारकः ॥ ४८॥ स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः । अतिमायो बृहन्माय उपमायश्च वीर्यवान् ॥ ४९॥ इत्येते दुर्मदाः पुत्रा भण्डदैत्यस्य दुर्द्धियः । पितुः सदृशदोर्वीर्याः पितुः सदृशविग्रहाः ॥ ५०॥ आगत्य भण्डचरणावभ्यवन्दत भक्तितः । तानुद्वीक्ष्य प्रसन्नाभ्यां लोचनाभ्यां स दानवः । सगौरवमिदं वाक्यं बभाषे कुलघातकः ॥ ५१॥ भो भो मदीयास्तनया भवतां कः समो भुवि । भवतामेव सत्येन जितं विश्वं मया पुरा ॥ ५२॥ शक्रस्याग्नेर्यमस्यापि निरृतेः पाशिनस्तथा । कचेषु कर्षणं कोपात्कृतं युष्माभिराहवे ॥ ५३॥ अस्त्राण्यपि च शस्त्राणि जानीथ निखिलान्यपि । जाग्रत्स्वेव ही युष्मासु कुलभ्रंशोऽयमागतः ॥ ५४॥ मायाविनी दुललिता काचित्स्त्री युद्धदुर्मदा । बहुभिः स्वसमानाभिः स्त्रीभिर्युक्ता हिनस्ति नः ॥ ५५॥ तदेनां समरेऽवश्यमात्मवश्यां विधास्यथ । जीवग्राहं च सा ग्राह्या भवद्भिर्ज्वलदायुधैः ॥ ५६॥ अप्रमेयप्रकोपान्धान्युष्मानेकां स्त्रियं प्रति । सम्प्रेषणमनौचित्यं तथाप्येष विधेः क्रमः ॥ ५७॥ इममेकं सहध्वं च शौर्यकीर्तिविपर्ययम् । इत्युक्त्वा भण्डदैत्येन्द्रस्तान्प्रहैषीद्रणं प्रति । द्विशतं चाक्षौहिणीनां तत्सहायतयाऽहिनोत् ॥ ५८॥ द्विशत्यक्षौहिणीसेना मुख्यस्य तिलकायिता । बद्धभ्रुकुटयः शस्त्रपाणयो निर्ययुर्गृहात् ॥ ५९॥ निर्गमे भण्डपुत्राणां भूः प्रकम्पमलम्बत । उत्पाता विविधा जाता वित्रस्तं चाभवज्जगत् ॥ ६०॥ तान्कुमारान्महासत्त्वांल्लाजवर्षैरवाकिरन् । वीथीषु यानैश्चलितान्पौरवृद्धपुरन्ध्रयः ॥ ६१॥ बन्दिनो मागधाश्चैव कुमाराणां स्तुतिं व्यधुः । मङ्गलारार्तिकं चक्रुर्द्वारेद्वारे पुराङ्गनाः ॥ ६२॥ भिद्यमानेव वसुधा कृष्यमाणमिवाम्बरम् । आसीत्तेषां विनिर्याणे घूर्णमान इवार्णवः ॥ ६३॥ द्विशत्यक्षौहिणीसेनां गृहीत्वा भण्डसूनवः । क्रोधोद्यद्भ्रुकुटीक्रूरवदना निर्ययुः पुरात् ॥ ६४॥ शक्तिसैन्यानि सर्वाणि भक्षयामः क्षणाद्रणे । तेषामायुधचक्राणि चूर्णयामः शितैः शरैः ॥ ६५॥ अग्निप्राकारवलयं शमयामश्च रंहसा । दुर्विदग्धां तां ललितां बन्दीकुर्मश्च सत्वरम् ॥ ६६॥ इत्यन्योन्यं प्रवल्गन्तो वीरभाषणघोषणैः । आसेदुरग्निप्राकारसमीपं भण्डसूनवः ॥ ६७॥ यौवनेन मदेनान्धा भूयसा रुद्धदृष्टयः । भ्रुकुटीकुटिलाश्चक्रुः सिंहनादं महत्तरम् ॥ ६८॥ विदीर्णमिव तेनासीद्ब्रह्माण्ड चण्डिमस्पृशा । उत्पातवारिदोत्सृष्टघोरनिर्घातरंहसा ॥ ६९॥ एतस्याननुभूतस्य महाशब्दस्य डम्बरः । क्षोभयामास शक्तीनां श्रवांसि च मनांसि च ॥ ७०॥ आगत्य ते कलकलं चक्रुः सार्धं स्वसैनिकैः । विविधायुधसम्पातमूर्च्छद्वैमानिकच्छटम् ॥ ७१॥ चतुर्बाहुमखान्भूत्वा भण्डदैत्यकुमारकान् । आगतान्युद्धकृत्याय बाला कौतूहलं दधे ॥ ७२॥ कुमारी ललितादेव्यास्तस्या निकटवासिनी । समस्तशक्तिचक्राणां पूज्या विक्रमशालिनी ॥ ७३॥ ललितासदृशाकारा कुमारी कोपमादधे । या सदा नववर्षेव सर्वविद्यामहाखनिः ॥ ७४॥ बालारुणतनुःश्रोणीशोणवर्णवपुर्लता । महाराज्ञी पादपीठे नित्यमाहितसन्निधिः ॥ ७५॥ तस्या बहिश्चराः प्राणा या चतुर्थं विलोचनम् । तानागतान्भण्डसुतान्संहरिष्यामि सत्वरम् ॥ ७६॥ इति निश्चित्य बालाम्बा महाराज्ञ्यै व्यजिज्ञपत् । मातर्भण्डमहादैत्यसूनवो योद्धुमागताः ॥ ७७॥ तैः समं योद्धुमिच्छामि कुमारित्वात्सकौतुका । सफुरन्ताविव मे बाहू युद्धकण्डूययानया ॥ ७८॥ क्रीडा ममैषा हन्तव्या न भवत्या निवारणैः । अहं हि वालिका नित्यं क्रीडनेष्वनुरागिणी ॥ ७९॥ क्षणं रणक्रीडया च प्रीतिं यास्यामि चेतसा । इति विज्ञापिता देवी प्रत्युवाच कुमारिकाम् ॥ ८०॥ वत्से त्वमतिमृद्वङ्गी नववर्षा नवक्रमा । नवीनयुद्धशिक्षा च कुमारी त्वं ममैकिका ॥ ८१॥ त्वां विना क्षणमात्रं मे न निश्वासः प्रवर्तते । ममोच्छ्वसितमेवासि न त्वं याहि महाहवम् ॥ ८२॥ दण्डिनी मन्त्रिणी चैव शक्तयोऽन्याश्च कोटिशः । सन्त्येव समरे कर्तुं वत्से त्वं किं प्रमाद्यसि ॥ ८३॥ इति श्रीललितादेव्या निरुद्धापि कुमारिका । कौमारकौतुकाविष्टा पुनर्युद्धमयाचत ॥ ८४॥ सुदृढं निश्चयं दृष्ट्वा तस्याः श्रीललिताम्बिका । अनुज्ञां कृतवत्येव गाढमाश्लिष्य बाहुभिः ॥ ८५॥ स्वकीयकवचादेकमाच्छिद्य कवचं ददौ । स्वायुधेभ्यश्चायुधानि वितीर्य विससर्ज ताम् ॥ ८६॥ कर्णीरथं महाराज्ञ्या चापदण्डात्समुद्धृतम् । हंसयुग्यशतैर्युक्तमारुरोह कुमारिका ॥ ८७॥ तस्यां रणे प्रवृत्तायां सर्वपर्वस्थदेवताः । बद्धाञ्जलिपुटा नेमुः प्रधृतासिपरम्पराः ॥ ८८॥ ताभिः प्रणम्यमाना सा चक्रराजरथोत्तमात् । अवरुह्य तले सैन्यं वर्तमानमगाहत ॥ ८९॥ तामायान्तीमथो दृष्ट्वा कुमारीं कोपपाटलाम् । मन्त्रिणीदण्डनाथे च सभये वाचमूचतुः ॥ ९०॥ किं भर्तृदारिके युद्धे व्यवसायः कृतस्त्वया । अकाण्डे किं महाराज्ञ्या प्रेषितासि रणं प्रति ॥ ९१॥ तदेतदुचितं नैव वर्तमानेऽपि सैनिके । त्वं मूर्तं जीवितमसि श्रीदेव्या बालिके यतः ॥ ९२॥ निवर्तस्व रणोत्साहात्प्रणामस्ते विधीयते । इति ताभ्यां प्रार्थितापि प्राचलद्दृढनिश्चया ॥ ९३॥ अत्यन्तं विस्मयाविष्टे मन्त्रिणीदण्डनायिके । सहैव तस्या रक्षार्थं चेलतुः पार्श्वयोर्द्वयोः ॥ ९४॥ अथाग्निवरणद्वारा ताभ्यामनुगता सती । प्रभूतसेनायुक्ताभ्यां निर्जगाम कुमारिका ॥ ९५॥ सनाथशक्तिसेनानां सर्वासामनुगृह्णती । प्रणामाञ्जलिजालानि कर्णीरथकृतासना ॥ ९६॥ भण्डस्य तनयान्दुष्टानभ्यद्रवदरिन्दमा । तस्याः प्रादेशिकं सैन्यं कुमार्या न हि विद्यते ॥ ९७॥ सर्वं हि ललितासैन्यं तत्सैन्यं समजायत । ततः प्रववृते युद्धमत्युद्धतापराक्रमम् ॥ ९८॥ ववर्ष शरजालानि दैत्येन्द्रे षु कुमारिका । भण्डासुरकुमारैस्तैर्महाराज्ञीकुमारिका । यद्युद्धमतनोत्तत्तु स्पृहणीयं सुरासुरैः ॥ ९९॥ अत्यन्तविस्मिता दैत्यकुमारा नववर्षिणीम् । कर्णीरथस्थामालोक्य किरन्तीं शरमण्डलम् ॥ १००॥ क्षणेक्षणे बालिकया क्रियमाणं महारणम् । व्यजिज्ञपन्महाराज्ञ्यै भ्रमन्त्यः परिचारिकाः ॥ १०१॥ मन्त्रिणीदण्डनाथे च न तां विजहतू रणे । प्रेक्षकत्वमनुप्राप्ते तृष्णीमेव बभूवतुः ॥ १०२॥ सर्वेषां दैत्यपुत्राणामेकरूपा कुमारिका । प्रत्येकभिन्ना ददृशे बिम्बमालेव भास्वतः ॥ १०३॥ सायकैरग्निचूडालैस्तेषां मर्माणि भिन्दती । रक्तोत्पलमिव क्रोधसंरक्तं बिभ्रती मुखम् ॥ १०४॥ आश्चर्यं ब्रुवतो व्योम्नि पश्यतां त्रिदिवौकसाम् । साधुवादैर्बहुविधैर्मत्रिणीदण्डनाथयोः ॥ १०५॥ अर्च्यमाना रणं चक्रे लघुहस्ता कुमारिका । द्वितीयं युद्धदिवसं समस्तमपि सा रणे ॥ १०६॥ प्रकाशयामास बलं ललितादुहिता निजम् । अस्त्रप्रत्यस्त्रमोक्षेण तान्सर्वानपिभिन्दती ॥ १०७॥ नारायणास्त्रमोक्षेण महराज्ञीकुमारिका । द्विशत्यक्षौहिणीसैन्यं भस्मसादकरोत्क्षणात् ॥ १०८॥ अक्षौहिणीनां क्षयतः क्षणात्कोपमुपागताः । आकृष्टगुरुधन्वानस्तेऽपतन्नेकहेलया ॥ १०९॥ ततः कलकले जाते शक्तीनां च दिवौकसाम् । युगपत्त्रिंशतो बाणानसृजत्सा कुमारिका ॥ ११०॥ हस्तलाघवमाश्रित्य मुक्तैश्चन्द्रा र्धसायकैः । त्रिंशता त्रिंशतो भण्डपुत्राणामाहतं शिरः ॥ १११॥ इति भण्डस्य पुत्रेषु प्राप्तेषु यमसादनम् । अत्यन्तविस्मयाविष्टा वबृषुः पुष्पमभ्रगाः ॥ ११२॥ सा च पुत्री महाराज्ञ्याः विध्वस्तासुरमैनिका । मन्त्रिणीदण्डनाथाभ्यामालिङ्ग्यत भृशं मुदा ॥ ११३॥ तस्याः पराक्रमोन्मेषैर्नृत्यन्त्योजयदायिभिः । शक्तयस्तुमुलं चक्रुः साधुवादैर्जगत्त्रयम् ॥ ११४॥ सर्वाश्च शक्तिसेनान्यो दण्डनाथापुरःसराः । तदाश्चर्यं महाराज्ञ्यै निवेदयितुमुद्गताः ॥ ११५॥ ताभिर्निवेद्यमानानि सा देवी ललिताम्बिका । पुत्रीभुजावदानानि श्रुत्वा प्रीतिं समाययौ ॥ ११६॥ समस्तमपि तच्चक्रं शक्तीनां तत्पराक्रमैः । अदृष्टपूर्वैर्देवेषु विस्मयस्य वशं गतम् ॥ ११७॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने भण्डपुत्रवधो नाम षड्विंशोऽध्यायः ॥ २६॥

अथ गणनाथपराक्रमो नाम सप्तविंशोऽध्यायः ॥ २७॥

अथ नष्टेषु पुत्रेषु शोकानलपरिप्लुतः । विललाप स दैत्येन्द्रो मत्वा जातं कुलक्षयम् ॥ १॥ हा पुत्रा हा गुणोदारा हा मदेकपरायणाः । हा मन्नेत्रसुधापूरा हा मत्कुलविवर्धनाः ॥ २॥ हा समस्तसुरश्रेष्ठमदभञ्जनतत्पराः । हा समस्तसुरस्त्रीणामन्तर्मोहनमन्मथाः ॥ ३॥ दिशत प्रीतिवाचं मे ममाङ्के वल्गताधुना । किमिदानीमिमं तातमवमुच्य सुखं गताः ॥ ४॥ युष्मान्विना न शोभन्ते मम राज्यानि पुत्रकाः । रिक्तानि मम गेहानि रिक्ता राजसभापि मे ॥ ५॥ कथमेवं विनिःशेषं हता यूयं दुराशयाः । अप्रधृष्यभुजासत्त्वान्भवतो मत्कुलाङ्कुरान् । कथमेकपदे दुष्टा वनिता सङ्गरेऽवधीत् ॥ ६॥ मम नष्टानि सौख्यानि मम नष्टाः कुलस्त्रियः । इतः परं कुले क्षीणे साहसानि सुखानि च ॥ ७॥ भवतः सुकृतैर्लब्ध्वा मम पूर्वजनुःकृतैः । नाशोऽयं भवतामद्य जातो नष्टस्ततोऽस्म्यहम् ॥ ८॥ हा हतोऽस्मि विपन्नोऽस्मि मन्दभाग्योऽस्मि पुत्रकाः । इति शोकात्स पर्यस्यन्प्रलपन्मुक्तमूर्धजः । मूर्च्छया लुप्तहृदयो निष्पपात नृपासनात् ॥ ९॥ विशुक्रश्च विषङ्गश्च कुटिलाक्षश्च संसदि । भण्डमाश्वासयामासुर्दैवस्य कुटिलक्रमैः ॥ १०॥ विशुक्र उवाच । देवकि प्राकृत इव प्राप्तः शोकस्य वश्यताम् । लपसि त्वे प्रति सुतान्प्राप्तमृत्यून्महाहवे ॥ ११॥ धर्मवान्विहितः पन्था वीराणामेष शाश्वतः । अशोच्यमाहवे मृत्युं प्राप्नुवन्ति यदर्हितम् ॥ १२॥ एतदेव विनाशाय शल्यवद्बाधते मनः । यत्स्त्री समागत्य हठान्निहन्ति सुभटान्रणे ॥ १३॥ इत्युक्ते तेन दैत्येन पुत्रशोको व्यमुच्यत । भण्डेन चण्डकालाग्निसदृशः क्रोध आदधे ॥ १४॥ स कोशात्क्षिप्रमुद्धृत्य खड्गमुग्रं यमोपमम् । विस्फारिताक्षियुगलो भृशं जज्वाल तेजसा ॥ १५॥ इदानीमेव तां दुष्टां खड्गेनानेन खण्डशः । शकलीकृत्य समरे श्रमं प्राप्स्यामि बन्धुभिः ॥ १६॥ इति रोषस्खलद्वर्णः श्वसन्निव भुजङ्गमः । खड्गं विधुन्वन्नुत्थाय प्रचचालातिमत्तवत् ॥ १७॥ तं निरुध्य च सम्भ्रान्ताः सर्वे दानवपुङ्गवाः । वाचमूचुरतिक्रोधाज्ज्वलन्तो ललितां प्रति ॥ १८॥ न तदर्थे त्वया कार्यः स्वामिन्सम्भ्रम ईदृशः । अस्माभिः स्वबलैर्युक्तै रणोत्साहो विधीयते ॥ १९॥ भवदाज्ञालवं प्राप्य समस्तभुवनं हठात् । विमर्द्दयितुमीशाः स्मः किमु तां मुग्धभामिनीम् ॥ २०॥ किं चूषयामः सप्ताब्धीन्क्षोदयामोऽथ वा गिरीन् । अधरोत्तरमेवैतत्त्रैलोक्यं करवाम वा ॥ २१॥ छिनदाम सुरान्सर्वान्भिनदाम तदालयान् । पिनषाम हरित्पालानाज्ञां देहि महामते ॥ २२॥ इत्युदीरितमाकर्ण्य महाहङ्कारगर्वितम् । उवाच वचनं क्रुद्धः प्रतिघारुणलोचनः ॥ २३॥ विशुक्र भवता गत्वा मायान्तर्हितवर्ष्मणा । जयविघ्नं महायन्त्रं कर्त्तव्यं कटके द्विषाम् ॥ २४॥ इति तस्य वचः श्रुत्वा विशुक्रो रोषरूषितः । मायातिरोहितवपुर्जगाम ललिताबलम् ॥ २५॥ तस्मिन्प्रयातुमुद्युक्ते सूर्योऽस्तं समुपागतः । पर्यस्तकिरणस्तोमपाटलीकृतदिङ्मुखः ॥ २६॥ अनुरागवती सन्ध्या प्रयान्तं भानुमालिनम् । अनुवव्राज पातालकुञ्जे रन्तुमिवोत्सुका ॥ २७॥ वेगात्प्रपततो भानोर्देहसङ्गात्समुत्थिताः । चरमाब्धेरिव पयःकणास्तारा विरेजिरे ॥ २८॥ अथाससाद बहुलं तमः कज्जलमेचकम् । सार्थं कर्त्तुमिवोद्युक्तं सवर्णस्यासिदुर्धिया ॥ २९॥ मायारथं समारूढो गूढशार्वरसंवृतः । अदृश्यवपुरापेदे ललिताकटकं खलः ॥ ३०॥ तत्र गत्वा ज्वलज्ज्वालं वह्निप्राकारमण्डलम् । शतयोजनविस्तारामालोकयत् दुर्मतिः ॥ ३१॥ परितो विभ्रमञ्शालमवकाशमवाप्नुवन् । दक्षिणं द्वारमासाद्य निदध्यौ क्षणमुद्धतः ॥ ३२॥ तत्रापश्यन्महासत्त्वास्सावधाना धृतायुधाः । आरूढयानाः सनद्धवर्माणो द्वारदेशतः ॥ ३३॥ स्तम्भिनीप्रमुखाः शक्तीर्विंशत्य क्षौहिणीयुताः । सर्वदा द्वाररक्षार्थं निर्दिष्टा दण्डनाथया ॥ ३४॥ विलोक्य विस्मयाविष्टो विचार्य च चिरं तदा । शालस्य बहिरेवासौ स्थित्वा यन्त्रं समातनोत् ॥ ३५॥ गव्यूतिमात्रकायामे तत्समानप्रविस्तरे । शिलापट्टे सुमहति प्रालिखद्यन्त्रमुत्तमम् ॥ ३६॥ अष्टदिक्ष्वष्टशूलेन संहाराक्षरमौलिना । अष्टभिर्दैवतैश्चैव युक्तं यन्त्रं समालिखत् ॥ ३७॥ अलसा कृपणा दीना नितन्द्रा च प्रमीलिका । क्लीबा च निरहङ्कारा चेत्यष्टौ देवताः स्मृताः ॥ ३८॥ देवताष्टकमेतश्च शूलाष्टकपुटोपरि । नियोज्य लिखितं यन्त्रं मायावी सममन्त्रयत् ॥ ३९॥ पूजां विधाय मन्त्रस्य बलिभिश्छागलादिभिः । तद्यन्त्रं चारिकटके प्राक्षिपत्समरेऽसुरः ॥ ४०॥ पाकारस्य बहिर्भागे वर्तिना तेन दुर्धिया । क्षिप्तमुल्लङ्घ्य च रणे पपात कटकान्तरे ॥ ४१॥ तद्यन्त्रस्य विकारेण कटकस्थास्तु शक्तयः । विमुक्तशस्त्रसंन्यासमास्थिता दीनमानसाः ॥ ४२॥ किं हतैरसुरैः कार्यं शस्त्राशस्त्रिक्रमैरलम् । जयसिद्धफलं किं वा प्राणिहिंसा च पापदा ॥ ४३॥ अमराणां कृते कोऽयं किमस्माकं भविष्यति । वृथा कलकलं कृत्वा न फलं युद्धकर्मणा ॥ ४४॥ का स्वामिनी महाराज्ञी का वासौ दण्डनायिका । का वा सा मन्त्रिणी श्यामा भृत्यत्वं नोऽथ कीदृशम् ॥ ४५॥ इह सर्वाभिरस्माभिर्भृत्यभूताभिरेकिका । वनिता स्वामिनीकृत्ये किं फलं मोक्ष्यते परम् ॥ ४६॥ परेषां मर्मभिदुरैरायुधैर्न प्रयोजनम् । युद्धं शाम्यतु चास्माकं देहशस्त्रक्षतिप्रदम् ॥ ४७॥ युद्धे च मरणं भावि वृथा स्युर्जीवितानि नः । युद्धे मृत्युर्भवेदेव इति तत्र प्रमैव का ॥ ४८॥ उत्साहेन फलं नास्ति निद्रै वैका सुखावहा । आलस्यसदृशं नास्ति चित्तविश्रान्तिदायकम् ॥ ४९॥ एतादृशीश्च नो ज्ञात्वा सा राज्ञी किं करिष्यति । तस्या राज्ञीत्वमपि नः समवायेन कल्पितम् ॥ ५०॥ एवं चोपेक्षितास्माभिः सा विनष्टबला भवेत् । नष्ट सत्त्वा च सा राज्ञी कान्नः शिक्षां करिष्यति ॥ ५१॥ एवमेव रणारम्भं विमुच्य विधुतायुधाः । शक्तयो निद्रया द्वारे घूर्णमाना इवाभवन् ॥ ५२॥ सर्वत्र मान्द्यं कार्येषु महदालस्यमागतम् । शिथिलं चाभवत्सर्वं शक्तीनां कटकं महत् ॥ ५३॥ जयविघ्नं महायन्त्रमिति कृत्वा स दानवः ॥ ५४॥ निर्विद्य तत्प्रभावेण कटकं प्रमिमन्थिषुः । द्वितीययुद्धदिवसस्यार्धरात्रे गते सति ॥ ५५॥ निस्सृत्य नगराद्भूयस्त्रिंशदक्षौहिणीवृतः । आजगाम पुनर्दैत्यो विशुक्रः कटकं द्विषाम् ॥ ५६॥ अश्रूयन्त ततस्तस्य रणनिःसाणनिस्वनाः । तथापि ता निरुद्योगाः शक्तयः कटकेऽभवन् ॥ ५७॥ तदा महानुभावत्वाद्विकारैर्विघ्नयन्त्रजैः । अस्पृष्टे मन्त्रिणीदण्डनाथे चिन्तामवा पतुः ॥ ५८॥ अहो बत महत्कष्टमिदमापतितं भयम् । कस्य वाथ विकारेण सैनिका निर्गतोद्यमाः ॥ ५९॥ निरस्तायुधसंरम्भा निद्रा तन्द्रा विघूर्णिताः । न मानयन्ति वाक्यानि नार्चयन्ति महेश्वरीम् । औदासीन्यं वितन्वन्ति शक्तयो निस्पृहा इमाः ॥ ६०॥ इति ते मन्त्रिणीदण्डनाथे चिन्तापरायणे । चक्रस्यन्दनमारूढे महाराज्ञीं समूचतुः ॥ ६१॥ मन्त्रिण्युवाच । देवि कस्य विकारोऽयं शक्तयो विगतोद्यमाः । न श‍ृण्वन्ति महाराज्ञि तवाज्ञां विश्वपालिताम् ॥ ६२॥ अन्योन्यं च विरक्तास्ताः पराच्यः सर्वकर्मसु । निद्रा तन्द्रा मुकुलिता दुर्वाक्यानि वितन्वते ॥ ६३॥ का दण्डिनी मन्त्रिणी का महाराज्ञीति का पुनः । युद्धं च कीदृशमिति क्षेपं भूरि वितन्वते ॥ ६४॥ अस्मिन्नेवान्तरे शत्रुरागच्छति महाबलः । उद्दण्डभेरीनिस्वानैर्विभिन्दन्निव रोदसी ॥ ६५॥ अत्र यत्प्राप्तरूपं तन्महाराज्ञि प्रपद्यताम् । इत्युक्त्वा सह दण्डिन्या मन्त्रिणी प्रणतिं व्यधात् ॥ ६६॥ ततः सा ललिता देवी कामेश्वरमुखं प्रति । दत्तदृष्टिः समहसदतिरक्तरदावलिः ॥ ६७॥ तस्याः स्मितप्रभापुञ्जे कुञ्जराकृतिमान्मुखे । कटक्रोडगलद्दानः कश्चिदेव व्यजृम्भत ॥ ६८॥ जपापटलपाटल्यो बालचन्द्रवपुर्धरः । बीजपूरगदामिक्षुचापं शूलं सुदर्शनम् ॥ ६९॥ अब्जपाशोत्पलव्रीहिमञ्जरीवरदां कुशान् । रत्नकुम्भं च दशभिः स्वकैर्हस्तैः समुद्वहन् ॥ ७०॥ तुन्दिलश्चन्द्रचूडालो मन्द्रबृंहितनिस्वनः । सिद्धिलक्ष्मीसमाश्लिष्टः प्रणनाम महेश्वरीम् ॥ ७१॥ तया कृताशीः स महान्गणनाथो गजाननः । जयविघ्नमहायन्त्रं भेत्तुं वेगाद्विनिर्ययौ ॥ ७२॥ अन्तरेव हि शालस्य भ्रमद्दन्तावलाननः । निभृतं कुत्रचिल्लग्नं जयविघ्नं व्यलोकयत् ॥ ७३॥ स देवो घोरनिर्घातैर्दुःसहैर्दन्तपातनैः । क्षणाच्चूर्णीकरोति स्म जयविघ्नमहाशिलाम् ॥ ७४॥ तत्र स्थिताभिर्दुष्टाभिर्देवताभिः सहैव सः । परागशेषतां नीत्वा तद्यन्त्रं प्रक्षिपद्दिवि ॥ ७५॥ ततः किलकिलारावं कृत्वाऽऽलस्यविवर्जिताः । उद्यताः समरं कर्तुं शक्तयः शस्त्रपाणयः ॥ ७६॥ स दन्तिवदनः कण्ठकलिताकुण्ठनिस्वनः । जययन्त्रं हि तत्सृष्टं तथा रात्रौ व्यनाशयत् ॥ ७७॥ इमं वृत्तान्तमाकर्ण्य भण्डः स क्षोभमाययौ । ससर्जय बहूनात्मरूपान्दन्तावलाननान् ॥ ७८॥ ते कटक्रोडविगलन्मदसौरभचञ्चलैः । चञ्चरीककुलैरग्रे गीयमानमहोदयाः ॥ ७९॥ स्फुरद्दाडिमकिञ्जल्कविक्षेपकररोचिषः । सदा रत्नाकरानेकहेलया पातुमुद्यताः ॥ ८०॥ आमोदप्रमुखा ऋद्धिमुख्यशक्तिनिषेविताः । आमोदश्च प्रमोदश्च मुमुखो दुर्मुखस्तथा ॥ ८१॥ अरिघ्नो विघ्नकर्त्ता च षडेते विघ्ननायकाः । ते सप्तकोटिसङ्ख्यानां हेरम्बाणामधीश्वराः ॥ ८२॥ ते पुरश्चलितास्तस्य महागणपते रणे । अग्निप्राकारवलयाद्विनिर्गत्य गजाननाः ॥ ८३॥ क्रोधहुङ्कारतुमुलाः प्रत्यपद्यन्त दानवान् । पुनः प्रचण्डफूत्कारबधिरीकृतविष्टपाः ॥ ८४॥ पपात दैत्यसैन्येषु गणचक्रचमूगणः । अच्छिदन्निशितैर्बाणैर्गणनाथः स दानवान् ॥ ८५॥ गणनाथेन तस्याभूद्विशुक्रस्य महौजसः । युद्धमुद्धतहुङ्कारभिन्नकार्मुकनिःस्वनम् ॥ ८६॥ भ्रुकुटी कुटिले चक्रे दष्टोष्ठमतिपाटलम् । विशुक्रो युधि बिभ्राणः समयुध्यत तेन सः ॥ ८७॥ शस्त्राघट्टननिस्वानैर्हुङ्कारैश्च सुरद्विषाम् । दैत्यसप्तिखुरक्रीडत्कुद्दालीकूटनिस्वनैः ॥ ८८॥ फेत्कारैश्च गजेन्द्राणां भयेनाक्रन्दनैरपि । हेषया च हयश्रेण्या रथचक्रस्वनैरपि ॥ ८९॥ धनुषां गुणनिस्स्वानैश्चक्रचीत्करणैरपि ॥ ९०॥ शरसात्कारघोषैश्च वीरभाषाकदम्बकैः । अट्टहासैर्महेन्द्राणां सिंहनादैश्च भूरिशः ॥ ९१॥ क्षुभ्यद्दिगन्तरं तत्र ववृधे युद्धमुद्धतम् । त्रिंशदक्षौहिणी सेना विशुक्रस्य दुरात्मनः ॥ ९२॥ प्रत्येकं योधयामासुर्गणनाथा महारथाः । दन्तैर्मर्म विभिन्दन्तो विष्टंयतश्च शुण्डया ॥ ९३॥ क्रोधयन्तः कर्णतालैः पुष्कलावर्त्तकोपमैः । नासाश्वासैश्च परुषैर्विक्षिपन्तः पताकिनीम् ॥ ९४॥ उरोभिर्मर्दयन्तश्च शैलवप्रसमप्रभैः । पिंषन्तश्च पदाघातैः पीनैर्घ्नन्तस्तथोदरैः ॥ ९५॥ विभिन्दन्तश्च शूलेन कृत्तन्तश्चक्रपातनैः । शङ्खस्वनेन महता त्रासयन्तो वरूथिनीम् ॥ ९६॥ गणनाथमुखोद्भूता गजवक्त्राः सहस्रशः । धूलीशेषं समस्तं तत्सैन्यं चक्रुर्महोद्यताः ॥ ९७॥ अथ क्रोधसमाविष्टो निजसैन्यपुरोगमः । प्रेषयामास देवस्य गजासुरमसौ पुनः ॥ ९८॥ प्रचण्डसिंहनादेन गजदैत्येन दुर्धिया । सप्ताक्षौहिणियुक्तेन युयुधे स गणेश्वरः ॥ ९९॥ हीयमानं समालोक्य गजासुरभुजाबलम् । वर्धमानं च तद्वीर्यं विशुक्रः प्रपलायितः ॥ १००॥ स एक एव वीरेन्द्रः प्रचलन्नाखुवाहनः । सप्ताक्षौहिणिकायुक्तं गजासुरममर्दयत् ॥ १०१॥ गजासुरे च निहते विशुक्रे प्रपलायिते । ललितान्तिकमापेदे महागणपतिर्मृधात् ॥ १०२॥ कालरात्रिश्च दैत्यानां सा रात्रिर्विरतिं गता । ललिता चाति मुदिता बभूवास्य पराक्रमैः ॥ १०३॥ विततार महाराज्ञीप्रीयमाणा गणेशितुः । सर्वदैवतपूजायाः पूर्वपूज्यत्वमुत्तमम् ॥ १०४॥ इति श्रीब्रह्माण्डपुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीललितोपाख्याने गणनाथपराक्रमो नाम सप्तविंशोऽध्यायः ॥ २७॥ समाप्तश्च द्वितीययुद्धदिवसः ।

अथ विशुक्रविषङ्गवधो नामाष्टाविंशोऽध्यायः ॥ २८॥

रणे भग्नं महादैत्यं भण्डदैत्यः सहोदरम् । सेनानां कदनं श्रुत्वा सन्तप्तो बहुचिन्तया ॥ १॥ उभावपि समेतौ तौ युक्तौ सर्वैश्च सैनिकैः । प्रेषयामास युद्धाय भण्डदैत्यः सहोदरौ ॥ २॥ तावुभौ परमक्रुद्धौ भण्डदैत्येन देशितौ । विषङ्गश्च विशुक्रश्च महोद्यममवापतुः ॥ ३॥ कनिष्ठसहितं तत्र युवराजं महाबलम् । विशुक्रमनुवव्राज सेना त्रैलोक्यकम्पिनी ॥ ४॥ अक्षौहिणीचतुःशत्या सेनानामावृतश्च सः । युवराजः प्रववृधे प्रतापेन महीयसा ॥ ५॥ उलूकजित्प्रभृतयो भागिनेया दशोद्धताः । भण्डस्य च भगिन्यां तु धूमिन्यां जातयोनयः ॥ ६॥ कृतास्त्रशिक्षा भण्डेन मातुलेन महीयसा । विक्रमेण वलन्तस्ते सेनानाथाः प्रतस्थिरे ॥ ७॥ प्रोद्गतैश्चापनिर्घोषैर्घोषयन्तो दिशो दश । द्वयोर्मातुलयोः प्रीतिं भागिनेया वितेनिरे ॥ ८॥ आरूढयानाः प्रत्येकगाढाहङ्कारशालिनः । आकृष्टगुरुधन्वानो विशुक्रमनुवव्रजुः ॥ ९॥ यौवराज्यप्रभाचिह्नच्छत्रचामरशोभितः । आरूढवारणः प्राप विशुक्रो युद्धमेदिनीम् ॥ १०॥ ततः कलकलारावकारिण्या सेनया वृतः । विशुक्रः पटु दध्वान सिंहनादं भयङ्करम् ॥ ११॥ तत्क्षोभात्क्षुभितस्वान्ताः शक्तयः सम्भ्रमोद्धताः । अग्निप्राकारवलयान्निर्जग्मुर्बद्धपङ्क्तयः ॥ १२॥ तडिन्मयमिवाकाशं कुर्वन्त्यः स्वस्वरोचिषा । रक्ताम्बुजावृतमिव व्योमचक्रं रणोन्मुखाः ॥ १३॥ अथ भण्डकनीयांसावागतौ युद्धदुर्मदौ । निशम्य युगपद्योद्धुं मन्त्रिणीदण्डनायके ॥ १४॥ किरिचक्रं ज्ञेयचक्रमारूढे रथशेखरम् । धृतातपत्रवलये चामराभ्यां च वीजिते ॥ १५॥ अप्सरोभिः प्रनृत्ताभिर्गीयमानमहोदये । निर्जग्मतू रणं कर्तुमुभाभ्यां ललिताज्ञया ॥ १६॥ श्रीचक्ररथराजस्य रक्षणार्थं निवेशिते । शताक्षौहिणिकां सेनां वर्जयित्वास्त्रभीषणम् ॥ १७॥ अन्यत्सर्वं चमूजालं निर्जगाम रणोन्मुखी । पुरतः प्राचलद्दण्डनाथा रथनिषेदुषी ॥ १८॥ एकयैव कराङ्गुल्या घूर्णयन्ती हलायुधम् । मुसलं चान्यहस्तेन भ्रामयन्ती मुहुर्मुहुः ॥ १९॥ तरलेन्दुकलाचूडास्फुरत्पोत्रमुखाम्बुजा । पुरः प्रहर्त्री समरे सर्वदा विक्रमोद्धता । अस्या अनुप्रचलिता गेयचक्ररथस्थिता ॥ २०॥ धनुषो ध्वनिना विश्वं पूरयन्ती महोद्धता । वेणीकृतकचन्यस्तविलसच्चन्द्रपल्लवा ॥ २१॥ स्फुरत्त्रितयनेत्रेण सिन्दूरतिलकत्विषा । पाणिना पद्मरम्येण मणिकङ्कणचारुणा ॥ २२॥ तूणीरमुखतः कृष्टं भ्रामयन्ती शिलीमुखम् । जय वर्धस्ववर्धस्वेत्यतिहर्षसमाकुले ॥ २३॥ नृत्यद्भिर्दिव्यमुनिभिर्वर्द्धिताशीर्वचोऽमृतैः । गेयचक्ररथेन्द्रस्य चक्रनेमिविघट्टनैः ॥ २४॥ दारयन्ती क्षितितलं दैत्यानां हृदयैः सह । लोकातिशायिता विश्वमनोमोहनकारिणा । गीतिबन्धेनामरीभिर्बह्वीभिर्गीतवैभवा ॥ २५॥ अक्षौहिणीसहस्राणामष्टकं समरोद्धतम् । कर्षती कल्पविश्लेषनिर्मर्यादाब्धिसन्निभम् ॥ २६॥ तस्याः शक्तिचमूचक्रे काश्चित्कनकरोचिषः । काश्चिद्दाडिमसङ्काशाः काश्चिज्जीमूतरोचिषः ॥ २७॥ अन्याः सिन्दूररुचयः पराः पाटलपाटलाः । काचाद्रि काम्बराः काश्चित्पराः श्यामलकोमलाः ॥ २८॥ अन्यास्तु हीरकप्रख्याः परा गारुत्मतोपमाः । विरुद्धैः पञ्चभिर्बाणैर्मिश्रितैः शतकोटिभिः ॥ २९॥ व्यञ्जयन्त्यो देहरुचं कतिचिद्विविधायुधाः । असङ्ख्याः शक्तयश्चेलुर्दण्डिन्यास्सैनिके तथा ॥ ३०॥ तथैव सैन्यसन्नाहो मन्त्रिण्याः कुम्भसम्भव । यथा भूषणवेषादि यथा प्रभावलक्षणम् ॥ ३१॥ यथा सद्गुणशालित्वं यथा चाश्रितलक्षणम् । यथा दैत्यौघसंहारो यथा सर्वैश्च पूजिता ॥ ३२॥ यथा शक्तिर्महाराज्ञ्या देडिन्याश्च तथाखिलम् । विशेषस्तु परं तस्याः साचिव्ये तत्करे स्थितम् । महाराज्ञीवितीर्णं तदाज्ञामुद्रा गुंलीयकम् ॥ ३३॥ इत्थं प्रचलिते सैन्ये मन्त्रिणीदण्डनाथयोः । तद्भारभङ्गुरा भूमिर्दोलालीलामलम्बत ॥ ३४॥ ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् । उद्धूतधूलिजम्बालीभूतसप्तार्णवीजलम् ॥ ३५॥ हयस्थैर्हयसादिन्यो रथस्थै रथसंस्थिताः । आधोरणैर्हस्तिपकाः खड्गैः पद्गाश्च सङ्गताः ॥ ३६॥ दण्डनाथाविषङ्गेण समयुध्यन्त सङ्गरे । विशुक्रेण समं श्यामा विकृष्टमणिकार्मुका ॥ ३७॥ अश्वारूढा चकारोच्चैः सहोलूकजिता रणम् । सम्पदीशा च जग्राह पुरुषेण युयुत्सया ॥ ३८॥ विषेण नकुली देवी समाह्वास्त युयुत्सया । कुन्तिषेणेन समरं महामाया तदाकरोत् ॥ ३९॥ मलदेन समं चक्रे युद्धमुन्मत्तभैरवी । लघुश्यामा चकारोच्चैः कुशूरेण समं रणम् ॥ ४०॥ स्वप्नेशी मङ्गलाख्येन दैत्येन्द्रे ण रणं व्यधात् । वाग्वादिनी तु जघटे द्रुघणेन समं रणे ॥ ४१॥ कोलाटेन च दुष्टेन चण्डकाल्यकरोद्रणम् । अक्षौहिणीभिर्दैत्यानां शताक्षौहिणिकास्तथा । महान्तं समरे चक्रुरन्योन्यं क्रोधमूर्छिताः ॥ ४२॥ प्रवर्तमाने समरे विशुक्रो दुष्टदानवः । वर्धमानां शक्तिचमूं हीयमानां निजां चमूम् ॥ ४३॥ अवलोक्य रुषाविष्टः स कृष्टगुरुकार्मुकः । शक्तिसैन्ये समस्तेऽपि तृषास्त्रं प्रमुमोच ह ॥ ४४॥ तेन दावानलज्वालादीप्तेन मथितं बलम् । तृतीये युद्धदिवसे याममात्रं गते रवौ । विशुक्रमुक्ततर्षास्त्रव्याकुलाः शक्तयोऽभवन् ॥ ४५॥ क्षोभयन्निन्द्रि यग्रामं तालुमूलं विशोषयन् । रूक्षयन्कर्णकुहरमङ्गदौर्बल्यमाहवन् ॥ ४६॥ पातयन्पृथिवीपृष्ठे देहं विस्रंसितायुधम् । आविर्बभूव शक्तीनामतितीव्रस्तृषाज्वरः ॥ ४७॥ युद्धेष्वनुद्यमकृता सर्वोत्साहविरोधिना । तर्षेण तेन क्वथितं शक्तिसैन्यं विलोक्य सा । मन्त्रिणी सह पोत्रिण्या भृशं चिन्तामवाप ह ॥ ४८॥ उवाच तां दण्डनाथामत्याहितविशङ्किनीम् । रथस्थिता रथगता तत्प्रतीकारकर्मणे । सखि पोत्रिणि दुष्टस्य तर्षास्त्रमिदमागतम् ॥ ४९॥ शिथिलीकुरुते सैन्यमस्माकं हा विधेः क्रमः । विशुष्कतालुमूलानां विभ्रष्टायुधतेजसाम् । शक्तीनां मण्डलेनात्र समरे समुपेक्षितम् ॥ ५०॥ न कापि कुरुते युद्धं न धारयति चायुधम् । विशुष्कतालुमूलत्वाद्वक्तुमप्यालि न क्षमाः ॥ ५१॥ ईदृशीन्नो गतिं श्रुत्वा किं वक्ष्यति महेश्वरी । कृता चापकृतिर्दैत्यैरुपायः प्रविचिन्त्यताम् ॥ ५२॥ सर्वत्र द्व्यष्टसाहस्राक्षौहिण्यामत्र पोत्रिणि । एकापि शक्तिर्नैवास्ति या तर्षेण न पीडिता ॥ ५३॥ अत्रैवावसरे दृष्ट्वा मुक्तशस्त्रां पताकिनीम् । रन्ध्रप्रहारिणो हन्त बाणैर्निघ्नन्ति दानवाः ॥ ५४॥ अत्रोपायस्त्वया कार्यो मया च समरोद्यमे । त्वदीयरथपर्वस्थो योऽस्ति शीतमहार्णवः ॥ ५५॥ तमादिश समस्तानां शक्तीनां तर्षनुत्तये । नाल्पैः पानीयपानाद्यैरेतासां तर्षसङ्क्षयः ॥ ५६॥ स एव मदिरासिन्धुः शक्त्यौघं तर्पयिष्यति । तमादिश महात्मानं समरोत्साहकारिणम् । सर्वतर्षप्रशमनं महाबलविवर्धनम् ॥ ५७॥ इत्युक्ते दण्डनाथा सा सदुपायेन हर्षिता । आजुहाव सुधासिन्धुमाज्ञां चक्रेश्वरी रणे ॥ ५८॥ स मदालसरक्ताक्षो हेमाभः स्रग्विभूषितः ॥ ५९॥ प्रणम्य दण्डनाथां तां तदाज्ञापरिपालकः ॥ ६०॥ आत्मानं बहुधा कृत्वा तरुणादित्यपाटलम् । क्वचित्तापिच्छवच्छ्यामं क्वचिच्च धवलद्युतिम् ॥ ६१॥ कोटिशो मधुराधारा करिहस्तसमाकृतीः । ववर्ष सिन्धुराजोऽयं वायुना बहुलीकृतः ॥ ६२॥ पुष्कलावर्तकाद्यैस्तु कलपक्षयबलाहकैः । निषिच्यमानो मध्येऽब्धिः शक्तिसैन्ये पपात ह ॥ ६३॥ यद्गन्धाघ्राणमात्रेण मृत उत्तिष्ठते स्फुटम् । दुर्बलः प्रबलश्च स्यात्तद्ववर्ष सुराम्बुधिः ॥ ६४॥ परार्द्धसङ्ख्यातीतास्ता मधुधारापरम्पराः । प्रपिबन्त्यः पिपासार्तैर्मुखैः शक्तय उत्थिताः ॥ ६५॥ यथा सा मदिरासिन्धुवृष्टिर्दैत्येषु नो पतेत् । तथा सैन्यस्य परितो महाप्राकारमण्डलम् ॥ ६६॥ लघुहस्ततया मुक्तैः शरजातैः सहस्रशः । चकार विस्मयकरी कदम्बवनवासिनी ॥ ६७॥ कर्मणा तेन सर्वेऽपि विस्मिता मरुतोऽभवन् । अथ ताः शक्तयो भूरि पिबन्ति स्म रणान्तरे ॥ ६८॥ विविधा मदिराधारा बलोत्साहविवर्धनीः । यस्या यस्या मनःप्रीती रुचिः स्वादो यथायथा ॥ ६९॥ तृतीये युद्धदिवसे प्रहरद्वितयावधि । सन्ततं मध्यधाराभिः प्रववर्ष सुराम्बुधिः ॥ ७०॥ गौडी पैष्टी च माध्वी च वरा कादम्बरी तथा । हैताली लाङ्गलेया च तालजातास्तथा सुराः ॥ ७१॥ कल्पवृक्षोद्भवा दिव्या नानादेशसमुद्भवाः । सुस्वादुसौरभाद्याश्च शुभगन्धसुखप्रदाः ॥ ७२॥ बकुलप्रसवामोदा ध्वनन्त्यो बुद्बुदोज्ज्वलाः । कटुकाश्च कषायाश्च मधुरास्तिक्ततास्पृशः ॥ ७३॥ बहुवर्णसमाविष्टाश्छेदिनीः पिच्छलास्तथा । ईषदम्लाश्च कट्वम्ला मधुराम्लास्तथा पराः ॥ ७४॥ शस्त्रक्षतरुगाहन्त्री चास्थिसन्धानदायिनी । रणभ्रमहरा शीता लघ्व्यस्तद्वत्कवोष्ठकाः ॥ ७५॥ सन्तापहारिणीश्चैव वारुणीस्ता जयप्रदाः । नानाविधाः सुराधारा ववर्ष मदिरार्णवः ॥ ७६॥ अविच्छिन्नं याममात्रमेकैका तत्र योगिनी । ऐरावतकरप्रख्यां सुराधारां मुदा पपौ ॥ ७७॥ उत्तानं वदनं कृत्वा विलोलरसनाश्चलम् । शक्तयः प्रपपुः सीधु मुदा मीलितलोचनाः ॥ ७८॥ इत्थं बहुविधं माध्वीधारापातैः सुधाम्बुधिः । आगतस्तर्पयित्वा तु दिव्यरूपं समास्थितः ॥ ७९॥ पुनर्गत्वा दण्डनाथां प्रणम्य स सुराम्बुधिः । स्निग्धगम्भीरघोषेण वाक्यं चेदमुवाच ताम् ॥ ८०॥ देवि पश्य महाराज्ञि दण्डमण्डलनायिके । मया सन्तर्पिता मुग्धरूपा शक्तिवरूथिनी ॥ ८१॥ काश्चिन्नृत्यन्ति गायन्त्यो कलक्वणितमेखलाः । नृत्यन्तीनां पुरः काश्चित्करतालं वितन्वते ॥ ८२॥ काश्चिद्धसन्ति व्यावल्गद्वल्गुवक्षोजमण्डलाः । पतन्त्यन्योन्यमङ्गेषु काश्चिदानन्दमन्थराः ॥ ८३॥ काश्चिद्वल्गन्ति च श्रोणिविगलन्मेखलाम्बराः । काश्चिदुत्थाय सन्नद्धा घूर्णयन्ति निरायुधाः ॥ ८४॥ इत्थं निर्दिश्यमानास्ताः शक्ती मैरेय सिन्धुनाम् । अवलोक्य भृशं तुष्टा दण्डिनी तमुवाच ह ॥ ८५॥ परितुष्टास्मि मद्याब्धे त्वया साह्यमनुष्ठितम् । देवकार्यमिद किं च निर्विघ्नितमिदं कृतम् ॥ ८६॥ अतः परं मत्प्रसादाद्द्वापरे याज्ञिकैर्मखे । सोमपानवदत्यन्तमुपयोज्यो भविष्यसि ॥ ८७॥ मन्त्रेण पूतं त्वां यागे पास्यन्त्यखिलदेवताः । यागेषु मन्त्रपूतेन पीतेन भवता जनाः ॥ ८८॥ सिद्धिमृद्धिं बलं स्वर्गमपवर्गं च बिभ्रतु । महेश्वरी महादेवो बलदेवश्च भार्गवः । दत्तात्रेयो विधिर्विष्णुस्त्वां पास्यन्ति महाजनाः ॥ ८९॥ यागे समर्चितस्त्वं तु सर्वसिद्धिं प्रदास्यसि ॥ ९०॥ इत्थं वरप्रदानेन तोषयित्वा सुराम्बुधिम् ॥ ९१॥ मन्त्रिणीं त्वरयामास पुनर्युद्धाय दण्डिनी । पुनः प्रववृते युद्धं शक्तीनां दानवैः सह ॥ ९२॥ मुदाट्टहासनिर्भिन्नदिगष्टकधरा धरम् । प्रत्यग्रमदिरामत्ताः पाटलीकृतलोचनाः । शक्तयो दैत्यचक्रेषु न्यपतन्नेकहेलया ॥ ९३॥ द्वयेन द्वयमारेजे शक्तीनां समदश्रियाम् । मदरागेण चक्षूंषि दैत्यरक्तेन शस्त्रिका ॥ ९४॥ तथा बभूव तुमुलं युद्धं शक्तिसुरद्विषाम् । यथा मृत्युरवित्रस्तः प्रजाः संहरते स्वयम् ॥ ९५॥ संस्खलत्पदविन्यासा मदेनारक्तदृष्टयः । स्खलदक्षरसन्दर्भवीरभाषा रणोद्धताः ॥ ९६॥ कदम्बगोलकाकारा दृष्टसर्वाङ्गदृष्टयः । युवराजस्य सैन्यानि शक्त्यः समनाशयन् ॥ ९७॥ अक्षौहिणीशतं तत्र दण्डिनी सा व्यदारयत् । अक्षौहिणीसार्द्धशत नाशयामास मन्त्रिणी ॥ ९८॥ अश्वारूढाप्रभृतयो मदारुणविलोचनाः । अक्षौहिणीसार्धशतं नित्युरन्तकमन्दिरम् ॥ ९९॥ अङ्कुशेनातितीक्ष्णेन तुरगा रोहिणी रणे । उलूकजितमुन्मथ्य परलोकातिथिं व्यधात् ॥ १००॥ सम्पत्करीप्रभृतयः शक्तिदण्डाधिनायिकाः । परुषेण मुखान्यन्यान्यवरुद्धाव्यदारयन् ॥ १०१॥ अस्तं गते सवितरि ध्वस्तसर्वबलं ततः । विशुक्रं योधयामास श्यामला कोपशालिनी ॥ १०२॥ अस्त्रप्रत्यस्त्रमोक्षेण भीषणेन दिवौकसाम् । महता रणकृत्येन योधयामास मन्त्रिणी ॥ १०३॥ आयुधानि सुतीक्ष्णानि विशुक्रस्य महौजसः । क्रमशः खण्डयन्ती सा केतनं रथसारथिम् ॥ १०४॥ धनुर्गुणं धनुर्दण्डं खण्डयन्ती शिलीमुखैः । अस्त्रेण ब्रह्मशिरसा ज्वलत्पावकरोचिषा ॥ १०५॥ विशुक्रं मर्दयामास सोऽपतच्चूर्णविग्रहः । विषङ्गं च महादैत्यं दण्डनाथा मदोद्धता ॥ १०६॥ योधयामास चण्डन मुसलेन विनिघ्नती । सचापि दुष्टो दनुजः कालदण्डनिभां गदाम् । उद्यम्य बाहुना युद्धं चकाराशेषभीषणम् ॥ १०७॥ अन्योन्यमङ्गं मृद्नन्तौ गदायुद्धप्रवर्तिनौ । चण्डाट्टहासमुखरौ परिभ्रमणकारिणौ ॥ १०८॥ कुर्वाणौ विविधांश्चारान्घूर्णन्तौ तूर्णवेष्टिनौ । अन्योन्यदण्डहननैर्मोहयन्तौ मुहुर्मुहुः ॥ १०९॥ अन्योन्यप्रहृतौ रन्ध्रमीक्षमाणौ महोद्धतौ । महामुसलदण्डाग्रघट्टनक्षोभिताम्बरौ । अयुध्येतां दुराधर्षौ दण्डिनीदैत्यशेखरौ ॥ ११०॥ अथार्द्धरात्रिसमयपर्यन्तं कृतसङ्गरा । सङ्क्रुद्धा हन्तुमारेभे विषङ्गं दण्डनायिका ॥ १११॥ तं मूर्धनि निमग्नेन हलेनाकृष्य वैरिणम् । कठोरं ताडनं चक्रे मुसलेनाथ पोत्रिणी ॥ ११२॥ ततो मुसलघातेन त्यक्तप्राणो महासुरः । चूर्णितेन शताङ्गेन समं भूतलमाश्रयत् ॥ ११३॥ इति कृत्वा महत्कर्म मन्त्रिणीदण्डनायिके । तत्रैव तं निशा शेषं निन्यतुः शिबिरं प्रति ॥ ११४॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने विशुक्रविषङ्गवधो नामाष्टाविंशोऽध्यायः ॥ २८॥ समाप्तं तृतीयदिवसयुद्धम् ।

अथ भण्डासुरवधो नामैकोनत्रिंशोऽध्यायः ॥ २९॥

अगस्त्य उवाच । अश्वानन महाप्राज्ञ वर्णितं मन्त्रिणीबलम् । विषङ्गस्य वधो युद्धे वर्णितो दण्डनाथया ॥ १॥ श्रीदेव्याः श्रोतुमिच्छामि रणचक्रे पराक्रमम् । सोदरस्यापदं दृष्ट्वा भण्डः किमकरोच्छुचा ॥ २॥ कथं तस्य रणोत्साहः कैः समं समयुध्यत । सहायाः केऽभवंस्तस्य हतभ्रातृतनूभुवः ॥ ३॥ हयग्रीव उवाच । इदं श‍ृणु महाप्राज्ञ सर्वपापनिकृन्तनम् । ललिताचरितं पुण्यमणिमादिगुणप्रदम् ॥ ४॥ वैषुवायनकालेषु पुण्येषु समयेषु च । सिद्धिदं सर्वपापघ्नं कीर्तिदं पञ्चपर्वसु ॥ ५॥ तदा हतौ रणे तत्र श्रुत्वा निजसहोदरौ । शोकेन महताविष्टो भण्डः प्रविललाप सः ॥ ६॥ विकीर्णकेशो धरणौ मूर्छितः पतितस्तदा । न लेभे किञ्चिदाश्वासं भ्रातृव्यसनकर्शितः ॥ ७॥ पुनः पुनः प्रविलपन्कुटिलाक्षेण भूरिशः । आश्वास्यमानः शोकेन युक्तः कोपमवाप सः ॥ ८॥ फालं वहन्नतिक्रूरं भ्रमद्भ्रुकुटिभीषणम् । अङ्गारपाटलाक्षश्च निःश्वसन्कृष्णसर्पवत् ॥ ९॥ उवाच कुटिलाक्षं द्रा क्समस्तपृतनापतिम् । क्षिप्रं मुहुर्मुहुः स्पृष्ट्वा धुन्वानः करवालिकाम् ॥ १०॥ क्रोधहुङ्कारमातन्वन्गर्जन्नुत्पातमेघवत् ॥ ११॥ ययैव दृष्टया मायाबलाद्युद्धे विनाशिताः । भ्रातरो मम पुत्राश्च सेनानाथाः सहस्रशः ॥ १२॥ तस्याः स्त्रियाः प्रमत्तायाः कण्ठोत्थैः शोणितद्र वैः । भ्रातृपुत्रमहाशोकवह्निं निर्वापयाम्यहम् ॥ १३॥ गच्छ रे कुटिलाक्ष त्वं सज्जीकुरु पताकिनीम् । इत्युक्त्वा कठिनं वर्म वज्रपातसहं महत् ॥ १४॥ दधानो भुजमध्येन बध्नन्पृष्ठ तथेषुधी । उद्दाममौर्विनिःश्वासकठोरं भ्रामयन्धनुः ॥ १५॥ कालाग्निरिव सङ्क्रुद्धो निर्जगाम निजात्पुरात् । तालजङ्घादिकैः सार्द्धं पूर्वद्वारे निवेशिते ॥ १६॥ चतुर्भिर्धृतशस्त्रौघैर्धृतवर्मभिरुद्धतैः । पञ्चत्रिंशच्चमूनाथैः कुटिलाक्षपुरःसरैः ॥ १७॥ सर्वसेनापतीन्द्रे ण कुटिलाक्षेण स क्रुधा । मिलितेन च भण्डेन चत्वारिंशच्चमूवराः ॥ १८॥ दीप्तायुधा दीप्तकेशा निर्जग्मुर्दीप्तकङ्कटाः । द्विसहस्राक्षौहिणीनां पञ्चाशीतिः परार्धिका ॥ १९॥ तदेनमन्वगादेकहेलया मथितुं द्विषः । भण्डासुरे विनिर्याते सर्वसैनिकसङ्कुले ॥ २०॥ शून्यके नगरे तत्र स्त्रीमात्रमवशेषितम् । आभिलो नाम दैत्येन्द्रो रथवर्यो महारथः । सहस्रयुग्यसिंहाढ्यमारुरोह रणोद्धतः ॥ २१॥ तत्त्वरे विज्वलज्ज्वालाकालाग्निरिव दीप्तिमान् । घातको नाम वै खड्गश्चन्द्रहाससमाकृतिः ॥ २२॥ इतस्ततश्चलन्तीनां सेनानां धूलिरुत्थिता । वोढुं तासां भरं भूमिरक्षमेव दिवं ययौ ॥ २३॥ केचिद्भूमेरपर्याप्ताः प्रचेलुर्व्योमवर्त्मना । केषाञ्चित्स्कन्धमारूढाः केचिच्चेलुर्महारथाः ॥ २४॥ न दिक्षु न च भूचक्रे न व्योमनि च ते ममुः । दुःखदुखेन ते चेलुरन्योन्याश्लेषपीडिताः ॥ २५॥ अत्यन्त सेनासम्मर्दाद्रथचक्रैर्विचूर्णिताः । केचित्पादेन नागानां मर्दिता न्यपतन्भुवि ॥ २६॥ इत्थं प्रचलिता तेन समं सर्वैश्च सैनिकैः । वज्रनिष्पेषसदृशो मेघनादो व्यधीयत ॥ २७॥ तेनातीव कठोरेण सिंहनादेन भूयसा । भण्डदैत्यमुखोत्थेन विदीर्णमभवज्जगत् ॥ २८॥ सागराः शोषमापन्नाश्चन्द्रा र्कौ प्रपलायितौ । उडूनि न्यपतन्व्योम्नो भूमिर्दोलायिताभवत् ॥ २९॥ दिङ्नागाश्चाभवंस्त्रस्ता मूर्च्छिताश्च दिवौकसः । शक्तीनां कटकं चासीदकाण्डत्रासविह्वलम् ॥ ३०॥ प्राणान्सन्धारयामासुः कथञ्चिन्मध्य आहवे । शक्तयो भयविभ्रष्टान्यायुधानि पुनर्दधुः ॥ ३१॥ वह्निप्राकारवलयं प्रशान्तं पुनरुत्थितम् । दैत्येन्द्र सिंहनादेन चमूनाथधनुःस्वनैः ॥ ३२॥ क्रन्दनैश्चापि योद्धॄणामभूच्छब्दमयं जगत् । तेन नादेन महता भण्डदैत्यविनिर्गमम् । निश्चित्य ललिता देवी स्वयं योद्धुं प्रचक्रमे ॥ ३३॥ अशक्यमन्यशक्तीनामाकलय्य महाहवम् । भण्डदैत्येन दुष्टेन स्वयमुद्योगमास्थिता ॥ ३४॥ चक्रराजरथस्तस्याः प्रचचाल महोदयः । चतुर्वेदमहाचक्रपुरुषार्थमहाभयः ॥ ३५॥ आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः । नवपर्वस्थदेवीभिराकृष्टगुरुधन्विभिः ॥ ३६॥ परार्धाधिकसङ्ख्यातपरिवारसमृद्धिभिः । पर्वस्थानेषु सर्वेषु पालितः सर्वतो दिशम् ॥ ३७॥ दशयोजनमुन्नद्धश्चतुर्योजन विस्तृतः । महाराज्ञीचक्रराजो रथेन्द्रः प्रचलन्बभौ ॥ ३८॥ तस्मिन्प्रचलिते जुष्टे श्यामया दण्डनाथया । गेयचक्रं तु बालाग्रे किरिचक्रं तु पृष्ठतः ॥ ३९॥ अन्यासामपि शक्तीनां वाहनानि परार्द्धशः । नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा ॥ ४०॥ गजभेरुण्डशरभ व्याघ्रवातमृगास्तथा । एतादृशश्च तिर्यञ्चोऽप्यन्ये वाहनतां गताः ॥ ४१॥ मुहुरुच्चावचाः शक्तीर्भण्डासुरवधोद्यताः । योजनायामविस्तारमपि तद्द्वारमण्डलम् । वह्निप्राकारचक्रस्य न पर्याप्तं चमूपतेः ॥ ४२॥ ज्वालामालिनिका नित्या द्वारस्यात्यन्तविस्तृतिम् । विततान समस्तानां सैन्यानां निर्गमैषिणी ॥ ४३॥ अथ सा जगतां माता महाराज्ञी महोदया । निर्जगामाग्निपुरता वरद्वारात्प्रतापिनी ॥ ४४॥ देवदुन्दुभयो नेदुः पतिताः पुष्पवृष्टयः । महामुक्तातपत्रं तद्दिवि दीप्तमदृश्यत ॥ ४५॥ निमित्तानि प्रसन्नानि शंसकानि जयश्रियाः । अभवँल्ललितासैन्ये उत्पातास्तु द्विषां बले ॥ ४६॥ ततः प्रववृते युद्धं सेनयोरुभयोरपि । प्रसर्पद्विशिखैः स्तोमबद्धान्धतमसच्छटम् ॥ ४७॥ हन्यमानगजस्तोमसृतशोणितबिन्दुभिः । ह्नीयमाणशिरश्छन्नदैत्यश्वेतातपत्रकम् ॥ ४८॥ न दिशो न नभो नागा न भूमिर्न च किञ्चन । दृश्यते केवलं दृष्टं रजोमात्रं च मूर्च्छितम् ॥ ४९॥ नृत्यत्कबन्धनिवहाविर्भूततटपादपम् । दैत्यकेशसहस्रैस्तु शैवालाङ्कुरकोमला ॥ ५०॥ श्वेतातपत्रयवलयश्वेतपङ्कजभासुरा । चक्रकृत्तकरिग्रामपादकूर्मपरम्परा ॥ ५१॥ शक्तिध्वस्तमहादैत्यगलगण्डशिलोच्चया । विलूनकाण्डैः पतितैः सफेना बलचामरैः ॥ ५२॥ तीक्ष्णासिवल्लरीजालैर्निबिडीकृततीरभूः । दैत्यवीरेक्षणश्रेणिमुक्तिंसपुटभासुरा ॥ ५३॥ दैत्यवाहनसङ्घातन क्रमीनशताकुला । प्रावहच्छोणितनदी सेनयोर्युध्यमानयोः ॥ ५४॥ इत्थं प्रववृते युद्धं मृत्योश्च त्रासदायकम् । चतुर्थयुद्धदिवसे प्रातरारभ्यभीषणम् । प्रहरद्वयपर्यन्तं सेनयोरुभयोरपि ॥ ५५॥ ततः श्रीललितादेव्या भण्डस्याथाभवद्रणः । अस्त्रप्रत्यस्त्रसङ्क्षोभैस्तुमुलीकृतदिक्तटः ॥ ५६॥ धनुर्ज्यातलटङ्कारहुङ्कारैरतिभीषणः । तूणीरवदनात्कृष्टधनुर्वरविनिःसृतैः । विमुक्तैर्विशिखैर्भीमैराहवे प्राणहारिभिः ॥ ५७॥ हस्तलाघववेगेन न प्राज्ञायत किञ्चन । महाराज्ञीकराम्भोजव्यापारं शरमोक्षणे । श‍ृणु सर्वं प्रवक्ष्यामि कुम्भसम्भव सङ्गरे ॥ ५८॥ सन्धाने त्वेकधा तस्य दशधा चापनिर्गमे । शतधा गगने दैत्यसैन्यप्राप्तौ सहस्रधा । दैत्याङ्गसङ्गे सम्प्राप्ताः कोटिसङ्ख्याः शिलीमुखाः ॥ ५९॥ परान्धकारं सृजती भिन्दती रोदसी शरैः । मर्माभिनत्प्रचण्डस्य महाराज्ञी महेषुभिः ॥ ६०॥ वहत्कोपारुणं नेत्रं ततो भण्डः स दानवः । ववष शरजालेन महता ललितेश्वरीम् ॥ ६१॥ अन्धतामिस्रकं नाम महास्त्रं प्रमुमोच सः । महातरणिबाणेन तन्नुनोद महेश्वरी ॥ ६२॥ पाखण्डास्त्रं महावीरो भण्डः प्रमुमुचे रणे । गायत्र्यस्त्रं तस्य नुत्यै ससर्ज जगदम्बिका ॥ ६३॥ अन्धास्त्रमसृजद्भण्डः शक्तिदृष्टिविनाशनम् । चाक्षुष्मतमहास्त्रेण शमयायास तत्प्रसूः ॥ ६४॥ शक्तिनाशाभिधं भण्डो मुमोचास्त्रं महारणे । विश्वावसोरथास्त्रेण तस्य दर्पमपाकरोत् ॥ ६५॥ अन्तकास्त्रं ससर्जोच्चैः सङ्क्रुद्धो भडदानवः । महामृत्युञ्जयास्त्रेण नाशयामास तद्बलम् ॥ ६६॥ सर्वास्त्रस्मृतिनाशाख्यमस्त्रं भण्डो व्यमुञ्चत । धारणास्त्रेण चक्रेशी तद्बलं समनाशयत् ॥ ६७॥ भयास्त्रमसृजद्भण्डः शक्तीनां भीतिदायकम् । अभयङ्करमैन्द्रा स्त्रं मुमुचे जगदम्बिका ॥ ६८॥ महारोगास्त्रमसृजच्छक्तिसेनासु दानवः । राजयक्ष्मादयो रोगास्ततोऽभूवन्सहस्रशः ॥ ६९॥ तन्निवारणसिद्ध्यर्थं ललिता परमेश्वरी । नामत्रयमहामन्त्रमहास्त्रं सा मुमोच ह ॥ ७०॥ अच्युतश्चाप्यनन्तश्च गोविन्दस्तु शरोत्थिताः । हुङ्कारमात्रतो दग्ध्वा रोगांस्ताननयन्मुदम् ॥ ७१॥ नत्वा च तां महेशानीं तद्भक्तव्याधिमर्दनम् । विधातुं त्रिषु लोकेषु नियुक्ताः स्वपदं ययुः ॥ ७२॥ आयुर्नाशनमस्त्रं तु मुक्तवान्भण्डदानवः । कालसङ्कर्षणीरूपमस्त्रं राज्ञी व्यमुञ्चत ॥ ७३॥ महासुरास्त्रमुद्दामं व्यसृजद्भण्डदानवः । ततः सहस्रशो जाता महाकाया महाबलाः ॥ ७४॥ मधुश्च कैटभश्चैव महिषासुर एव च । धूम्रलोचनदैत्यश्च चण्डमुण्डादयोऽसुराः ॥ ७५॥ चिक्षुभश्चामरश्चैव रक्तबीजोऽसुरस्तथा । शुम्भश्चैव निशुम्भश्च कालकेया महाबलाः ॥ ७६॥ धूम्राभिधानाश्च परे तस्मादस्त्रात्समुत्थिताः । ते सर्वे दानवश्रेष्ठाः कठोरैः शस्त्रमण्डलैः ॥ ७७॥ शक्तिसेनां मर्दयन्तो नर्द्दन्तश्च भयङ्करम् । हाहेति क्रन्दमानाश्च शक्तयो दैत्यमर्दिताः ॥ ७८॥ ललितां शरणं प्राप्ताः पाहि पाहीति सत्वरम् । अथ देवी भृशं क्रुद्धा रुषाट्टहासमातनोत् ॥ ७९॥ ततः समुत्थिता काचिद्दुर्गा नाम यशस्विनी । समस्तदेवतेजोभिर्निर्मिता विश्वरूपिणी ॥ ८०॥ शूलं च शूलिना दत्तं चक्रं चक्रिसमर्पितम् । शङ्खं वरुणदत्तश्च शक्तिं दत्तां हविर्भुजा ॥ ८१॥ चापमक्षयतूणीरौ मरुद्दत्तौ महामृधे । वज्रिदत्तं च कुलिशं चषकं धनदार्पितम् ॥ ८२॥ कालदण्डं महादण्डं पाशं पाशधरार्पितम् । ब्रह्मदत्तां कुण्डिकां च घण्टामैरावतार्पिताम् ॥ ८३॥ मृत्युदत्तौ खड्गखेटौ हारं जलधिनार्पितम् । विश्वकर्मप्रदत्तानि भूषणानि च बिभ्रती ॥ ८४॥ अङ्गैः सहस्रकिरणश्रेणिभासुररश्मिभिः । आयुधानि समस्तानि दीपयन्ति महोदयैः ॥ ८५॥ अन्यदत्तैरथान्यैश्च शोभमाना परिच्छदैः । सिंहवाहनमारुह्य युद्धं नारायणी व्यधात् ॥ ८६॥ तथा ते महिषप्रख्या दानवा विनिपातिताः । चण्डिकासप्तशत्यां तु यथा कर्म पुराकरोत् ॥ ८७॥ तथैव समरं चक्रे महिषादिमदापहम् । तत्कृत्वा दुष्करं कर्म ललितां प्रणनाम सा ॥ ८८॥ मूकास्त्रमसृजद्दुष्टः शक्तिसेनासु दानवः । महावाग्वादिनी नाम ससर्जास्त्रं जगत्प्रसूः ॥ ८९॥ विद्यारूपस्य वेदस्य तस्करानसुराधमान् । ससर्ज तत्र समरे दुर्मदो भण्डदानवः ॥ ९०॥ दक्षहस्ताङ्गुष्ठनखान्महाराज्ञ्या तिरस्कृतः । अर्णवास्त्रं महावीरो भण्डदैत्यो रणेऽसृजत् ॥ ९१॥ तत्रोद्दामपयः पूरे शक्तिसैन्यं ममज्ज च । अथ श्रीललितादक्षहस्ततर्जनिकानखात् । आदिकूर्मः समुत्पन्नो योजनायतविस्तरः ॥ ९२॥ धृतास्तेन महाभोगखर्परेण प्रथीयसा । शक्तयो हर्षमापन्नाः सागरास्त्रभयं जहुः ॥ ९३॥ तत्सामुद्रं च भगवान्सकलं सलिलं पपौ । हैरण्याक्षं महास्त्रं तु विजहौ दुष्टदानवः ॥ ९४॥ तस्मात्सहस्रशो जाता हिरण्याक्षा गदायुधाः । तैर्हन्यमाने शक्तीनां सैन्ये सन्त्रासविह्वले । इतस्ततः प्रचलिते शिथिले रणकर्मणि ॥ ९५॥ अथ श्रीललितादक्षहस्तमध्याङ्गुलीनखात् । महावराहः समभूच्छ्वेतः कैलाससन्निभः ॥ ९६॥ तेन वज्रसमानेन पोत्रिणाभिविदारिताः । कोटिशस्ते हिरण्याक्षा मर्द्यमानाः क्षयं गताः ॥ ९७॥ अथभण्डस्त्वतिक्रोधाद्भ्रुकुटीं विततान ह । तस्य भ्रुकुटितो जाता हिरण्याः कोटिसङ्ख्यकाः ॥ ९८॥ ज्वलदादित्यवद्दीप्ता दीपप्रहरणाश्च ते । अमर्दयच्छक्तिसैन्यं प्रह्लादं चाप्यमर्दयन् ॥ ९९॥ यः प्रह्लादोऽस्ति शक्तीनां परमानन्दलक्षणः । स एव बालको भूत्वा हिरण्यपरिपीडितः ॥ १००॥ ललितां शरणं प्राप्तस्तेन राज्ञी कृपामगात् । अथ शक्त्या नन्दरूपं प्रह्लादं परिरक्षितुम् ॥ १०१॥ दक्षहस्तानामिकाग्रं धुनोति स्म महेश्वरी । तस्माद् धूतसटाजालः प्रज्वलल्लोचनत्रयः ॥ १०२॥ सिंहास्यः पुरुषा कारः कण्ठस्याधो जनार्दनः । नखायुधः कालरुद्ररूपी घोराट्टहासवान् ॥ १०३॥ सहस्रसङ्ख्यदोर्दण्डो ललिताज्ञानुपालकः । हिरण्यकशिपून्सर्वान्भण्डभ्रुकुटिसम्भवान् ॥ १०४॥ क्षणाद्विदारयामास नखैः कुलिशकर्कशैः । बलीन्द्रा स्त्रं महाघोरं सर्वदैवतनाशनम् । अमुञ्चल्ललिता देवी प्रतिभण्डमहासुरम् ॥ १०५॥ तदस्त्रदर्पनाशाय वामनाः शतशोऽभवन् । महाराज्ञीदक्षहस्तकनिष्ठाग्रान्महौजसः ॥ १०६॥ क्षणेक्षणे वर्धमानाः पाशहस्ता महाबलाः । बलीन्द्रा नस्त्रसम्भूतान्बध्नन्तः पाशबन्धनैः ॥ १०७॥ दक्षहस्तकनिष्ठाग्राज्जाताः कामेशयोषितः । महाकाया महोत्साहास्तदस्त्रं समनाशयन् ॥ १०८॥ हैहयास्त्रं समसृजद्भण्डदैत्यो रणाजिरे । तस्मात्सहस्रशो जाताः सहस्रार्जुनकोटयः ॥ १०९॥ अथ श्रीललितावामहस्ताङ्गुष्ठनखादितः । प्रज्वलन्भार्गवो रामः सक्रोधः सिंहनादवान् ॥ ११०॥ धारया दारयन्नेतान्कुठारस्य कठोरया । सहस्रार्जुनसङ्ख्यातान्क्षणादेव व्यनाशयन् ॥ १११॥ अथ क्रुद्धो भण्डदैत्यः क्रोधाद्धुङ्कारमातनोत् । तस्माद्धुङ्कारतो जातश्चन्द्रहासकृपाणवान् ॥ ११२॥ सहस्राऽक्षौहिणीरक्षःसेनया परिवारितः । कनिष्ठं कुम्भकर्णं च मेघनादं च नन्दनम् । गृहीत्वा शक्तिसैन्यं तदतिदूरममर्दयत् ॥ ११३॥ अथ श्रीललितावामहस्ततर्जनिकानखात् । कोदण्डरामः समभूल्लक्ष्मणेन समन्वितः ॥ ११४॥ जटामुकुटवान्वल्लीबद्धतूणीरपृष्ठभूः । नीलोत्पलदलश्यामो धनुर्विस्फारयन्मुहुः ॥ ११५॥ नाशयामास दिव्यास्त्रैः क्षणाद्रा क्षससैनिकम् । मर्दयामास पौलस्त्यं कुम्भकर्णं च सोदरम् । लक्ष्मणो मेघनादं च महावीरमनाशयत् ॥ ११६॥ द्विविदास्त्रं महाभीममसृजद्भण्डदानवः । तस्मादनेकशो जाताः कपयः पिङ्गलोचनाः ॥ ११७॥ क्रोधेनात्यन्तताम्रास्याः प्रत्येकं हनुमत्समाः । व्यनाशयच्छक्तिसैन्यं क्रूरक्रेङ्कारकारिणः ॥ ११८॥ अथ श्रीललितावामहस्तमध्याङ्गुलीनखात् । आविर्बभूव तालाङ्कः क्रोधमध्यारुणेक्षणः ॥ ११९॥ नीलाम्बरपिनद्धाङ्गः कैलासाचलनिर्मलः । द्विविदास्त्रसमुद्भूतान्कपीन्सर्वान्व्यनाशयन् ॥ १२०॥ राजासुरं नाम महत्ससर्जास्त्रं महाबलः । तस्मादस्त्रात्समुद्भूता बहवो नृपदानवाः ॥ १२१॥ शिशुपालो दन्तवक्त्रः शाल्वः काशीपतिस्तथा । पौण्ड्रको वासुदेवश्च रुक्मी डिम्भकहंसकौ ॥ १२२॥ शम्बरश्च प्रलम्बश्च तथा बाणासुरोऽपि च । कंसश्चाणूरमल्लश्च मुष्टिकोत्पलशेखरौ ॥ १२३॥ अरिष्टो धेनुकः केशी कालियो यमलार्जुनौ । पूतना शकटश्चैव तृणावर्तादयोऽसुराः ॥ १२४॥ नरकाख्यो महावीरो विष्णुरूपी मुरासुरः । अनेके सह सेनाभिरुत्थिताः शस्त्रपाणयः ॥ १२५॥ तान्विनाशयितुं सर्वान्वासुदेवः सनातनः । श्रीदेवीवामहस्ताब्जानामिकानखसम्भवः ॥ १२६॥ चतुर्व्यूहं समातेने चत्वारस्ते ततोऽभवन् । वासुदेवो द्वितीयस्तु सङ्कर्षण इति स्मृतः ॥ १२७॥ प्रद्युम्नश्चानिरुद्धश्च ते सर्वे प्रोद्यतायुधाः । तानशेषान्दुराचारान्भूमभोरप्रवर्तकान् ॥ १२८॥ नाशयामासुरुर्वीशवेषच्छन्नान्महासुरान् ॥ १२९॥ अथ तेषु विनष्टेषु सङ्क्रुद्धो भण्ड्रदानवः । धर्मविप्लावकं घोरं कल्यस्त्रं सममुञ्चत ॥ १३०॥ ततः कल्यस्त्रतो जाता आन्ध्राः पुण्डाश्च भूमिपाः । किराताः शबरा हूणा यवनाः पापवृत्तयः ॥ १३१॥ वेद विप्लावका धर्मद्रो हिणः प्राणहिंसकाः । वर्णाश्रमेषु साङ्कर्यकारिणो मलिनाङ्गकाः । ललिताशक्तिसैन्यानि भूयोभूयो व्यमर्दयन् ॥ १३२॥ अथ श्रीललितावामहस्तपद्मस्य भास्वतः । कनिष्ठिकानखोद्भूतः कल्किर्नाम जनार्दनः ॥ १३३॥ अश्वारूढः प्रतीप्त श्रीरट्टहासं चकार सः । तस्यैव ध्वनिना सर्वे वज्रनिष्पेषबन्धुना ॥ १३४॥ किराता मूर्च्छिता नेशुः शक्तयश्चापि हर्षिताः । दशावतारनाथास्ते कृत्वेदं कर्म दुष्करम् ॥ १३५॥ ललितां तां नमस्कृत्य बद्धाञ्जलिपुटाः स्थिताः । प्रतिकल्पं धर्मरक्षां कर्तुं मत्स्यादिजन्मभिः । ललिताम्बानियुक्तास्ते वैकुण्ठाय प्रतस्थिरे ॥ १३६॥ इत्थं समस्तेष्वस्त्रेषु नाशितेषु दुराशयः । महामोहास्त्रमसृजच्छक्तयस्तेन मूर्छिताः ॥ १३७॥ शाम्भवास्त्रं विसृज्याम्बा महामोहास्त्रमक्षिणोत् । अस्त्रप्रत्यस्त्रधाराभिरित्थं जाते महाहवे । अस्तशैलं गभस्तीशो गन्तुमारभतारुणः ॥ १३८॥ अथ नारायणास्त्रेण सा देवी ललिताम्बिका । सर्वा अक्षौहिणीस्तस्य भस्मसादकरोद्रणे ॥ १३९॥ अथ पाशुपतास्त्रेण दीप्तकालानलत्विषा । चत्वारिंशच्चमूनाथान्महाराज्ञी व्यमर्दयत् ॥ १४०॥ अथैकशेषं तं दुष्टं निहताशेषबान्धवम् । क्रोधेन प्रज्वलन्तं च जगद्विप्लवकारिणम् ॥ १४१॥ महासुरं महासत्त्वं भण्डं चण्डपराक्रमम् । महाकामेश्वरास्त्रेण सहस्रादित्यवर्चसा । गतासुमकरोन्माता ललिता परमेश्वरी ॥ १४२॥ तदस्त्रज्वालयाक्रान्तं शून्यकं तस्य पट्टनम् । सस्त्रीकं च सबालं च सगोष्ठं धनधान्यकम् ॥ १४३॥ निर्दग्धमासीत्सहसा स्थलमात्रमशिष्यत । भण्डस्य सङ्क्षयेणासीत्त्रैलोक्यं हर्षनर्तितम् ॥ १४४॥ इत्थं विधाय सुरकार्यमनिन्द्यशीला श्रीचक्रराजरथमण्डलमण्डनश्रीः । कामेश्वरी त्रिजगतां जननी बभासे विद्योतमानविभवा विज्यश्रिया-ढ्या ॥ १४५॥ सैन्यं समस्तमपि सङ्गरकर्मखिन्नं भण्डासुरप्रबलबाणकृशानुतप्तम् । अस्तं गते सवितरि प्रथितप्रभावा श्रीदेवता शिबिरमात्मन आनिनाय ॥ १४६॥ यो भण्डदानववधं ललिताम्बयेमं कॢप्तं सकृत्पठति तस्य तपोधनेन्द्र । नाशं प्रयान्ति कदनानि धृताष्टसिद्धे- र्भुक्तिश्च मुक्तिरपि वर्तत एव हस्ते ॥ १४७॥ इमं पवित्रं ललितापराक्रमं समस्तपापघ्नमशेषसिद्धिदम् । पठन्ति पुण्येषु दिनेषु ये नरा भजन्ति ते भाग्यसमृद्धिमुत्तमाम् ॥ १४८॥ इति श्रीब्रह्माण्डपुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीललितोपाख्याने भण्डासुरवधो नामैकोनत्रिंशोऽध्यायः ॥ २९॥ समाप्तं च युद्धखण्डम् ।

अथ मदनपुनर्भवो नाम त्रिंशोऽध्यायः ॥ ३०॥

अगस्त्य उवाच । अश्वानन महाप्राज्ञ श्रुतमाख्यानमुत्तमम् । विक्रमो ललितादेव्या विशिष्टो वर्णितस्त्वया ॥ १॥ चरितैरनघैर्देव्याः सुप्रीतोऽस्मि हयानन । श्रुता सा महतीशक्तिर्मन्त्रिणीदण्डनाथयोः ॥ २॥ पश्चात्किमकरोत्तत्र युद्धानन्तरमम्बिका । चतुर्थदिनशर्वर्यां विभातायां हयानन ॥ ३॥ हयग्रीव उवाच । श‍ृणु कुम्भज तत्प्राज्ञ यत्तया जगदम्बया । पश्चादाचरितं कर्म निहते भण्डदानवे ॥ ४॥ शक्तीनामखिलं सैन्यं दैत्यायुधशतार्दितम् । मुहुराह्लादयामास लोचनैरमृताप्लुतैः ॥ ५॥ ललितापरमेशान्याः कटाक्षामृतधारया । जहुर्युद्धपरिश्रान्तिं शक्तयः प्रीतिमानसाः ॥ ६॥ अस्मिन्नवसरे देवा भण्डमर्दनतोषिताः । सर्वेऽपि सेवितुं प्राप्ता ब्रह्मविष्णुपुरोगमाः ॥ ७॥ ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्यास्त्रिदशास्तथा । आदित्या वसवो रुद्रा मरुतः साध्यदेवताः ॥ ८॥ सिद्धाः किम्पुरुषा यक्षा निरृत्याद्या निशाचराः । प्रह्लादाद्या महादैत्याः सर्वेऽप्यण्डनिवासिनः ॥ ९॥ आगत्य तुष्टुवुः प्रीत्या सिंहासनमहेश्वरीम् ॥ १०॥ ब्रह्माद्या ऊचुः । नमोनमस्ते जगदेकनाथे नमोनमः श्रीत्रिपुराभिधाने । नमोनमो भण्डमहासुरघ्ने नमोऽस्तु कामेश्वरि वामकेशि ॥ ११॥ चिन्तामणे चिन्तितदानदक्षेऽचिन्त्ये चिराकारतरङ्गमाले । चित्राम्बरे चित्रजगत्प्रसूते चित्राख्यनित्ये सुखदे नमस्ते ॥ १२॥ मोक्षप्रदे मुग्धशशाङ्कचूडे मुग्धस्मिते मोहनभेददक्षे । मुद्रे श्वरीचर्चितराजतन्त्रे मुद्रा प्रिये देवि नमोनमस्ते ॥ १३॥ क्रूरान्तकध्वंसिनि कोमलाङ्गे कोपेषु कालीं तनुमादधाने । क्रोडानने पालितसैन्यचक्रे क्रोडीकृताशेषभये नमस्ते ॥ १४॥ षडङ्गदेवीपरिवारकृष्णे षडङ्गयुक्तश्रुतिवाक्यमृग्ये । षट्चक्रसंस्थे च षडूर्मियुक्ते षड्भावरूपे ललिते नमस्ते ॥ १५॥ कामे शिवे मुख्यसमस्तनित्ये कान्तासनान्ते कमलायताक्षि । कामप्रदे कामिनि कामशम्भोः काम्ये कलानामधिपे नमस्ते ॥ १६॥ दिव्यौषधाद्ये नगरौघरूपे दिव्ये दिनाधीशसहस्रकान्ते । देदीप्यमाने दयया सनाथे देवाधिदेवप्रमदे नमस्ते ॥ १७॥ सदाणिमाद्यष्टकसेवनीये सदाशिवात्मोज्ज्वलमञ्चवासे । सभ्ये सदेकालयपादपूज्ये सवित्रि लोकस्य नमोनमस्ते ॥ १८॥ ब्राह्मीमुखैर्मातृगणैर्निषेव्ये ब्रह्मप्रिये ब्राह्मणबन्धभेत्रि । ब्रह्मामृतस्रोतसि राजहंसि ब्रह्मेश्वरि श्रीललिते नमस्ते ॥ १९॥ सङ्क्षोभिणीमुख्यसमस्तमुद्रा संसेविते संसरणप्रहन्त्रि । संसारलीलाकृतिसारसाक्षि सदा नमस्ते ललितेऽधिनाथे । नित्ये कलाषोडशकेन नामाकर्षिण्यधीशि प्रमथेन सेव्ये ॥ २०॥ नित्ये निरातङ्कदयाप्रपञ्चे नीलालकश्रेणि नमोनमस्ते । अनङ्गपुष्पादिभिरुन्नदाभिरनङ्गदेवीभिरजस्रसेव्ये । अभव्यहन्त्र्यक्षरराशिरूपे हतारिवर्गे ललिते नमस्ते ॥ २१॥ सङ्क्षोभिणीमुख्यचतुर्दशार्चिर्मालावृतोदारमहाप्रदीप्ते । आत्मानमाबिभ्रति विभ्रमाढ्ये शुभ्राश्रये शुभ्रपदे नमस्ते ॥ २२॥ सशर्वसिद्धादिकशक्तिवन्द्ये सर्वज्ञविज्ञातपदारविन्दे । सर्वाधिके सर्वगते समस्तसिद्धिप्रदे श्रीललिते नमस्ते ॥ २३॥ सर्वज्ञजातप्रथमाभिरन्यदेवी भिरप्याश्रितचक्रभूमे । सर्वामराकाङ्क्षितपूरयित्रि सर्वस्य लोकस्य सवित्रि पाहि ॥ २४॥ वन्दे वशिन्यादिकवाग्विभूते वर्द्धिष्णुचक्र द्युतिवाहवाहे । बलाहकश्यामकचे वचोऽब्धे वरप्रदे सुन्दरि पाहि विश्वम् ॥ २५॥ बाणादिदिव्यायुधसार्वभौमे भण्डासुरानीकवनान्तदावे । अत्युग्रतेजोज्ज्वलिताम्बुराशे प्रसेव्यमाने परितो नमस्ते ॥ २६॥ कामेशि वज्रेशि भगेश्यरूपे कन्ये कले कालविलोपदक्षे । कथाविशेषीकृतदैत्यसैन्ये कामेशयान्ते कमले नमस्ते ॥ २७॥ बिन्दुस्थिते बिन्दुकलैकरूपे बिन्द्वात्मिके बृंहितचित्प्रकाशे । बृहत्कुचम्भोजविलोलहारे बृहत्प्रभावे ललिते नमस्ते ॥ २८॥ कामेश्वरोत्सङ्गसदानिवासे कालात्मिके देवि कृतानुकम्पे । कल्पावसानोत्थितकालिरूपे कामप्रदे कल्पलते नमस्ते ॥ २९॥ सवारुणे सान्द्रसुधांशुशीते सारङ्गशावाक्षि सरोजवक्त्रे । सारस्य सारस्य सदैकभूमे समस्तविद्येश्वरि सन्नतिस्ते ॥ ३०॥ तव प्रभावेण चिदग्निजायां श्रीशम्भुनाथप्रकटीकृतायाः । भण्डासुराद्याः समरे प्रचण्डा हता जगत्कण्टकतां प्रयाताः ॥ ३१॥ नव्यानि सर्वाणि वपूंषि कृत्वा हि सान्द्रकारुण्यसुधाप्लवैर्न्नः । त्वया समस्तं भुवनं सहर्षं सुजीवितं सुन्दरि सभ्यलभ्ये ॥ ३२॥ श्रीशम्भुनाथस्य महाशयस्य द्वितीयतेजःप्रसरात्मके यः । स्थाण्वाश्रमे कॢप्ततया विरक्तः सतीवियोगेन विरस्तभोगः ॥ ३३॥ तेनाद्रि वंशे धृतजन्मलाभां कन्यामुमां योजयितुं प्रवृत्ताः । एवं स्मरं प्रेरितवन्त एव तस्यान्तिकं घोर तपःस्थितस्य ॥ ३४॥ तेनाथ वैराग्यतपोविघातक्रोधेन लालाटकृशानुदग्धः । भस्मावशेषो मदनस्ततोऽभूत्ततो हि भण्डासुर एष जातः ॥ ३५॥ ततो वधस्तस्य दुराशयस्य कृतो भवत्या रणदुर्मदस्य । अथास्मदर्थे त्वतनुस्सजातस्त्वं कामसञ्जीवनमाशुकुर्याः ॥ ३६॥ इयं रतिर्भर्तृवियोगखिन्ना वैधव्यमत्यन्तमभव्यमाप । पुनस्त्वदुत्पादितकामसङ्गाद्भविष्यति श्रीललिते सनाथा ॥ ३७॥ तया तु दृष्टेन मनोभवेन सम्मोहितः पूर्ववदिन्दुमौलिः । चिरं कृतात्यन्तमहासपर्या तां पार्वतीं द्रा क्परिणेष्यतीशः ॥ ३८॥ तयोश्च सङ्गाद्भविता कुमारः समस्तगीर्वाणचमूविनेता । तेनैव वीरेण रणे निरस्य स तारको नाम सुरारिराजः ॥ ३९॥ यो भण्डदैत्यस्य दुराशयस्य मित्रं स लोकत्रयधूमकेतुः । श्रीकण्ठपुत्रैण रणे हतश्चेत्प्राणप्रतिष्ठैव तदा भवेन्नः ॥ ४०॥ तस्मात्त्वमम्बत्रिपुरे जनानां मानापहं मन्मथवीरवर्यम् । उत्पाद्य रत्या विधवात्वदुःखमपाकुरु व्याकुलकुन्तलायाः ॥ ४१॥ एषा त्वनाथा भवतीं प्रपन्ना भर्तृप्रणाशेन कृशाङ्गयष्टिः । नमस्करोति त्रिपुराभिधाने तदत्र कारुण्यकलां विधेहि ॥ ४२॥ हयग्रीव उवाच । इति स्तुत्वा महेशानी ब्रह्माद्या विबुधोत्तमाः । तां रतिं दर्शयमासुर्मलिनां शोककर्शिताम् ॥ ४३॥ सा पर्यश्रुमुखी कीर्णकुन्तला धूलिधूसरा । ननाम जगदम्बां वै वैधव्यत्यक्तभूषणा ॥ ४४॥ अथ तद्दर्शनोत्पन्नकारुण्या परमेश्वरी । ततः कटाक्षादुत्पन्नः स्मयमानमुखाम्बुजः ॥ ४५॥ पूर्वदेहाधिकरुचिर्मन्मथो मदमेदुरः । द्विभुजः सर्वभूषाढ्यः पुष्पेषुः पुष्पकार्मुकः ॥ ४६॥ आनन्दयन्कटाक्षेण पूर्वजन्मप्रियां रतिम् । अथ सापि रतिर्देवी महत्यानन्दसागरे । मज्जन्ती निजभर्तारमवरोक्य मुदं गता ॥ ४७॥ आनन्दितान्तरात्मानौ भक्तिनिर्भरमानसौ । ज्ञात्वाथ तौ महाराज्ञी मन्दस्मितमुखाम्बुजा । व्रीडानतां रतिं प्रेक्ष्य श्यामलामिदमब्रवीत् ॥ ४८॥ श्यामले स्नापयित्वैनां वस्त्रकाञ्च्यादिभूषणैः । अलङ्कृत्य यथापूर्वं शीघ्रमानीयतामिह ॥ ४९॥ तदाज्ञां शिरसा धृत्वा श्यामा सर्वं तथाकरोत । ब्रह्मर्षिभिर्वसिष्ठाद्यैर्वैवाहि कविधानतः ॥ ५०॥ कारयामास दम्पत्योः पाणिग्रहणमङ्गलम् । अप्सरोभिश्च सर्वाभिर्नृत्यगीतादिसंयुतम् ॥ ५१॥ एतद्दृष्ट्वा महेन्द्रा द्या ऋषयश्च तपोधनाः । साधुसाध्विति शंसन्तस्तुष्टुवुर्ललिताम्बिकाम् ॥ ५२॥ पुष्पवृष्टिं विमुञ्चन्तः सर्वे सन्तुष्टमानसाः । बभूवुस्तौ महाभक्त्या प्रणम्य ललितेश्वरीम् ॥ ५३॥ तत्पार्श्वे तु समागत्य बद्धाञ्जलिपुटौ स्थितौ । अथ कन्दर्पवीरोऽपि नमस्कृत्य महेश्वरीम् । व्यज्ञापयदिदं वाक्यं भक्तिनिर्भरमानसः ॥ ५४॥ यद्दग्धमीशनेत्रेण वपुर्मे ललिताम्बिके । तत्त्वदीयकटाक्षस्य प्रसादात्पुनरागतम् ॥ ५५॥ तव पुत्रोऽस्मि दासोऽस्मि क्वापि कृत्ये नियुङ्क्ष्व माम् । इत्युक्ता परमेशानी तमाह मकरध्वजम् ॥ ५६॥ श्रीदेव्युवाच । वत्सागच्छ मनोजन्मन्न भयं तव विद्यते । मत्प्रसादाज्जगत्सर्वं मोहयाव्याहताशुग ॥ ५७॥ तद्बाणपातनाज्जातधैर्यविप्लव ईश्वरः । पर्वतस्य सुतां गौरीं परिणेष्यति सत्वरम् ॥ ५८॥ सहस्रकोटयः कामा मत्प्रसादात्त्वदुद्भवाः । सर्वेषां देहमाविश्य दास्यन्ति रतिमुत्तमाम् ॥ ५९॥ मत्प्रसादेन वैराग्यात्सङ्क्रुद्धोऽपि स ईश्वरः । देहदाहं विधातुं ते न समर्थो भविष्यति ॥ ६०॥ अदृश्यमूर्तिः सर्वेषां प्राणिनां भवमोहनः । स्वभार्याविरहाशङ्की देहस्यार्धं प्रदास्यति । प्रयातोऽसौ कातरात्मा त्वद्बाणाहतमानसः ॥ ६१॥ अद्य प्रभृति कन्दर्प मत्प्रसादान्महीयसः । त्वन्निन्दां ये करिष्यन्ति त्वयि वा विमुखाशयाः । अवश्यं क्लीबतैव स्यात्तेषां जन्मनिजन्मनि ॥ ६२॥ ये पापिष्ठा दुरात्मानो मद्भक्तद्रो हिणश्च हि । तानगम्यासु नारीषु पातयित्वा विनाशय ॥ ६३॥ येषां मदीय पूजासु मद्भक्तेष्वादृतं मनः । तेषां कामसुखं सर्वं सम्पादय समीप्सितम् ॥ ६४॥ इति श्रीललितादेव्या कृताज्ञावचनं स्मरः । तथेति शिरसा बिभ्रत्साञ्जलिर्निर्ययौ ततः ॥ ६५॥ तस्यानङ्गस्य सर्वेभ्यो रोमकूपेभ्य उत्थिताः । बहवः शोभनाकारा मदना विश्वमोहनाः ॥ ६६॥ तैर्विमोह्य समस्तं च जगच्चक्रं मनोभवः । पुनः स्थाण्वाश्रमं प्राप चन्द्रमौलेर्जिगीषया ॥ ६७॥ वसन्तेन च मित्रेण सेनान्या शीतरोचिषा । रागेण पीठमर्देन मन्दानिलरयेण च ॥ ६८॥ पुंस्कोकिलगलत्स्वानकाहलीभिश्च संयुतः । श‍ृङ्गारवीरसम्पन्नो रत्यालिङ्गितविग्रहः ॥ ६९॥ जैत्र शरासनं धुन्वन्प्रवीराणां पुरोगमः । मदनारेरभिमुखं प्राप्य निभय आस्थितः ॥ ७०॥ तपोनिष्ठं चन्द्रचूडं ताडयामास सायकैः । अथ कन्दर्पबाणौघैस्ताडितश्चन्द्रशेखरः । दूरीचकार वैराग्यं तपस्तत्त्याज दुष्करम् ॥ ७१॥ नियमानखिलांस्त्यक्त्वा त्यक्तधैर्यः शिवः कृतः । तामेव पार्वतीं ध्यात्वा भूयोभूयः स्मरातुरः ॥ ७२॥ निशश्वास वहञ्शर्वः पाण्डुरं गण्डमण्डलम् । बाष्पायमाणो विरही सन्तप्तो धैर्यविप्लवात् । भूयोभूयो गिरिसुतां पूर्वदृष्टामनुस्मरन् ॥ ७३॥ अनङ्गबाणदहनैस्तप्यमानस्य शूलिनः । न चन्द्ररेखा नो गङ्गा देहतापच्छिदेऽभवत् ॥ ७४॥ नन्दिभृङ्गिमहाकालप्रमुखैर्गणमण्डलैः । आहृते पुष्पशयने विलुलोठ मुहुर्मुहुः ॥ ७५॥ नन्दिनो हस्तमालम्ब्य पुष्पतल्पान्तरात्पुनः । पुष्पतल्पान्तरं गत्वा व्यचेष्टत मुहुर्मुहुः ॥ ७६॥ न पुष्पशयनेनेन्दुखण्डनिर्गलितामृते । न हिमानीपयसि वा निवृत्तस्तद्वपुर्ज्वरः ॥ ७७॥ स तनेरतनुज्वालां शमयिष्यन्मुहुर्मुहुः । शिलीभूतान्हिमपयः पट्टानध्यवसच्छिवः । भूयः शैलसुतारूपं चित्रपट्टे नखैर्लिखत् ॥ ७८॥ तदालोकनतोऽदूरमनङ्गार्तिमवर्धयत् । तामालिख्य ह्रिया नम्रां वीक्षमाणां कटाक्षतः ॥ ७९॥ तच्चित्रपट्टमङ्गेषु रोमहर्षेषु चाक्षिपत् । चिन्तासङ्गेन महता महत्या रतिसम्पदा । भूयसा स्मरतापेन विव्यथे विषमेक्षणः ॥ ८०॥ तामेव सर्वतः पश्यंस्तस्यामेव मनो दिशन् । तयैव संल्लपन्सार्धमुन्मादेनोपपन्नया ॥ ८१॥ तन्मात्रभूतहृदयस्तच्चित्तस्तत्परायणः । तत्कथासुधया नीतसमस्तरजनीदिनः ॥ ८२॥ तच्छीलवर्णनरतस्तद्रूपालोकनोत्सुकः । तच्चारुभोगसङ्कल्पमालाकरसुमालिकः । तन्मयत्वमनुप्राप्तस्ततापातितरां शिवः ॥ ८३॥ इमां मनोभव रुजमचिकित्स्यां स धूर्जटिः । अवलोक्य विवाहाय भृशमुद्यमवानभूत् ॥ ८४॥ इत्थं विमोह्य तं देवं कन्दर्पो ललिताज्ञया । अथ तां पर्वतसुतामाशुगैरभ्यतापयत् ॥ ८५॥ प्रभूतविरहज्वालामलिनैः श्वसितानलैः । शुष्यमाणाधरदलो भृशं पाण्डुकपोलभूः ॥ ८६॥ नाहारे वा न शयने न स्वापे धृतिमिच्छति । सखीसहस्रैः सिषिचे नित्यं शीतोपचारकैः ॥ ८७॥ पुनःपुनस्तप्यमाना पुनरेव च विह्वला । न जगाम रुजाशान्ति मन्मथाग्नेर्महीयसः ॥ ८८॥ न निद्रां पार्वती भेजे विरहेणोपतापिता । स्वतनोस्तापनेनासौ पितुः खेदमवर्धयत् ॥ ८९॥ अप्रतीकारपुरुषं विरहं दुहितुः शिवे । अवलोक्य स शैलेन्द्रो महादुःखमवाप्तवान् ॥ ९०॥ भद्रे त्वं तपसा देवं तोषयित्वा महेश्वरम् । भार्तारं तं समृच्छेति पित्रा सम्प्रेरिताथ सा ॥ ९१॥ हिमवच्छैलशिखरे गौरीशिखरनामनि । वकार पतिलाभाय पार्वती दुष्करं तपः ॥ ९२॥ शिशिरेषु जलावासा ग्रीष्मे दहनमध्यगा । अर्क निविष्टदृष्टिश्च सुघोरं तप आस्थिता ॥ ९३॥ तेनैव तपसा तुष्टः सान्निध्यं दत्तवाञ्छिवः । अङ्गीचकार तां भार्यां वैवाहिकविधानतः ॥ ९४॥ अथाद्रि पतिना दत्तां तनयां नलिनेक्षणाम् । सप्तर्षिद्वारतः पूर्वं प्रार्थितामुदवोढ सः ॥ ९५॥ तया च रममाणोऽसौ बहुकालं महेश्वरः । ओषधीप्रस्थनगरे श्वशुरस्य गृहेऽवसत् ॥ ९६॥ पुनः कैलासमागत्य समस्तैः प्रमथैः सह । पार्वतीमानिनायाद्रि नाथस्य प्रीतिमावहत् ॥ ९७॥ रममाणस्तया सार्थं कैलासे मन्दरे तथा । विन्ध्याद्रौ हेमशैले च मलये पारियात्रके ॥ ९८॥ नानाविधेषु स्थानेषु रतिं प्राप महेश्वरः । अथ तस्यां ससर्जोग्रं वीर्यं सा सोढुमक्षमा ॥ ९९॥ भुव्यत्यजत्सापि वह्नौ कृत्तिकासु स चाक्षिपत् । ताश्च गङ्गाजलेऽमुञ्चन्सा चैव शरकानने ॥ १००॥ तत्रोद्भूतो महावीरो महासेनः षडाननः । गङ्गायाश्चान्तिकं नीतो धूर्जटिर्वृद्धिमागमत् ॥ १०१॥ स वर्धमानो दिवसेदिवसे तीव्रविक्रमः । शिक्षितो निजतातेन सर्वा विद्या अवाप्तवान् ॥ १०२॥ अथ तातकृतानुज्ञः सुरसैन्यपतिर्भवन् । तारकं मारयामास समस्तैः सह दानवैः ॥ १०३॥ ततस्तारकदैत्येन्द्रवधसन्तोषशालिना । शक्रेण दत्तां स गुहो देवसेनामुपानयत् ॥ १०४॥ सा शक्रतनया देवसेना नाम यशस्विनी । आसाद्य रमणं स्कन्दमानन्दं मृशमादधौ ॥ १०५॥ इत्थं सम्मोहिताशेषविश्वचक्रो मनोभवः । देवकार्यं सुसम्पाद्य जगाम श्रीपुरं पुनः ॥ १०६॥ यत्र श्रीनगरे पुण्ये ललिता परमेश्वरी । वर्तते जगतामृद्ध्यै तत्र तां सेवितुं ययौ ॥ १०७॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने मदनपुनर्भवो नाम त्रिंशोऽध्यायः ॥ ३०॥

अथ सप्तकक्ष्या मतङ्गकन्याप्रादुर्भावो नामैकत्रिंशोऽध्यायः ॥ ३१॥

अगस्त्य उवाच । किमिदं श्रीपुरं नाम केन रूपेण वर्तते । केन वानिर्मितं पूर्व तत्सर्वं मे निवदय ॥ १॥ कियत्प्रमाणं किं वर्णं कथयस्व मम प्रभो । त्वमेव सर्वसन्देहपङ्कशोषणभास्करः ॥ २॥ हयग्रीव उवाच । यथा चक्ररथं प्राप्य पूर्वोक्तैर्लक्षणैर्युतम् । महायागानलोत्पन्ना ललिता परमेश्वरी ॥ ३॥ कृत्वा वैवाहिकीं लीलां ब्रह्माद्यैः प्रार्थिता पुनः । व्यजेष्ट भण्डनामानमसुरं लोककण्टकम् ॥ ४॥ तदा देवा महेन्द्रा द्याः सन्तोषं बहु भेजिरे । अथ कामेश्वरस्यापि ललितायाश्च शोभनम् । नित्योपभोगसर्वार्थं मन्दिरं कर्तुमुत्सुकाः ॥ ५॥ कुमारा ललितादेव्या ब्रह्मविष्णुमहेश्वराः । वर्धकिं विश्वकर्माणं सुराणां शिल्पकोविदम् ॥ ६॥ असुराणां शिल्पनं च मयं मायाविचक्षणम् । आहूय कृतसत्कारानूचिरे ललिताज्ञया ॥ ७॥ अधिकारिपुरुषा ऊचुः । भो विश्वकर्मञ्छिल्पज्ञ भोभो मय महोदय । भवन्तौ सर्वशास्त्रज्ञौ घटनामार्गको विदौ ॥ ८॥ सङ्कल्पमात्रेण महाशिल्पकल्पविशारदौ । युवाभ्यां ललितादेव्या नित्यज्ञानमहोदधेः ॥ ९॥ षोडशीक्षेत्रमध्येषु तत्क्षेत्रसमसङ्ख्यया । कर्तव्या श्रीनगर्यो हि नानारत्नैरलङ्कृताः ॥ १०॥ यत्र षोडशधा भिन्ना ललिता परमेश्वरी । विश्वत्राणाय सततं निवासं रचयिष्यति ॥ ११॥ अस्माकं हि प्रियमिदं मरुतामपि च प्रियम् । सर्वलोकप्रियं चैतत्तन्नाम्नैव विरच्यताम् ॥ १२॥ इति कारणदेवानां वचनं सुनिशम्य तौ । विश्वकर्ममयौ नत्वा व्यभाषेतां तथास्त्विति ॥ १३॥ पुनर्नत्वा पृष्टवन्तौ तौ तान्कारण पूरुषान् । केषु क्षेत्रेषु कर्तव्याः श्रीनगर्यो महोदयाः ॥ १४॥ ब्रह्माद्याः परिपृष्टास्ते प्रोचुस्तौ शिल्पिनौ पुनः । क्षेत्राणां प्रविभागं तु कल्पयन्तौ यथोचितम् ॥ १५॥ कारणपुरुषा ऊचुः । प्रथमं मेरुपृष्ठे तु निषधे च महीधरे । हेमकूटे हिमगिरौ पञ्चमे गन्धमादने ॥ १६॥ नीले मेषे च श‍ृङ्गारे महेन्द्रे च महागिरौ । क्षेत्राणि हि नवैतानि भौमानि विदितान्यथ ॥ १७॥ औदकानि तु सप्तैव प्रोक्तान्यखिल सिन्धुषु । लवणोऽब्धीक्षुसाराब्धिः सुराब्धिर्घृतसागरः ॥ १८॥ दधिसिन्धुः क्षीरसिन्धुर्जलसिन्धुश्च सप्तमः । पूर्वोक्ता नव शैलेन्द्राः पश्चात्सप्त च सिन्धवः ॥ १९॥ आहृत्य षोडश क्षेत्राण्यम्बाश्रीपुरकॢप्तये । येषु दिव्यानि वेश्मानि ललिताया महौजसः । सृजतं दिव्यघटनापण्डितौ शिल्पिनौ युवाम् ॥ २०॥ येषु क्षेत्रेषु कॢप्तानि घ्नन्त्या देव्या महासुरान् । नामानि नित्यानाम्नैव प्रथितानि न संशयः ॥ २१॥ सा हि नित्यास्वरूपेण कालव्याप्तिकरी परा । सर्वं कलयते देवी कलनाङ्कतया जगत् ॥ २२॥ नित्यानां च महाराज्ञी नित्या यत्र न तद्भिदा । अतस्तदीयनाम्ना तु सनामा प्रथिता पुरा ॥ २३॥ कामेश्वरीपुरी चैव भगमालापुरी तथा । नित्यक्लिन्नापुरीत्यादिनामानि प्रथितान्यलम् ॥ २४॥ अतो नामानि वर्णेन योग्ये पुण्यतमे दिने । महाशिल्पप्रकारेण पुरीं रचयतां शुभाम् ॥ २५॥ इति कारणकृत्येन्द्रैर्ब्रह्मविष्णुमहेश्वरैः । प्रोक्तौ तौ श्रीपुरीस्थेषु तेषु क्षेत्रेषु चक्रतुः ॥ २६॥ अथ श्रीपुरविस्तारं पुराधिष्ठातृदेवताः । कथयाम्यहमाधार्य लोपामुद्रा पते श‍ृणु ॥ २७॥ यो मेरुरखिलाधारस्तुङ्गश्चानन्तयोजनः । चतुर्दशजगच्चक्रसम्प्रोतनिजविग्रहः ॥ २८॥ तस्य चत्वारि श‍ृङ्गाणि शक्रनैरृतवायुषु । मध्यस्थलेषु जातानि प्रोच्छ्रायस्तेषु कथ्यते ॥ २९॥ पूर्वोक्तश‍ृङ्गत्रितयं शतयोजनमुन्नतम् । शतयोजनविस्तारं तेषु लोकास्त्रयो मताः ॥ ३०॥ ब्रह्मलोको विष्णुलोकः शिवलोकस्तथैव च । एतेषां गृहविन्यासान्वक्ष्याम्यवसरान्तरे ॥ ३१॥ मध्ये स्थितस्य श‍ृङ्गस्य विस्तारं चोच्छ्रयं श‍ृणु । चतुःशतं योजनानामुच्छ्रितं विस्तृतं तथा ॥ ३२॥ तत्रैव श‍ृङ्गे महति शिल्पिभ्यां श्रीपुरं कृतम् । चतुःशतं योजनानां विस्तृत कुम्भसम्भव ॥ ३३॥ तत्रायं प्रविभागस्ते प्रविविच्य प्रदर्श्यन्ते । प्राकारः प्रथमः प्रोक्तः कालायसविनिर्मितः ॥ ३४॥ षट्दशाधिकसाहस्रयोजनायतवेष्टनः । चतुर्दिक्षु द्वार्युतश्च चतुर्योजनमुच्छ्रितः ॥ ३५॥ शालमूलपरीणाहो योजनायुतमब्धिप । शालाग्रस्य तु गव्यूतेर्नद्धवातायनं पृथक् ॥ ३६॥ शालद्वारस्य चौन्नत्यमेकयोजनमाश्रितम् । द्वारेद्वारे कपाटे द्वे गव्यूत्यर्धप्रविस्तरे ॥ ३७॥ एकयोजनमुन्नद्धे कालायस विनिर्मिते । उभयोरर्गला चेत्थमर्धक्रोशसमायता ॥ ३८॥ एवं चतुर्षु द्वारेषु सदृशं परिकीर्तितम् । गोपुरस्य तु संस्थानं कथये कुम्भसम्भव ॥ ३९॥ पूर्वोक्तस्य तु शालस्य मूले योजनसम्मिते । पार्श्वद्वये योजने द्वे द्वे समादाय निर्मिते ॥ ४०॥ विस्तारमपि तावन्तं सम्प्राप्तं द्वारगर्भितम् । पार्श्वद्वयं योजने द्वे मध्ये शालस्य योजनम् ॥ ४१॥ मेलयित्वा पञ्च मुने योजनानि प्रमाणतः । पार्श्वद्वयेन सार्धेन क्रोशयुग्मेन संयुतम् ॥ ४२॥ मेलयित्वा पञ्चसङ्ख्यायोजनान्यायतस्तथा । एवं प्राकारतस्तत्र गोपुरं रचितं मुने ॥ ४३॥ तस्माद्गोपुरमूलस्य वेष्टो विंशतियोजनः । उपर्युपरि वेष्टस्य ह्रास एव प्रकीर्त्यते ॥ ४४॥ गोपुरस्योन्नतिः प्रोक्ता पञ्चविंशतियोजना । योजनेयोजने द्वारं सकपाटं मनोहरम् ॥ ४५॥ भूमिकाश्चापि तावन्त्यो यथोर्ध्वं ह्राससंयुताः । गोपुराग्रस्य निस्तारो योजनं हि समाश्रितः ॥ ४६॥ आयामोऽपि च तावान्वै तत्र त्रिमुकुटं स्मृतम् । मुकुटस्य तु विस्तारः क्रोशमानो घटोद्भव ॥ ४७॥ क्रोशद्वयं समुन्नद्धं ह्रासं गोपुरवन्मुने । मुकुटस्यान्तरे क्षोणी क्रोशार्धेन च सम्मिता ॥ ४८॥ मुकुटं पश्चिमे प्राच्यां दक्षिणे द्वारगोपुरे । दक्षोत्तरस्तु मुकुटाः पश्चिमद्वारगोपुरे ॥ ४९॥ दक्षिणद्वारवत्प्रोक्ता उत्तरद्वाःकिरीटिकाः । पश्चिमद्वारवत्पूर्वद्वारे मुकुटकल्पना ॥ ५०॥ कालायसाख्यशालस्यान्तरे मारुतयोजने । अन्तरे कांस्यशालस्य पूर्ववद्गोपुरोऽन्वितः ॥ ५१॥ शालमूलप्रमाणं च पूर्ववत्परिकीर्तितम् । कांस्यशालोऽपि पूर्वादिदिक्षु द्वारसमन्वितः ॥ ५२॥ द्वारेद्वारे गोपुराणि पर्वलक्षणभाञ्जि च । कालायसस्य कांस्यस्य योऽन्तर्देशः समन्ततः ॥ ५३॥ नानावृक्षमहोद्यानं तत्प्रोक्तं कुम्भसम्भव । उद्भिज्जाद्यं यावदस्ति तत्सर्वं तत्र वर्तते ॥ ५४॥ परंसहस्रास्तरवः सदापुष्पाः सदाफलाः । सदापल्लवशोभाढ्याः सदा सौरभसङ्कुलाः ॥ ५५॥ चूताः कङ्कोलका लोध्रा बकुलाः कर्णिकारकाः । शिंशपाश्च शिरीषाश्च देवदारुनमेरवः ॥ ५६॥ पुन्नागा नागभद्राश्च मुचुकुन्दाश्च कट्फलाः । एलालवङ्गास्तक्कोलास्तथा कर्पूरशाखिनः ॥ ५७॥ पीलवः काकतुण्ड्यश्च शालकाश्चासनास्तथा । काञ्चनाराश्च लकुचाः पनसा हिङ्गुलास्तथा ॥ ५८॥ पाटलाश्च फलिन्यश्च जटिल्यो जघनेफलाः । गणिकाश्च कुरण्डाश्च बन्धुजीवाश्च दाडिमाः ॥ ५९॥ अश्वकर्णा हस्तिकर्णाश्चाम्पेयाः कनकद्रुमाः । यूथिकास्तालपर्ण्यश्च तुलस्यश्च सदाफलाः ॥ ६०॥ तालास्तमालहिन्तालखर्जूराः शरबर्बुराः । इक्षवः क्षीरिणश्चैव श्लेष्मान्तकविभीतकाः ॥ ६१॥ हरीतक्यस्त्ववाक्पुष्प्यो घोण्टाल्यः स्वर्गपुष्पिकाः । भल्लातकाश्च खदिराः शाखोटाश्चन्दनद्रुमाः ॥ ६२॥ कालागुरुद्रुमाः कालस्कन्धाश्चिञ्चा वटास्तथा । उदुम्बरार्जुनाश्वत्थाः शमीवृक्षा ध्रुवाद्रुमाः ॥ ६३॥ रुचकाः कुटजाः सप्तपर्णाश्च कृतमालकाः । कपित्थास्तिन्तिणी चैवेत्येवमाद्याः सहस्रशः ॥ ६४॥ नाना ऋतुसमाविष्टा देव्याः श‍ृङ्गारहेतवः । नानावृक्षमहोत्सेधा वर्तन्ते वरशाखिनः ॥ ६५॥ कांस्यशालस्यान्तरोले सप्तयोजनदूरतः । चतुरस्रस्ताम्रशालः सिन्धुयोजनमुन्नतः ॥ ६६॥ अनयोरन्तरक्षोणी प्रोक्ता कल्पकवाटिका । कर्पूरगन्धिभिश्चारुरत्नबीजसमन्वितैः ॥ ६७॥ काञ्चनत्वक्सुरुचिरैः फलैस्तैः फलिता द्रुमाः । पीताम्बराणि दिव्यानि प्रवालान्येव शाखिषु ॥ ६८॥ अमृतं स्यान्मधुरसः पुष्पाणि च विभूषणम् । ईदृशा वहवस्तत्र कल्पवृक्षाः प्रकीर्तिताः ॥ ६९॥ एषा कक्षा द्वितीया स्यान्कल्पवापीति नामतः । ताम्रशालस्यान्तराले नागशालः प्रकीर्तितः ॥ ७०॥ अनयोरुभयोस्तिर्यग्देशः स्यात्सप्तयोजनः । तत्र सन्तानवाटी स्यान्कल्पवापीसमाकृतिः ॥ ७१॥ तयोर्मध्ये मही प्रोक्ता हरिचन्दनवाटिका । कल्पवाटीसमाकारा फलपुष्पसमाकुला ॥ ७२॥ एषु सर्वेषु शालेषु पूर्ववद्द्वारकल्पनम् । पूर्ववद्गोपुराणां च मुकुटानां च कल्पनम् ॥ ७३॥ गोपुरद्वारकॢप्तं च द्वारे द्वारे च सम्मितिः । आरकूटस्यान्तराले सप्तयोजनदूरतः ॥ ७४॥ पञ्चलोहमयः शालः पूर्वशालसमाकृतिः । तयोर्मध्ये मही प्रोक्ता मन्दारद्रुमवाटिका ॥ ७५॥ पञ्चलोहस्यान्तराले सप्तयोजनदूरतः । रौप्यशालस्तु सम्प्रोक्तः पूर्वोक्तैर्लक्षणैर्युतः ॥ ७६॥ तयोर्मध्यमही प्रोक्ता पारिजातद्रुवाटिका । दिव्यामोदसुसम्पूर्णा फलपुष्पभरोज्ज्वला ॥ ७७॥ रौप्यशालस्यान्तराले सप्तयोजनविस्तरः । हेमशालः प्रकथितः पूर्ववद्द्वारशोभितः ॥ ७८॥ तयोर्मध्ये महीप्रोक्ता कदम्बतरुवाटिका । तत्र दिव्या नीपवृक्षा योजनद्वयमुन्नताः ॥ ७९॥ सदैव मदिरास्पन्दा मेदुरप्रसवोज्ज्वलाः । येभ्यः कादम्बरी नाम योगिनी भोगदायिनी ॥ ८०॥ विशिष्टा मदिरोद्याना मन्त्रिण्याः सततं प्रिया । ते नीपवृक्षाः सुच्छायाः पत्रलाः पल्लवाकुलाः । आमोदलोलभृङ्गालीझङ्कारैः पूरितोदराः ॥ ८१॥ तत्रैव मन्त्रिणीनाथाया मन्दिरं सुमनोहरम् । कदम्बवनवाट्यास्तु विदिक्षु ज्वलनादितः ॥ ८२॥ चत्वारि मन्दिराण्युच्चैः कल्पितान्यादिशिल्पिना । एकैकस्य तु गेहस्य विस्तारः पञ्चयोजनः ॥ ८३॥ पञ्चयोजनमायामः सप्तावरणतः स्थितिः । एवमन्यविदिक्षु स्युस्सर्वत्र प्रियकद्रुमाः । निवासनगरी सेयं श्यामायाः परिकीर्तिता ॥ ८४॥ सेनार्थं नगरी त्वन्या महापद्माटवीस्थले । यदत्रैव गृहं तस्या बहुयोजनदूरतः ॥ ८५॥ श्रीदेव्या नित्यसेवा तु मत्रिंण्या न घटिष्यते । अतश्चिन्तामणिगृहोपान्तेऽपि भवनं कृतम् । तस्याः श्रीमन्त्रनाथायाः सुरत्वष्ट्रा मयेन च ॥ ८६॥ श्रीपुरे मन्त्रेणी देव्या मन्दिरस्य गुणान्बहुन् । वर्णयिष्यति को नाम यो द्विजिह्वासहस्रवान् ॥ ८७॥ कादम्बरीमदाताम्रनयनाः कलवीणया । गायन्त्यस्तत्र खेलन्ति मान्यमातङ्गकन्यकाः ॥ ८८॥ अगस्त्य उवाच । मातङ्गो नाम कः प्रोक्तस्तस्य कन्याः कथं च ताः । सेवन्ते मन्त्रिणीनाथां सदा मधुमदालसाः ॥ ८९॥ हयग्रीव उवाच । मतङ्गो नाम तपसामेकराशिस्तपोधनः । महाप्रभावसम्पन्नो जगत्सर्जनलम्पटः ॥ ९०॥ तपःशक्त्यात्तधिया च सर्वत्राज्ञाप्रवर्त्तकः । तस्य पुत्रस्तु मातङ्गो मुद्रि णीं मन्त्रिनायिकाम् ॥ ९१॥ घोरैस्तपोभिरत्यर्थं पूरयामास धीरधीः । मतङ्गमुनिपुत्रेण सुचिरं समुपासिता ॥ ९२॥ मन्त्रिणी कृतसान्निध्या वृणीष्व वरमित्यशात् । सोऽपि सर्वमुनिश्रेष्ठो मातङ्गस्तपसां निधिः । उवाच तां पुरो दत्तसान्निध्यां श्यामलाम्बिकाम् ॥ ९३॥ मातङ्गमहामुनिरुवाच । देवी त्वत्स्मृतिमात्रेण सर्वाश्च मम सिद्धयः । जाता एवाणिमाद्यास्ताः सर्वाश्चान्या विभूतयः ॥ ९४॥ प्रापणीयन्न मे किञ्चिदस्त्यम्बभुवनत्रये । सर्वतः प्राप्तकालस्य भवत्याश्चरितस्मृतेः ॥ ९५॥ अथापि तव सान्निध्यमिदं नो निष्फलं भवेत् । एवं परं प्रार्थयेऽहं तं वरं पूरयाम्बिके ॥ ९६॥ पूर्वं हिमवता सार्धं सौहार्दं परिहासवान् । क्रीडामत्तेन चावाच्यैस्तत्र तेन प्रगल्भितम् ॥ ९७॥ अहं गौरीगुरुरिति श्लाघामात्मनि तेनिवान् । तद्वाक्यं मम नैवाभूद्यतस्तत्राधिको गुणः ॥ ९८॥ उभयोर्गुणसाम्ये तु मित्रयोरधिके गुणे । एकस्य कारणाज्जाते तत्रान्यस्य स्पृहा भवेत् ॥ ९९॥ गौरीगुरुत्वश्लाघार्थं प्राप्तकामोऽप्यहं तपः । कृतवान्मन्त्रिणीनाथे तत्त्वं मत्तनया भव ॥ १००॥ यतो मन्नामविख्याता भविष्यसि न संशयः । इत्युक्तं वचनं श्रुत्वा मातङ्गस्य महामुनेः । तथास्त्विति तिरो धत्त स च प्रीतोऽभवन्मुनिः ॥ १०१॥ मातङ्गस्य महर्षेस्तु तस्य स्वप्ने तदा मुदा । तापिच्छमञ्जरीमेकां ददौ कर्णावतंसतः ॥ १०२॥ तत्स्वप्नस्य प्रभावेण मातङ्गस्य सधर्मिणी । नाम्ना सिद्धिमती गर्भे लघुश्यामामधारयत् ॥ १०३॥ तत एव समुत्पन्ना मातङ्गी तेन कीर्तिताः । लघुश्यामेति सा प्रोक्ता श्यामा यन्मूलकन्दभूः ॥ १०४॥ मातङ्गकन्यका हृद्याः कोटीनामपि कोटिशः । लघुश्यामा महाश्यामामातङ्गी वृन्दसंयुताः । अङ्गशक्तित्वमापन्नाः सेवन्ते प्रियकप्रियाम् ॥ १०५॥ इति मातङ्गकन्यानामुत्पत्तिः कुम्भसम्भव । कथिताः सप्तकक्षाश्च शाला लोहादिनिर्मिताः ॥ १०६॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे श्रीललितोपाख्याने हयग्रीवागस्त्यसंवादे सप्तकक्ष्या मतङ्गकन्याप्रादुर्भावो नामैकत्रिंशोऽध्यायः ॥ ३१॥

अथ द्वात्रिंशोऽध्यायः ॥ ३२॥

(श्रीनगरत्रिपुरासप्तकक्षापालकदेवताप्रकाशनकथनं नाम) अगस्त्य उवाच । लोहादिसप्तशालानां रक्षका एव सन्ति वै । तन्नामकीर्तय प्राज्ञ येन मे संशयच्छिदा ॥ १॥ हयग्रीव उवाच । नानावृक्षमहोद्याने वर्तते कुम्भसम्भव । महाकालः सर्वलोकभक्षकः श्यामविग्रहः ॥ २॥ श्यामकञ्चुकधारी च मदारुणविलोचनः । ब्रह्माण्डचषके पूर्णं पिबन्विश्वरसायनम् ॥ ३॥ महाकालीं घनश्यामामनङ्गाद्रार्मपाङ्गयन् । सिंहासने समासीनः कल्पान्ते कलनात्मके ॥ ४॥ ललिताध्यानसम्पन्नो ललितापूजनोत्सुकः । वितन्वँल्ललिताभक्तेः स्वायुषो दीर्घदीर्घताम् । कालमृत्युप्रमुख्यैश्च किङ्करैरपि सेवितः ॥ ५॥ महाकालीमहाकालौ ललिताज्ञाप्रवर्त्तकौ । विश्वं कलयतः कृत्स्नं प्रथमेऽध्वनि वासिनौ ॥ ६॥ कालचक्रं मतङ्गस्य तस्यैवासनतां गताम् । चतुरावरणोपेतं मध्ये बिन्दुमनोहरम् ॥ ७॥ त्रिकोणं पञ्चकोणं च षोडशच्छदपङ्कजम् । अष्टारपङ्कजं चैवं महाकालस्तु मध्यगः ॥ ८॥ त्रिकोणे तु महाकाल्या महासन्ध्या महानिशा । एतास्तिस्रो महादेव्यो महाकालस्य शक्तयः ॥ ९॥ तत्रैव पञ्चकोणाग्रे प्रत्यूषश्च पितृप्रसूः । प्राह्णापराह्णमध्याह्नाः पञ्च कालस्य शक्तयः ॥ १०॥ अथ षोडशपत्राब्जे स्थिता शक्तीर्मुने श‍ृणु । दिनमिश्रा तमिस्रा च ज्योत्स्नी चैव तु पक्षिणी ॥ ११॥ प्रदोषा च निशीथा च प्रहरा पूर्णिमापि च । राका चानुमतिश्चैव तथैवामावस्यिका पुनः ॥ १२॥ सिनीवाली कुहूर्भद्रा उपरागा च षोडशी । एता षोडशमात्रस्थाः शक्तयः षोडश स्मृताः ॥ १३॥ कला काष्ठा निमेषाश्च क्षणाश्चैव लवास्त्रुटिः । मुहूर्ताः कुतपा होरा शुक्लपक्षस्तथैव च ॥ १४॥ कृष्णपक्षायनाश्चैव विषुवा च त्रयोदशी । संवत्सरा च परिवत्सरेडावत्सरापि च ॥ १५॥ एताः षोडश पत्राब्जवासिन्यः शक्तयः स्मृताः । इद्वत्सरा ततश्चेन्दुवत्सरावत्सरेऽपि च ॥ १६॥ तिथिर्वारांश्च नक्षत्रं योगाश्च करणानि च । एतास्तु शक्तयो नागपत्राम्भोरुहसंस्थिताः ॥ १७॥ कलिः कल्पा च कलना काली चेति चतुष्टयम् । द्वारपालकतां प्राप्तं कालचक्रस्य भास्वतः ॥ १८॥ एता महाकालदेव्यो मदप्रहसिताननाः । मदिरापूर्णचषकमशेषं चारुणप्रभम् । दधानाः श्यामलाकाराः सर्वाः कालस्य योषितः ॥ १९॥ ललितापूजनध्यानजपस्तोत्रपरायणाः । निषेवन्ते महाकालं कालचक्रासनस्थितम् ॥ २०॥ अथ कल्पकवट्यास्तु रक्षकः कुम्भसम्भव । वसन्तर्तुर्महातेजा ललिताप्रियकिङ्करः ॥ २१॥ पुष्पसिंहासनासीनः पुष्पमाध्वीमदारुणः । पुष्पायुधः पुष्पभूषः पुष्पच्छत्रेण शोभितः ॥ २२॥ मधुश्रीर्माधवश्रीश्च द्वे देव्यौ तस्य दीव्यतः । प्रसूनमदिरामत्ते प्रसूनशरलालसे ॥ २३॥ सन्तानवाटिकापालो ग्रीष्मर्तुस्तीक्ष्णलोचनः । ललिताकिङ्करो नित्यं तस्यास्त्वाज्ञाप्रवर्तकः ॥ २४॥ शुक्रश्रीश्च शुचिश्रीश्च तस्य भार्ये उभे स्मृते । हरिचन्दनवाटी तु मुने वर्षर्तुना स्थिता ॥ २५॥ स वर्षर्तुर्महातेजा विद्युत्पिङ्गललोचनः । वज्राट्टहासमुखरो मत्तजीमूतवाहनः ॥ २६॥ जीमूतकवचच्छन्नो मणिकार्मुकधारकः । ललितापूजनध्यानजपस्तोत्रपरायणः ॥ २७॥ वर्तते विन्ध्यमथन त्रैलोक्याह्लाददायकः । नभःश्रीश्च नभस्यश्रीः स्वरस्वारस्वमालिनी ॥ २८॥ अम्बा दुला निरलिश्चाभ्रयन्ती मेघयन्त्रिका । वर्षयन्ती चिबुणिका वारिधारा च शक्तयः ॥ २९॥ वर्षन्त्यो द्वादश प्रोक्ता मदारुणविलोचनाः । ताभिः समं स वर्षर्तुः शक्तिभिः परमेश्वरीम् ॥ ३०॥ सदैव सञ्जपन्नास्ते निजोत्थैः पुष्पमण्डलैः । ललिताभक्तदेशांस्तु भूषयन्स्वस्य सम्पदा ॥ ३१॥ तद्वैरिणां तु वसुधामनावृष्ट्या निपीडयन् । वर्तते सततं देवीकिङ्करौ जलदागमः ॥ ३२॥ मन्दारवाटिकायां तु सदा शरदृतुर्वसन् । तां कक्षां रक्षति श्रीमाँल्लोकचित्तप्रसादनः ॥ ३३॥ इषश्रीश्च तथोर्जश्रीस्तस्यर्तोः प्राणनायिके । ताभ्यां सञ्जह्रतुस्तोयं निजोत्थैः पुष्पमण्डलैः । अभ्यर्चयति साम्राज्ञीं श्रीकामेश्वरयोषितम् ॥ ३४॥ हेमन्तर्तुर्महातेजा हिमशीतलविग्रहः । सदा प्रसन्नवदनो ललिताप्रियकिङ्करः ॥ ३५॥ निजोत्थैः पुष्पसम्भारैरर्चयन्परमेश्वरीम् । पारिजातस्य वाटीं तु रक्षति ज्वलनार्दनः ॥ ३६॥ सहःश्रीश्च सहस्यश्रीस्तस्य द्वे योषिते शुभे । कदम्बवनवाट्यास्तु रक्षकः शिशिराकृतिः ॥ ३७॥ शिशिरर्तुर्मुनिश्रेष्ठ वर्तते कुम्भसम्भव । सा कक्ष्या तेन सर्वत्र शिशिरीकृतभूतला ॥ ३८॥ तद्वासिनी ततः श्यामा देवता शिशिराकृतिः । तपःश्रीश्च तपस्यश्रीस्तस्य द्वे योषिदुत्तमे । ताभ्यां सहार्चयत्यम्बां ललितां विश्वपावनीम् ॥ ३९॥ अगस्त्य उवाच । गन्धर्ववदन श्रीमन्नानावृक्षादिसप्तकैः । प्रथमोद्यानपालस्तु महाकालो मया श्रितः ॥ ४०॥ चतुरावरणं चक्रं त्वया तस्य प्रकीर्तितम् । षण्णामृतूनामन्येषां कल्पकोद्यानवाटिषु । पालकत्वं श्रुतं त्वत्तश्चक्रदेव्यस्तु न श्रुताः ॥ ४१॥ अत एव वसन्तादिचक्रावरणदेवताः । क्रमेण ब्रूहि भगवन्सर्वज्ञोऽसि यतो महान् ॥ ४२॥ हयग्रीव उवाच । आकर्णय मुनिश्रेष्ट तत्तच्चक्रस्थदेवताः ॥ ४३॥ कालचक्रं पुरा प्रोक्तं वासन्तं चक्रमुच्यते । त्रिकोणं पञ्चकोणं च नागच्छदसरोरुहम् । षोडशारं सरोजं च दशारद्वितयं पुनः ॥ ४४॥ चतुरस्रं च विज्ञेयं सप्तावरणसंयुतम् । तन्मध्ये बिन्दुचक्रस्थो वसन्तर्तुर्महाद्युति ॥ ४५॥ तदेकद्वयसंलग्ने मधुश्रीमाधवश्रियौ । उभाभ्यां निजहस्ताभ्यामुभयोस्तनमेककम् ॥ ४६॥ निपीडयन्स्वहस्तस्य युगलेन ससौरभम् । सपुष्पमदिरापूर्णचषकं पिशितं वहन् ॥ ४७॥ एवमेव तु सर्वर्तुध्यानं विन्ध्यनिषूदन । वर्षर्तोस्तु पुनर्ध्याने शक्तिद्वितयमादिमम् । अङ्कस्थितं तु विज्ञेयं शक्तयोऽन्याः समीपगाः ॥ ४८॥ अथ वासन्तचक्रस्थदेवीः श‍ृणु वदाम्यम् । मधुशुक्लप्रथमिका मधुशुक्लद्वितीयिका ॥ ४९॥ मधुशुक्लतृतीया च मधुशुक्लचतुर्थिका । मधुशुक्ला पञ्चमी च मधुशुक्ला च षष्ठिका ॥ ५०॥ मधुशुक्ला सप्तमी च मधुशुक्लाष्टमी पुनः । नवमी मधुशुक्ला च दशमी मधुशुक्लिका ॥ ५१॥ मधुशुक्लैकादशी च द्वादशी मधुशुक्लतः । मधुशुक्लत्रयोदश्यां मधुशुक्ला चतुर्दशी ॥ ५२॥ मधुशुक्ला पौर्णमासी प्रथमा मधुकृष्णिका । मधुकृष्णा द्वितीया च तृतीया मधुकृष्णिका ॥ ५३॥ चतुर्थी मधुकृष्णा च मधुकृष्णा च पञ्चमी । षष्ठी तु मधुकृष्णा स्यात्सप्तमी मधुकृष्णतः ॥ ५४॥ मधुकृष्णाष्टमी चैव नवमीमधुकृष्णतः । दशमी मधुकृष्णा च विन्ध्यदर्पनिषूदन ॥ ५५॥ मधुकृष्णैकादशी तु द्वादशी मधुकृष्णतः । मधुकृष्णत्रयोदश्या मधुकृष्णचतुर्दशी ॥ ५६॥ मध्वमा चेति विज्ञेयास्त्रिंशदेतास्तु शक्तयः । एवमेव प्रकारेण माधवाख्यो परिस्थिताः ॥ ५७॥ शुक्लप्रतिपदाद्यास्तु शक्तयस्त्रिंशदन्यकाः । मिलित्वा षष्टिसङ्ख्यास्तु ख्याता वासन्तशक्तयः ॥ ५८॥ स्वैः स्वैर्मन्त्रैस्तत्र चक्रे पूजनीया विधानतः । वासन्तचक्रराजस्य सप्तावरणभूमयः ॥ ५९॥ षष्टिः स्युर्दैवतास्तासु षष्टिभूमिषु संस्थिताः । विभज्य चार्चनीयाः स्युस्तत्तन्मन्त्रैस्तु साधकैः ॥ ६०॥ तथा वासन्तचक्रं स्यात्तथैवान्येषु च त्रिषु । देवतास्तु परं भिन्नाः शुक्रशुच्यादिभेदतः ॥ ६१॥ शक्तयः षष्टिसङ्ख्याता ग्रीष्मचक्रे महोदयाः । एवं वर्षादिके चक्रे भेदान्नभनभस्यजान् ॥ ६२॥ षष्टि षष्टिसु शक्तीनां चक्रेचक्रे प्रतिष्ठिताः । ग्रन्थविस्तारभीत्या तु तत्सङ्ख्यानाद्विरम्यते ॥ ६३॥ आर्तव्याः शक्तयस्त्वेता ललिताभक्त सौख्यदाः । ललितापूजनध्यानजपस्तोत्रपरायणाः ॥ ६४॥ कल्पादिवाटिकाचक्रे सञ्चरन्त्यो मदालसाः । स्वस्वपुष्पोत्थमधुभिस्तर्पयन्त्यो महेश्वरीम् ॥ ६५॥ मिलित्वा चैव सङ्ख्याताः षष्ट्युत्तरशतत्रयम् । एवं सप्तसु शालेषु पालिकाश्चक्रदेवताः ॥ ६६॥ नामकीर्तनपूर्वं तु प्रोक्तस्तुभ्यं प्रपृच्छते । अन्येषामपि शालानामुपादानं तु पूरकम् । विस्तारं तत्र शक्तिं च कथयाम्यवधारय ॥ ६७॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसम्वादे श्रीलालितोपाख्याने श्रीनगरत्रिपुरासप्तकक्षापालकदेवताप्रकाशनकथनं नाम द्वात्रिंशोऽध्यायः ॥ ३२॥

अथ त्रयस्त्रिंशोऽध्यायः ॥ ३३॥

(पुष्परागप्रकारादिभुक्ताकरान्तसप्तकक्षान्तरकथनं नाम) हयग्रीव उवाच । कथितं सप्तशालानां लक्षणं शिल्पिभिः कृतम् । अथ रत्नमयाः शालाः प्रकीर्त्यन्तेऽवधारय ॥ १॥ सुवर्णमयशालस्य पुष्परागमयस्य च । सप्तयोजनमात्रं स्यान्मध्येन्तरमुदाहृतम् ॥ २॥ तत्र सिद्धाःसिद्धनार्यः खेलन्ति मदविह्वलाः । रसै रसायनैश्चापि खड्गैः पादाञ्जनैरपि ॥ ३॥ ललितायां भक्तियुक्तास्तर्पयन्तो महाजनान् । वसन्ति विविधास्तत्र पिबन्ति मदिरारसान् ॥ ४॥ पुष्परागादिशालानां पूर्ववद्द्वारकॢप्तयः । पुष्परागादिशालेषु कवाटार्गलगोपुरम् । पुष्परागादिजं ज्ञेयमुच्चेन्द्वादित्यभास्वरम् ॥ ५॥ हेमप्राकारचक्रस्य पुष्परागमयस्य च । अन्तरे या स्वली सापि पुष्परागमयी स्मृता ॥ ६॥ वक्ष्यमाणमहाशालाकक्षासु निखिलास्वपि । तद्वर्णाः पक्षिणस्तत्र तद्वर्णानि सरांसि च ॥ ७॥ तद्वर्णसलिला नद्यस्तद्वर्णाश्च मणिद्रुमाः । सिद्धजातिषु ये देवीमुपास्य विविधैः क्रमैः । त्यक्तवन्तो वपुः पूर्वं ते सिद्धास्तत्र साङ्गनाः ॥ ८॥ ललितामन्त्रजप्तारो ललिताक्रमतत्पराः । ते सर्वे ललितादेव्या नामकीर्तनकारिणः ॥ ९॥ पुष्परागमहाशालान्तरे मारुतयोजने । पद्मरागमयः शालश्चतुरस्रः समन्ततः ॥ १०॥ स्थली च पद्मरागढ्या गोपुराद्यं च तन्मयम् । तत्र चारणदेशस्थाः पूर्वदेहविनाशतः । सिद्धिं प्राप्ता महाराज्ञीचरणाम्भोजसेवकाः ॥ ११॥ चारणीनां स्त्रियश्चापि चार्वङ्ग्यो मदलालसाः । गायन्ति ललितादेव्या गीतिबन्धान्मुहुर्मुहुः ॥ १२॥ तत्रैव कल्पवृक्षाणां मध्यस्थवेदिकास्थिताः । भर्तृभिः सहचारिण्यः पिबन्ति मधुरं मधु ॥ १३॥ पद्मरागमहाशालान्तरे मरुतयोजने । गोमेदकमहाशालः पूर्वशालासमाकृतिः । अतितुङ्गो हीरशालस्तयोर्मध्ये च हीरभूः ॥ १४॥ तत्र देवीं समभ्यर्च्य पूर्वजन्मनि कुम्भज । वसन्त्यप्सरसां वृन्दैः साकं गन्धर्वपुङ्गवाः ॥ १५॥ महाराज्ञीगुणगणान्गायन्तो वल्लकीस्वनैः । कामभोगैकरसिकाः कामसन्निभविग्रहाः । सुकुमारप्रकृतयः श्रीदेवीभक्तिशालिनः ॥ १६॥ गोमेदकस्य शालस्तु पूर्वशालसमाकृतिः । तदन्तरे योगिनीनां भैरवाणां च कोटयः । कालसङ्कर्षणीमम्बां सेवन्ते तत्र भक्तितः ॥ १७॥ गोमेदकमहाशालान्तरे मारुतयोजने । उर्वशी मेनका चैव रम्भा चालम्बुषा तथा ॥ १८॥ मञ्जुघोषा सुकेशी च पूर्वचित्तिर्घृताचिका । कृतस्थला च विश्वाची पुञ्जिकस्थलया सह ॥ १९॥ तिलोत्तमेति देवानां वेश्या एतादृशोऽपराः । गन्धर्वैः सह नव्यानि कल्पवृक्षमधूनि च ॥ २०॥ पिबन्त्यो ललितादेवीं ध्यायन्त्यश्च मुहुर्मुहुः । स्वसौभाग्यविवृद्ध्यर्थं गुणयन्त्यश्च तन्मनुम् ॥ २१॥ चतुर्दशसु चोत्पन्ना स्थानेष्वप्सरसोऽखिलाः । तत्रैव देवीमर्चन्त्यो वसन्ति मुदिताशयाः ॥ २२॥ अगस्त्य उवाच । चतुर्दशापि जन्मानि तासामप्सरसां विभो । कीर्तय त्वं महाप्राज्ञ सर्वविद्यामहानिधे ॥ २३॥ हयग्रीव उवाच । ब्राह्मणो हृदयं कामो मृत्युरुर्वी च मारुतः । तपनस्य कराश्चन्द्र करो वेदाश्च पावकः ॥ २४॥ सौदामिनी च पीयूषं दक्षकन्या जलं तथा । जन्मनः कारणान्येतान्यामनन्ति मनीषिणः ॥ २५॥ गीर्वाणगण्यनारीणां स्फुरत्सौभाग्यसम्पदाम् । एताः समस्ता गन्धर्वैः सार्धमर्चन्ति चक्रिणीम् ॥ २६॥ किन्नराः सह नारीभिस्तथा किम्पुरुषा मुने । स्त्रीभिः सह मदोन्मत्ता हीरकस्थलमाश्रिताः ॥ २७॥ महाराज्ञीमन्त्रजापैर्विधूताशेषकल्मषाः । नृत्यन्तश्चैव गायन्तो वर्तन्ते कुम्भसम्भव ॥ २८॥ तत्रैव हीरकक्षोण्यां वज्रा नाम नदी मुने । वज्राकारैर्निबिडिता भासमाना तटद्रुमैः ॥ २९॥ वज्ररत्नैकसिकता वज्रद्रवमयोदका । सदा वहति सा सिन्धुः परितस्तत्र पावनी ॥ ३०॥ ललितापरमेशान्यां भक्ता ये मानवोत्तमाः । ते तस्या उदकं पीत्वा वज्ररूपकलेवराः । दीर्घायुषश्च नीरोगा भवन्ति कलशोद्भव ॥ ३१॥ भण्डासुरेण गलिते मुक्ते वज्रे शतक्रतुः । तरयास्तीरे तपस्तेपे वज्रेशीं प्रति भक्तिमान् ॥ ३२॥ तज्जलादुदिता देवी वज्रं दत्त्वा बलद्विषे । पुनरन्तर्दधे सोऽपि कृतार्थः स्वर्गमेयिवान् ॥ ३३॥ अथ वज्राख्यशालस्यान्तरे मारुतयोजने । वैदूर्यशाल उत्तुङ्गः पूर्ववद्गोपुरान्वितः । स्थाली च तत्र वैदूर्यनिर्मिता भास्वराकृतिः ॥ ३४॥ पातालवासिनो येये श्रीदेव्यर्चनसाधकाः । ते सिद्धमूर्तयस्तत्र वसन्ति सुखमेदुराः ॥ ३५॥ शेषकर्कोटकमहापद्मवासुकिशङ्खकाः । तक्षकः शङ्खचूडश्च महादन्तो महाफणः ॥ ३६॥ इत्येवमादयस्तत्र नागा नागस्त्रयोऽपि च । बलीन्द्र प्रमुखानां च दैत्यानां धर्मवर्तिनाम् । गणस्तत्र तथा नागैः सार्धं वसति साङ्गनाः ॥ ३७॥ ललितामन्त्र जप्तारो ललिताशास्त्रदीक्षिताः । ललितापूजका नित्यं वसन्त्यसुरभोगिनः ॥ ३८॥ तत्र वैदूर्यकक्षायां नद्यः शिशिरपाथसः । सरांसिविमलाम्भांसि सारसालङ्कृतानि च ॥ ३९॥ भवनानि तु दिव्यानि वैदूर्यमणिमन्ति च । तेषु क्रीडन्ति ते नागा असुराश्च सहाङ्गनाः ॥ ४०॥ वैदूर्याख्यमहाशालान्तरे मारुतयोजने । इन्द्रनीलमयः शालश्चक्रवाल इवापरः ॥ ४१॥ तन्मध्यकक्षाभूमिश्च नीलरत्नमयी मुने । तत्र नद्यश्च मधुराः सरांसि शिशिराणि च । नानाविधानि भोग्यानि वस्तूनि सरसान्यपि ॥ ४२॥ ये भूलोकगता मर्त्या ललितामन्त्रसाधकाः । ते देहान्ते शक्रनीलकक्ष्यां प्राप्य वसन्ति वै ॥ ४३॥ तत्र दिव्यानि वस्तूनि भुञ्जाना वनितासखाः । पिबन्तो मधुरं मद्यं नृत्यन्तो भक्तिनिर्भराः ॥ ४४॥ सरस्सु तेषु सिन्धूनां कुलेषु कलशोद्भव । लतागृहेषु रम्येषु मन्दिरेषु महर्द्धिषु ॥ ४५॥ सदा जपन्तः श्रीदेवी पठन्तश्चापि तद्गुणान् । निवसन्ति महाभागा नारीभिः परिवेष्टिताः ॥ ४६॥ कर्मक्षये पुनर्यान्ति भूलोके मानुषीं तनुम् । पूर्ववासनया युक्ताः पुनरर्चन्ति चक्रिणीम् । पुनर्यान्ति श्रीनगरे शक्रनीलमहास्थलीम् ॥ ४७॥ तत्स्थलस्यैव सम्पर्काद्रा गद्वेषसमुद्भवैः । नीलैर्भावैः सदा युक्ता वर्तन्ते मनुजा मुने ॥ ४८॥ ये पुनर्ज्ञानिनो मर्त्या निर्द्वन्द्वा नियतेन्द्रि याः । ते मुने विस्मयाविष्टाः संविशन्ति महेश्वरीम् ॥ ४९॥ इन्द्रनीलाख्यशालस्यान्तरे मारुतयोजने । मुक्ताफलमयःशालः पूर्ववद्गोपुरान्वितः ॥ ५०॥ अत्यन्तभास्वरा स्वच्छा तयोर्मध्ये स्थली मुने । सर्वापि मुक्ताखचिताः शिशिरातिमनोहराः ॥ ५१॥ ताम्रपर्णी महापर्णी सदा मुक्ताफलोदका । एवमाद्या महानद्यः प्रवहन्ति महास्थले ॥ ५२॥ तासां तीरेषु सर्वेऽपि देवलोकनिवासिनः । वसन्ति पूर्वजनुषि श्रीदेवीमन्त्रसाधकाः ॥ ५३॥ पूर्वाद्यष्टसु भागेषु लोकाः शक्रादिगोचराः । मुक्ताशालस्य परितः संयुज्य द्वारदेशकान् ॥ ५४॥ मुक्ताशालस्य नीलस्य द्वारयोर्मध्यदेशतः । पूर्वभागे शक्रलोकस्तत्कोणे वह्निलोकभूः ॥ ५५॥ याम्यभागे यमपुरं तत्र दण्डधरः प्रभुः । सर्वत्र ललितामन्त्रजापी तीव्रस्वभाववान् ॥ ५६॥ आज्ञाधरो यमभटैश्चित्रगुप्तपुरोगमैः । सार्धं नियमयत्येव श्रीदेवीसमयं गुहः ॥ ५७॥ गुहशप्तान्दुराचाराल्लँलिताद्वेषकारिणः । कूटभक्तिपरान्मूर्खांस्तब्धानत्यन्तदर्पितान् ॥ ५८॥ मन्त्रचोरान्कुमन्त्रांश्च कुविद्यानघसंश्रयान् । नास्तिकान्पापशीलांश्च वृथैव प्राणिहिंसकान् ॥ ५९॥ स्त्रीद्विष्टाँल्लोकविद्विष्टान्पाषण्डानां हि पालिनः । कालसूत्रे रौरवे च कुम्भीपाके च कुम्भज ॥ ६०॥ असिपत्रवने घोरे कृमिभक्षे प्रतापने । लालाक्षेपे सूचिवेधे तथैवाङ्गारपातने ॥ ६१॥ एवमादिषु कष्टेषु नरकेषु घटोद्भव । पातयत्याज्ञया तस्याः श्रीदेव्याः स महौजसः ॥ ६२॥ तस्यैव पश्चिमे भागे निरृतिः खड्गधारकः । राक्षसं लोकमाश्रित्य वर्तते ललितार्चकः ॥ ६३॥ तस्य चोत्तरभागे तु द्वारयोरन्तरस्थले । वारुणं लोकमाश्रित्य वरुणे वर्तते सदा ॥ ६४॥ वारुण्यास्वादनोन्मत्तः शुभ्राङ्गो झषवाहनः । सदा श्रीदेवतामन्त्रजापी श्रीक्रमसाधकः ॥ ६५॥ श्रीदेवतादर्शनस्य द्वेषिणः पाशबन्धनैः । बद्ध्वा नयत्यधोमार्गं भक्तानां बन्धमोचकः ॥ ६६॥ तस्य चोत्तरकोणेषु वायुलोको महाद्युतिः । तत्र वायुशरीराश्च सदानन्दमहोदयाः ॥ ६७॥ सिद्धा दिव्यर्षयश्चैव पवनाभ्यासिनोऽपरे । गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्पराः ॥ ६८॥ एतैः सह महासत्त्वस्तत्र श्रीमारुतेश्वरः । सर्वथा भिन्नमूर्तिश्च वर्तते कुम्भसम्भव ॥ ६९॥ इडा च पिङ्गला चैव सुषुम्णा तस्य शक्तयः । तिस्रो मारुतनाथस्य सदा मधुमदालसाः ॥ ७०॥ ध्वजहस्तो मृगवरे वाहने महति स्थितः । ललितायजनध्यानक्रमपूजनतत्परः ॥ ७१॥ आनन्दपूरिताङ्गीभिरन्याभिः शक्तिभिर्वृतः । स मारुतेश्वरः श्रीमान्सदा जपति चक्रिणीम् ॥ ७२॥ तेन सत्त्वेन कल्पान्ते त्रैलोक्यं सचराचरम् । परागमयतां नीत्वा विनोदयति तत्क्षणात् ॥ ७३॥ तस्य सत्त्वस्य सिद्ध्यर्थं तामेव ललितेश्वरीम् । पूजयन्भावयन्नास्ते सर्वाभरणभूषितः ॥ ७४॥ तल्लोकपूर्वभागस्थे यक्षलोके महाद्युतिः । यक्षेन्द्रो वसति श्रीमांस्तद्द्वारद्वन्द्वमध्यगः ॥ ७५॥ निधिभिश्च नवाकारैरृद्धिवृद्ध्यादिशक्तिभिः । सहितो ललिताभक्तान्पूरयन्धनसम्पदा ॥ ७६॥ यक्षीभिश्च मनोज्ञाभिरनुकूलप्रवृत्तिभिः । विविधैर्मधुभेदैश्च सम्पूजयति चक्रिणीम् ॥ ७७॥ मणिभद्रः पूर्णभद्रो मणिमान्माणिकन्धरः । इत्येवमादयो यक्षसेनान्यस्तत्र सन्ति वै ॥ ७८॥ तल्लोकपूर्वभागे तु रुद्रलोको महोदयः । अनर्घ्यरत्नखचितस्तत्र रुद्रोऽधिदेवता ॥ ७९॥ सदैव मन्युना दीप्तः सदा बद्धमहेषुधिः । स्वसमानैर्महासत्त्वैर्लोकनिर्वाहदक्षिणैः ॥ ८०॥ अधिज्यकार्मुकैर्दक्षैः षोडशावरणस्थितैः । आवृतः सततं वक्त्रैर्जपञ्छ्रीदेवतामनुम् ॥ ८१॥ श्रीदेवीध्यानसम्पन्नः श्रीदेवीपूजनोत्सुकः । अनेककोटिरुद्रा णीगणमण्डितपार्श्वभूः ॥ ८२॥ ताश्च सर्वाः प्रदीप्ताङ्ग्यो नवयौवनगर्विताः । ललिताध्याननिरनाः सदासवमदालसाः ॥ ८३॥ ताभिश्च साकं स श्रीमान्महारुद्रस्त्रिशूलभृत् । हिरण्यबाहुप्रमुखै रुद्रै रन्यैर्निषेवितः ॥ ८४॥ ललितादर्शनभ्रष्टानुद्धतान्गुरुधिक्कृतान् । शूलकोट्या विनिर्भिद्य नेत्रोत्थैः कटुपावकैः ॥ ८५॥ दहंस्तेषां वधूभृत्यान्प्रजाश्चैव विनाशयन् । आज्ञाधरो महावीरो ललिताज्ञाप्रपालकः ॥ ८६॥ रुद्रलोकेऽतिरुचिरे वर्तते कुम्भसम्भव । महारुद्रस्य तस्यर्षे परिवाराः प्रमाथिनः ॥ ८७॥ ये रुद्रा स्तानसङ्ख्यातान्को वा वक्तुं पटुर्भवेत् । ये रुद्रा अधिभूम्यां तु सहस्राणां सहस्रशः ॥ ८८॥ दिवि येऽपि च वर्तन्ते सहस्राणां सहस्रशः । येषामन्नमिषश्चैव येषां वातास्तथेषवः ॥ ८९॥ येषां च वर्षमिषवः प्रदीप्ताः पिङ्गलेक्षणाः । अर्णवे चान्तरिक्षे च वर्तमाना महौजसः ॥ ९०॥ जटावन्तो मधुष्मन्तो नीलग्रीवा विलोहिताः । ये भूतानामधिभुवो विशिखासः कपर्दिनः ॥ ९१॥ ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । ये पथां रथका रुद्रा ये च तीर्थनिवासिनः ॥ ९२॥ सहस्रसङ्ख्या ये चान्ये सृकावन्तो निषङ्गिणः । ललिताज्ञाप्रणेतारो दिशो रुद्रा वितस्थिरे ॥ ९३॥ ते सर्वे सुमहात्मानः क्षणाद्विश्वत्रयीवहाः । श्रीदेव्या ध्याननिष्णाताञ्छ्रीदेवीमन्त्रजापिनः ॥ ९४॥ श्रीदेवतायां भक्ताश्च पालयन्ति कृपालवः । षोडशावरणं चक्रं मुक्ताप्राकारमण्डले ॥ ९५॥ आश्रित्य रुद्रा स्ते सर्वे महारुद्रं महोदयम् । हिरण्यबाहुप्रमुखा ज्वलन्मन्युमुपासते ॥ ९६॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने पुष्परागप्रकारादिभुक्ताकरान्तसप्तकक्षान्तरकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३॥

अथ दिक्पालादिशिवलोकान्तरकथनं ना चतुस्त्रिंशोऽध्यायः ॥ ३४॥

अगस्त्य उवाच । षोडशावरणं चक्रं किं तद्रुद्रा धिदैवतम् । तत्र स्थिताश्च रुद्राः के केन नाम्ना प्रकीर्तिताः ॥ १॥ केष्वावरणबिम्बेषु किन्नामानो वसन्ति ते । यौगिकं रौढिकं नाम तेषां ब्रूहि कृपानिधे ॥ २॥ हयग्रीव उवाच । तत्र रुद्रा लयः प्रोक्तो मुक्ताजालकनिर्मितः । पञ्चयोजनविस्तारस्तत्सङ्ख्यायामशोभितः ॥ ३॥ षोडशावरणैर्युक्तो मध्यपीठमनोहरः । मध्यपीठे महारुद्रो ज्वलन्मन्युस्त्रिलोचनः ॥ ४॥ सज्जकार्मुकहस्तश्च सर्वदा वर्तते मुने । त्रिकोणे कथिता रुद्रा स्त्रय एव घटोद्भव ॥ ५॥ हिरण्यबाहुः सेनानीर्दिशाम्पतिरथापरः ॥ ६॥ वृक्षाश्च हरिकेशाश्च तथा पशुपतिः परः । शष्पिञ्जरस्त्विषीमांश्च पथीनां पतिरेव च ॥ ७॥ एते षट्कोणगाः किं च बभ्रुशास्त्वष्टकोणके । विव्याध्यन्नपतिश्चैव हरिकेशोपवीतिनौ ॥ ८॥ पुष्टानां पतिरप्यन्यो भवो हेतिस्तथैव च । दशपत्रे त्वावरणे प्रथमो जगतां पतिः ॥ ९॥ रुद्रा तताविनौ क्षेत्रपतिः सूतस्तथापरः । अहं त्वन्यो वनपती रोहितः स्थपतिस्तथा ॥ १०॥ वृक्षाणां पतिरप्यन्यश्चैते सज्जशरासनाः । मन्त्री च वाणिजश्चैव तथा कक्षपतिः परः ॥ ११॥ भवन्तिस्तु चतुर्थः स्यात्पञ्चमो वारिवस्ततः । ओषधीनां पतिश्चैव षष्ठः कलशसम्भव ॥ १२॥ उच्चैर्घोषाक्रन्दयन्तौ पतीनां च पतिस्तथा । कृत्स्नवीतश्च धावंश्च सत्त्वानां पतिरेव च ॥ १३॥ एते द्वादश पत्रस्थाः पञ्चमावरणस्थिताः । सहमानश्च निर्व्याधिरव्याधीनां पतिस्तथा ॥ १४॥ ककुभश्च निषङ्गी च स्तेनानां च पतिस्तथा । निचेरुश्चेति विज्ञेयाः षष्ठावरणदेवताः ॥ १५॥ अधः परिचरोऽरण्यः पतिः किं च सृकाविषः । जिघांसन्तो मुष्णतां च पतयः कुम्भसम्भव ॥ १६॥ असीमन्तश्च सुप्राज्ञस्तथा नक्तञ्चरो मुने । प्रकृतीनां पतिश्चैव उष्णीषी च गिरेश्चरः ॥ १७॥ कुलुञ्चानां पतिश्चैवेषुमन्तः कलशोद्भव । धन्वाविदश्चातन्वानप्रतिपूर्वदधानकाः ॥ १८॥ आयच्छतः षोडशैते षोडशारनिवासिनः । विसृजन्तस्तथास्यन्तो विध्यन्तश्चापि सिन्धुप ॥ १९॥ आसीनाश्च शयानाश्च यन्तो जाग्रत एव च । तिष्ठन्तश्चैव धावन्तः सभ्याश्चैव समाधिपाः ॥ २०॥ अश्वाश्चैवाश्वपतय अव्याधिन्यस्तथैव च । विविध्यन्तो गणाध्यक्षा बृहन्तो विन्ध्यमर्द्दन ॥ २१॥ गृत्सश्चाष्टादशविधा देवता अष्टमावृतौ । अथ गृत्साधिपतयो व्राता व्राताधिपास्तथा ॥ २२॥ गणाश्च गणपाश्चैव विश्वरूपा विरूपकाः । महान्तः क्षुल्लकाश्चैव रथिनश्चारथाः परे ॥ २३॥ रथाश्च रथपत्त्याख्याः सेनाः सेनान्य एव च । क्षत्तारः सङ्ग्रही तारस्तक्षाणो रथकारकाः ॥ २४॥ कुलालश्चेति रुद्रा स्ते नवमावृतिदेवताः । कर्माराश्चैव पुञ्जिष्ठा निषादाश्चेषुकृद्गणाः ॥ २५॥ धन्वकारा मृगयवः श्वनयः श्वान एव च । अश्वाश्चैवाश्वपतयो भवो रुद्रो घटोद्भव ॥ २६॥ शर्वः पशुपतिर्नीलग्रीवश्च शितिकण्ठकः । कपर्दी व्युप्तकेशश्च सहस्रक्षस्तथापरः ॥ २७॥ शतधन्वा च गिरिशः शिपिविष्टश्च कुम्भज । मीढुष्टम इति प्रोक्ता रुद्रा दशमशालगाः ॥ २८॥ अथैकादशचक्रस्था इषुमद्ध्रस्ववामनाः । बृहंश्च वर्षीयांश्चैव वृद्धः समृद्धिना सह ॥ २९॥ अग्र्यः प्रथम आशुश्चाजिरोन्यः शीघ्रशिभ्यकौ । उर्म्यावस्वन्यरुद्रौ च स्रोतस्यो दिव्य एव च ॥ ३०॥ ज्येष्ठश्चैव कनिष्ठश्च पूर्वजावरजौ तथा । मध्यमश्चावगम्यश्च जघन्यश्च घटोद्भव ॥ ३१॥ चतुर्विंशतिराख्याता एते रुद्रा महाबलाः । अथ बुध्न्यः सोम्यरुद्रः प्रतिसर्पकयाम्यकौ ॥ ३२॥ क्षेम्योवोचवखल्यश्च ततः श्लोक्यावसान्यकौ । वन्यः कक्ष्यः श्रवश्चैव ततोऽन्यस्तु प्रतिश्रवः ॥ ३३॥ आशुषेणश्चाशुरथः शूरश्च तपसां निधे । अवभिन्दश्च वर्मी च वरूथी बिल्मिना सह ॥ ३४॥ कवची च श्रुतश्चैव सेनो दुन्दुभ्य एव च । आहनन्यश्च धृष्णुश्च ते च षड्विंशतिः स्मृताः । द्वादशावरणस्थास्ते महाकाया महाबलाः ॥ ३५॥ प्रभृशाश्चैव दूताश्च प्रहिताश्च निषङ्गिणः । अन्यस्त्विषुधिमानन्यस्तक्ष्णेषुश्च तथा युधि ॥ ३६॥ स्वायुधश्च सुधन्वा च स्तुत्यः पथ्यश्च कुम्भज । काप्यो नाढ्यस्तथा सूधः सरस्यो विन्ध्यमर्दन ॥ ३७॥ ततश्चान्यो नाधमानो वेशन्तः कुष्य एव च । अवधवर्ष्योऽवर्ष्यश्च मेध्यो विद्युत्य एव च ॥ ३८॥ इघ्र्यातप्यौ तथा वात्यौ रेष्म्यश्चैव तथापरः । वास्तव्यो वास्तुपश्चैव सोमश्चेति महाबलाः ॥ ३९॥ त्रयोदशावरणगाञ्छृणु रुद्राश्चं तान्मुने । रुद्रस्ताम्रारुणः शङ्गस्तथा पशुपतिर्मुने ॥ ४०॥ उग्रो भीमस्तथैवाग्रेवधदूरेवधावपि । हन्ता चैव हनीयांश्च वृषश्च हरिकेशकः ॥ ४१॥ तारः शम्भुर्मयोभूश्च शङ्करश्च मयस्करः । शिवः शिवतरश्चैव तीर्थ्यः कुल्यस्तथैव च । पार्योऽपार्यः प्रतरणस्तथा चोत्तरणो मुने ॥ ४२॥ आतर्यश्च तथा लभ्यः षष्ठः फेन्यस्तथैव च । चतुर्दशावरणके कथिता रुद्रदेवताः ॥ ४३॥ सिकत्यश्च प्रवाह्यश्च तथेरिण्यस्तपोनिधे । प्रपथ्यः किंशिलश्चैव क्षयणस्तदनन्तरम् ॥ ४४॥ कपर्दी च पुलस्त्यंश्च गोष्ठ्यो गृह्यस्तथैव च । तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठोरुदीपकः ॥ ४५॥ निवेष्ट्यश्चापि पान्तव्यो रथन्यः शुक्य एव च । हरीत्यलोथा लोप्याश्च उर्य्यसूर्म्यौ तथा मुने ॥ ४६॥ पयेयश्च पर्णशश्च तथा वगुरमाणकः । अभिघ्ननाशिदुश्चैव प्रखिदन किरिकास्तथा ॥ ४७॥ देवानां हृदयश्चैव द्वात्रिंशद्रुद्रदेवताः । वर्तते सायुधाः प्राज्ञ नित्यं पञ्चादशावृतौ ॥ ४८॥ षोडशे त्वावरणके पूर्वादिद्वारवर्तिनः । विक्षिणत्काविचिन्वत्कास्तथा निर्हतनामकाः ॥ ४९॥ आमीवक्ताश्च निष्टप्ता महारुद्रमुपासते । इति षोडशशालेषु स्थितै रुद्रैः सहस्रशः ॥ ५०॥ सेवितस्तु महारुद्रो ललिताज्ञाप्रवर्तकः । वर्तते जगतामृद्ध्यै मुक्ताशालेशकोणके ॥ ५१॥ शतरुद्रि यसङ्ख्याता एते रुद्रा महाबलाः । ललिताभक्तिमम्पन्नान्पालयन्ति दिवानिशम् । अभक्तांल्ललितादेव्याः प्रत्यूहैर्योजयन्त्यमी ॥ ५२॥ इत्थं शक्रादिदिक्पाला मुक्ताशालं समाश्रिताः । ललितापरमेश्वर्याः सेवामेव वितन्वते ॥ ५३॥ अथ मुक्ताख्यशालस्यान्तरे मारुतयोजने । शालो मारकताभिख्यश्चतुर्योजनमुच्छ्रितः ॥ ५४॥ पूर्ववद्गोपुरादीनां संस्थानैश्च सुशोभितः । तत्र श्रीदण्डनाथाया दहनादिविदिग्गताः ॥ ५५॥ चत्वारो निलयाः प्रोक्ता मन्त्रिणीगृहविस्तराः । गीतिचक्ररथेन्द्रस्य याः पर्वाणि समाश्रिताः ॥ ५६॥ भण्डासुरमहायुद्धे ता देव्यस्तत्र जाग्रति । सर्वाः स्थल्यो मरकतश्रेणिभिः खचिताः शुभाः ॥ ५७॥ हेमतालवनाढ्याश्च सर्ववस्तुसमाकुलाः । तत्र देव्यः समस्ताश्च दण्डनाथासमश्रियः ॥ ५८॥ हलोद्धर्णहलाद्धर्णमुसलाः सञ्चरन्त्यपि । सङ्ख्यातीतास्तालवृक्षा नवस्वर्णविचित्रिताः ॥ ५९॥ योजनायतकाण्डाश्च दलैर्युक्ता विशङ्कटैः । हेमत्वचोऽतिसुस्निग्धाः सच्छायाः फलभङ्गुराः ॥ ६०॥ आमूलाग्रं लम्बमानास्ताला हालाघटाकुलाः । वर्तन्ते दण्डनाथायाः प्रीत्यर्थं शिल्पिभिः कृताः ॥ ६१॥ तं च तालरसापूरं पीत्वापीत्वा मदाकुलाः । जृम्भिण्याद्याश्चक्रदेव्यो हेतुकाद्याश्च भैरवाः ॥ ६२॥ सप्तनिग्रहदेव्यश्च नृत्यन्ति मदविह्वलाः । चतुर्विदिक्षु दण्डिन्या यत्रयत्र महादृशः ॥ ६३॥ तत्र पूर्वादिदिग्भागे देवीसदृशवर्चसः । उन्मत्तभैरवी चैव स्वप्नेशी सर्वतोदिशम् ॥ ६४॥ निवासो दण्डनाथायाः केवलं त्वाभिमानिकः । तस्यास्तु सेवावासोऽन्यो महापद्माटवीस्थले । तत्कक्षातिदवीयस्त्वान्सेवार्थं तत्र तद्गृहः ॥ ६५॥ अथो मरकताकारे शाले तत्सप्तयोजने । प्राकारो विद्रुमाकारः प्रातरर्यमपाटलः ॥ ६६॥ तत्र स्थलास्तु सकला विद्रुमैरेव निर्मिताः । तद्वद्विद्रुमसङ्काशो ब्रह्मा नलिनविष्टरः ॥ ६७॥ ब्रह्मलोकात्समागत्य सार्द्धं सर्वैर्मुनीश्वरैः । सदा श्रीललितादेव्याः सेवनार्थमतन्द्रि तः ॥ ६८॥ मरीच्याद्यैः प्रजासृग्भिर्वर्तते साकमब्धिप । चतुर्दशापि विद्यास्ता उपविद्याः सहस्रशः ॥ ६९॥ चतुष्षष्टिकलाश्चैव शरीरिण्यो महत्तराः । प्राकारे विद्रुमाकारे ब्रह्मलोकसमाश्रिताः । वर्तन्ते जगतामृद्ध्यै ललिता देवताज्ञया ॥ ७०॥ अथ विद्रुमशालस्यान्तरे मारुतयोजने । माणिक्यमण्डपस्थाने परीतः सर्वतोदिशम् । वर्तते विष्णुलोकस्तु ललितासेवनोत्सुकः ॥ ७१॥ तत्र वैष्णवलोके तु विष्णुः साक्षात्सनातनः । चतुर्धा दशधा चैव तथा द्वादशधा पुनः । विभिन्नमूर्तिः सततं वर्तते माधवः सदा ॥ ७२॥ भण्डासुरमहायुद्धे ये श्रीदेवीनखोद्भवाः । दशावतारदेवास्तु तेऽपि माणिक्यमण्डपे ॥ ७३॥ पूर्वकक्षान्तरेभ्यस्तु तत्कक्षायां विशेषतः । उपर्याच्छादनामात्रं माणिक्यदृषदां गणैः ॥ ७४॥ तत्र कक्षान्तरे देवः शङ्खचक्रगदाधरः । भिन्नो द्वादशमूर्त्या च पूर्वाद्याशासु रक्षति ॥ ७५॥ जाम्बूनदप्रभश्चक्री पूर्वस्यां दिशि केशवः । पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ॥ ७६॥ इन्दीवरदलश्यामो मधुमान्माधवोऽवति । गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ ७७॥ उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः । आग्नेय्यामरविन्दाभो मुसली मधुसूदनः ॥ ७८॥ त्रिविक्रमः खड्गपाणिर्नैरृत्ये ज्वलनप्रभः । वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान् ॥ ७९॥ ईशान्यां पुण्डरीकाभः श्रीधरः पट्टिशायुधः । विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी ॥ ८०॥ पद्मनाभः शार्ङ्गपाणिः सहस्रार्कसमप्रभः । माणिक्यमण्डपस्थानमनुलोम्येन वेष्टते ॥ ८१॥ सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः । इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः ॥ ८२॥ दामोदरस्तु सर्वात्मा ललिताभक्तिनिर्भरः । माणिक्यमण्डपस्थानं विलोमेन विवेष्टते ॥ ८३॥ इति द्वादशभिर्देहैर्भगवानम्बुजेक्षणः । माणिक्यमण्डपगतो विष्णुलोके विराजते ॥ ८४॥ अथ नानारत्नशालान्तरे मारुतयोजने । सहस्रस्तम्भकं नाम मण्डपं सुमनोहरम् ॥ ८५॥ नानारत्नैस्तु खचितं नानारत्नैरलङ्कृतम् । नानारत्नकृतश्शालस्तुङ्गस्तत्राभिवर्तते ॥ ८६॥ एका पङ्क्तिः सहस्रैस्तु स्तम्भस्तिर्यक्प्रवर्तते । तादृशाः पङ्क्तयो बह्व्यः स्तम्भानां तु चतुर्दिशम् ॥ ८७॥ उपर्याच्छादनं चापि पूर्ववद्रत्नदारुभिः । शिवलोकस्तत्र महाञ्जागर्ति स्फुरितद्युतिः ॥ ८८॥ शैवागमा मूर्तिमन्तस्तत्राष्टाविंशतिः स्मृताः । नन्दिभृङ्गिमहाकालप्रमुखास्तत्र चोत्तमाः ॥ ८९॥ षड्विंशत्तत्त्वदेवाश्च गजवक्त्राः सहस्रशः । शिवलोकोत्तमे तस्मिन्सहस्रस्तम्भमण्डपे ॥ ९०॥ ईशानः सर्वविद्यानामधिपश्चन्द्रशेखरः । ललिताज्ञापालकश्च ललिताज्ञाप्रवर्तकः ॥ ९१॥ ललितामन्त्रजापी च नित्यमानन्दमानसः । शैव्या दृष्ट्या स्वभक्तानां ललितामन्त्रसिद्धये ॥ ९२॥ अन्तर्बहिस्तमःपुञ्जनिर्भेदनपटीयसीम् । महाप्रकाशरूपां तां मेधाशक्तिं प्रकाशयन् ॥ ९३॥ सर्वज्ञः सर्वकर्ता च सहस्रस्तम्भमण्डपे । वर्तमानो महादेव देवीः श्रीभक्तिनिर्भरः । तत्तच्छालान्समाश्रित्य वर्तते कुम्भसम्भवः ॥ ९४॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्य संवादे श्रीलालितोपाख्याने दिक्पालादिशिवलोकान्तरकथनं ना चतुस्त्रिंशोऽध्यायः ॥ ३४॥

अथ महापद्माटव्यार्घ्यस्थापनकथनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥

हयग्रीव उवाच । अथ वापीत्रयादीनां कक्ष्याभेदान्प्रचक्ष्महे । एषां श्रवणमात्रेण जायते श्रीमहोदयः ॥ १॥ सहस्रस्तम्भशालस्यातरमारुतयोजने । मनो नाम महाशालः सर्वरत्नविचित्रितः ॥ २॥ पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः । तन्मध्यकक्ष्याभागस्तु सर्वाप्यमृतवापिका ॥ ३॥ यत्पीत्वा योगिनः सिद्धा वज्रकाया महाबलाः । भवन्ति पुरुषाः प्राज्ञास्तदेव हि रसायनम् ॥ ४॥ वाप्याममृतमय्यां तु वर्तते तोयतां गतम् । तद्गन्धाघ्राणमात्रेण सिद्धिकान्तापतिर्भवेत् ॥ ५॥ अस्पृशन्नपि विन्ध्यारे पुरुषः क्षीणकल्मषः । उभयोः शालयोः पार्श्वे सुधावापीतटद्वये ॥ ६॥ अधक्रोशसमायामा अन्यास्सर्वाश्च वापिकाः । चतुर्योजनदूरं तु तलं तस्या जलान्तरे ॥ ७॥ सोपानावलयस्तस्या नानारत्नविचित्रिताः । स्वर्णवर्णा रत्नवर्णास्तस्यां हंसाश्च सारसाः ॥ ८॥ आस्फोट्यते तटद्वन्द्वतरङ्गैर्मन्दचञ्चलैः । पक्षिणस्तज्जलं पीत्वा रसायनमयं नवम् ॥ ९॥ अजरामरतां प्राप्तास्तत्र विन्ध्यनिषूदन । सदा कूजितलक्षेण तत्र कारण्डवद्विजाः ॥ १०॥ जपन्ति ललितादेव्या मन्त्रमेव महत्तरम् । परितो वापिकाचक्रपरिवेषणभूयसा ॥ ११॥ न तत्र गन्तु मार्गोऽस्ति नौकावाहनमन्तरा । आज्ञया केवलं तत्र मन्त्रिणी दण्डनाथयोः । तारा नाम महाशक्तिर्वर्तते तोरणेश्वरी ॥ १२॥ बह्व्यस्तत्रोत्पलश्यामास्तारायाः परिचारिकाः । रत्ननौकासहस्रेण खेलन्त्यो सरसीजले ॥ १३॥ अपरं पारमायान्ति पुनर्यान्ति परं तटम् । वीणावेणुमृदङ्गादि वादयन्त्यो मुहुर्मुहुः ॥ १४॥ कोटिशस्तत्र ताराया नाविक्यो नवयौवनाः । मुहुर्गायन्ति नृत्यन्ति देव्याः पुण्यतमं यशः ॥ १५॥ अरित्रपाणयः काश्चित्काश्चिच्छूगाम्बुपाणयः । पिबन्त्यस्तत्सुधातोयं सञ्चरन्त्यस्तरीशतैः ॥ १६॥ तासां नौकावाहिकानां शक्तीनां श्यामलत्विषाम् । प्रधानभूता ताराम्बा जलौघशमनक्षमा ॥ १७॥ आज्ञां विना तयोस्तारा मन्त्रिणीदण्डधारयोः । त्रिनेत्रस्यापि नो दत्ते वापिकाम्भसि सन्तरम् ॥ १८॥ गायन्तीनां चलन्तीनां नौकाभिर्मणिचारुभिः । महाराज्ञी महौदार्यं पतन्तीनां पदेपदे ॥ १९॥ पिबन्तीनां मधु भृशं माणिक्यचषकोदरैः । प्रतिनौकं मणिगृहे वसन्तीनां मनोहरे ॥ २०॥ तारातरणिशक्तीनां समवायोऽतिसुन्दरः । काश्चिन्नौकाः सुवर्णाढ्याः काश्चिद्रत्नकृता मुने ॥ २१॥ मकराकारमापन्नाः काश्चिन्नौका मृगाननाः । काश्चित्सिंहासना नावः काश्चिद्दन्तावलाननाः ॥ २२॥ इत्थं विचित्ररूपाभिर्नौकाभिः परिवेष्टिता । ताराम्बामहतीं नौकामधिगम्य विराजते ॥ २३॥ अनुलोमविलोमाभ्यां सञ्चारं वापिकाजले । तन्वाना सततं तारा कक्ष्यामेनां हि रक्षति ॥ २४॥ मनशालस्यान्तराले सप्तयोजनदूरतः । बुद्धिशाल इति ख्यातश्चतुर्योजनमुच्छ्रितः ॥ २५॥ तन्मध्यकक्ष्याभागेऽस्ति सर्वाप्यानन्दवापिका । तत्र दिव्यं महामद्यं बकुलामोदमेदुरम् । प्रतप्तकनकच्छायं तज्जलत्वेन वर्त्तते ॥ २६॥ आनन्दवापिका गाधाः पूर्ववत्परिकीर्त्तिताः । सोपानादिक्रमश्चैव पक्षिणस्तत्र पूर्ववत् ॥ २७॥ तत्रत्यं सलिलं मद्यं पायम्पायं तटस्थिताः । विहरन्ति मदोन्मत्ताः शक्तयो मदपाटलाः ॥ २८॥ साक्षाच्च वारुणी देवी तत्र नौकाधिनायिका । यां सुधामालिनीमाहुर्यामा हुरमृतेश्वरीम् ॥ २९॥ सा तत्र मणिनौकास्थशक्तिसेनासमावृता । ईषदालोकमात्रेण त्रैलोक्यमददायिनी ॥ ३०॥ तरुणादित्य सङ्काशा मदारक्तकपोलभूः । पारिजातप्रसूनस्रक्परिवीतकचाचिता ॥ ३१॥ वहन्ती मदिरापूर्णं चषकं लोलदुत्पलम् । पक्वं पिशितखण्डं च मणिपात्रे तथान्यके ॥ ३२॥ वारुणीतरणिश्रेणीनायिका तत्र राजते । साप्याज्ञयैव सर्वेषां मन्त्रिणीदण्डनाथयोः । ददाति वापीतरणं त्रिनेत्रस्यापि नान्यथा ॥ ३३॥ अथ बुद्धिमहाशालान्तरे मारुतयोजने । अहङ्कारमहाशालः पूर्ववद्गोपुरान्वितः ॥ ३४॥ तयोस्तु शालयोर्मध्ये कक्ष्याभूरखिला मुने । विमर्शवापिका नाम सौषुम्णामृतरूपिणी ॥ ३५॥ तन्महायोगिनामन्तर्मनो मारुतपूरितम् । सुषुम्णदण्डविवरे जागर्ति परमामृतम् ॥ ३६॥ तदेव तस्याः सलिलं वापिकायास्तपोधन । पूर्ववत्तटसोपानपक्षिनौका हि ताः स्मृताः ॥ ३७॥ तत्र नौकेश्वरी देवी कुरुकुल्लेतिविश्रुता । तमालश्यामलाकारा श्यामकञ्चुकधारिणी ॥ ३८॥ नौकेश्वरीभिरन्याभिस्स्वसमानाभिरावृता । रत्नारित्रकरा नित्यमुल्लसन्मदमांसला ॥ ३९॥ परितो भ्राम्यति मुने मणिनौकाधिरोहिणी । वापिका पयसागाधा पूर्ववत्परिकीर्तिता ॥ ४०॥ अहङ्कारस्य शालस्यान्तरे मारुतयोजने । सूर्यबिम्बमहाशालश्चतुर्योजनमुच्छ्रितः ॥ ४१॥ सूर्यस्यापि महानासीद्यदभूदरुणोदयः । तन्मध्यकक्ष्या वसुधा खचिता कुरविन्दकैः ॥ ४२॥ तत्र बालातपोद्गारे ललिता परमेश्वरी । अतितीव्रतपस्तप्त्वा सूर्योऽलभत तां द्युतिम् ॥ ४३॥ ग्रहराशिगणाः सर्वे नक्षत्राण्यपि तारकाः । तेऽत्रेव हि तपस्तप्त्वा लोकभासकतां गताः ॥ ४४॥ मार्तण्डभैरवस्तत्र भिन्नो द्वादशधा मुने । शक्तिभिस्तैजसीभिश्च कोटिसङ्ख्याभिरन्वितः ॥ ४५॥ महाप्रकाशरूपश्च मदारुणविलोचनः । कङ्कोलितरुखण्डेषु नित्यं क्रीडारसोत्सुकः । वर्तते विन्ध्यदर्पारे पारे यस्तन्मयस्थितः ॥ ४६॥ महाप्रकाशनाम्नास्ति तस्य शक्तिर्महीयसी । चक्षुष्मत्यपराशक्तिश्छाया देवी परा स्मृता ॥ ४७॥ इत्थं तिसृभिरिष्टाभिः शक्तिभिः परिवारितः । ललिताया महेशान्याः सदा विद्या हृदा जपन् ॥ ४८॥ तद्भक्तानामिन्द्रि याणि भास्वराणि प्रकाशयन् । बहिरन्तस्तमोजालं समूलमवमर्दयन् ॥ ४९॥ तत्र बालातपोद्गारे भाति मार्तण्डभैरवः । सूर्यबिम्बमहाशालान्तरे मारुतयोजने ॥ ५०॥ चन्द्रबिम्बमयः शालश्चतुर्योजनमुच्छ्रितः । पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः ॥ ५१॥ तन्मध्यभूः समस्तापि चन्द्रि काद्वारमुच्यते ॥ ५२॥ तत्रैव चन्द्रि काद्वारे तपस्तप्त्वा सुदारुणम् । अत्रिनेत्रसमुत्पन्नश्चन्द्रमाः कान्तिमाययौ ॥ ५३॥ अत्र श्रीसोमनाथाख्यो वर्तते निर्मलाकृतिः । देवस्त्रैलोक्यतिमिरध्वंसी संसारवर्तकः ॥ ५४॥ पिबञ्च षकसम्पूर्णं निर्मलं चन्द्रि कामृतम् । सप्तविंशतिनक्षत्रशक्तिभिः परिवारितः ॥ ५५॥ सदा पूर्णनिजाकारो निष्कलङ्को निजाकृतिः । तत्रैव चन्द्रि काद्वारे वर्तते भगवाञ्छशी ॥ ५६॥ ललिताया जपैध्यानैः स्तोत्रैः पूजाशतैरपि । अश्विन्यादियुतस्तत्र कालं नयति चन्द्रमाः ॥ ५७॥ अन्याश्च शक्तयस्तारानामधेयाः सहस्रशः । सन्ति तस्यैव निकटे सा कक्षा तत्प्र पूरिता ॥ ५८॥ अथ चन्द्रस्य शालस्यान्तरे मारुतयोजने । श‍ृङ्गारो नाम शालोऽस्ति चतुर्योजनमुच्छ्रितः ॥ ५९॥ श‍ृङ्गारागाररूपैस्तु कौस्तुभैरिव निर्मितः । महाश‍ृङ्गारपरिखा तन्मध्ये वसुधाखिला ॥ ६०॥ परिखावलये तत्र श‍ृङ्गाररसपूरिते । श‍ृङ्गारशक्तयः सन्ति नानाभूषणभासुराः ॥ ६१॥ तत्र नौकासहस्रेण सञ्चरन्त्यो मदोद्धताः । उपासते सदा सत्तं नौकास्थं कुसुमायुधम् ॥ ६२॥ स तु सम्मोहयत्येव विश्वं सम्मोहनादिभिः । विशिखैरखिलाँल्लोकाँल्ललिताज्ञावशंवदः ॥ ६३॥ तत्प्रभावेण सम्मूढा महापद्माटवीस्थलम् । वनितुं शुद्धवेषाश्च ललिताभक्तिनिर्भराः । सावधानेन मनसा यान्ति पद्माटवीस्थलम् ॥ ६४॥ न गन्तुं पारयत्येव सुरसिद्धनराः सुराः । ब्रह्मविष्णुमहेशास्तु शुद्धचित्ताः स्वभावतः । तदाज्ञया परं यान्ति महापद्माटवीस्थलम् ॥ ६५॥ संसारिणश्च रागान्धाबहुसङ्कल्पकल्पनाः । महाकुलाश्च पुरुषा विकल्पज्ञानधूसराः ॥ ६६॥ प्रभूतरागगहनाः प्रौढव्यामोहदायिनीम् । महाश‍ृङ्गारपरिखान्तरितुं न विचक्षणाः ॥ ६७॥ यस्मादजेयसौन्दर्यस्त्रैलोक्यजनमोहनः । महाश‍ृङ्गारपरिखाधिकारी वर्तते स्मरः ॥ ६८॥ तस्य सर्वमतिक्रम्य महतामपि मोहनम् । महापद्माटवीं गन्तुं न कोऽपि भवति क्षमः ॥ ६९॥ अथ श‍ृङ्गारशालस्यान्तराले सप्तयोजने । चिन्तामणिगृहं नाम चक्रराजमहालयः ॥ ७०॥ तन्मध्यभूः समस्तापि परितो रत्नभूषिता । महापद्माटवी नाम सर्वसौभाग्यदायिनी ॥ ७१॥ श‍ृङ्गाराख्यमहाकालपर्यन्तं गोपुरं मुने । चतुर्दिक्ष्वप्येवमेव गोपुराणां व्यवस्थितिः ॥ ७२॥ सर्वदिक्षु तदुक्तानि गोपुराणि शतं मुने । शालास्तु विंशतिः प्रोक्ताः पञ्चसङ्ख्याधिकाः शुभाः ॥ ७३॥ सर्वेषामपि शालानां मूलं योजनसम्मितम् । पद्माटवीस्थलं वक्ष्ये सावधानो मुने श‍ृणु ॥ ७४॥ समस्तरत्नखचिते तत्र षड्योजनान्तरे । परितस्थलपद्मानि महाकाण्डानि सन्ति वै ॥ ७५॥ काण्डास्तु योजनायामा मृदुभिः कण्टकैर्वृताः । पत्राणि तालदशकमात्रायामानि सन्ति वै ॥ ७६॥ केसराश्च सरोजानां पञ्चतालसमायताः । दशतालसमुन्नम्रः कर्णिकाः परिकीर्तिताः ॥ ७७॥ अत्यन्तकोमलान्यत्र सदा विकसितानि च । नवसौरभहृद्यानि विशङ्कटदलानि च । बहुशः सन्ति पद्मानि कोडीनामपि कोडिशः ॥ ७८॥ महापद्माटवीकक्ष्यापूर्वभागे घटोद्भव । क्रोशोन्नतो वह्निरूपो वर्तुलाकारसंस्थितः ॥ ७९॥ अर्द्धयोजनविस्तारः कलाभिर्दशभिर्युतः । अर्घ्यपात्रमहाधारो वर्तते कुम्भसम्भव ॥ ८०॥ तदाधारस्य परितः शक्तयो दीप्तविग्रहाः । धूम्रार्चिःप्रमुखा भान्ति कला दश विभावसोः ॥ ८१॥ दीप्ततारुण्यलक्ष्मीका नानालङ्कारभूषिताः । आधाररूपं श्रीमन्तं भगवन्तं हविर्भुजम् । परिष्वज्यैव परितो वर्तन्ते मन्मथालसाः ॥ ८२॥ धूम्रार्चिरुष्णा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीःसुरूपा कपिला हव्यकव्यवहेति च । एता दशकलाः प्रोक्ता वह्नेराधाररूपिणः ॥ ८३॥ तत्राधारे स्थितो देवः पात्ररूपं समाश्रितः । सूर्यस्त्रिलोकीतिमिरप्रध्वंसप्रथितोदयः ॥ ८४॥ सूर्यात्मकं तु तत्पात्रं सार्द्धयोजनमुन्नतम् । योजनायामविस्तारं महाज्योतिःप्रकाशितम् ॥ ८५॥ तत्पात्रात्परितः सक्तवपुषः पुत्रिका इव । वर्तन्ते द्वादश कला अतिभास्वररोचिषः ॥ ८६॥ तपिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ८७॥ तस्मिन्पात्रे परानन्दकारणं परमामृतम् । सर्वौषधि रसाढ्यं च हृद्यसौरभसंयुतम् ॥ ८८॥ नीलोत्पलैश्च कह्लारैरम्लानैरतिसौरभैः । वास्यमानं सदा हृद्यं शीतलं लघु निर्मलम् ॥ ८९॥ चलद्वीचिशतोदारं ललिताभ्यर्चनोचितम् । सदा शब्दायमानं च भासतेऽर्चनकारणम् ॥ ९०॥ तदर्घ्यममृतं प्रोक्तं निशाकरकलामयम् । तस्मिंस्तनीयसीर्नौका मणिकॢप्ताः समास्थिताः । निशाकरकला हृद्याः क्रीडन्ति नवयौवनाः ॥ ९१॥ अमृता मानदा पूष्णा तुष्टिः पुष्टी रतिर्धृतिः । शशिनी चन्द्रि का कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ९२॥ पूर्णा पूर्णामृता चेति कलाः पीयूष रोचिषः । नवयौवनसम्पूर्णाः सदा प्रहसिताननाः ॥ ९३॥ पुष्टिरृद्धिः स्थितिर्मेधा कान्तिर्लक्ष्मीर्द्युतिर्धृतिः । जरा सिद्धिरिति प्रोक्ताः क्रीडन्ति ब्रह्मणः कलाः ॥ ९४॥ स्थितिश्च पालिनी शान्तिश्चेश्वरी ततिकामिके । वरदाह्लादिनी प्रीतिर्दीर्घा चेति हरेः कलाः ॥ ९५॥ तीक्ष्णा रौद्री भया निद्रा तन्द्रा क्षुत्क्रोधिनी त्रपा । उत्कारी मृत्युरप्येता रोद्ध्र्यस्तत्र स्थिताः कालाः ॥ ९६॥ ईश्वरस्य कलाः पीताः श्वेताश्चैवारुणाः सिताः । चतस्र एव प्रोक्तास्तु शङ्करस्य कला अथ ॥ ९७॥ निवृत्तिश्च प्रतिष्ठा च त्रिद्या शान्तिस्तथैव च । इन्दिरा दीपिका चैव रेचिका चैव मोचिका ॥ ९८॥ परा सूक्ष्मा च विन्ध्यारे तथा सूक्ष्मामृता कला । ज्ञानामृता व्याधिनी च व्यापिनी व्योमरूपिका । एतां षोडश सम्प्रोक्तास्तत्र क्रीडन्ति शक्तयः ॥ ९९॥ रुद्रनौकासमारूढास्ततश्चेतश्च चञ्चलाः । शक्तिरूपेण खेलन्ति तत्र विद्याः सहस्रशः ॥ १००॥ अर्घ्यसंशोधनार्थाय कल्पिताः परमेष्ठिना । तदर्घ्यममृतं पीत्वा सदा माद्यन्ति शक्तयः ॥ १०१॥ महापद्माटवीवासा महाचक्रस्थिता अपि । मुहुर्मुहुर्नवनवं मुहुश्चाबद्धसौरभम् ॥ १०२॥ रत्नकुम्भसहस्रैश्च सुवर्णघटकोटिभिः । आपूर्यापूर्य सततं तदर्घ्यममृतं महत् ॥ १०३॥ चिन्तामणिगृहस्थानां परिचारकशक्तयः । अणिमादिकशक्तीनामर्घ्ययन्ति मदोद्धताः ॥ १०४॥ महापद्माटवीकक्ष्यापूर्वभागेऽर्घ्यकल्पनम् । इत्थ समीरितं पश्चात्तत्रान्यदपि कथ्यते ॥ १०५॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने महापद्माटव्यार्घ्यस्थापनकथनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥

अथ चिन्तामणिगृहान्तरकथनं नाम षट्त्रिंशोऽध्यायः ॥ ३६॥

हयग्रीव उवाच । चिन्तामणिगृहस्याग्निदिग्भागे कुन्दमानकम् । योजनायामविस्तारं योजनोच्छासचातकम् ॥ १॥ तत्र ज्वलति चिद्वह्निः सुधाधाराशतार्चितः । परमैश्वर्यजनकः पावनो ललिताज्ञया ॥ २॥ अनिन्धनो महाज्वालः सुधया तर्पिताकृतिः । कङ्कोलीपल्लवच्छायस्तत्र ज्वलति चिच्छिखी ॥ ३॥ तत्र होत्री महादेवी होता कामेश्वरः परः । उभौ तौ नित्यहोतारौ रक्षतः सकलं जगत् ॥ ४॥ अनुत्तरपराधीना ललिता सम्प्रवर्तिता । ललिताचोदितः कामः शङ्करेण प्रवर्तितः ॥ ५॥ चिन्तामणिगृहेन्द्रस्य रक्षोभागेम्बुजाटवौ ॥ ६॥ चक्रराजरथश्रेष्ठस्तिष्ठत्युन्नतविग्रहः । नवभिः पर्वभिर्युक्तः सर्वरत्नमयाकृतिः ॥ ७॥ चतुर्योजनविस्तारो दशयोजनमुन्नतः । यथोत्तरं ह्रासयुक्तः स्थूलतः कूबरोज्ज्वलः ॥ ८॥ चतुर्वेदमहाचक्रः पुरुषार्थमहाहयः । तत्त्वैरुपचरद्भिश्च चामरैरभिमण्डितः ॥ ९॥ पूर्वोक्तलक्षणैर्युक्तो मुक्ताच्छत्रेण शोभितः । भण्डासुरमहायुद्धे कृतसाहसिकक्रियः ॥ १०॥ वर्तते रथमूर्धन्यः श्रीदेव्यासनपाटितः । चिन्तामणिगृहेन्द्रस्य वायुभागेम्बुजाटवौ ॥ ११॥ गेयचक्ररथेन्द्रस्तु मन्त्रिण्याः प्रान्ततिष्ठति । चिन्तामणिगृहेन्द्रस्य रुद्रभागेम्बुजाटवौ ॥ १२॥ वल्लभो दण्डनाथायाः किरिचक्रे महारथः । एतद्रथत्रयं सर्वक्षेत्रश्रीपुरपङ्क्तिषु । समानमेव विज्ञेयमङ्गस्था देवता यथा ॥ १३॥ आनलं कुण्डमाग्नेये यत्तिष्ठति सदा ज्वलत् । तप्तमेतत्तु गायत्री तप्तं स्यादभयङ्करम् ॥ १४॥ घृणिसूर्यस्तु तत्पश्चादओङ्कारस्य च मन्दिरम् । देवी तुरीयगायत्री चक्षुष्मत्यपि तापस ॥ १५॥ अथ गन्धर्वराजश्च परिषद्रुद्र एव च । ताराम्बिका भगवती तत्पश्चाद्भागतः स्थिताः ॥ १६॥ चिन्तामणिगृहेन्द्रस्य रक्षोभागं समाश्रितः । नामत्रय महामन्त्रवाच्योऽस्ति भगवान्हरिः ॥ १७॥ महागणपतिस्तस्योत्तरसंश्रितकेतनः । पञ्चाक्षरीमन्त्रवाच्यस्तस्य चाप्युत्तरे शिवः ॥ १८॥ अथ मृत्युञ्जयेशश्च वाच्यस्त्र्यक्षरमात्रतः । सरस्वती धारणाख्या ह्यस्य चोत्तरवासिनी ॥ १९॥ अकारादिक्षकारान्तवर्णमूर्तेस्तु मन्दिरम् । मातृकाया उत्तरतस्तस्यां विन्ध्यनिषूदन ॥ २०॥ उत्तरे सम्पदेशी वै कालसङ्कर्षणी तथा । श्रीमहाशम्भुनाथा च देव्याविर्भावकारणम् ॥ २१॥ श्रीः पराम्बा च विशदज्योत्स्ना निर्मलविग्रहा । उत्तरोत्तरमेतास्तु देवताः कृतमन्दिराः ॥ २२॥ बाला चैवान्नपूर्णा च हयारूढा तथैव च । श्रीपादुकाचतस्रस्तदुत्तरोत्तरमन्दिराः ॥ २३॥ चिन्तामणिगृहेन्द्रस्य वायव्यवसुधादितः । महापद्माटवौ त्वन्या देवताः कृतमन्दिराः ॥ २४॥ उन्मत्तभैरवी चैव स्वप्नवाराहिका परा । तिरस्करणिकाम्बा च तथान्या पञ्चमी परा ॥ २५॥ यथापूर्वं कृतगृहा एता देव्यो महोदयाः । श्रीपूर्तिश्च महादेवी श्रीमहापादुकापि च ॥ २६॥ यथापूर्वं कृतगृहे द्वे एते देवतोत्तमे । शङ्करेण षडाम्नायसागरे प्रतिपादिताः । या विद्यास्ताः समस्ताश्च महापद्माटवीस्थले ॥ २७॥ इत्थं श्रीरश्मिमालाया मणिकॢप्ता गहागृहाः । उच्चध्वजा उच्चशालास्ससोपानास्तपोधन ॥ २८॥ चिन्तामणिगृहेन्द्रस्य पूर्वद्वारे समुद्रप । दक्षिणे पार्श्वभागे तु मन्त्रिनाथागृहं महत् ॥ २९॥ वामभागे दण्डनाथाभवनं रत्ननिर्मितम् । ब्रह्मविष्णुमहेशानामर्घ्यस्थानस्य पूर्वतः ॥ ३०॥ भवनं दीपिताशेषदिक्चक्रं रत्नरश्मिभिः । समस्ता देवता एता ललिताभक्तिनिर्भराः । ललितामन्त्रजाप्याश्च श्रीदेवीं समुपासते ॥ ३१॥ पूर्वोक्तमर्घ्यस्थानं च पूर्वोक्तं चार्घ्यकल्पनम् । याम्यद्वारप्रभृतिषु सर्वेष्वपि समं स्मृतम् ॥ ३२॥ अथ चिन्तामणिगृहं वक्ष्ये श‍ृणु महामुने । तच्छ्रीपट्टनमध्यस्थं योजनद्वयविस्मृतम् ॥ ३३॥ तस्य चिन्तामणिमयी भित्तिः कोशसुविस्तृता । चिन्तामणिशिलाभिश्च च्छादिनीभिस्तथोपरि ॥ ३४॥ संवृता कूटरूपेण तत्रतत्र समुन्नता । गृहभित्तिस्तथोन्नम्रा चतुर्योजनमानतः ॥ ३५॥ विंशतिर्योजनं तस्याश्चोन्नम्रा भूमिरुच्यते । ततोर्ध्वं ह्राससंयुक्तं स्थौल्यत्रिमुकुटोज्ज्वला ॥ ३६॥ तानि चेच्छाक्रियाज्ञानरूपाणि मुकुटान्यृषे । सदा देदीप्यमानानि चिन्तामणिमयान्यपि ॥ ३७॥ चिन्तामणिगृहे सर्वं चिन्तामणिमयं स्मृतम् । यस्य द्वाराणि चत्वारि क्रोशार्धायामभाञ्जि च ॥ ३८॥ क्रोशार्द्धार्द्धं च विस्तारो द्वाराणां कथितो मुने । द्वारेषु सर्वेषु पुनश्चिन्तामणिगृहान्तरे ॥ ३९॥ पिहिता ललिता देव्या मातर्लोहितसिन्धुवत् । तरुणार्कसहस्राभा चन्द्रवच्छीतला ह्यपि । मुहुः प्रवाहरूपेण प्रसरन्ती महामुने ॥ ४०॥ पूर्वाम्नाय मयं चैव पूर्वद्वारं प्रकीर्तितम् । दक्षिणद्वारदेशस्तु दक्षिणाम्नायलक्षणः ॥ ४१॥ पश्चिमद्वारदेशस्तु पश्चिमाम्नायलक्षणः । उत्तरद्वारदेशः स्यादुत्तराम्नायलक्षणः ॥ ४२॥ गृहराजस्यान्तराले भित्तौ खचितदण्डकाः । रत्नप्रदीपा भास्वन्तः कोट्यर्कसदृशत्विषः । परितस्तत्र वर्तन्ते भासयन्तो गृहान्तरम् ॥ ४३॥ चिन्तामणिगृहस्यास्य मध्यस्थाने महीयसि । अत्युच्चैर्वेदिकाभागे बिन्दुचक्रं महत्तरम् ॥ ४४॥ चिन्तारत्नगृहोत्तुङ्गभित्तेर्बिन्दोश्च मध्यभूः । भित्तिः क्रोशं परित्यज्य क्रोशत्रयमुदाहृतम् ॥ ४५॥ तत्र क्रोशत्रयस्थाने ह्यणिमाद्यात्मरोचिषा । क्रोशत्रयं समस्तं तद्धस्तसङ्ख्याप्रकारतः । चतुर्विंशतिसाहस्रहस्तैः सम्मितमुच्यते ॥ ४६॥ बिन्दुपीठेशपर्यन्तं चतुर्दशविभेदतः । अन्तरे भेदिते जाते हस्तसङ्ख्या मयोच्यते ॥ ४७॥ पद्माटवीस्थलाच्चिन्तामणिवेश्मान्तरं मुने । हस्तविंशतिरुन्नम्रं तत्र स्युरणिमादयः ॥ ४८॥ अणिमान्तरविस्तारश्चतुर्नल्वसमन्वितः । किष्कुश्चतुःशती नल्वकिष्कुर्हस्त उदीर्यते ॥ ४९॥ तत्रान्तरेऽणिमाद्यास्तु पूर्वादिकृतमन्दिराः । अणिमा महिमा चैव लघिमा गरिमा तथा ॥ ५०॥ ईशित्वं च वशित्वं च प्राकाम्यं मुक्तिरेव च । इच्छा प्राप्तिः सर्वकामेत्येताः सिद्धय उत्तमाः ॥ ५१॥ रससिद्धिर्मोक्षसिद्धिर्बलसिद्धिस्तथैव च । खड्गसिद्धिः पादुकाया सिद्धिरञ्जनसिद्धिकः ॥ ५२॥ वाक्सिद्धिर्लोकसिद्धिश्च देहसिद्धिरनन्तरम् । एता अष्टौ सिद्धयस्तु बह्व्योऽन्या योगिसम्मताः ॥ ५३॥ तत्रान्तरे तु परितः सेवते परमेश्वरीम् । कोटिशः सिद्धयस्तस्मिन्नणिमाद्यन्तरे मुने ॥ ५४॥ नवलावण्यसम्पूर्णाः स्मयमानमुखाम्बुजाः । ज्वलच्चिन्तामणि कराः मदा षोडशवार्षिकाः । अत्युदारप्रकृतयः खेलन्ति मदविह्वलाः ॥ ५५॥ तस्याणिमाद्यन्तरस्योपरिष्टात्सुमनोहरम् । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ५६॥ चतुर्दिक्षु च सोपानपङ्क्तिभिः सुमनोहरम् । ब्रह्माद्यम्बरधिष्ण्यं स्यात्तत्र देवीः स्थिताः श‍ृणु ॥ ५७॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डाप्यथ सप्तमी । महालक्ष्मीरष्टमी तु तत्रैताः कृतमन्दिराः ॥ ५८॥ नानाविधायुधाढ्याश्च नानाशक्तिपरिच्छदाः । पूर्वादिदिशमारभ्य प्रादक्षिण्यकृतालयाः ॥ ५९॥ अथ ब्राह्म्यन्तरा तस्योपरिष्टात्कुम्भसम्भव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । मुद्रा न्तरमिति त्रैधं तत्र मुद्राः कृतालयाः ॥ ६०॥ सङ्क्षोभद्रा वणाकर्षवश्योन्मादमहाङ्कुशाः । खेचरी बीजयोन्याख्या त्रिखण्डा दशमी पुनः ॥ ६१॥ पूर्वादिदिशमारभ्य मुद्रा एताः प्रतिष्ठिताः । अत्यन्तसुन्दराकारा नवयौवनविह्वलाः ॥ ६२॥ कान्तिभिः कमनीयाभिः पूरयन्त्यो गृहान्तरम् । सेवन्ते मुनिशार्दूल ललितापरमेश्वरीम् ॥ ६३॥ अन्तरं त्रयमेतत्तु चक्रं त्रैलोक्यमोहनम् । एतस्मिञ्छक्तयो यासु ता उक्ताः प्रकटाभिधाः ॥ ६४॥ एतसां समधिष्ठात्री त्रिपुरा चक्रनायिका । तच्चक्रपालनकरी मुद्रा सङ्क्षोभणात्मिका ॥ ६५॥ अथ मुद्रा तंरस्योर्ध्वं प्रोक्ता नित्याकलान्तरम् । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । पर्वतश्चैव सोपानमुत्तरोत्तरमिष्यते ॥ ६६॥ नित्याकलान्तरे तस्मिन्कामाकर्षणिकामुखाः । परितः कृतसंस्थानाः षोडशेन्दुकलात्मिकाः ॥ ६७॥ तर्पयन्त्यो दिशां चक्रं सुधास्यन्दैः सुशीतलैः । तासां नामानि मत्तस्त्वमवधारय कुम्भज ॥ ६८॥ कामाकर्षिणिका नित्या बुद्ध्याकर्षणिकापरा । रसाकर्षणिका नित्या गन्धाकर्षणिका कला ॥ ६९॥ चित्ताकर्षणिका नित्या धैर्याकर्षणिका कला । स्मृत्याकर्षणिका नित्या नामाकर्षणिका कला ॥ ७०॥ बीजाकर्षणिका नित्या चार्थाकर्षणिका कला । अमृताकर्षणी चान्या शरीराकर्षणी कला ॥ ७१॥ एतास्तु गुप्तयोगिन्यस्त्रिपुरेशी तु चक्रिणी । सर्वाशापूरिकाभिख्या चक्राधिष्ठानदेवता ॥ ७२॥ एतच्चक्रे पालिका तु मुद्रा द्रा विणिकाभिधा । नित्या कलान्तरादूर्ध्वं धिष्ण्यमत्यन्तसुन्दरम् ॥ ७३॥ हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । प्राग्वत्सोपानसंयुक्तं सर्वसङ्क्षोभणाभिधम् ॥ ७४॥ तत्राष्टौ शक्तयस्तीव्रा मदारुणविलोचनाः । नवतारुण्यमच्चाश्च सेवन्ते परमेश्वरीम् ॥ ७५॥ कुसुमा मेखला चैव मदना मदनातुरा । रेखा वेगिन्यङ्कुशा च मालिन्यष्टौ च शक्तयः ॥ ७६॥ कोटिशस्तत्परीवारः शक्तयोऽनङ्गपूर्विकाः । सर्वसङ्क्षोभमिदं चक्रं तदधिदेवता ॥ ७७॥ सुन्दरी नाम विज्ञेया नाम्ना गुप्ततरापि सा । तच्चक्रपालनकरी मुद्रा कर्षणिका स्मृता ॥ ७८॥ अनङ्गशक्त्यन्तरस्योपरिष्टात्कुम्भसम्भव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । सङ्क्षोभिण्याद्यन्तरं स्यात्सर्वसौभाग्यदायकम् ॥ ७९॥ सर्वसङ्क्षोभिणीमुख्यास्तत्र शक्तय उद्धताः । चतुर्दश वसन्त्येव तासां नामानि मच्छृणु ॥ ८०॥ सर्वसङ्क्षोभिणी शक्तिः सर्वविद्रा विणी तथा । सर्वाकर्षणिका शाक्तिः सर्वाह्लादनिका तथा ॥ ८१॥ सर्वसम्मोहिनी शक्तिः सर्वस्तम्भनशक्तिका । सर्वजृम्भिणिका शक्तिस्तथा सर्ववशङ्करी ॥ ८२॥ सर्वरञ्जनशक्तिश्च सर्वोन्मादनिशक्तिका । सर्वार्थसाधिका शक्तिः सर्वसम्पत्तिपूरिणी ॥ ८३॥ सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी । एताश्च सम्प्रदायाख्याश्चक्रिणीपुरवासिनीः ॥ ८४॥ मुद्राश्च सर्ववश्याख्यास्तच्चक्रे रक्षिका मताः । कोटिशः शक्तयस्तत्र तासां किङ्कर्य्य उद्धृताः ॥ ८५॥ सङ्क्षोभिण्याद्यन्तरस्योपरिष्टात्कुम्भसम्भव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । सर्वसिद्धादिकानां तु मन्दिरं विष्ट्यमुच्यते ॥ ८६॥ सर्वसिद्धिप्रदा चैव सर्वसम्पत्प्रदा तथा । सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ॥ ८७॥ सर्वकामप्रदा देवी सर्वदुःखविमोचनी । सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी ॥ ८८॥ सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी । एता देव्यः कलोत्कीर्णा योगिन्यो नामतः स्मृताः ॥ ८९॥ चक्रिणी श्रीश्च विज्ञेया चक्रं सर्वार्थसाधकम् । सर्वोन्मादनमुद्राश्च चक्रस्य परिपालिकाः ॥ ९०॥ सर्वसिद्ध्याद्यन्तरस्योपरिष्टात्कुम्भसम्भव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ९१॥ सर्वज्ञाद्यन्तरं नाम्ना सर्वरक्षाकरं स्मृतम् । चक्रं महत्तरं दिव्यं सर्वज्ञाद्याः प्रकीर्तिताः ॥ ९२॥ सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदायिनी । सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ ९३॥ सर्वाधारस्वरूपा च सर्वपापहरी तथा । सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ॥ ९४॥ सर्वेप्सितप्रदा चैता निर्गर्वा योगिनीश्वराः ॥ ९५॥ मालिनी चक्रिणी प्रोक्ता मुद्रा सर्वमहाङ्कुशा । इति चिन्तामणि गृहे सर्वज्ञाद्यन्तरावधि । चक्राणि कानिचित्प्रोक्तान्यन्यान्यपि मुने श‍ृणु ॥ ९६॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने चिन्तामणिगृहान्तरकथनं नाम षट्त्रिंशोऽध्यायः ॥ ३६॥

अथ गृहराजान्तरकथनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥

हयग्रीव उवाच । सर्वज्ञद्यन्तरालस्योपरिष्टात्कलशोद्भव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ १॥ वशिन्याद्यन्तरं ज्ञेयं प्राग्वत्सोपानमन्दिरम् । सर्वरोगहरं नाम्ना तच्चक्रमिति विश्रुतम् ॥ २॥ वशिन्याद्यास्तत्र देव्यः पूर्वादिदिगनुक्रमात् । स्वरैस्तु रहितास्तत्र प्रथमा वशिनीश्वरी ॥ ३॥ कवर्गसहिता पश्चात्कामेश्वर्याख्यवाङ्मयी । चवर्गजुष्टा वागीशी मोदिनी स्यात्तृतीयका ॥ ४॥ टवर्गमण्डिताकारा विमलाख्या सरस्वती । तवर्गेण तथोपेता पञ्चमी वाक्प्रधारणा ॥ ५॥ पवर्गेण परिस्फीता षष्ठी तु जयिनी मता । यादिवर्णचतुष्कोणे सर्वैश्वर्यादिवाङ्मयी ॥ ६॥ साधिकाक्षरषट्केन कौलिनी त्वष्टमी मता । एता देव्यो जपरता मुक्ताभरणमण्डिताः ॥ ७॥ सदा स्फुरद्गद्यपद्यलहरीलालिता मताः । काव्यैश्च नाटकैश्चैव मधुरैः कर्णहारिभिः । विनोदयन्त्यः श्रीदेवीं वर्तन्ते कुम्भसम्भव ॥ ८॥ एता रहस्यनाम्नैव ख्याता वातापितापन । नायिका स्वस्य चक्रस्य सिद्धानाम्ना प्रकीर्तिता ॥ ९॥ अस्य चक्रस्य संरक्षा कारिणी खेचरी मता । वशिन्याद्यन्तरालस्योपरिष्टाद्विन्ध्यमर्दन ॥ १०॥ हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । अस्त्रं चक्रमिति ज्ञेयं तत्र बाणादिदेवताः ॥ ११॥ पञ्च बाणेश्वरीदेव्यः पञ्च कामेश्वराशुगाः । अङ्कुशद्वितयं दीप्तमादिस्त्रीपुंसयोर्द्वयोः ॥ १२॥ धनुर्द्वयं च विन्ध्यारे नव पुण्ड्रेषु कल्पितम् । पाशद्वयं च दीप्ताभं चत्वार्यस्त्राणि कुम्भज ॥ १३॥ कामेश्वर्यास्तु चत्वारि चत्वारि श्रीमहेशितुः । आहत्याष्टायुधानीति प्रज्वलन्ति विभान्ति च ॥ १४॥ भण्डासुरमहायुद्धे दुष्टदानवशोणितैः । पीतैरतीव तृप्तानि दिव्यास्त्राण्यति जाग्रति ॥ १५॥ एतेषामायुधानां तु परिवारायुधान्यलम् । वर्तन्तेऽस्त्रान्तरे तत्र तेषां सङ्ख्या तु कोटिशः ॥ १६॥ वज्रशक्तिः शतघ्नी च भुशुण्डी मुसलं तथा । कृपाणः पट्टिशं चैव मुद्गरं भिन्दिपालकम् ॥ १७॥ एवमादीनि शस्त्राणि सहस्राणां सहस्रशः । अष्टायुधमहाशक्तीः सेवन्ते मदविह्वलाः ॥ १८॥ अथ शस्त्रान्तरालस्योपरि वातापितापन । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । धिष्ण्यं तु समयेशीनां स्थानं च तिसृणां मतम् ॥ १९॥ कामेशाद्यास्तत्र देव्यस्तिस्रोऽन्या तु चतुर्थिका । सैव निःशेषविश्वानां सवित्री ललितेश्वरी ॥ २०॥ तिसृणां श‍ृणु नामानि कामेशी प्रथमा मता । वज्रेशी भगमाला च ताः सेवन्ते सहस्रशः ॥ २१॥ सर्वेषां दर्शनानां च या देव्यो विविधाः स्मृताः । ताः सर्वास्तत्र सेवन्ते कामेशादिमहोदयाः ॥ २२॥ एतासां च प्रसङ्गेषु नित्यानां च प्रसञ्जने । चक्रिणीनां योगिनीनां श्रीदेवी पूरणात्मिका ॥ २३॥ या कामेश्वरदेवाङ्कशायिनी ललिताम्बिका । कामेश्यादिचतुर्थी सा नित्यानां षोडशी मता ॥ २४॥ योगिनी चक्रदेवीनां नवमी परिकीर्तिता । समयेश्यन्तरालस्योपरिष्टादिल्वलान्तक ॥ २५॥ नाथान्तरमिति प्रोक्तं हस्तविंशतिरुन्नतम् । चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमण्डितम् ॥ २६॥ तत्र नाथामहादेव्या योगशास्त्रप्रवर्त्तकाः । सर्वेषां मन्त्रगुरवः सर्वविद्यामहार्णवाः ॥ २७॥ चत्वारो योगनाथाश्च लोकानामिह गुप्तये । सृष्टाः कामेशदेवेन तेषां नामानि मे श‍ृणु ॥ २८॥ मित्री च शोडिशश्चैव चर्याख्यः कुम्भसम्भव । तैः सृष्टा बहवो लोकारक्षार्थं पादुकात्मकाः ॥ २९॥ दिव्यविद्या मानवौघसिद्धौघाः सुरतापसाः । प्राप्तसालोक्यसारूप्यसायुज्यादिकसिद्धयः ॥ ३०॥ महान्तो गुरवस्तांस्तु सेवन्ते प्रचुरा गुरून् । अथ नाथान्तरालस्योपरिष्टाद्धिष्ण्यमुत्तमम् ॥ ३१॥ हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । नित्यान्तरमिति प्रोक्तं नित्याः पञ्चदशात्र वै ॥ ३२॥ अथ कामेश्वरी नित्या नित्या च भगमालिनी । नित्यक्लिन्ना अपि तथा भेरुण्डा वह्निवासिनी ॥ ३३॥ महावज्रेश्वरी दूती त्वरिता कुलसुन्दरी । नित्या नीलपताका च विजया सर्वमङ्गला ॥ ३४॥ ज्वालामालिनिका चित्रेत्येताः पञ्चदशोदिताः । एता देवीस्वरूपाः स्युर्महाबलपराक्रमाः ॥ ३५॥ प्रथमा मुख्यतिथितां प्राप्ता व्याप्य जगत्त्रयाः । कालत्रितयरूपाश्च कालग्रासविचक्षणाः ॥ ३६॥ ब्रह्मादीनामशेषाणां चिरकालमुपेयुषाम् । तत्तत्कालशतायुष्यरूपा देव्याज्ञया स्थिताः ॥ ३७॥ नित्योद्यता निरान्तकाः श्रीपराङ्गसमुद्भवाः । सेवन्ते जगतामृद्ध्यै ललितां चित्स्वरूपिणीम् ॥ ३८॥ तासां भवनतां प्राप्ता दीप्ताः पञ्चदशेश्वराः । विसृष्टिद्धबिन्दुचक्रे तु षोडश्या भवनं मतम् ॥ ३९॥ अथ नित्यान्तरालस्योपरिष्टात्कुम्भसम्भव । अङ्गदेव्यन्तरं प्रोक्तं हस्तविंशतिरुन्नतम् ॥ ४०॥ चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमन्दिरम् । तस्मिन्हृदयदेव्याद्याः शक्तयः सन्ति वै मुने ॥ ४१॥ हृद्देवी च शिरोदेवी शिखादेवी तथैव च । वर्मदेवी दृष्टिदेवी शस्त्रदेवी षडीरिताः ॥ ४२॥ अत्यन्तसन्निकृष्टास्ताः श्रीकामेश्वरसुभ्रुवः । नवलावण्यपूर्णाङ्ग्यः सावधाना धृतायुधाः ॥ ४३॥ परितो बिन्दुपीठे च भ्राम्यन्तो दृप्तमूर्तयः । ललिताज्ञाप्रवर्तिन्यो वशीनां पीठवर्तिकाः ॥ ४४॥ अथाङ्गदेव्यन्तरस्योपरिष्टान्मण्डलाकृति । बिन्दुनादमहापीठं दशहस्तसमुन्नतम् ॥ ४५॥ नल्वाष्टकप्रविस्तारमुद्यदादित्यसन्निभम् । बिन्दुपीठमिदं ज्ञेयं श्रीपीठमपि चेष्यते ॥ ४६॥ महापीठमिति ज्ञेयं विद्यापीठमपीष्यते । आनन्दपीठमपि च पञ्चाशत्पीठरूपधृक् ॥ ४७॥ तत्र श्रीललितादेव्याः पञ्चब्रह्ममये महत् । जागर्ति मञ्चरत्नं तु प्रपञ्चत्रयमूलकम् ॥ ४८॥ तस्य मञ्चस्य पादास्तु चत्वारः परिकीर्तिताः । दशहस्तसमुन्नम्रा हस्तत्रितयविष्ठिताः ॥ ४९॥ ब्रह्मविष्णुमहेशानेश्वररूपत्वमागताः । शक्तिभावमनुप्राप्ताः सदा श्रीध्यानयोगतः ॥ ५०॥ एकस्तु पञ्चपादः स्याज्जपाकुसुमसन्निभः । ब्रह्मात्मकः स विज्ञेयो वह्निदिग्भागमाश्रितः ॥ ५१॥ चतुर्थो मञ्चपादस्तु कर्णिकारकसाररुक् । ईश्वरात्मा स विज्ञेय ईशदिग्भागमाश्रितः ॥ ५२॥ एते सर्वे सायुधाश्च सर्वालङ्कारभूषिताः । उपर्यधःस्तम्भरूपा मध्ये पुरुषरूपिणः ॥ ५३॥ श्रीध्यानमीलिताक्षाश्च श्रीध्यानान्निश्चलाङ्गकाः । तेषामुपरि मञ्चस्य फलकस्तु सदाशिवः ॥ ५४॥ विकासिदाडिमच्छायश्चतुर्नल्वप्रविस्तरः । नल्वषट्कायामवांश्च सदा भास्वरमूर्तिमान् ॥ ५५॥ अङ्गदेव्यन्तरारम्भान्मञ्चस्य फलकावधि । चिन्तामणिमयाङ्गानि तत्त्वरूपाणि तापस ॥ ५६॥ सोपानानि विभासन्ते षट्त्रिंशद्वै निवेशनैः । आरोहस्य क्रमेणैव सोपानान्यभिदध्महे ॥ ५७॥ भूमिरापोऽनलो वायुराकाशो गन्ध एव च । रसो रूपं स्पर्शशब्दोपस्थपायुपदानि च ॥ ५८॥ पाणिवाग्घ्राणजिह्वाश्च त्वक् चक्षुः श्रोत्रमेव च । अहङ्कारश्च बुद्धिश्च मनः प्रकृतिपूरुषौ ॥ ५९॥ नियतिः कालरागौ च कला विद्ये च मायया । शुद्धाविद्येश्वरसदाशिवशक्तिः शिवा इति ॥ ६०॥ एताः षट्त्रिंशदाख्यातास्तत्त्वसोपानपङ्क्तयः । पूषा सोपानपङ्क्तिश्च मञ्चपूर्वदिशं श्रिताः ॥ ६१॥ अथ मञ्चस्योपरिष्टाद्धंसतूलिकतल्पकः । हस्तमात्रं समुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ६२॥ पादोपधानमूर्धोपधान दन्द्वविराजितम् । गड्डकानां चतुःषष्टिशोभितं पाटलत्विषा ॥ ६३॥ तस्योपरिष्टात्कौसुम्भवसनेनोत्तरच्छदः । शुचिना मृदुना कॢप्तः पद्मरागमणित्विषा ॥ ६४॥ तस्योपरि वसन्पूर्वदिङ्मुखो दययान्वितः । श‍ृङ्गारवेषरुचिरस्सदा षोडशवार्षिकः ॥ ६५॥ उद्यद्भास्करबिम्बाभश्चतुर्हस्तस्त्रिलोचनः । हारकेयूरमुकुटकटकाद्यैरलङ्कृतः ॥ ६६॥ कमनीयस्मितज्योत्स्नामरिपूर्णकपोलभूः । जागर्ति भगवानादिदेवः कामेश्वरः शिवः ॥ ६७॥ तस्योत्सङ्गे समासीना तरुणादित्यपाटला । सदा षोडशवर्षा च नवयौवनदर्पिता ॥ ६८॥ अमृष्टपद्मरागाभा चन्दनाब्जनखच्छटा । यावकश्रीर्निर्व्यपेक्षा पादलौहित्यवाहिनी ॥ ६९॥ कलनिस्वानमञ्जीरपतत्कङ्कणमोहना । अनङ्गवरतूणीरदर्पोन्मथनजङ्घिका ॥ ७०॥ करिशुण्डदोः कदलिकाकान्तितुल्योरुशोभिनी । अरुणेन दुकूलेन सुस्पर्शेन तनीयसा । अलङ्कृतनितम्बाढ्या जघनाभोगभासुरा ॥ ७१॥ अर्धोरुकग्रन्थिमती रत्नकाञ्चीविराजिता । नतनाभिमहावर्तत्रिवल्यूर्मिप्रभासरित् ॥ ७२॥ स्तनकुड्मलहिन्दोलमुक्तादामशतावृता । अतिपीवरवक्षोजभारभङ्गुरमध्यभूः ॥ ७३॥ शिरीषदाममृदुलच्छदाभांश्चतुरो भुजान् ॥ ७४॥ केयूरकङ्कणश्रेणीमण्डितान्सोर्मिकाङ्गुलीन् । वहन्ती पतिसंसृष्टशङ्खसुन्दरकन्धरा ॥ ७५॥ मुखदर्पण वृत्ताभचिबुका पाटलाधरा । शुचिभिः पङ्क्तिशुद्धैश्च विद्यारूपैर्विभास्वरैः । कुन्दकुड्मललक्ष्मीकैर्दन्तैर्दर्शितचन्द्रि का ॥ ७६॥ स्थूलमौक्तिकसनद्धनानाभरणभासुरा । केतकान्तर्दलश्रोणी दीर्घदीर्घविलोचना ॥ ७७॥ अर्धेन्दुललिते भाले सम्यक्कॢप्तालकच्छटा । पालीवतं समाणिक्यकुण्डलामण्डितश्रुतिः ॥ ७८॥ नवकर्पूरकस्तूरीसदामोदितवीटिका । शरच्चञ्चन्निशानाथमण्डलीमधुरानना ॥ ७९॥ चिन्तामणीनां सारेण कॢप्तचारुकिरीटिका । स्फुरत्तिलकरत्नाभभालनेत्रविराजिता ॥ ८०॥ गाढान्धकारनिबिडक्षामकुन्तलसंहतिः । सीमन्तरेखाविन्यस्तसिन्दूरश्रेणिभासुरा ॥ ८१॥ स्फुरच्चन्द्रकलोत्तंसमदलोलविलोचना । सर्वश‍ृङ्गारवेषाढ्या सर्वाभरणभूषिता ॥ ८२॥ समस्तलोकमाता च सदानन्दविवर्धिनी । ब्रह्मविष्णुगिरीशेशसदाशिवनिदानभूः ॥ ८३॥ अपाङ्गरिङ्खत्करुणानिर्झरीतर्पिताखिला । भासते सा भगवती पापघ्नी ललिताम्बिका ॥ ८४॥ अन्यदैवतपूजानां यस्याः पूजाफलं विदुः । यस्याः पूजाफलं प्राहुयस्या एव हि पूजनम् ॥ ८५॥ तस्याश्च ललितादेव्या वर्णयामि कथं पुनः । वर्षकोटिसहस्रेणाप्येकांशो वर्ण्यते न हि ॥ ८६॥ वर्ण्यमाना ह्यवाग्रूपा वाचस्तस्यां कुतो गतिः । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ८७॥ बहुना किमिहोक्तेन तत्त्वभूतमिदं श‍ृणु । न पक्षपातान्न स्नेहान्न मोहाद्वा मयोच्यते ॥ ८८॥ सन्तु कल्पतरोः शाखा लेखिन्यस्तपसां निधे । मषीपात्राणि सर्वेऽपि सप्त सन्तु महार्णवाः ॥ ८९॥ पञ्चाशत्कोटिविस्तीर्णा भूमिः पत्रत्वमृच्छतु । तस्य लेखनकालोऽस्तु परार्ध्याधिकवत्सरैः ॥ ९०॥ लिखन्तु सर्वे लोकाश्च प्रत्येकं कोटिबाहवः । सर्वे बृहस्पतिसमा वक्तारो यदि कुम्भज ॥ ९१॥ अथापि तस्याः श्रीदेव्याः पादाब्जैकाङ्गुलिद्युतेः । सहस्रांशेष्वेकैकांशवर्णना न हि जायते । अथ वा वृत्तिरखिला निष्फला तद्गुणस्तुतौ ॥ ९२॥ बिन्दुपीठस्य परितश्चतुरस्रवया स्थिता । महामायाजवनिका लम्बते मेचकप्रभा ॥ ९३॥ देव्या उपरि हस्तानां विंशतिद्वितयोर्ध्वतः । इन्द्रगोपवितानं तु बद्धं त्रैलोक्यदुर्लभम् ॥ ९४॥ तत्रालङ्कारजालं तु वर्तमानं सुदुर्लभम् । मद्वाणी वर्णयिष्यन्ती कण्ठ एव ह्रिया हता ॥ ९५॥ सैव जानाति तत्सर्वं तत्रत्यमखिलं गुणम् । मनसोऽपि हि दूरे तत्सौभाग्यं केन वर्ण्यते ॥ ९६॥ इत्थं भण्डमहादैत्यवधाय ललिताम्बिका । प्रादुर्भूता चिदनलाद्दग्धनिःशेषदानवा ॥ ९७॥ दिव्यशिल्पिजनैः कॢप्तं षोडशक्षेत्रवेशनम् । अधिष्ठाय श्रीनगरं सदा रक्षति विष्टपम् ॥ ९८॥ इत्थमेव प्रकारेण श्रीपुराण्यन्यकान्यपि । न भेदकोऽपि विन्यासो नाममात्रं पुरां भिदा ॥ ९९॥ नानावृक्षमहोद्यानमारभ्येतिक्रमेण ये । वदन्ति श्रीपुरकथां ते यान्ति परमां गतिम् ॥ १००॥ आकर्णयन्ति पृच्छन्ति विचिन्वन्ति च ये नराः । ये पुस्तके धारयन्ति ते यान्ति परमां गतिम् ॥ १०१॥ ये श्रीपुरप्रकारेण तत्तत्स्थानविभेदतः । कृत्वा शिल्पिजनैः सर्वं श्रीदेव्यायतनं महत् । सम्पादयन्ति ये भक्तास्ते यान्ति परमां गतिम् ॥ १०२॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने गृहराजान्तरकथनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥

अथ मन्त्रराजसाधनप्रकारकथनन्नामाष्टत्रिंशोऽध्यायः ॥ ३८॥

अगस्त्य उवाच । श्रुतमेतन्महावृत्तमाविर्भावादिकं महत् । भण्डासुरवधश्चैव देव्याः श्रीनगरस्थितिः ॥ १॥ इदानीं श्रोतुमिच्छामि तस्या मत्रस्य साधनम् । तन्मन्त्राणां लक्षणं च सर्वमेतन्निवेदय ॥ २॥ हयग्रीव उवाच । सर्वेभ्योऽपि पदार्थेभ्यः शाब्दं वस्तु महत्तरम् । सर्वेभ्योऽपि हि शब्देभ्यो वेदराशिर्महान्मुने ॥ ३॥ सर्वेभ्योऽपि हि वेदेभ्यो वेदमन्त्रा महत्तराः । सर्वेभ्यो वेदमन्त्रेभ्यो विष्णुमन्त्रा महत्तराः ॥ ४॥ तेभ्योऽपि दौर्गमन्त्रास्तु महान्तो मुनिपुङ्गव । तेभ्यो गाणपता मन्त्रा मुने वीर्य महत्तराः ॥ ५॥ तेभ्योऽप्यर्कस्य मन्त्रास्तु तेभ्यः शैवा महत्तराः । तेभ्योऽपि लक्ष्मीमन्त्रास्तु तेभ्यः सारस्वता वराः ॥ ६॥ तेभ्योऽपि गिरिजामन्त्रास्तेभ्यश्चाम्नायभेदजाः । सर्वाम्नायमनुभ्योऽपि वाराहा मनवो वराः ॥ ७॥ तेभ्यः श्यामामनुवरा विशिष्टा इल्वलान्तक । तेभ्योऽपि ललितामन्त्रा दशभेदविभेदिताः ॥ ८॥ तेषु द्वौ मनुराजौ तु वरिष्ठौ विन्ध्यमर्दन । लोपामुद्रा कामराज इति ख्यातिमुपागतौ ॥ ९॥ ह्रादिस्तु लोपामुद्रा स्यात्कामराजस्तु कादिकाः । हंसादेर्वाच्यतां याताः कामराजो महेस्वरः ॥ १०॥ स्मरादेर्वाच्यतां याता देवी श्रीललिताम्बिका । हादिकाद्योर्मन्त्रयोस्तु भेदो वर्णत्रयोद्भवः ॥ ११॥ त्योश्च कामराजोऽयं सिद्धिदो भक्तिशालिनाम् । शिवेन शक्त्या कामेन क्षित्या चैव तु मायया ॥ १२॥ हंसेन भृगुणा चैव कामेन शशिमौलिना । शक्रेण भुवनेशेन चन्द्रे ण च मनोभुवा ॥ १३॥ क्षित्या हृल्लेखया चैव प्रोक्तो हंसादिमन्त्रराट् । कामादिमन्त्रराजस्तु स्मरयोनिः श्रियो मुखे ॥ १४॥ पञ्चत्रिकमहाविद्या ललिताम्बा प्रवाचिकाम् । ये यजन्ति महाभागास्तेषां सर्वत्र सिद्धये ॥ १५॥ सद्गुरोस्तु मनुं प्राप्य त्रिपञ्चार्णपरिष्कृतम् । सम्यक्संसाधयेद्विद्वान्वक्ष्यमाणप्रकारतः ॥ १६॥ तत्क्रमेण प्रवक्ष्यामि सावधानो मुने श‍ृणु । प्रातरुत्थाय शिरसि स्मृत्वा कमलमुज्ज्वलम् ॥ १७॥ सहस्रपत्रशोभाढ्यं सकेशरसुकर्णिकम् । तत्र श्रीमद्गुरुं ध्वात्वा प्रसन्नं करुणामयम् ॥ १८॥ ततो बहिर्विनिर्गत्य कुर्याच्छौचादिकाः क्रियाः । अथागत्य च तैलेन सामोदेन विलेपितः ॥ १९॥ उद्वर्तितश्च सुस्नातः शुद्धेनोष्णेन वारिणा । आपो निसर्गतः पूताः किं पुनर्वह्निसंयुताः । तस्मादुष्णोदके स्नायात्तदभावे यथोदकम् ॥ २०॥ परिधाय पटौ शुद्धे कौसुम्भौ वाथ वारुणौ । आचम्य प्रयतो विद्वान्हृदि ध्यायन्पराम्बिकाम् ॥ २१॥ ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा पट्टवर्धनमेव वा । अगस्त्यपत्राकारं वा धृत्वा भाले निजोचितम् । अन्तर्हितश्च शुद्धात्मा सन्ध्यावन्दनमाचरेत् ॥ २२॥ अश्वत्थपत्राकारेण पात्रेण सकुशाक्षतम् । सपुष्पचन्दनं चार्घ्यं मार्तण्डाय समुत्क्षिपेत् ॥ २३॥ तथार्घ्यभावदेवत्वाल्ललितायै त्रिरर्घ्यकम् । तर्प्पयित्वा यथाशक्ति मूलेन ललितेश्वरीम् ॥ २४॥ देवर्षिपितृवर्गांश्च तर्पयित्वा विधानतः । दिवाकरमुपास्थाय देवीं च रविबिम्बगाम् ॥ २५॥ मौनी विशुद्धहृदयः प्रविश्य मखमन्दिरम् । चारुकर्पूरकस्तूरीचन्दनादिविलेपितः ॥ २६॥ भूषणैर्भूषिताङ्गश्च चारुश‍ृङ्गारवेषधृक् । आमोदिकुसुमस्रग्भिरवतंसितकुन्तलः ॥ २७॥ सङ्कल्पभूषणो वाथ यथाविभवभूषणः । पूजाखण्डे वक्ष्यमाणान्कृत्वा न्यासाननुक्रमात् ॥ २८॥ मृद्वासने समासीनो ध्यायेच्छ्रीनगरं महत् । नानावृक्षमहोद्यानमारभ्य ललितावधि ॥ २९॥ ध्यायेच्छ्रीनगरं दिव्यं बहिरन्तरतः शुचिः । पूजाखण्डोक्तमार्गेण पूजां कृत्वा विलक्षणः ॥ ३०॥ अक्षमालां समादाय चन्द्रकस्तूरिवासिताम् । उदङ्मुखः प्राङ्खो वा जपेत्सिंहासनेश्वरीम् । षट्त्रिंशल्लक्षसङ्ख्यां तु जपेद्विद्या प्रसीदति ॥ ३१॥ तद्दशांशस्तु होमः स्यात्तद्दशांशं च तर्पणम् । तद्दशांशं ब्राह्मणानां भोजनं समुदीरितम् ॥ ३२॥ एवं स सिद्धमन्त्रस्तु कुर्यात्काम्यजपं पुनः । लक्षमात्रं जपित्वा तु मनुष्यान्वशमानयेत् ॥ ३३॥ लक्षद्वितयजाप्येन नारीः सर्वा वशं नयेत् । लक्षत्रितयजापेन सर्वान्वशयते नृपान् ॥ ३४॥ चतुर्लक्षजपे जाते क्षुभ्यन्ति फणिकन्यकाः । पञ्चलक्षजपे जाते सर्वाः पातालयोषितः ॥ ३५॥ भूलोकसुन्दरीवर्गो वश्यःषड्लक्षजापतः । क्षुभ्यन्ति सप्त लक्षेण स्वर्गलोकमृगीदृशः ॥ ३६॥ देवयोनिभवाः सर्वेऽप्यष्टलक्षजपाद्वशाः । नवलक्षेण गीर्वाणानखिलान्वशमानयेत् ॥ ३७॥ लक्षैकादशजाप्येन ब्रह्मविष्णुमहेश्वरान् । लक्षद्वादशजापेन सिद्धीरष्टौ वशं नयेत् ॥ ३८॥ इन्द्रस्येन्द्रत्वमेतेन मन्त्रेण ह्यभवत्पुरा । विष्णोर्विष्णुत्वमेतेन शिवस्य शिवतामुना ॥ ३९॥ इन्दोश्चन्द्रत्वमेतेन भानोर्भास्करतामुना । सर्वासां देवतानां च तास्ताः सिद्धय उज्ज्वलाः । अनेन मन्त्रराजेन जाता इत्यवधारय ॥ ४०॥ एतन्मन्त्रस्य जापी तु सर्वपापविवर्जितः । त्रैलोक्यसुन्दराकारो मन्मथस्यापि मोहकृत् ॥ ४१॥ सर्वाभिः सिद्धिभिर्युक्तः सर्वज्ञः सर्वपूजितः । दर्शनादेव सर्वेषामन्तरालस्य पूरकः ॥ ४२॥ वाचा वाचस्पतिसमः श्रिया श्रीपतिसानभः । बले मरुत्समानः स्यात्स्थिरत्वे हिमवानिव ॥ ४३॥ औन्नत्ये मेरुतुल्यः स्याद्गाम्भीर्येण महार्णवः । क्षणात्क्षोभकरो मूर्त्या ग्रामपल्लीपुरादिषु ॥ ४४॥ ईषद्भ्रूभङ्गमात्रेण स्तम्भको जृम्भकस्तथा । उच्चाटको मोहकश्च मारको दुष्टचेतसाम् ॥ ४५॥ क्रुद्धः प्रसीदति हठात्तस्य दर्शनहर्षितः । अष्टादशसु विद्यासु निरूढिमभिगच्छति ॥ ४६॥ मन्दाकिनीपूरसमा मधुरा तस्य भारती । न तस्याविदितं किञ्चित्सर्वशास्त्रेषु कुम्भज ॥ ४७॥ दर्शनानि च सर्वाणि कर्तुं खण्डयितुं पटुः । तत्त्वञ्जानाति निखिलं सर्वज्ञत्वं च गच्छति ॥ ४८॥ सदा दयार्द्रहृदयं तस्य सर्वेषु जन्तुषु । तत्कोपाग्नेर्विषयतां गन्तुं नालं जगत्त्रयी ॥ ४९॥ तस्य दर्शनवेलायां श्लथन्नीवीनिबन्धनाः । विश्रस्तरशनाबन्धा गलत्कुण्डलसञ्चयाः ॥ ५०॥ घर्मवारिकणश्रेणीमुक्ताभूषितमूर्तयः । अत्यन्तरागतरलव्यापारनयनाञ्चलाः ॥ ५१॥ स्रंसमानकरां भोजमणिकङ्कणपङ्क्तयः । ऊरुस्तम्भेन निष्पन्दा नमितास्याश्च लज्जया ॥ ५२॥ द्रवत्कन्दर्पसदनाः पुलकाङ्कुरभूषणाः । अन्यमाकारमिव च प्राप्ता मानसजन्मना ॥ ५३॥ दीप्यमाना इवोद्दामरागज्वालाकदम्बकैः । वीक्ष्यमाणा इवानङ्गशरपावकवृष्टिभिः ॥ ५४॥ उत्कण्ठया तुद्यमानाः खिद्यमाना तनूष्मणा । सिच्यमानाः श्रमजलैः शुच्यमानाश्च लज्जया ॥ ५५॥ कुलं जातिं च शीलं च लज्जां च परिवारकम् । लोकाद्भयं बन्धुभयं परलोकभये तथा ॥ ५६॥ मुञ्चन्त्यो हृदि याचन्त्यो भवन्ति हरिणीदृशः । अरण्ये पत्तने वापि देवालयमठेषु वा । यत्र कुत्रापि तिष्ठन्तं तं धावन्ति मृगीदृशः ॥ ५७॥ अत्याहतो यथैवाम्भोबिन्दुर्भ्रमति पुष्करे । तद्वद्भ्रमन्ति चित्तानि दर्शने तस्य सुभ्रुवाम् ॥ ५८॥ विनीतानवनीतानां विद्रा वणमहाफलम् । तं सेवन्ते समस्तानां विद्यानामपि पङ्क्तयः ॥ ५९॥ चन्द्रा र्कमण्डलद्वन्द्वकुचमण्डलशोभिनी । त्रिलोके ललना तस्य दर्शनादनुरज्यति । अन्यासां तु वराकीणां वक्तव्यं किं तपोधन ॥ ६०॥ पत्तनेषु च वीथीषु चत्वरेषु वनेषु च । तत्कीर्तिघोषणा पुण्या सदा द्युसद्द्रुमायते ॥ ६१॥ तस्य दर्शनतः पाप जालं नश्यति पापिनाम् । तद्गुणा एव घोक्ष्यन्ते सर्वत्र कविपुङ्गवैः ॥ ६२॥ भिन्नैर्वर्णैरायुधैश्च भिन्नैर्वाहनभूषणैः । ये ध्यायन्ति महादेवीं तास्ताः सिद्धीर्भञ्जति ते ॥ ६३॥ मनोरादिमखण्डस्तु कुन्देन्दुधवलद्युतिः । अहश्चक्रे ज्वलज्ज्वालश्चिन्तनीयस्तु मूलके ॥ ६४॥ इन्द्रगोपक सङ्काशो द्वितीयो मनुखण्डकः । नीभालनीयेऽहश्चक्रे आबालान्तज्वलच्छिखः ॥ ६५॥ अथ बालादिपद्मस्थद्विदलाम्बुजकोटरे । नीभालनीयस्तार्तीयखण्डो दुरितखण्डकः ॥ ६६॥ मुक्ता ध्येया शशिजोत्स्ना धवलाकृतिरम्बिका । रक्तसन्ध्यकरोचिः स्याद्वशीकरणकर्मणि ॥ ६७॥ सर्वसम्पत्तिलाभे तु श्यामलाङ्गी विचिन्त्यते । नीला च मूकीकरणे पीता स्तम्भनकर्मणि ॥ ६८॥ कवित्वे विशदाकारा स्फटिकोपलनिर्मला । धनलाभे सुवर्णाभा चिन्त्यते ललिताम्बिका ॥ ६९॥ आमूलमाब्रह्मबिलं ज्वलन्माणिक्यदीपवत् । ये ध्यायन्ति महापुञ्जं ते स्युः संसिद्धसिद्धयः ॥ ७०॥ एवं बहुप्रकारेण ध्यानभेदेन कुम्भज । निभालयन्तः श्रीदेवीं भजन्ति महतीं श्रियम् । प्राप्यते सद्भिरेवैषा नासद्भिस्तु कदाचन ॥ ७१॥ यैस्तु तप्तं तपस्तीव्रं तैरेवात्मनि ध्यायते । तस्य नो पश्चिमं जन्म स्वयं यो वा न शङ्करः । न तेन लभ्यते विद्या ललिता परमेश्वरी ॥ ७२॥ वंशे तु यस्य कस्यापि भवेदेष मनुर्यदि । तद्वंश्याः सर्व एव स्युर्मुक्तास्तृप्ता न संशयः ॥ ७३॥ गुप्ताद्गुप्ततरैवैषा सर्वशास्त्रेषु निश्चिता । वेदाः समस्तशास्त्राणि स्तुवन्ति ललितेश्वरीम् ॥ ७४॥ परमात्मेयमेव स्यादियमेव परा गतिः । इयमेव महत्तीर्थमियमेव महत्फलम् ॥ ७५॥ इमां गायन्ति मुनयो ध्यायन्ति सनकादयः । अर्चन्तीमां सुरश्रेष्ठा ब्रह्माद्याः पञ्चसिद्धिदाम् ॥ ७६॥ न प्राप्यते कुचारित्रैः कुत्सितैः कुटिलाशयैः । दैवबाह्यैर्वृथातर्कैर्वृथा विभ्रान्त बुद्धिभिः ॥ ७७॥ नष्टैरशीलैरुच्छिष्टैः कुलभ्रष्टैश्च निष्ठुरैः । दर्शनद्वेषिभिः पापशीलैराचारनिन्दकैः ॥ ७८॥ उद्धतैरुद्धतालापैर्दाम्भिकैरतिमानिभिः । एतादृशानां मर्त्यानां देवानां चातिदुर्लभा ॥ ७९॥ देवतानां च पूज्यत्वमस्याः प्रोक्तं घटोद्भव । भण्डासुर वधायैषा प्रादुर्भूता चिदग्नितः ॥ ८०॥ महात्रिपुरसुन्दर्या मूर्तिस्तेजोविजृम्भिता । कामाक्षीति विधात्रा तु प्रस्तुता ललितेश्वरी ॥ ८१॥ ध्यायतः परया भक्त्या तां परां ललिताम्बिकाम् । सदाशिवस्य मनसो लालनाल्ललिताभिधा ॥ ८२॥ यद्यत्कृतवती कृत्यं तत्सर्वं विनिवेदितम् । पूजाविधानमखिलं शास्त्रोक्तेनैव वर्त्मना । खण्डान्तरे वदिष्यामि तद्विलासं महाद्भुतम् ॥ ८३॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने मन्त्रराजसाधनप्रकारकथनन्नामाष्टत्रिंशोऽध्यायः ॥ ३८॥

अथैकोनचत्वारिंशोऽध्यायः ॥ ३९॥

अगस्त्य उवाच । अनाद्यनन्तमव्यक्तं व्यक्तानामादिकारणम् । आनन्दबोधैकरसं तन्महन्मन्महे महः ॥ १॥ अश्वानन महाप्राज्ञ वेदवेदान्तवित्तम । श्रुतमेतन्महापुण्यं ललिताख्यानमुत्तमम् ॥ २॥ सर्वपूज्या त्वया प्रोक्ता त्रिपुरा परदेवता । पाशाङ्कुशधनुर्बाण परिष्कृतचतुर्भुजा ॥ ३॥ तस्या मन्त्रमिति प्रोक्तं श्रीचक्रं चक्रभूषणम् । नवावरणमीशानी श्रीपरस्याधिदैवतम् ॥ ४॥ काञ्चीपुरे पवित्रेऽस्मिन्महीमण्डलमण्डने । केयं विभाति कल्याणी कामाक्षीत्यभिविश्रुता ॥ ५॥ द्विभुजा विविधोल्लासविलसत्तनुवल्लरी । अदृष्टपूर्वसौन्दर्या परज्योतिर्मयी परा ॥ ६॥ सूत उवाच । अगस्त्येनैवमुक्तः सन्परानन्दादृतेक्षणः । ध्यायंस्तच्च परं तेजो हयग्रीवो महामनाः । इति ध्यात्वा नमस्कृत्य तमगस्त्यमथाब्रवीत् ॥ ७॥ हयग्रीव उवाच । रहस्यं सम्प्रवक्ष्यामि लोपामुद्रा पते श‍ृणु ॥ ८॥ आद्या याणुतरा सा स्याच्चित्परा त्वादिकारणम् । अन्ताख्येति तथा प्रोक्ता स्वरूपात्तत्त्वचिन्तकैः ॥ ९॥ द्वितीयाभूत्ततः शुद्धपरा द्विभुजसंयुता । दक्षहस्ते योगमुद्रां वामहस्ते तु पुस्तकम् ॥ १०॥ बिभ्रती हिमकुन्देन्दुमुक्तासमवपुर्द्युतिः । परापरा तृतीया स्याद्बालार्कायुतसम्मिता ॥ ११॥ सर्वाभरणसंयुक्ता दशहस्तधृताम्बुजा । वामोरुन्यस्तहस्ता वा किरीटार्धेन्दुभूषणा ॥ १२॥ पश्चाच्चतुर्भुजा जाता सा परा त्रिपुरारुणा । पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करा ॥ १३॥ ललिता सैव कामाक्षी काञ्च्यां व्यक्तिमुपागता । सरस्वतीरमागौर्यस्तामेवाद्यामुपासते ॥ १४॥ नेत्रद्वयं महेशस्य काशीकाञ्चीपुरद्वयम् ॥ १५॥ विख्यातं वैष्णवं क्षेत्रं शिवसान्निध्य कारकम् । काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः ॥ १६॥ श्रीदेवीदर्शनायैव तपस्तेपे सुदुष्करम् । आत्मैकध्यानयुक्तस्य तस्य व्रतवतो मुने ॥ १७॥ प्रादुरासीत्पुरो लक्ष्मीः पद्महस्ता परात्परा । पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह ॥ १८॥ सर्वश‍ृङ्गारवेषाढ्या सर्वाभरणभूषिता । सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी ॥ १९॥ तां दृष्ट्वाद्भुतसौन्दर्यां परज्योतिर्मयीं पराम् । आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदये स्थिताम् ॥ २०॥ यामाहुस्त्रिपुरामेव ब्रह्मविष्ण्वीशमातरम् । कामाक्षीति प्रसिद्धां तामस्तौषीत्पूर्णभक्तिमान् ॥ २१॥ ब्रह्मोवाच । जय देवि जगन्मातर्जय त्रिपुरसुन्दरि । जय श्रीनाथसहजे जय श्रीसर्वमङ्गले ॥ २२॥ जय श्रीकरुणाराशे जय श‍ृङ्गारनायिके । जयजयेधिकसिद्धेशि जय योगीन्द्रवन्दिते ॥ २३॥ जयजय जगदम्ब नित्यरूपे जयजय सन्नुतलोकसौख्यदात्रि । जयजय हिमशैलकीर्तनीये जयजय शङ्करकामवामनेत्रि ॥ २४॥ जगज्जन्मस्थितिध्वंसपिधानानुग्रहान्मुहुः । या करोति स्वसङ्कल्पात्तस्यै देव्यै नमोनमः ॥ २५॥ वर्णाश्रमाणां साङ्कर्यकारिणः पापिनो जनान् । निहन्त्याद्यातितीक्ष्णास्त्रैस्तस्यै देव्यै नमोनमः ॥ २६॥ नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः । वेद्या या च स्वसंवेद्या तस्यै देव्यै नमोनमः ॥ २७॥ रहस्याम्नायवेदान्तैस्तत्त्वविद्भिर्मुनीश्वरैः । परं ब्रह्मेति या ख्याता तस्यै देव्यै नमोनमः ॥ २८॥ हृदयस्थापि सर्वेषां या न केनापि दृश्यते । सूक्ष्मविज्ञानरूपायै तस्यै देव्यै नमोनमः ॥ २९॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । यद्ध्यानैकपरा नित्यं तस्यै देव्यै नमोनमः ॥ ३०॥ यच्चरणभक्ता इन्द्रा द्या यदाज्ञामेव बिभ्रति । साम्राज्यसम्पदीशायै तस्यै देव्यै नमोनमः ॥ ३१॥ वेदा निःश्वसितं यस्या वीक्षितं भूतपञ्चकम् । स्मितं चराचरं विश्वं तस्यै देव्यै नमोनमः ॥ ३२॥ सहस्रशीर्षा भोगीन्द्रो धरित्रीं तु यदाज्ञया । धत्ते सर्वजनाधारां तस्यै देव्यै नमोनमः ॥ ३३॥ ज्वलत्यग्निस्तपत्यर्को वातो वाति यदाज्ञया । ज्ञानशक्तिस्वरूपायै तस्यै देव्यै नमोनमः ॥ ३४॥ पञ्चविंशतितत्त्वानि मायाकञ्चुकपञ्चकम् । यन्मयं मुनयः प्राहुस्तस्यै देव्यै नमोनमः ॥ ३५॥ शिवशक्तीश्वराश्चैव शुद्धबोधः सदाशिवः । यदुन्मेषविभेदाः स्युस्तस्यै देव्यै नमोनमः ॥ ३६॥ गुरुर्मन्त्रो देवता च तथा प्राणाश्च पञ्चधा । या विराजति चिद्रूपा तस्यै देव्यै नमोनमः ॥ ३७॥ सर्वात्मनामन्तरात्मा परमानन्दरूपिणी । श्रीविद्येति स्मृता वा तु तस्यै देव्यै नमोनमः ॥ ३८॥ दर्शनानि च सर्वाणि यदङ्गानि विदुर्बुधाः । तत्तन्नियमयूपायै तस्यै देव्यै नमोनमः ॥ ३९॥ या भाति सर्वलोकेषु मणिमन्त्रौषधात्मना । तत्त्वोपदेशरूपायै तस्यै देव्यै नमोनमः ॥ ४०॥ देशकालपदार्थात्मा यद्यद्वस्तु यथा तथा । तत्तद्रूपेण या भाति तस्यै देव्यै नमोनमः ॥ ४१॥ हे प्रतिभटाकारा कल्याणगुणशालिनी । विश्वोत्तीर्णेति चाख्याता तस्यै देव्यै नमोनमः ॥ ४२॥ इति स्तुत्वा महादेवीं धाता लोकपितामहः । भूयोभूयो नमस्कृत्य सहसा शरणं गतः ॥ ४३॥ सन्तुष्टा सा तदा देवी ब्रह्माणं प्रेक्ष्य सन्नतम् । वरदा सर्वलोकानां वृणीष्व वरमित्यशात् ॥ ४४॥ ब्रह्मोवाच । भक्त्या त्वद्दर्शनेनैव कृतार्थोऽस्मि न संशयः । तथापि प्रार्थये किञ्चिल्लोकानुग्रहकाम्यया ॥ ४५॥ कर्मभूमौ तु लोकेऽस्मिन्प्रायो मूढा इमे जनाः । तेषामनुग्रहार्थाय नित्यं कुर्वत्र सन्निधिम् ॥ ४६॥ तथेति तस्य तं कामं पूरयामास वेधसः । अथ धाता पुनस्तस्या देव्या वासमकल्पयत् ॥ ४७॥ श्रीदेवीसोदरं नत्वा पुण्डरीकाक्षमच्युतम् । तत्सान्निध्यं सदा काञ्च्यां प्रार्थयामास चादृतः ॥ ४८॥ ततस्तथा करिष्यामीत्यब्रवीत्तं जनार्दनः । अथ तुष्टो जगद्धाता पुनः प्राह महेश्वरीम् ॥ ४९॥ शिवोऽप्यत्रैव सान्निध्यं तव प्रीत्या करोत्विति । अथ श्रीत्रिपुरादक्षभागात्कामेश्वरः परः ॥ ५०॥ ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् । आविरासीन्महादेवः साक्षाच्छृङ्गारनायकः ॥ ५१॥ ततः पुनः श्रीकामाक्षीभालनेत्रकटाक्षतः । काचिद्बाला प्रादुरासीन्महागौरा महोज्ज्वला ॥ ५२॥ सर्वश‍ृङ्गारवेषाढ्या महालावण्यशेवधिः । अथ श्रीपुण्डरीकाक्षो ब्रह्मणा सह सादरम् ॥ ५३॥ कारयामास कल्याणमादिस्त्रीपुंसयोस्तयोः । आखण्डलादयो देवा वसुरुद्रा दिदेवताः ॥ ५४॥ मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः । योगीन्द्राः सनकाद्याश्च नारदाद्याः सुरर्षयः ॥ ५५॥ वामदेवप्रभृतयो जीवन्मुक्ताः शुकादयः । यक्षकिन्नरगन्धर्वसिद्धविद्याधरोरगाः ॥ ५६॥ गणाग्रणीर्महाशास्ता दुर्गाद्याश्चैव मातरः । या यास्तु देवताः प्रोक्तास्ताः सर्वाः परमेश्वरीम् ॥ ५७॥ भद्रा सनविमानस्था नेमुः प्राञ्जलयस्तदा । मनसा निर्मितं धात्रा मध्ये नगरमद्भुतम् ॥ ५८॥ मन्दिरं परमेशान्या मनोहरतमं शुभम् । श्रीमता वासुदेवेन सोदरेण महेश्वरः ॥ ५९॥ तत्रोदवोढतां गौरीमुपाग्नि भगवान्भवः । देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ॥ ६०॥ दम्पत्योर्जगतां पत्योः पाणिग्रहणमङ्गलम् । को वा वर्णयितुं शक्तो यदि जिह्वासहस्रवान् ॥ ६१॥ आदिश्रीमन्दिरस्यास्य वायुभागे महेशितुः । विस्तृतं भुवनश्रेष्ठं कल्पितं परमेष्ठिना ॥ ६२॥ श्रीगृहस्याग्निभागे तु विचित्रं विष्णुमन्दिरम् । इत्थं ता देवतास्तत्र तिस्रः सन्निहिताः सदा ॥ ६३॥ तदा प्रदक्षिणीकृत्य तत्परौ दम्पती तु तौ । प्राप्तौ सभावनागारं तदा विधिजनार्दनौ ॥ ६४॥ समागम्य च सभ्यानां समस्तानां यथाविधि । संस्कारं वैदिकैर्मन्त्रैः कथयामासतुर्मुदा ॥ ६५॥ आद्यादिलक्ष्मीः सर्वेषां पुरतः श्रीपरेश्वरी । विरञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षत ॥ ६६॥ का नाम वाणी मा नाम कमला ते उभे ततः । प्रादुर्भूते प्रभापुञ्जे पञ्जरान्त इव स्थिते ॥ ६७॥ श्रीदेवतानमच्छीर्षबद्धाञ्जलिपुटावुभौ । जय कामाक्षिकामाक्षीत्यूचतुस्तां प्रणेमतुः ॥ ६८॥ मूर्ते च गङ्गायमुने तत्र सेवार्थमागते । तिस्रः कोट्योऽर्धकोटी च या यास्तीर्थाधिदेवताः ॥ ६९॥ सेवार्थं त्रिपुराम्बा यास्तास्ताः सर्वाः समागताः । तदा कराभ्यामादाय चामरे भारतीश्रियौ । श्रीदेवीमुपतस्थाते वीजयन्त्यौ यथोचितम् ॥ ७०॥ अनर्घ्यरत्नखचितकिङ्किणीचितदोर्लते । आदिश्रीनयनोत्पन्ने ते उभे भारतीश्रियौ ॥ ७१॥ संवीक्ष्य सर्वजनता विशेषेण विसिस्मिये । तदा प्रभृति कल्याणी कामाक्षीत्यभिधामियात् । तदुच्चारणमात्रेण श्रीदेवी शं प्रयच्छति ॥ ७२॥ कामाक्षीति त्रयो वर्णाः सर्वमङ्गलहेतवः । अथ सा जगदीशानी वेदवेदाङ्गपारगे ॥ ७३॥ विधौ नित्यं निषीदेति सन्दिदेश सरस्वतीम् । सापि वाणीश्वरी गङ्गाहस्तनिक्षिप्तचामरा । पश्यतां सर्वदेवानां विधातुर्मुखमाविशत् ॥ ७४॥ इन्दिरा च महालक्ष्म्या सन्दिष्टा तुष्टया तथा । यथोचितनिवासाय विष्णोर्वक्षस्थलं मुदा । तदाज्ञां शिरसा धृत्वा रमा विष्णुश्च भक्तितः ॥ ७५॥ तावुभौ दम्पती नत्वा महात्रिपुरसुन्दरीम् । प्रार्थयामासतुर्भूयस्तदावरणदेवताम् ॥ ७६॥ तथास्त्विति वरं दत्त्वा ताभ्यां त्रिपुरसुन्दरम् । तदावरणदेवत्वं प्राप्तौ पद्माच्युतौ तदा ॥ ७७॥ स्वपीठोत्तरमास्थाप्य दक्षिणे स्थितवान्स्वयम् । अथोवाच महागौरीं त्वमन्यद्रूपमाचर । तत्र यातो महागौर्याः प्रतिबिम्बो मनोहरः ॥ ७८॥ चकासद्दिव्यदेहेन महागौरीसमाकृतिः । तरुणारुणराजाभसौन्दर्यचरणद्वयः ॥ ७९॥ क्वणत्कङ्कणमञ्जीरतित्तिरीकृतपीठकः । विद्युदुल्लासितस्वानमनोज्ञमणिमेखलः ॥ ८०॥ रत्नकङ्कणकेयूरविराजितभुजद्वयः । मुक्तावैदूर्यमाणिक्य निबद्धवरबन्धनः ॥ ८१॥ विभ्राजमानो मध्येन वलित्रितयशोभितः । जाह्नवीसरिदावर्तशोभिनाभीविभूषितः ॥ ८२॥ पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनः । आमुक्तमुक्तालङ्कारभासुरस्तनकुञ्चुकः ॥ ८३॥ विनोदेन कटीदेशलम्बमानसुश‍ृङ्खलः । माणिक्यशकलाबद्धमुद्रि काभिरलङ्कृतः ॥ ८४॥ दक्षहस्ताम्बुजासक्तस्निग्धोज्ज्वलमनोहरः । आभात्याप्रपदीनस्रग्दिव्याकल्पकदम्बकैः ॥ ८५॥ दीप्तभूषणरत्नांशुराजिराजितदिङ्मुखः । तप्तहाटकसङ्कॢप्तरत्नग्रीवोपशोभितः ॥ ८६॥ माङ्गल्यसूत्ररत्नांशुशोणिमाधरकन्धरः । पालीवतंसमाणिक्यताटङ्कपरिभूषितः ॥ ८७॥ जपाविद्रुमलावण्यललिताधरपल्लवः । दाडिमीफलबीजाभदन्तपङ्क्तिविराजितः ॥ ८८॥ मन्दमन्दस्मितोल्लासिकपोलफलकोमलः । औपम्यरहितोदारनासामणिमनोहरः ॥ ८९॥ विलसत्तिलपुष्पश्रीविमलोन्नत नासिकः । ईषदुन्मेषमधुरनीलोत्पलविलोचनः ॥ ९०॥ नवप्रसूनचापश्रीललितभ्रूविकाशकः । अर्द्धेन्दुतुलितो भाले पूर्णेन्दुरुचिराननः ॥ ९१॥ सान्द्रसौरभसम्पन्नकस्तूरीतिलकोज्ज्वलः । मत्तालिमालाविलसदलकाढ्यमुखाम्बुजः ॥ ९२॥ पारिजातप्रसूनस्रग्वाहिधम्मिल्लबन्धनः । अत्यर्थरत्नखचितमुकुटाञ्चितमस्तकः ॥ ९३॥ सर्वलावण्यवसतिर्भवनं विभ्रमाश्रियः । शिवो विष्णुश्च तत्रत्याः समस्ताश्च महाजनाः ॥ ९४॥ बिम्बस्य तस्य देव्याश्च अभेदं जगृहुस्तदा । अथ तर्हि महेशानी स्वतन्त्रा प्रविवेश ह ॥ ९५॥ अग्रतः सर्वदेवानामाश्रयेण प्रपश्यताम् । बिम्बं कृत्वात्मना बिम्बे सम्प्रविश्य स्थितां च ताम् । दृष्ट्वा भूयो नमस्कृत्य पुनः प्रार्थितवान्विधिः ॥ ९६॥ पूर्णब्रह्मे महाशक्ते महात्रिपुरसुन्दरि । श्रीकामाक्षीति विख्याते नमस्तुभ्यं दिनेदिने । किञ्चिद्विज्ञापयाम्यद्य श‍ृणु तत्कृपया मम ॥ ९७॥ अत्रैव तु महागौर्या महेशस्योभयोरपि । श्रीदेवि नित्यकल्याणि विवाहः प्रतिवत्सरम् । कर्तव्यो जगतामृद्धसेवायै च दिवौकसाम् ॥ ९८॥ भूलोकेऽस्मिन्महादेवि विमूढा जनता अपि । तां दृष्ट्वा भक्तितो नत्वा प्रयान्तु परमां गतिम् ॥ ९९॥ तथेत्याकाशवाण्या तु ददौ तस्योत्तरं परा । विससर्ज च सर्वांस्तान्स्वनिकेतनिवृत्तये ॥ १००॥ तदद्भुततमं शीलं स्मृत्वा स्मृत्वा मुहुर्मुहुः । तां नमस्कृत्य ते सर्वे ततो जग्मुर्यथागतम् ॥ १०१॥ पितामहस्तु हृष्टात्मा मुकुन्देन शिवेन च । सार्धं श्रीमन्दिरे तत्र मन्त्रोपेतां निवेश्य च । आराध्य वैदिकैः स्तोत्रैः साष्टाङ्गं प्रणनाम सः ॥ १०२॥ अथाकाशगिरा देवी ब्रह्माणमिदमब्रवीत् ॥ १०३॥ विष्णुं शिवं च स्वस्थाने समाधाय समाहितः । प्रतिसंवत्सरं तत्र सेवां कुरु दृढाशय ॥ १०४॥ स्वयंव्यक्तमिह श्रीशमित्रेशाम्बासमन्वितम् । श्रीकामगिरिपीठं तु साक्षाच्छ्रीपुरमध्यगम् ॥ १०५॥ वामभागे वृतं लक्ष्यं विष्णुनान्यत्र सेविनम् ॥ १०६॥ चिदानन्दाकाररूपं सर्वपीठाधिदैवतम् । अदृश्यमूर्तिमव्यक्तमादधार यथा विधि ॥ १०७॥ श्रीमनोज्ञे सुनक्षत्रे दलानां हीरकोरकैः । अर्चिष्मद्भिरप्रधृष्यैर्ल्लोकानामभिवृद्धये ॥ १०८॥ इदानीं त्वं तदभ्यर्च्य यथाविधि विधे मुदा । मण्डलं त्वखिलं कृत्वा निजलोकं हि पालय ॥ १०९॥ इत्युक्तो भगवान्ब्रह्मा तथा कृत्वा तदीरितम् । निक्षिप्य हृदि तां देवीं निजं धाम जगाम सः ॥ ११०॥ इति ते तत्त्वतः प्रोक्तं कामाक्षीशीलमद्भुतम् । साक्षादेवमहालक्ष्मीमिमां विद्धि घटोद्भव ॥ १११॥ य इदं श‍ृणुयान्नित्यं यश्चापि प्रयतः पठेत् । तस्य भुक्तिश्च मुक्तिश्च करस्था नात्र संशयः ॥ ११२॥ बृहस्पतिसमो बुद्ध्या सर्वविद्याधिपो भवेत् । आदिर्नारायणः श्रीमान्भगवान्भक्तवत्सलः ॥ ११३॥ तपसा तोषितः पूर्वं मया च चिरकालतः । सारूप्यमुक्तिं कृपया दत्त्वा पुत्राय मे प्रभुः । महात्रिपुरसुन्दर्या महात्म्यं समुपादिशत् ॥ ११४॥ ततस्तस्मादहं किञ्चिद्वेद्मि वक्ष्ये न चान्यथा । रहस्यमन्त्रं संवक्ष्येश‍ृणु तं त्वं समाहितः ॥ ११५॥ न ब्रह्मा न च विष्णुर्वा न रुद्रश्च त्रयोऽप्यमी । मोहिता मायया यस्यास्तुरीयस्तु स चेश्वरः । सदाशिवो न जानाति कथं प्राकृतदेवताः ॥ ११६॥ सदाशिवस्तु सर्वात्मा सच्चिदानन्दविग्रहः । अकर्तुमन्यथा कर्तुं कर्तुमस्या अनुग्रहात् ॥ ११७॥ सदा कश्चित्तदेवाहं मन्यमानो महेश्वरः । तन्मायामोहितो भूत्वा त्ववशः शवतामगात् ॥ ११८॥ सैव कारणमेतेषामुत्पत्तौ च लयेऽपि च । कश्चिदत्र विशेषोऽस्ति वक्तव्यांशोऽपि तं श‍ृणु ॥ ११९॥ ब्रह्मादीनां त्रयाणां च तुरीयस्त्वीश्वरः प्रभुः । चतुर्णामपि सर्वेषामादिकर्ता सदाशिवः ॥ १२०॥ एतद्रहस्यं कथितं तस्याश्चरितमद्भुतम् । भूय एव प्रवक्ष्यामि सावधानमनाः श‍ृणु ॥ १२१॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने एकोनचत्वारिंशोऽध्यायः ॥ ३९॥

अथ चत्वारिंशोऽध्यायः ॥ ४०॥

अगस्त्य उवाच । श्रीकामकोष्ठपीठस्था महात्रिपुरसुन्दरी । कङ्कं विलासमकरोत्कामाक्षीत्यभिविश्रुता ॥ १॥ श्रीकामाक्षीति सा देवी महात्रिपुरसुन्दरी । भूमण्डलस्थिता देवी किं करोति महेश्वरी । एतस्याश्चरितं दिव्यं वद मे वदतां वर ॥ २॥ हयग्रीव उवाच । अत्र स्थितापि सर्वेषां हृदयस्था घटोद्भव । तत्तत्कर्मानुरूपं सा प्रदत्ते देहिनां फलम् ॥ ३॥ यत्किञ्चिद्वर्तते लोके सर्वमस्या विचेष्टितम् । किञ्चिच्चिन्तयते कश्चित्स्वच्छन्दं विदधात्यसौ ॥ ४॥ तस्या एवावतारास्तु त्रिपुराद्याश्च शक्तयः । इयमेव महालक्ष्मीः ससर्जाण्डत्रयं पुरा ॥ ५॥ परत्रयाणामावासं शक्तीनां तिसृणामपि । एकस्मादण्डतो जातावम्बिकापुरुषोत्तमौ ॥ ६॥ श्रीविरिञ्चौ ततोऽन्यस्मादन्यस्माच्च गिराशिवौ । इन्दिरां योजयामास मुकुन्देन महेश्वरी । पार्वत्या परमेशानं सरस्वत्या पितामहम् ॥ ७॥ ब्रह्माणं सर्वलोकानां सृष्टिकार्ये न्ययुङ्क्त सा । वासुदेवं परित्राणे संहारे च त्रिलोचनम् ॥ ८॥ ते सर्वेऽपि महालक्ष्मीं ध्यायन्तः शर्मदां सदा । ब्रह्मलोके च वैकुण्ठे कैलासे च वसन्त्यमी ॥ ९॥ कदाचित्पार्वती देवी कैलासशिखरे शुभे । विहरन्ती महेशस्य पिधानं नेत्रयोर्व्यधात् ॥ १०॥ चन्द्रसूर्यौ यतस्तस्य नेत्रात्तस्माज्जगत्त्रयम् । अन्धकारावृतमभूदतेजस्कं समन्ततः ॥ ११॥ ततश्च सकला लोकास्त्यक्तदेवपितृक्रियाः । इति कर्त्तव्यतामूढा न प्रजानन्त किञ्चन ॥ १२॥ तद्दृष्ट्वा भगवान्रुद्रः पार्वतीमिदमब्रवीत् । त्वया पापं कृतं देवि मम नेत्रपिधानतः ॥ १३॥ ऋषयस्त्यक्ततपसो हतसन्ध्याश्च वैदिकाः । सर्वं च वैदिकं कर्म त्वया नाशितमम्बिके ॥ १४॥ तस्मात्पापस्य शान्त्यर्थं तपः कुरु सुदुष्करम् । गत्वा काशीं व्रतं तत्र किञ्चित्कालं समाचर ॥ १५॥ पश्चात्काञ्चीपुरं गत्वा कामाक्षीं तत्र द्रक्ष्यसि । आराधयैतां नित्यां त्वं सर्वपापहरीं शिवाम् ॥ १६॥ तुलसीमग्रतः कृत्त्वा कम्पाकूले तपः कुरु । इत्यादिश्य महादेवस्तत्रैवान्तरधीयत ॥ १७॥ तथा कृतवतीशानी भर्तुराज्ञानुवर्तिनी । चिरेण तपसा क्लिष्टामनन्यहृदयां शिवाम् ॥ १८॥ अग्रतः कृतसान्निध्या कामाक्षी वाक्यमब्रवीत् । वत्से तपोभिरत्युग्रैरलं प्रीतास्मि सुव्रते ॥ १९॥ उन्मील्य नयने पश्चात्पार्वती स्वपुरःस्थिताम् । बालार्कायुतसङ्काशां सर्वाभरणभूषिताम् ॥ २०॥ किरीटहारकेयूरकटकाद्यैरलङ्कृताम् । पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥ २१॥ किरीटमुकुटोल्लासिचन्द्ररेखाविभूषणाम् । विधातृहरिरुद्रे शसदाशिवपदप्रदाम् ॥ २२॥ सगुणं ब्रह्मतामाहुरनुत्तरपदाभिधाम् । प्रपञ्चद्वयनिर्माणकारिणीं तां पराम्बिकाम् ॥ २३॥ तां दृष्ट्वाथ महाराज्ञीं महा नन्दपरिप्लुता । पुलकाचितसर्वाङ्गी हर्षेणोत्फुल्ललोचना ॥ २४॥ चण्डिकामङ्गलाद्यैश्च सहसा स्वसखीजनैः । प्रणिपत्य च साष्टाङ्गं कृत्वा चैव प्रदक्षिणाम् ॥ २५॥ बद्धाञ्जलिपुटा भूयः प्रणता स्वैक्यरूपिणी । तामाह कृपया वीक्ष्य महात्रिपुरसुन्दरी ॥ २६॥ बाहुभ्यां सम्परिष्वज्य सस्नेहमिदमब्रवीत् । वत्से लभस्व भर्तारं रुद्रं स्वमनसेप्सितम् ॥ २७॥ लोके त्वमपि रक्षार्थं ममाज्ञामनुवर्तय । अहं त्वमिति को भेदस्त्वमेवाहं न संशयः ॥ २८॥ किं पापं तव कल्याणि त्वं हि पापनिकृन्तनी । आमनन्ति हि योगीन्द्रा स्त्वामेव ब्रह्मरूपिणीम् ॥ २९॥ लीलामात्रमिदं वत्से परलोकविडम्बनम् । इत्यूचिषीं महाराज्ञीमबिकां सर्वमङ्गला । भक्त्या प्रणम्य पश्यन्ती परां प्रीतिमुपाययौ ॥ ३०॥ स्तुवत्यामेव पार्वत्यां तदानीमेव सापरा । प्रविष्टा हृदयं तस्याः प्रहृष्टाया महामुने ॥ ३१॥ अथ विस्मयमापन्ना चिन्तयन्ती मुहुर्मुहुः । स्वप्नः किमेष दृष्टो वा मया किमथ वा भ्रमः ॥ ३२॥ इत्थं विमृश्य परितः प्रेरयामास लोचने । जयां च विजयां पश्चात्सख्यावालोक्य सस्मिते । प्रसन्नवदना सा तु प्रणते वदति स्म सा ॥ ३३॥ एतावन्तमलं कालं कुत्र याते युवां प्रिये । मया दृष्टां तु कामाक्षीं युवां चेत्किमपश्यतम् ॥ ३४॥ सख्यौ तु तद्वचः श्रुत्वा प्रहर्षोत्फुल्ललोचने । पुष्पाणि पूजनार्हाणि निधायाग्रे समूचतुः ॥ ३५॥ सत्यमेवाधुना दृष्टा ह्यावाभ्यामपि सा परा । न स्वप्नो न भ्रमो वापि साक्षात्ते हृदयं गता । इत्युक्त्वा पार्श्वयोस्तस्या निषण्णे विनयानते ॥ ३६॥ एकाम्रमूले भगवान्भवानीविरहार्तिमान् । गौरीसम्प्राप्तये दध्यौ कामाक्षीं नियतेन्द्रि यः ॥ ३७॥ तत्रापि कृतसान्निध्या श्रीविद्यादेवता परा । आचष्ट कृपया तुष्टा ध्यायन्तं निश्चलं शिवम् ॥ ३८॥ अलं ध्यानेन कन्दर्पदर्पघ्न त्वं ममाज्ञया । अङ्गीकुरुष्व कन्दर्पं भूयो मच्छासने स्थितम् ॥ ३९॥ एकाम्रसंज्ञे मत्पीठे त्विहैव निवसन्सदा । त्वमेवागत्य मत्प्रीत्यै सन्निधौ मम सुव्रत । गौरीमनुगृहाण त्वं कम्पानीरनिवासिनीम् ॥ ४०॥ तापद्वयं जहीह्याशु योगजं तद्वियोगजम् । इत्युक्त्वान्तर्दधे तस्य हृदये परमा रमा ॥ ४१॥ शिवो व्युत्थाय सहसा धीरः संहृष्टमानसः । तस्या अनुग्रहं लब्ध्वा सर्वदेवनिषेवितः ॥ ४२॥ हृदिध्यायंश्च तामेव महात्रिपुरसुन्दरीम् । यद्विलासात्समुत्पन्नं लयं याति च यत्र वै ॥ ४३॥ जगच्चराचरं चैतत्प्रपञ्चद्वितयात्मकम् । भूषयन्तीं शिवां कम्पामनुकम्पार्द्रमानसाम् ॥ ४४॥ अङ्गीकृत्य तदा गौरी वैवाहिकविधानतः । आदाय वृषमारुह्य कैलासशिखरं ययौ ॥ ४५॥ पुनरन्यं महप्राज्ञं समाकर्णय कुम्भज । आदिलक्ष्म्याः प्रभावं तु कथयामि तवानघ ॥ ४६॥ सभायां ब्रह्मणो गत्वा समासेदुस्त्रिमूर्त्तयः । दिक्पालाश्च सुराः सर्वे सनकाद्याश्च योगिनः ॥ ४७॥ देवर्षयो नारदाद्या वशिष्ठाद्याश्च तापसाः । ते सर्वे सहितास्तत्र ब्रह्मणश्च कपर्दिनः । द्वयोः पञ्चमुखत्वेन भेदं न विविदुस्तदा ॥ ४८॥ अन्योन्यं पृष्टवन्तस्ते ब्रह्मा कः कश्च शङ्करः । तेषां संवदतां मध्ये क्षिप्रमन्तर्हितः शिवः ॥ ४९॥ तदा पञ्चमुखो ब्रह्मा सितो नारायणस्तयोः । उभयोरपि संवादस्त्वहं ब्रह्मेत्यजायत ॥ ५०॥ अज्ञ मन्नाभिकमलाज्जातस्त्वं यन्ममात्मजः । सृष्टिकर्ता त्वहं ब्रह्मा नामसाधर्म्यतस्तथा । त्वं च रुद्रश्च मे पुत्रौ सृष्टिकर्तुरुभौ युवाम् ॥ ५१॥ इति मायामोहितयोरुभयोरन्तरे तदा । तयोश्च स्वस्य माहात्म्यमहं ब्रह्मेति दर्शयन् । प्रादुरासीन्महाज्योतिस्तम्भरूपो महेश्वरः ॥ ५२॥ ज्ञात्वैवैनं महेशानं विष्णुस्तूष्णीं ततः स्थितः । पञ्चवक्त्रस्ततो ब्रह्मा ह्यवमत्यैवमास्थितः । ब्रह्मणः शिरसामूर्ध्वं ज्योतिश्चक्रमभूत्पुरः ॥ ५३॥ तन्मध्ये संस्थितो देवः प्रादुरासोमया सह । ऊर्ध्वमैक्षथ भूयस्तमवमत्य वचोऽब्रवीत् ॥ ५४॥ तन्निशम्य भृशं क्रोधमवाप त्रिपुरान्तकः । विष्णुमेवं तदालोक्य क्रोधेनैव विकारतः ॥ ५५॥ तयोरेव समुत्पन्नो भैरवः क्रोधसंयुतः । मूर्धानमेकं चिच्छेद नखेनैव तदा विधेः । हाहेति तत्र सर्वेऽपि क्रन्दन्तश्च पलायिताः ॥ ५६॥ अथ ब्रह्मकपालं तु नखलग्नं स भैरवः । भूयोभूयो धुनोति स्म तथापि न मुमोच तम् ॥ ५७॥ तद्ब्रह्महत्यामुक्त्यर्थं चचार धरणीतले । पुण्यक्षेत्राणि सर्वाणि गङ्गाद्याश्च महानदीः ॥ ५८॥ न च ताभिर्विमुक्तोऽभूत्कपाली ब्रह्महत्यया । विषण्णवदनो दीनो निःश्रीक इव लक्षितः । चिरेण प्राप्तवान्काञ्चीं ब्रह्मणा पूर्वमोषिताम् ॥ ५९॥ तत्र भिक्षामटन्नित्यं सेवमानः परां श्रियम् । पञ्चतीर्थे प्रतिदिनं स्नात्वा भूलक्षणाङ्किते ॥ ६०॥ कञ्चित्कालमुवासाथ प्रभ्रान्त इव बिल्वलः । काञ्चीक्षेत्रनिवासेन क्रमेण प्रयताशयः ॥ ६१॥ निर्धूतनिखिलातङ्कः श्रीदेवीं मनसा वहन् । उत्तरे सेवितुं लक्ष्म्या वासुदेवेन दक्षिणे ॥ ६२॥ श्रीकामकोष्ठमागत्य पुरस्तात्तस्य संस्थितः । आदिलक्ष्मीपदध्यानमाततान यतात्मवान् ॥ ६३॥ यथा दीपो निवातस्थो निस्तरङ्गो यथाम्बुधिः । तथान्तर्वायुरोधेन न चचालाचलेश्वरः ॥ ६४॥ तैलधारावदच्छिन्नामनवच्छिन्नभैरवः । वितेने शैलतनयानाथश्रीध्यानसन्ततिम् । न ब्रह्मा नैव विष्णुर्वा न सिद्धः कपिलोऽपि वा ॥ ६५॥ नान्ये च सनकाद्या ये मुनयो वा शुकादयः । तया समाधिनिष्ठायां न समर्थाः कथञ्चन ॥ ६६॥ अथ श्रीभावयोगेन श्रीभावं प्राप्तवाञ्शिवः । ततः प्रसन्ना श्रीदेवी प्रभामण्डलवर्तिनी । अर्धरात्रे पुरः स्थित्वा वाचं प्रोवाच वाङ्मयी ॥ ६७॥ श्रीकण्ठ सर्वपापघ्न किं पापं तव विद्यते । मद्रूपस्त्वं कथं देहः सेयं लोकविडम्बना ॥ ६८॥ श्वोभूते ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि । इत्युक्त्वान्तर्दधे तत्र महासिंहासनेश्वरी ॥ ६९॥ भैरवोऽपि प्रहृष्टात्मा कृतार्थः श्रीविलोकनात् । विनीय तं निशाशेषं श्रीध्यानैकपरायणः ॥ ७०॥ प्रातः पञ्चमहातीर्थे स्नात्वा सन्ध्यामुपास्य च । पुनः पुनर्धूनुते स्म करलग्नं कपालकम् ॥ ७१॥ तथापि तत्तु नास्रंसत्स निर्वेदं परं गतः । स्वप्नः किमेष माया वा मानसभ्रान्तिरेव वा ॥ ७२॥ मुहुरेवं विचिन्त्येशः शोकव्याकुलमानसः । स्वयमेव निगृह्याथ शोकं धीराग्रणीः शिवः ॥ ७३॥ तुलसीमण्डलं नत्वा पूजयित्वा पुरः स्थितः । निगृहीतेन्द्रि यग्रामः समाधिस्थोऽभवत्पुनः ॥ ७४॥ याममात्रे गते देवी पुनः सान्निध्यमागता । अलं समाधिना शम्भो निमज्जात्र सरोवरे ॥ ७५॥ इत्यादिश्य तिरोऽधत्त सोऽपि चिन्तामुपागमत् । इयं च माया स्वप्नो वा किं कर्त्तव्यं मयाथ वा ॥ ७६॥ श्वोभूते ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि । इत्युक्तं श्रीपरादेव्या यामातीतमिदं दिनम् ॥ ७७॥ एवं सर्वं च मिथ्यैवेत्यधिकं चिन्तयावृतः । भगवान्व्योमवाण्या तु निमज्जाप्स्विति गर्जितम् ॥ ७८॥ श्रुत्वा शङ्कां समुत्सृज्य तत्त्वं निश्चित्य शङ्करः । निममज्ज सरस्यां तु गङ्गायां पुनरुत्थितः ॥ ७९॥ तत्र काशीं समालोक्य किमेतदिति चिन्तयन् । स मुहूर्तं स्थितस्तूष्णीं नखलीनकपालकः ॥ ८०॥ ललाटन्तपमुद्वीक्ष्य तरणिं तरुणोन्दुभृत् ? । भिक्षार्थं नगरीमेनां प्रविवेश वशी शिवः ॥ ८१॥ गृहाणि कानिचिद्गत्वा प्रतोल्यां पर्यटन्भवः । सोऽपश्यदग्रतः काञ्चित्काञ्चीं श्रीदेवताकृतिम् ॥ ८२॥ भिक्षां ज्योतिर्मयीं तस्मै दत्त्वा क्षिप्रं तिरोदधे । क्षणाद्ब्रह्मकपालं तत्प्रच्युतं तन्नखाग्रतः ॥ ८३॥ तद्दृष्ट्वाद्भुतमीशानः कामाक्षी शीलमुत्तमम् । प्रसन्नवदनाम्भोजो बहु मेने मुहुः परम् ॥ ८४॥ पुरी काञ्ची पुरी पुण्या नदी कम्पा नदी परा । देवता सैव कामाक्षीत्यासीत्सम्भावना पुरः ॥ ८५॥ इत्थं देवीप्रभावेण विमुक्तः सङ्कटाद्धरः । स्वस्थः स्वस्थानमगमच्छ्लाघमानः परां श्रियम् ॥ ८६॥ पुनरन्यत्प्रवक्ष्यामि विलासं श‍ृणु कुम्भज । प्रभावं श्रीमहादेव्याः कामदं श‍ृण्वतां सदा ॥ ८७॥ अयोध्याधिपतिः श्रीमान्नाम्ना दशरथो नृपः । सन्तानरहितोऽतिष्ठद्बहुकालं शुचाकुलः ॥ ८८॥ रहस्याहूय मतिमान्वशिष्ठं स्वपुरोहितम् । उवाचाचारसंशुद्धः सर्वशास्त्रार्थवेदिनम् ॥ ८९॥ श्रीनाथ बहवोऽतीताः कालानाधिगतः सुतः । सन्ततेर्मम सन्तापः सन्ततं वर्धतेतराम् । किं कुर्वे यदि सन्तानसम्पत्स्यात्तन्निवेदय ॥ ९०॥ वशिष्ठ उवाच । मम वंश महाराज रहस्यं कथयामि ते । अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । एता पुण्यतमाः प्रोक्ताः पुरीणामुत्तमोत्तमाः ॥ ९१॥ अस्याः सान्निध्यमात्रेण महात्रिपुरसुन्दरीम् । अर्चयन्ति ह्ययोध्यायां मनुष्या अधिदेवताम् ॥ ९२॥ नैतस्याः सदृशी काचिद्देवता विद्यते परा । एनामेवार्चयन्त्यन्ये सर्वे श्रीदेवतां नृप ॥ ९३॥ ब्रह्मविष्णुमहेशाद्याः सस्त्रीकाः सर्वदा सदा । नारिकेलफलालीभिः पनसैः कदलीफलैः ॥ ९४॥ मध्वाज्यशर्कराप्राज्यैर्महापायसराशिभिः । सिद्धद्रव्यविशेषैश्च पूजयेत्त्रिपुराम्बिकाम् । अभीष्टमचिरेणैव सम्प्रदास्यति सैव नः ॥ ९५॥ इत्युक्तवन्तमभ्यर्च्य गुरुमिष्टैरुपायनैः । स्वाङ्गजप्राप्तये भूयो विससर्ज विशाम्पतिः ॥ ९६॥ ततो गुरूक्तरीत्यैव ललितां परमेश्वरीम् । अर्चयामास राजेन्द्रो भक्त्या परमया युतः ॥ ९७॥ एवं प्रतिदिनं पूजां विधाय प्रीतमानसः । अयोध्यादेवताधामामशिषत्तत्र सङ्गतः ॥ ९८॥ अर्धरात्रे व्यतीते तु निभृतोल्लासदीपिके । किञ्चिन्निद्रा लसस्यास्य पुरतस्त्रिपुराम्बिका ॥ ९९॥ पाशाङ्कुशधनुर्बाणपरिष्कृतचतुर्भुजा । सर्वश‍ृङ्गारवेषाढ्या सर्वाभरणभूषिता । स्थित्वा वाचमुवाचेमां मन्दमिन्दुमतीसुतम् ॥ १००॥ अस्ति पङ्क्तिरथ श्रीमन्पुत्रभाग्यं तवानघ । विश्वासघातकर्माणि सन्ति पूर्वकृतानि ते ॥ १०१॥ तादृशां कर्मणां शान्त्यै गत्वा काञ्चीपुरं वरम् । स्नात्वा कम्पासरस्यां च तत्र मां पश्य पावनीम् ॥ १०२॥ मध्ये काञ्चीपुरस्य त्वं कन्दराकाशमध्यगम् । कामकोष्ठं विपाप्मापि सप्तद्वारबिलान्वितम् ॥ १०३॥ साम्राज्यसूचकं पुंसां त्रयाणामपि सिद्धिदम् । प्राङ्मुखी तत्र वर्तेऽहं महासिंहासनेश्वरी ॥ १०४॥ महालक्ष्मीस्वरूपेण द्विभुजा पद्मधारिणी । चक्रेश्वरी महाराज्ञी ह्यदृश्या स्थूलचक्षुषाम् ॥ १०५॥ ममाक्षिजा महागौरी वर्तते मम दक्षिणे । सौन्दर्यसारसीमा सा सर्वाभरणभूषिता ॥ १०६॥ मया च कल्पिताऽऽवासा द्विभुजा पद्मधारिणी । महालक्ष्मीस्वरूपेण किं वा कृत्यात्मना स्थिता ॥ १०७॥ आपीठमौलिपर्यन्तं पश्य तस्तां ममांशजाम् । पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् ॥ १०८॥ कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः । कुदेहश्च कुभावश्च नास्तिकत्वं लयं व्रजेत् ॥ १०९॥ कुरुष्व मे महापूजां सितामध्वाज्यपायसैः । विविधैर्भक्ष्यभोज्यैश्च पदार्थैः षड्रसान्वितैः ॥ ११०॥ तत्रैव सुप्रसन्नाहं पूरयिष्यामि ते वरम् । उपदिश्येति सम्राज्ञी दिव्यमूर्तिस्तिरोदधे ॥ १११॥ राजापि सहसोत्थाय किमेतदिति विस्मितः । देवीमुद्बोध्य कौसल्यां शुभलक्षणलक्षिताम् ॥ ११२॥ तस्यै तद्रा त्रिवृत्तान्तं कथयामास सादरम् । तत्समा कर्ण्य सा देवी सन्तोषमभजत्तदा ॥ ११३॥ प्राप्तहर्षो नृपः प्रातस्तया दयितया सह । अनीकसचिवोपेतः काञ्चीपुरमुपागमत् ॥ ११४॥ स्नात्वा कम्पातरङ्गिण्यां दृष्ट्वा देवीं च पावनीम् । पञ्चतीर्थे ततः स्नात्वा देव्या कौसल्यया नृपः ॥ ११५॥ गोभूवस्त्र हिरण्याद्यैस्तत्तीर्थक्षेत्रवासिनः । प्रीणयित्वा सपत्नीकस्तथा तद्भक्तिपूजकान् ॥ ११६॥ अथालयं समाविश्य महाभक्त्या नृपोत्तमः । प्रदक्षिणत्रयं कृत्वा विनयेन समन्वितः ॥ ११७॥ ततः सन्निधिमागत्य देव्या कौसल्यया सह । श्रीकामकोष्ठनिलयं महात्रिपुरसुन्दरीम् ॥ ११८॥ त्रिमूर्तिजननीमम्बां दृष्ट्वा श्रीचक्ररूपिणीम् । प्रणिपत्य तु साष्टाङ्गं भार्यया सह भक्तिमान् ॥ ११९॥ स्वपुरे त्रैपुरे धाम्नि पुरेक्ष्वाकुप्रवर्तिते । दुर्वासा सशिष्येण पूजार्थं पूर्वकल्पिते ॥ १२०॥ दासीदासध्वजारोहगृहोत्सवसमन्विते । तत्र स्वगुरुणोक्तं च कृत्वा स्वात्मार्घपूजनम् ॥ १२१॥ रात्रौ स्वप्ने तु यद्रूपं दृष्टवान्स्वपुरे महः । तदेवात्रापि सन्दध्यौ सन्निधौ राजसत्तमः ॥ १२२॥ चिरं ध्यात्वा महाराजः सुवासांसि बहूनि च । दिव्यान्यायतनान्यस्यै दत्त्वा स्तोत्रं चकार ह ॥ १२३॥ पादाग्रलम्बिपरमाभरणाभिरामे मञ्जीररत्नरुचिमञ्जुलपादपद्मे । पीताम्बरस्फुरितपेशलहेमकाञ्चि केयूरकङ्कणपरिष्कृतबाहुवल्लि ॥ १२४॥ पुण्ड्रेक्षुचापविलसन्मृदुवामपाणे रत्नोर्मिकासुमशराञ्चितदक्षहस्ते । वक्षोजमण्डलविलासिवलक्षहारि पाशाङ्कुशाङ्गदलसद्भुजशोभिताङ्गि ॥ १२५॥ वक्त्रश्रिया विजितशारदचन्द्रबिम्बे ताटङ्करत्नकरमण्डितगण्डभागे । वामे करे सरसिजं सुबिसं दधाने कारुण्यनिर्झरदपाङ्गयुते महेशि ॥ १२६॥ माणिक्यसूत्रमणिभासुरकम्बुकण्ठि भालस्थचन्द्रशकलोज्ज्वलितालकाढ्ये । मन्दस्मितस्फुरणशालिनि मञ्जुनासे नेत्रश्रिया विजितनीलसरोजपत्रे ॥ १२७॥ सुभ्रूलते सुवदने सुललाटचित्रे योगीन्द्रमानससरोजनिवासहंसि । रत्नानुबद्धतपनीयमहाकिरीटे सर्वाङ्गसुन्दरि समस्तसुरेन्द्र वन्द्ये ॥ १२८॥ काङ्क्षानुरूपवरदे करुणार्द्रचित्ते साम्राज्यसम्पदभिमानिनि चक्रनाथे । इन्द्रा दिदेवपरिसेवितपादपद्मे सिंहासनेश्वरि परे मयि सन्निदध्याः१२९ इति स्तुत्वा स भूपालो बहिर्निर्गत्य भक्तितः । तस्यास्तु दक्षिणे भागे महागौरीं ददर्श ह ॥ १३०॥ प्रणम्य दण्डवद्भूमौ कृत्वा चास्याः स्तुतिं पुनः । दत्त्वा चास्यै महार्हाणि वासांसि विविधानि च ॥ १३१॥ अमूल्यानि महार्हाणि भूषणानि महान्ति च । ततः प्रदक्षिणीकृत्य निर्गत्य सह भार्यया ॥ १३२॥ स्वगुरूक्तविधानेन महापूजां विधाय च । तामेव चिन्तयंस्तत्र सप्तरात्रमुवास सः ॥ १३३॥ अष्टमे दिवसे देवीं नत्वा भक्त्या विलोकयन् । अम्बाभीष्टं प्रदेहीति प्रार्थयामास चेतसा ॥ १३४॥ सुप्रसन्ना च कामाक्षी सान्तरिक्षगिरावदत् । भविष्यन्ति मदंशास्ते चत्वारस्तनया नृप ॥ १३५॥ इत्युदीरितमाकर्ण्य प्रमोदविकसन्मुखः । श्रियं प्रणम्य साष्टाङ्गमननन्यशरणः पराम् ॥ १३६॥ आमन्त्र्य मनसैवाम्बां सस्त्रीकः सह मन्त्रिभिः । अयोध्यां नगरीं प्रापदिन्दुमत्यास्तु नन्दनः ॥ १३७॥ एवं प्रभावा कामाक्षी सर्वलोकहितैषिणी । सर्वेषामपि भक्तानां काङ्क्षितं पूरयत्यलम् ॥ १३८॥ एनां लोकेषु बहवः कामाक्षीं परदेवताम् । उपास्य विधिवद्भक्त्या प्राप्ताः कामानशेषतः ॥ १३९॥ अद्यापि प्राप्नुवन्त्येव भक्तिमन्तः फलं मुने । अनेके च भविष्यन्ति कामाक्ष्याः करुणादृशः ॥ १४०॥ माहात्म्यमस्याः श्रीदेव्याः को वा वर्णयितुं क्षमः । नाहं न शम्भुर्न ब्रह्मा न विष्णुः किमुतापरे ॥ १४१॥ इति ते कथितं किञ्चित्कामाक्ष्याः शीलमुज्ज्वलम् । श‍ृण्वतां पठतां चापि सर्वपापहरं स्मृतम् ॥ १४२॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने चत्वारिंशोऽध्यायः ॥ ४०॥

अथैकचत्वारिंशोऽध्यायः ॥ ४१॥

अगस्त्य उवाच । कीदृशं यन्त्रमेतस्या मन्त्रो वा कीदृशो वरः । उपदेष्टा च कीदृक्स्याच्छिष्यो वा कीदृशः स्मृतः ॥ १॥ सर्वज्ञस्त्वं हयग्रीव साक्षात्परमपूरुषः । स्वामिन्मयि कृपादृष्ट्या सर्वमेतन्निवेदय ॥ २॥ हयग्रीव उवाच । मन्त्रं श्रीचक्रगेवास्याः सेयं हि त्रिपुराम्बिका । सैषैव हि महालक्ष्मीः स्फुरच्चैवात्मनः पुरा ॥ ३॥ पश्यति स्म तदा चक्रं ज्योतिर्मयविजृम्भितम् । अस्य चक्रस्य माहात्म्यमपरिज्ञेयमेव हि ॥ ४॥ साक्षात्सैव महालक्ष्मीः श्रीचक्रमिति तत्त्वतः । यदभ्यर्च्य महाविष्णुः सर्वलोकविमोहनम् । कामसम्मोहिनीरूपं भेजे राजीवलोचनः ॥ ५॥ अर्चयित्वा तदीशानः सर्वविद्येश्वरोऽभवत् । तदाराध्य विशेषेण ब्रह्मा ब्रह्माण्डसूरभूत् । मुनीनां मोहनश्चासीत्स्मरो यद्वरिवस्यया ॥ ६॥ श्रीदेव्याः पुरतश्चक्रं हेमरौप्यादिनिर्मितम् । निधाय गन्धैरभ्यर्च्य षोडशाक्षरविद्यया ॥ ७॥ प्रत्यहं तुलसीपत्रैः पवित्रैर्मङ्गलाकृतिः । सहस्रैर्मूलमन्त्रेण श्रीदेवीध्यानसंयुतः ॥ ८॥ अर्चयित्वा च मध्वाज्यशर्करापायसैः शुभैः । अनवद्यैश्च नैवेद्यैर्माषापूपैर्मनोहरैः ॥ ९॥ यः प्रीणाति महालक्ष्मीं मतिमान्मण्डलत्रये । सहसा तस्य सान्निध्यमाधत्ते परमेश्वरी ॥ १०॥ मनसा वाञ्छितं यच्च प्रसन्ना तत्प्रपूरयेत् । धवलै कुसुमैश्चक्रमुक्तरीत्या तु योऽर्चयेत् ॥ ११॥ तस्यैव रसनाभागे नित्यं नृत्यति भारती । पाटलैः कुसुमैश्चक्रं योऽर्चयेदुक्तमार्गतः । सार्वभौमं च राजानं दासवद्वशयेदसौ ॥ १२॥ पीतवर्णैः शुभैः पुष्पैः पूर्ववत्पूजयेच्च यः । तस्य वक्षस्थले नित्यं साक्षाच्छ्रीर्वसति ध्रुवम् ॥ १३॥ दुर्गन्धैर्गन्धहीनैश्च सुवर्णैरपि नार्चयेत् । सुगन्धैरेव कुसुमैः पुष्पैश्चाभ्यर्चयेच्छिवाम् ॥ १४॥ कामाक्ष्यैव महालक्ष्मीश्चक्रं श्रीचक्रमेव हि । श्रीविद्यैषा परा विद्या नायिका गुरुनायिका ॥ १५॥ एतस्या मन्त्रराजस्तु श्रीविद्यैव तपोधन । कामराजान्तमन्त्रान्ते श्रीबीजेन समन्वितः ॥ १६॥ षोडशाक्षरविद्येयं श्रीविद्येति प्रकीर्तिता । इत्थं रहस्यमाख्यातं गोपनीयं प्रयत्नतः ॥ १७॥ तिसृणामपि मूर्तीनां शक्तिर्विद्येयमीरिता । सर्वेषामपि मन्त्राणां विद्यैषा प्राणरूपिणी ॥ १८॥ पारम्पर्येण विज्ञाता विद्येयं बन्धमोचिनी । संस्मृता पापहरणी जरामृत्युविनाशिनी ॥ १९॥ पूजिता दुःखदौर्भाग्यव्याधिदारिद्र्यनाशिनी । स्तुता विघ्नौघशमिनी ध्याता सर्वार्थसिद्धिदा ॥ २०॥ मुद्रा विशेषतत्त्वज्ञो दीक्षाक्षपितकल्मषः । भजेद्यः परमेशानीमभीष्टफलमाप्नुयात् ॥ २१॥ धवलाम्बरसंवीतां धवलावासमध्यगाम् । पूजयेद्धवलैः पुष्पैर्ब्रह्मचर्ययुतो नरः ॥ २२॥ धवलैश्चैव नैवेद्यैर्दधिक्षीरौदनादिभिः । सङ्कल्पधवलैर्वापि पूजयेत्परमेश्वरीम् ॥ २३॥ श्रीर्वालन्त्र्यक्षीबीजैः क्रमात्खण्डेषु योजिताम् । षोडशाक्षरविद्यां तामर्चयेच्छुद्धमानसः ॥ २४॥ अनुलोमविलोमेन प्रजपन्मात्रिकाक्षरैः ॥ २५॥ भावयन्नेव देवाग्रे श्रीदेवीं दीपरूपिणीम् । मनसोपांशुना वापि निगदेनापि तापस ॥ २६॥ श्रीदेवीन्याससहितः श्रीदेवीकृतविग्रहः । एकलक्षजपेनैव महापापैः प्रमुच्यते ॥ २७॥ लक्षद्वयेन देवर्षे सप्तजन्मकृतान्यपि । पापानि नाशयत्येव साधकस्य परा कला ॥ २८॥ लक्षत्रितयजापेन सहस्रजनिपातकैः । मुच्यते नात्र सन्देहो निर्मलो नितरां मुने । क्रमात्षोडशलक्षेण देवीसान्निध्यमाप्नुयात् ॥ २९॥ पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ ३०॥ होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः । मन्त्रान्ते पूजयेद्देवीं जपकाले यथोचितम् ॥ ३१॥ जपाद्दशांशो होमः स्यात्तद्दशांशं तु तर्पणम् । तद्दशांशं ब्राह्मणानां भोजनं विन्ध्यमर्दन ॥ ३२॥ देशकालोपघाते तु यद्यदङ्गं विहीयते । तत्सङ्ख्याद्विगुणं जप्त्वा पुरश्चर्यां समापयेत् ॥ ३३॥ ततः काम्यप्रयोगार्थं पुनर्लक्षत्रयं जपेत् । व्रतस्थो निर्विकारश्च त्रिकालं पूजनेरतः । पश्चाद्वश्यादिकर्माणि कुर्वन्सिद्धिमवाप्स्यति ॥ ३४॥ अभ्यर्च्य चक्रमध्यस्थो मन्त्री चिन्तयते यदा । सर्वमात्मानमरुणं साध्यमप्यरुणीकृतम् ॥ ३५॥ ततो भवति विन्ध्यारे सर्वसौभाग्यसुन्दरः । वल्लभः सर्वलोकानां वशयेन्नात्रसंशयः ॥ ३६॥ रोचनाकुङ्कुमाभ्यां तु समभागं तु चन्दनम् । शतमष्टोत्तरं जप्त्वा तिलकं कारयेद् बुधः ॥ ३७॥ ततो यमीक्षते वक्ति स्पृशते चिन्तयेच्च यम् । अर्धेन च शरीरेण स वशं याति दासवत् ॥ ३८॥ तथा पुष्पं फलं गन्धं पानं वस्त्रं तपोधन । शतमष्टोत्तरं जप्त्वा यस्यै सम्प्रेष्यते स्त्रियै । सद्य आकृष्यते सा तु विमूढहृदया सती ॥ ३९॥ लिखेद्रो चनयैकान्ते प्रतिमामवनीतले । सुरूपां च सश‍ृङ्गारवेषाभरणमण्डिताम् ॥ ४०॥ तद्भालगलहृन्नाभिजानुमण्डलयोजितम् । जन्मनाममहाविद्यामङ्कुशान्तर्विदर्भितम् ॥ ४१॥ सर्वाङ्गसन्धिसंलीनामालिख्य मदनाक्षरैः । तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः ॥ ४२॥ बद्ध्वा तु क्षोभिणीं मुद्रां विद्यामष्टशतं जपेत् । संयोज्य दहनागारे चन्द्रसूर्यप्रभाकुले ॥ ४३॥ ततो विह्वलितापाङ्गीमनङ्गशरपीडिताम् । प्रज्वलन्मदनोन्मेषप्रस्फुरज्जघनस्थलाम् ॥ ४४॥ शक्तिचक्रे लसद्रश्मिवलनाकवलीकृताम् । दूरीकृतसुचारित्रां विशालनयनाम्बुजाम् ॥ ४५॥ आकृष्टनयनां नष्टधैर्यसंलीनव्रीडनाम् । मन्त्रयन्त्रौषधमहामुद्रा निगडबन्धनाम् । नवानुरागसन्धानवेपमानहृदम्बुजाम् ॥ ४६॥ मनोऽधिकमहामन्त्रजपमानां हृतांशुकाम् । विमूढामिव विक्षुब्धामिव प्लुष्टामिवाद्भुताम् ॥ ४७॥ लिखितामिव निःसंज्ञामिव प्रमथितामिव । निलीनामिव निश्चेष्टामिवान्यत्वं गतामिव ॥ ४८॥ भ्रमन्मन्त्रानिलोद्धूतवेणुपत्राकृतिं च खे । भ्रमन्तीं भावयेन्नारीं योजनानां शतादपि ॥ ४९॥ चक्रमध्यगतां पृथ्वीं सशैलवनकाननाम् । चतुःसमुद्रपर्यन्तं ज्वलन्तीं चिन्तयेत्ततः ॥ ५०॥ षण्मासाभ्यासयोगेन जायते मदनोपमः । दृष्ट्वा कर्षयते लोकं दृष्ट्वैव कुरुते वशम् ॥ ५१॥ दृष्ट्वा सङ्क्षोभयेन्नारीं दृष्ट्वैव हरते विषम् । दृष्ट्वा करीति वागीशं दृष्ट्वा सर्वं विमोहयेत् । दृष्ट्वा चातुर्थिकादींश्च ज्वरान्नाशयते क्षणात् ॥ ५२॥ पीतद्रव्येण लिखितं चक्रं गूढं तु धारयेत् । वाक्स्तम्भं वादिनां क्षिप्रं कुरुते नात्र संशयः ॥ ५३॥ महानीलीरसेनापि शत्रुनामयुतं लिखेत् । दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयते रिपून् ॥ ५४॥ महिषाश्वपुरीषाभ्यां गोमूत्रैर्नाम टङ्कितम् । आरनालस्थितं चक्रं विद्वेषं कुरुते द्विषाम् ॥ ५५॥ युक्त्वा रोचनया नाम काकपक्षेण मध्यगम् । लम्बमानस्तदाकारो उच्चाटनकरं परम् ॥ ५६॥ दुग्धलाक्षारोचनाभिर्महानीलीरसेन च । लिखित्वा धारयंश्चक्रं चातुर्वर्ण्यं वशं नयेत् ॥ ५७॥ अनेनैव विधानेन जलमध्ये यदि क्षिपेत् । सौभाग्यमतुलं तस्य स्नानपानान्न संशयः ॥ ५८॥ चक्रमध्यगतं देशं नगरीं वा वराङ्गनाम् । ज्वलन्तीं चिन्तयेन्नित्यं सप्ताहात्क्षोभयेन्मुने ॥ ५९॥ लिखित्वा पीतवर्णं तु चक्रमेतद्यदाचरेत् । पूर्वाशाभिमुखो भूत्वा स्तम्भयेत्सर्ववादिनः ॥ ६०॥ सिन्दूरवर्णलिखितं पूजयेदुत्तरामुखः । यदा तदा स्ववशगो लोको भवति नान्यथा ॥ ६१॥ चक्रं गौरिकयालिख्यपूजयेत्पश्चिमामुखः । यः ससर्वाङ्गनाकर्षवश्यक्षोभकरो भवेत् ॥ ६२॥ पूजयेद्विन्ध्यदर्पारे रहस्येकचरो गिरौ । अजरामरतां मन्त्री लभते नात्र संशयः ॥ ६३॥ रहस्यमेतत्कथितं गोपितव्यं महामुने । गोपनात्सर्वसिद्धिः स्याद्भ्रंश एव प्रकाशनात् ॥ ६४॥ अविधाय पुरश्चर्यां यः कर्म कुरुते मुने । देवताशापमाप्नोति न च सिद्धिं स विन्दति ॥ ६५॥ प्रयोगदोषशान्त्यर्थं पुनर्लक्षं जपेद्बुधः । कुर्याच्च विधिवत्पूजां पुनर्योग्यो भवेन्नरः ॥ ६६॥ निष्कामो देवतां नित्यं योऽर्चयेद्भक्तिनिर्भरः ॥ ६७॥ तामेव चिन्तयन्नास्ते यथाशक्ति मनुं जपन् ॥ ६८॥ सैव तस्यैहिकं भारं वहेन्मुक्तिं च साधयेत् । सदा सन्निहिता तस्य सर्वं च कथयेत सा ॥ ६९॥ वात्सल्यसहिता धेनु यथा वत्समनुव्रजेत् । तथानुगच्छेत्सा देवी स्वभक्तं शरणागतम् ॥ ७०॥ अगस्त्य उवाच । शरणागतशब्दस्य कोऽर्थो वद हयानन । वत्सं गौरिव यं गौरी धावन्तमनुधावति ॥ ७१॥ हयग्रीव उवाच । यः पुमानखिलं भारमैहिकामुष्मिकात्मकम् । श्रीदेवतायां निक्षिप्य सदा तद्गतमानसः ॥ ७२॥ सर्वानुकूलः सर्वत्र प्रतिकूलविवर्जितः । अनन्यशरणो गौरीं दृढं सम्प्रार्थ्य रक्षणे ॥ ७३॥ रक्षिष्यतीति विश्वासस्तत्सेवैकप्रयोजनः । वरिवस्यातत्परः स्यात्सा एव शरणागतिः ॥ ७४॥ यदा कदाचित्स्तुतिनिन्दनादौ निन्दन्तु लोकाः स्तुवतां जनो वा । इति स्वरूपं सुधिया समीक्ष्य विषादखेदौ न भजेत्प्रपन्नः ॥ ७५॥ अनुकूलस्य सङ्कल्पः प्रतिकूलस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ ७६॥ आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः । अङ्गीकृत्यात्मनिक्षेपं पञ्चाङ्गानि समर्पयेत् । न ह्यस्य सदृशं किञ्चिद्भुक्तिमुक्त्योस्तु साधनम् ॥ ७७॥ अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ७८॥ इन्द्रि यार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ॥ ७९॥ नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु । मयि चानन्यभावेन भक्तिरव्यभिचारिणी ॥ ८०॥ विविक्तदेशसेवित्वमरतिर्जनसंसदि । अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतानि सर्वदा ज्ञानसाधनानि समभ्यसेत् ॥ ८१॥ तत्कर्मकृत्तत्परमस्तद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स याति परां श्रियम् ॥ ८२॥ गुरुस्तु मादृशो धीमान्ख्यातो वातापितापन । शिष्योऽपि त्वादृशः प्रोक्तो रहस्याम्नायदेशिकः ॥ ८३॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने एकचत्वारिंशोऽध्यायः ॥ ४१॥

अथ हयग्रीवागस्त्यसम्वादे द्वाचत्वारिंशोऽध्यायः ॥ ४२॥

अगस्त्य उवाच । मुद्रा विरचनारीतिमश्वानन निवेदय । याभिर्विरचिताभिस्तु श्रीदेवी सम्प्रसीदति ॥ १॥ हयग्रीव उवाच । आवाहनी महामुद्रा त्रिखण्डेति प्रकीर्तिता । परिवृत्य करौ स्पष्टमङ्गुष्ठौ कारयेत्समौ ॥ २॥ अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती । कनिष्ठिके नियुञ्जीत निजस्थाने तपोधन । सङ्क्षोभिण्याख्यमुद्रां तु कथयाम्यधुना श‍ृणु ॥ ३॥ मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधिते । तर्जन्यो दण्डवत्कृत्वा मध्यमोपर्यनामिके ॥ ४॥ एतस्या एव मुद्राया मध्यमे सरले यदि । क्रियते विन्ध्यदर्पारे मुद्रा विद्रा विणी तथा ॥ ५॥ मध्यमातर्जनीभ्यां तु कनिष्ठानामिके समे । अङ्कुशाकाररूपाभ्यां मध्यगे कलशोद्भव । इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षणे क्षमा ॥ ६॥ पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती । परिवर्तक्रमेणैव मध्यमे तदधोगते ॥ ७॥ क्रमेणानेन देवर्षे मध्यमामध्यगेऽनुजे । अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ॥ ८॥ दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमावर्तदेशगौ । मुद्रै षोन्मादिनी नाम्ना ख्याता वातापितापन ॥ ९॥ अस्यास्त्वनामिकायुग्ममधः कृत्वाङ्कुशाकृति । तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ॥ १०॥ इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिका ॥ ११॥ सव्यं दक्षिणदेशे तु दक्षिणं सव्यदेशतः । बाहू कृत्वा तु देवर्षे हस्तौ सम्परिवर्त्य च ॥ १२॥ कनिष्ठानामिके युक्ते क्रमेणानेन तापस । तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ॥ १३॥ लोपामुद्रा पतेङ्गुष्ठौ कारयेत्सकलावपि । इयं तु खेचरी नाम मुद्रा सर्वोत्तमोत्तमा । एतद्विज्ञानमात्रेण योगिनीनां प्रियो भवेत् ॥ १४॥ परिवर्त्य करौ स्पृष्टावर्धचन्द्रसमाकृती । तर्जन्यङ्गुष्ठयुगलं युगपद्योजयेत्ततः ॥ १५॥ अधः कनिष्ठावष्टब्धमध्यमे विनियोजयेत् । अथैते कुटिले युक्त्वा सर्वाधस्तादनामिके । बीजमुद्रे यमचिरात्सर्वसिद्धप्रवर्तिनी ॥ १६॥ मध्याग्रे कुटिलाकारे तर्जन्युपरि संस्थिते । अनामिकामध्यगते तथैव हि कनिष्ठिके ॥ १७॥ सर्वा एकत्र संयोज्य चाङ्गुष्ठपरिपीडिताः । एषा तु प्रथमा मुद्रा योनिमुद्रे ति संज्ञिता ॥ १८॥ एता मुद्रा स्तु देवर्षे श्रीदेव्याः प्रीतिहेतवः । पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः ॥ १९॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे श्रीललितोपाख्याने हयग्रीवागस्त्यसम्वादे द्वाचत्वारिंशोऽध्यायः ॥ ४२॥

अथ त्रिचत्वारिंशोऽध्यायः ॥ ४३॥

अगस्त्य उवाच । अश्वानन महाप्राज्ञ करुणामृतवारिधे । श्रीदेवीदर्शने दीक्षा यादृशी तां निवेदय ॥ १॥ हयग्रीव उवाच । यदि ते देवताभावो यया कल्मषकर्दमाः । क्षाल्यन्ते च तथा पुसां दीक्षामाचक्ष्महेऽत्र ताम् ॥ २॥ हस्ते शिवपुरं ध्यात्वा जपेन्मूलाङ्गमालिनीम् । गुरुः स्पृशेच्छिष्यतनुं स्पर्शदीक्षेयमीरिता ॥ ३॥ निमील्य नयने ध्यात्वा श्रीकामाक्षीं प्रसन्नधीः । सम्यक्पश्येद्गुरुः शिष्यं दृग्दीक्षा सेयमुच्यते ॥ ४॥ गुरोरालोकमात्रेण भाषणात्स्पर्शनादपि । सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता ॥ ५॥ देव्या देहो यथा प्रोक्तो गुरुदेहस्तथैव च । तत्प्रसादेन शिष्योऽपि तद्रूपः सम्प्रकाशते ॥ ६॥ चिरं शुश्रूषया सम्यक्तोषितो देशिकेश्वरः । तूष्णीं सङ्कल्पयेच्छिष्यं सा दीक्षा मानसी मता ॥ ७॥ दीक्षाणामपि सर्वासामियमेवोत्तमोत्तमा । आदौ कुर्यात्क्रियादीक्षां तत्प्रकारः प्रवक्ष्यते ॥ ८॥ शुक्लपक्षे शुभदिने विधाय शुचिमानसम् । जिह्वास्यमलशुद्धिं च कृत्वा स्नात्वा यथाविधि ॥ ९॥ सन्ध्याकर्म समाप्याथ गुरुदेहं परं स्मरन् । एकान्ते निवसञ्छ्रीमान्मौनी च नियताशनः ॥ १०॥ गुरुश्च तादृशो भूत्वा पूजामन्दिरमाविशेत् । देवीसूक्तेन संयुक्तं विद्यान्यासं समातृकम् ॥ ११॥ कृत्वा पुरुषसूक्तेन षोडशैरुपचारकैः । आवाहनासने पाद्यमर्घ्यमाचमनं तथा ॥ १२॥ स्नानं वस्त्रं च भूषा च गन्धः पुष्पं तथैव च । धूपदीपौ च नैवेद्यं ताम्बूलं च प्रदक्षिणा ॥ १३॥ प्रणामश्चेति विख्यातैः प्रीणयेत्त्रिपुराम्बिकाम् । अथ पुष्पाञ्जलिं दद्यात्सहस्राक्षरविद्यया ॥ १४॥ ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमस्त्रिपुरसुन्दरि हृदये देवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि आस्यदेवि कामेश्वरि भगमालिनि नित्यक्लिन्नें भैरुण्डे वह्निवासिनि महावज्रेश्वरि विद्येश्वरि परशिवदूति त्वरिते कुलसुन्दरि नित्ये नीलपताके विजये सर्वमङ्गले ज्वालामालिनि चित्रे महानित्ये परमेश्वरि मन्त्रेशमयि षष्ठीशमय्युद्यानमयि लोपामुद्रा मय्यगस्त्यमयि कालतापनमयि धर्माचारमयि मुक्तकेशीश्वरमयि दीपकलानाथमयि विष्णुदेवमयि प्रभाकरदेवमयि तेजोदेवमयि मनोजदेवमयि अणिमसिद्धे महिमसिद्धे गरिम सिद्धे लघिमसिद्धे ईशित्वसिद्धे वशित्वसिद्धे प्राप्तिसिद्धे प्राकाम्यसिद्धे रससिद्धे मोक्षसिद्धे ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्रा णि चामुण्डे महालक्ष्मि सर्वसङ्क्षोभिणि सर्वविद्रा विणि सर्वाकर्षिणि सर्ववशङ्करि सर्वोन्मादिनि सर्वमहाङ्कुशे सर्वखेचरि सर्वबीजे सर्वयोने सर्वास्त्रखण्डिनि त्रैलोक्यमोहिनि चक्रस्वामिनि प्रकटयोगिनि बौद्धदर्शनाङ्गि कामाकर्षिणि बुद्ध्याकर्षिणि अहङ्काराकर्षिणि शब्दाकर्षिणि स्पर्शाकर्षिणि रूपाकर्षिणि रसाकर्षिणि गन्धाकर्षिणि चित्ताकर्षिणि धैर्याकर्षिणि स्मृत्याकर्षिणि नामाकर्षिणि बीजाकर्षिणि आत्माकर्षिणि अमृताकर्षिणि शरीराकर्षिणि गुप्तयो-गिनि सर्वाशापरिपूरकचक्रस्वामिनि अनङ्गकुसुमे अनङ्गमेखले अनङ्गमादिनि अनङ्गमदनातुरेऽनङ्गरेखेऽनङ्गवेगिन्यनङ्गाङ्कुशेऽनङ्गमा-लिनि गुप्ततरयोगिनि वैदिकदर्शनाङ्गि सर्वसङ्क्षोभकारक चक्रस्वामिनि पूर्वाम्नायाधिदेवते सृष्टिरूपे सर्वसङ्क्षोभिणि सर्वविद्रा विणि सर्वाकर्षिणि सर्वाह्लादिनि सर्वसम्मोहिनि सर्वस्तम्भिणि सर्वजृम्भिणि सर्ववशङ्करि सर्वरञ्जिनि सर्वोन्मादिनि सर्वार्थसाधिके सर्वसम्पत्प्रपूरिणि सर्वमन्त्रमयि सर्वद्वन्द्वक्षयकरि सम्प्रदाययोगिनि सौरदर्शनाङ्गि सर्वसौभाग्यदायकचक्रे सर्वसिद्धिप्रदे सर्वसम्पत्प्रदे सर्वप्रियङ्करि सर्वमङ्गलकारिणि सर्वकामप्रदे सर्वदुःखविमोचिनि सर्वमृत्युप्रशमिनि सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दरि सर्वसौभाग्यदायिनि कुलोत्तीर्णयोगिनि सर्वार्थसाधकचक्रेशि सर्वज्ञे सर्वशक्ते सर्वैश्वर्यफलप्रदे सर्वज्ञानमयि सर्वव्याधिनिवारिणि सर्वाधारस्वरूपे सर्वपापहरे सर्वानन्दमयि सर्वरक्षास्वरूपिणि सर्वेप्सित फलप्रदे नियोगिनि वैष्णवदर्शनाङ्गि सर्वरक्षाकरचक्रस्थे दक्षिणाम्नायेशि स्थितिरूपे वशिनि कामेशि मोदिनि विमले अरुणे जयिनि सर्वेश्वरि कौलिनि रहस्ययोगिनि रहस्यभोगिनि रहस्यगोपिनि शाक्तदर्शनाङ्गि सर्वरोगहरचक्रेशि पश्चिमाम्नाये धनुर्बाणपाशाङ्कुशदेवते कामेशि वज्रेशि भगमालिनि अतिरहस्ययोगिनि शैवदर्शनाङ्गि सर्वसिद्धिप्रदचक्रगे उत्तराम्नायेशि संहाररूपे शुद्धपरे बिन्दुपीठगते महारात्रिपुरसुन्दरि परापरातिरहस्ययोगिनि शाम्भवदर्शनाङ्गि सर्वान-न्दमयचक्रेशि त्रिपुरसुन्दरि त्रिपुरवासिनि त्रिपुरश्रीः त्रिपुरमालिनि त्रिपुरसिद्धे त्रिपुराम्ब सर्वचक्रस्थे अनुत्तराम्नायाख्यस्वरूपे महात्रि-पुरभैरवि चतुर्विधगुणरूपे कुले अकुले कुलाकुले महाकौलिनि सर्वोत्तरे सर्वदर्शनाङ्गि नवासनस्थिते नवाक्षरि नवमिथुनाकृते महे-शमाधवविधातृमन्मथस्कन्दनन्दीन्द्रमनुचन्द्र कुबेरागस्त्यदुर्वासःक्रोधभट्टारकविद्यात्मिके कल्याणतत्त्वत्रयरूपे शिवशिवात्मिके पूर्णब्रह्म-शक्ते महापरमेश्वरि महात्रिपुरसुन्दरि तव श्रीपादुकां पूजयामि नमः । क एं ईल ह्रीं हस कहल ह्रीं सकल ह्रीं ऐं क्लीं सौः सौः क्लीं ऐं श्रीम् । देव्याः पुष्पाञ्जलिं दद्यात्सहस्राक्षरविद्यया । नोचेत्तत्पूजनं व्यर्थमित्याहुर्वेदवादिनः ॥ १५॥ ततो गोमयसंलिप्ते भूतले द्रो णशालिभिः । तावद्भिस्तण्डुलैः शुद्धैः शस्तार्णैस्तत्र नूतनम् ॥ १६॥ द्रो णोदपूरितं कुम्भं पञ्चरत्नैर्नवैर्युतम् । न्यग्रोधाश्वत्थमाकन्दजम्बूदुम्बरशाखिनाम् ॥ १७॥ त्वग्भिश्च पल्लवैश्चैव प्रक्षिप्तैरधिवासिनम् । कुम्भाग्रे निक्षिपेत्पक्वं नारिकेलफलं शुभम् ॥ १८॥ अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपादि दर्शयेत् । श्रीचिन्तामणिमन्त्रं तु हृदि मातृकमाजपेत् ॥ १९॥ कुम्भ स्पृशञ्छ्रीकामाप्तिरूपीकृतकलेवरम् । अष्टोत्तरशते जाते पुनर्दीपं प्रदर्शयेत् ॥ २०॥ शिष्यमाहूय रहसि वाससा बद्धलोचनम् । कारयित्वा प्रणामानां साष्टाङ्गानां त्रयं गुरुः ॥ २१॥ पुष्पाणि तत्करे दत्त्वा कारयेत्कुसुमाञ्जलिम् । श्रीनाथकरुणाराशे परञ्ज्योतिर्मयेश्वरि ॥ २२॥ प्रसूनाञ्जलिरेषा ते निक्षिप्ता चरणाम्बुजे । परं धाम परं ब्रह्म मम त्वं परदेवता ॥ २३॥ अद्यप्रभृति मे पुत्रान्रक्ष मां शरणागतम् । इत्युक्त्वा गुरुपादाब्जे शिष्यो मूर्ध्नि विधारयेत् ॥ २४॥ जन्मान्तर सुकृतत्वं स्यान्न्यस्ते शिरसि पादुके । गुरुणा कमलासनमुरशासनपुरशासनसेवया लब्धे ॥ २५॥ इत्युक्त्वा भक्तिभरितः पुनरुत्थाय शान्तिमान् । वामपार्श्वे गुरोस्तिष्ठेदमानी विनयान्वितः ॥ २६॥ ततस्तुम्बीजलैः प्रोक्ष्य वामभागे निवेदयेत् । विमुच्य नेत्रबन्धं तु दर्शयेदर्चनक्रमम् ॥ २७॥ सितामध्वाज्यकदलीफलपायसरूपकम् । महात्रिपुरसुन्दर्या नैवेद्यमिति चादिशेत् ॥ २८॥ षोडशार्णमनुं तस्य वदेद्वामश्रुतौ शनैः । ततो बहिर्विनिर्गत्य स्थाप्य दार्वासने शुचिम् ॥ २९॥ निवेश्य प्राङ्मुखं तत्र पट्टवस्त्रसमास्तृते । शिष्यं श्रीकुम्भसलिलैरभिषिञ्चेत्समन्त्रकम् ॥ ३०॥ पुनः शुद्धोदकैः स्नात्वा वाससी परिगृह्य च । अष्टोत्तरशतं मन्त्रं जप्त्वा निद्रा मथाविशेत् ॥ ३१॥ शुभे दृष्टे सति स्वप्ने पुण्यं योज्यं तदोत्तमम् । दुःस्वप्ने तु जपं कुर्यादष्टोत्तरसहस्रकम् ॥ ३२॥ कारयेत्त्रिपुराम्बायाः सपर्यां मुक्तमार्गतः । यदा न दृष्टः स्वप्नोऽपि तदा सिद्धिश्चिराद्भवेत् ॥ ३३॥ स्वीकुर्यात्परया भक्त्या देवी शेष कलाधिकम् । सद्य एव स शिष्यः स्यात्पङ्क्तिपावनपावनः ॥ ३४॥ शरीरमर्थं प्राणं च तस्मै श्रीगुरवे दिशेत् । तदधीनश्चरेन्नित्यं तद्वाक्यं नैव लघयेत् ॥ ३५॥ यः प्रसन्नः क्षणार्धेन मोक्षलक्ष्मीं प्रयच्छति । दुर्लभं तं विजानीयाद्गुरुं संसारतारकम् ॥ ३६॥ गुकारस्यान्धकारोऽर्थो रुकारस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ ३७॥ बोधरूपं गुरुं प्राप्य न गुर्वन्तरमादिशेत् । गुरूक्तं परुषं वाक्यमाशिषं परिचिन्तयेत् ॥ ३८॥ लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । आददीत ततो ज्ञानं पूर्वं तमभिवादयेत् ॥ ३९॥ एवं दीक्षात्रयं कृत्वा विधेयं बोधयेत्पुनः । गुरुभक्तिस्सदाचारस्तद्द्रो हस्तत्र पातकम् ॥ ४०॥ तत्पदस्मरणं मुक्तिर्यावद्देहमयं क्रमः । यत्पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् ॥ ४१॥ गोब्राह्मणवधं कृत्वा न तत्पापं समाश्रयेत् । ब्रह्मादिस्तम्ब पर्यतं यस्य मे गुरुसन्ततिः ॥ ४२॥ तस्य मे सर्वपूज्यस्य को न पूज्यो महीतले । इति सर्वानुकूलो यः स शिष्यः परिकीर्तितः ॥ ४३॥ शीलादिविमलानेकगुणसम्पन्नभावनः । गुरुशासनवर्तित्वाच्छिष्य इत्यभिधीयते ॥ ४४॥ जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् । जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति ॥ ४५॥ यथा ध्यानस्य सामर्थ्यात्कीटोऽपि भ्रमरायते । तथा समाधिसामर्थ्याद्ब्रह्मीभूतो भवेन्नरः ॥ ४६॥ यथा निलीयते काले प्रपञ्चो नैव दृश्यते । तथैव मीलयेन्नेत्रे एतद्ध्यानस्य लक्षणम् ॥ ४७॥ विदिते तु परे तत्त्वे वर्णातीते ह्यविक्रिये । किङ्करत्वं च गच्छन्ति मन्त्रा मन्त्राधिपैः सह ॥ ४८॥ आत्मैक्यभावनिष्ठस्य या चेष्टा सा तु दर्शनम् । योगस्तपः स तन्मन्त्रस्तद्धनं यन्निरीक्षणम् ॥ ४९॥ देहाभिमाने गलिते विज्ञाते परमात्मनि । यत्रयत्र मनो याति तत्रतत्र समाधयः ॥ ५०॥ यः पश्येत्सर्वगं शान्तमानन्दात्मानमद्वयम् । न तस्य किञ्चिदाप्तव्यं ज्ञातव्यं वावशिष्यते ॥ ५१॥ पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ५२॥ देहो देवालयः प्रोक्तो जीव एव महेश्वरः । त्यजेदज्ञाननिर्माल्यं सोहम्भावेन योजयेत् ॥ ५३॥ तुषेण बद्धो व्रीहिः स्यात्तुषाभावे तु तण्डुलः । पाशबद्धः स्मृतो जीवः पाशमुक्तो महेश्वरः ॥ ५४॥ आकाशे पक्षिजातीनां जलेषु जलचारिणाम् । यथा गतिर्न दृश्येत महावृत्तं महात्मनाम् ॥ ५५॥ नित्यार्चनं दिवा कुर्याद्रा त्रौ नैमित्तिकार्चनम् । उभयोः काम्यकर्मा स्यादिति शास्त्रस्य निश्चयः ॥ ५६॥ कोटिकोटिमहादानात्कोटिकोटिमहाव्रतात् । कोटिकोटिमहायज्ञात्परा श्रीपादुका स्मृतिः ॥ ५७॥ ज्ञानतोऽज्ञानतो वापि यावद्देहस्य धारणम् । तावद्वर्णाश्रमाचारः कर्तव्यः कर्ममुक्तये ॥ ५८॥ निर्गतं यद्गुरोर्वक्त्रात्सर्वं शास्त्रं तदुच्यते । निषिद्धमपि तत्कुर्याद्गुर्वाज्ञां नैव लङ्घयेत् ॥ ५९॥ जातिविद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा । दण्डप्रमाणं कृत्वैकं त्रिःप्रदक्षिणमाचरेत् ॥ ६०॥ गुरुबुद्ध्या नमेत्सर्वं दैवतं तृणमेव वा । प्रणमेद्देवबुद्ध्या तु प्रतिमां लोहमृन्मयीम् ॥ ६१॥ गुरुं हुङ्कृत्य तुङ्कृत्य विप्रं वादैर्विजित्य च । विकास्य गुह्यशास्त्राणि भवन्ति ब्रह्मराक्षसाः ॥ ६२॥ अद्वैतं भावयेन्नित्यं नाद्वैतं गुरुणा सह । न निन्देदन्यसमयान्वेदशास्त्रागमादिकान् ॥ ६३॥ एकग्रामस्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद्गुरुम् । क्रोश मात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् ॥ ६४॥ अर्थयोजनगः शिष्यः प्रणमेत्पञ्चपर्वसु । एकयोजनमारभ्य योजनद्वादशावधि ॥ ६५॥ तत्तद्योजनसङ्ख्यातमासेषु प्रणमेद्गुरुम् । अतिदूरस्थितः शिष्यो यदेच्छा स्यात्तदा व्रजेत् ॥ ६६॥ रिक्तपाणिस्तु नोपेयाद्रा जानं देवतां गुरुम् । फलपुष्पाम्बरादीनि यथाशक्ति समर्पयेत् ॥ ६७॥ मनुष्यचर्मणा बद्धः साक्षात्परशिवः स्वयम् । सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ ॥ ६८॥ सद्भक्तरक्षणायैव निराकारोऽपि साकृतिः । शिवः कृपानिधिर्लोके संसारीव हि चेष्टते ॥ ६९॥ अत्रिनेत्रः शिवः साक्षादचतुर्बाहुरच्युतः । अचतुर्वदनो ब्रह्मा श्रीगुरुः परिकीर्तितः ॥ ७०॥ श्रीगुरुं परतत्त्वाख्यं तिष्ठन्तं चक्षुरग्रतः । भाग्यहीना न पश्यन्ति सूर्यमन्धा इवोदितम् ॥ ७१॥ उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा । अधमा शास्त्रचिन्ता स्याल्लोकचिन्ताधमाधमा ॥ ७२॥ नास्थि गुर्वधिकं तत्त्वं नास्ति ज्ञानाधिकं सुखम् । नास्ति भक्त्यधिका पूजा न हि मोक्षाधिकं फलम् ॥ ७३॥ सर्ववेदेषु शास्त्रेषु ब्रह्मविष्णुशिवादिषु । तत्र तत्रोच्यते शब्दैः श्रीकामाक्षी परात्परा ॥ ७४॥ शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी । लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ॥ ७५॥ अग्नीषोमौ बिन्दुनादौ तथा प्रकृतिपूरुषौ । आधाराधेयनामानौ भोगमोक्षौ तथैव च ॥ ७६॥ प्राणापनौ च शब्दार्थौ तथा विधिनिषेधकौ । सुखदुःखादि यद्द्वन्द्वं दृश्यते श्रूयतेऽपि वा ॥ ७७॥ सर्वलोकेषु तत्सर्वं परं ब्रह्म न संशयः । उत्तीर्णमपरं ज्योतिः कामाक्षीनामकं विदुः ॥ ७८॥ यदेव नित्यं ध्यायन्ति ब्रह्मविष्णुशिवादयः । इत्थं हि शक्तिमार्गेऽस्मिन्यः पुमानिह वर्तते ॥ ७९॥ प्रसादभूमिः श्रीदेव्या भुक्तिमुक्त्योः स भाजनम् । अमन्त्रं वा समत्रं वा कामाक्षीमर्चयन्ति ये ॥ ८०॥ स्त्रियो वैश्याश्च शूद्राश्च ते यान्ति परमां गतिम् । किं पुनः क्षत्त्रिया विप्रा मन्त्रपूर्वं यजन्ति ये ॥ ८१॥ संसारिणोऽपि ते नूनं विमुक्ता नात्र संशयः । सितामध्वाज्यकदलीफलपायसरूपकम् ॥ ८२॥ पञ्चपर्वसु नैवेद्यं सर्वदैव निवेदयेत् । यो नार्चयति शक्तोऽपि स देवीशापमाप्नुयात् ॥ ८३॥ अशक्तौ भावनाद्रव्यैरर्चयेन्नित्यमम्बिकाम् । गृहस्थस्तु महादेवीं मङ्गलाचारसंयुतः ॥ ८४॥ अर्चयेत महालक्ष्मीमनुकूलाङ्गनासखः । गुरुस्त्रिवारमाचारं कथयेत्कलशोद्भव ॥ ८५॥ शिष्यो यदि न गृह्णीया च्छिष्ये पापं गुरोर्न हि । लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ॥ ८६॥ श्रीगुरुं गुरुपत्नीं च पितरौ चिन्तयेद्धिया । इति सर्वं मया प्रोक्तं समासेन घटोद्भव ॥ ८७॥ एतावदवधानेन सर्वज्ञो मतिमान्भवेत् ॥ ८८॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे श्रीललितोपाख्याने त्रिचत्वारिंशोऽध्यायः ॥ ४३॥

अथ चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥

हयग्रीव उवाच । प्रविश्य तु जपस्थानमानीय निजमासनम् । अभ्युक्ष्य विधिवन्मन्त्रैर्गुरूक्तक्रमयोगतः ॥ १॥ स्वात्मानं देवतामूर्तिं ध्यायंस्तत्राविशेषतः । प्राङ्मुखो दृढमाबध्य पद्मासनमनन्यधीः ॥ २॥ त्रिखण्डामनुबध्नीयाद्गुर्वादीनभिवन्द्य च । द्विरुक्तबालबीजानि मध्याद्यङ्गुलिषु क्रमात् ॥ ३॥ तलयोरपि विन्यस्य करशुद्धिपुरःसरम् । अग्निप्राकारपर्यन्तं कुर्यात्स्वास्त्रेण मन्त्रवित् ॥ ४॥ प्रतिलोमेन पादाद्यमनुलोमेन कादिकम् । व्याप कन्यासमारोप्य व्यापयन्वाग्भवादिभिः ॥ ५॥ व्यक्तैः कारणसूक्ष्मस्थूलशरीराणि कल्पयेत् । नाभौ हृदि भ्रुवोर्मध्ये बालाबीजान्यथ न्यसेत् ॥ ६॥ मातृकां मूलपुटितां न्यसेन्नाभ्यादिषु क्रमात् । बालाबीजानि तान्येव द्विरावृत्त्याथ विन्यसेत् ॥ ७॥ मध्यादिकरशाखासु तलयोरपि नान्यथा । नाभ्यादावथ विन्यस्य न्यसेदथ पदद्वये ॥ ८॥ जानूरुस्फिग्गुह्यमूलनाभि हृन्मूर्धसु क्रमात् । नवासनानि ब्रह्माणं विष्णुं रुद्रं तथेश्वरम् ॥ ९॥ सदाशिवं च पूषाणं तूलिकां च प्रकाशकम् । विद्यासनं च विन्यस्य हृदये दर्शयेत्ततः ॥ १०॥ पद्मत्रिखण्डयोन्याख्यां मुद्रा मोष्ठपुटेन च । वायुमापूर्य हुं हुं हु त्विति प्राबीध्य कुण्डलीम् ॥ ११॥ मन्त्रशक्त्या समुन्नीय द्वादशान्ते शिवैकताम् । भावयित्वा पुनस्तं च स्वस्थाने विनिवेश्य च ॥ १२॥ वाग्भवादीनि बीजानि मूलहृद्बाहुषु न्यसेत् । समस्तमूर्ध्नि दोर्मूलमध्याग्रेषु यथाक्रमम् ॥ १३॥ हस्तौ विन्यस्य चाङ्गेषु ह्यङ्गुष्ठादितलावधि । हृदयादौ च विन्यस्य कुङ्कुमं न्यासमाचरेत् ॥ १४॥ शुद्धा तृतीयबीजेन पुटितां मातृकां पुनः । आद्यबीजद्वयं न्यस्य ह्यन्त्यबीजं न्यसेदिति ॥ १५॥ पुनर्भूतलविन्यासमाचरेन्नातिविस्तरम् । वर्गाष्टकं न्यसेन्मूले नाभौ हृदयकण्ठयोः ॥ १६॥ प्रागाधायैषु शषसान्मूलहृन्मूर्द्धसु न्यसेत् । कक्षकट्यंसवामांसकटिहृत्सु च विन्यसेत् ॥ १७॥ प्रभूताधः षडङ्गानि दादिवर्गैस्तु विन्यसेत् । ऋषिस्तु शब्दब्रह्मस्याच्छन्दो भूतलिपिर्मता ॥ १८॥ श्रीमूलप्रकृतिस्त्वस्य देवता कथिता मनोः । अक्षस्रक्पुस्तके चोर्ध्वे पुष्पसायककार्मुके ॥ १९॥ वराभीतिकराब्जैश्च धारयन्तीमनूपमाम् । रक्षणाक्षमयीं मानां वहन्ती कण्ठदेशतः ॥ २०॥ हारकेयूरकटकच्छन्नवीरविभूषणाम् । दिव्याङ्गरागसम्भिन्नमणिकुण्डलमण्डिताम् ॥ २१॥ लिपिकल्पद्रुमस्याधो रूपिपङ्कजवासिनीम् । साक्षाल्लिपिमयीं ध्यायेद्भैरवीं भक्तवत्सलाम् ॥ २२॥ अनेककोटिदूतीभिः समन्तात्समलङ्कृताम् । एवं ध्यात्वा न्यसेद्भूयो भूतलेप्यक्षरान्क्रमात् ॥ २३॥ मूलाद्याज्ञावसानेषु वर्गाष्टकमथो न्यसेत् । शषसान्मूर्ध्नि संन्यस्य स्वरानेष्वेव विन्यसेत् ॥ २४॥ हादिरूर्ध्वादिपञ्चास्येष्वग्रे मूले च मध्यमे । अङ्गुलीमूलमणिबन्धयोर्दोष्णोश्च पादयोः ॥ २५॥ जठरे पार्श्वयोर्दक्षवामयोर्नाभिपृष्ठयोः । शषसान्मूलहृन्मूर्धस्वेतान्वा लादिकान्न्यसेत् ॥ २६॥ ह्रस्वाः पञ्चाथ सन्ध्यर्णाश्चत्वारो हयरा वलौ । अकौ खगेनगश्चादौ क्रमोयं शिष्टवर्गके ॥ २७॥ शषसा इति विख्याता द्विचत्वारिंशदक्षराः । आद्यः पञ्चाक्षरो वर्गो द्वितीयश्चतुरक्षरः ॥ २८॥ पञ्चाक्षरी तु षड्वर्गी त्रिवर्णो नवमो मतः । ब्रह्मा विष्णुश्च रुद्रश्च धनेशेन्द्र यमाः क्रमात् ॥ २९॥ वरुणश्चैव सोमश्च शक्तित्रयमिमे नव । वर्णानामीश्वराः प्रोक्ताः क्रमो भूतलिपेरयम् ॥ ३०॥ एवं सृष्टौ पाठो विपरीतः संहृतावमून्येव । स्थानानि योजनीयौ विसर्गबिन्दू च वर्णान्तौ ॥ ३१॥ ध्यानपूर्वं ततः प्राज्ञो रत्यादिन्यासमाचरेत् । जपाकुसुमसङ्काशाः कुङ्कुमारुणविग्रहाः ॥ ३२॥ कामवामाधिरूढाङ्का ध्येयाः शरधनुर्धराः । रतिप्रीतियुतः कामः कामिन्याः कान्त इष्यते ॥ ३३॥ कान्तिमान्मोहिनीयुक्तकामाङ्गः कलहप्रियाम् । अन्वेति कामचारैस्तु विलासिन्या समन्वितः ॥ ३४॥ कामः कल्पलता युक्तः कामुकः श्यामवर्णया । शुचिस्मितान्वितः कामो बन्धको विस्मृतायुतः ॥ ३५॥ रमणो विस्मिताक्ष्या च रामोऽयं लेलिहानया । रमण्या रतिनाथोपि दिग्वस्त्राढ्यो रतिप्रियः ॥ ३६॥ वामया कुब्जया युक्तो रतिनाथो धरायुतः । रमाकान्तो रमोपास्यो रममाणो निशाचरः ॥ ३७॥ कल्याणो मोहिनीनाथो नन्दकश्चोत्तमान्वितः । नन्दी सुरोत्तमाढ्यो नन्दनो नन्दयिता पुनः ॥ ३८॥ सुलावण्यान्वितः पञ्चबाणो बालनिधीश्वरः । कलहप्रियया युक्तस्तथा रतिसखः पुनः ॥ ३९॥ एकाक्ष्या पुष्पधन्वापि सुमुखेशो महाधनुः । नीली जटिल्यो भ्रमणः क्रमशः पालिनीपतिः ॥ ४०॥ भ्रममाणः शिवाकान्तो भ्रमो भ्रान्तश्च मुग्धया । भ्रामको रमया प्राप्तो भ्रामितो भृङ्ग इष्यते ॥ ४१॥ भ्रान्ताचारो लोचनया दीर्घजिह्विकया पुनः । भ्रमावहं समन्वेति मोहनस्तु रतिप्रियाम् ॥ ४२॥ मोहकस्तु पलाशाक्ष्या गृहिण्यां मोह इष्यते । विकटेशो मोहधरो वर्धनोयं धरायुतः ॥ ४३॥ मदनाथोऽनूपमस्तु मन्मथो मलयान्वितः । मादको ह्लादिनीयुक्तः समिच्छन्विश्वतोमुखी ॥ ४४॥ नायको भृङ्गपूर्वस्तु गायको नन्दिनीयुतः । गणकोऽनामया ज्ञेयः काल्या नर्तक इष्यते ॥ ४५॥ क्ष्वेल्लकः कालकर्ण्याढ्यः कन्दर्पो मत्त इष्यते । नर्तकः श्यामलाकान्तो विलासी झषयान्वितः ॥ ४६॥ उन्मत्तामुपसङ्गम्य मोदते कामवर्धनः । ध्यानपूर्वं ततः श्रीकण्ठादिविन्यासमाचरेत् ॥ ४७॥ सिन्दूरकाञ्चनसमोभयभागमर्धनारीश्वरं गिरिसुताहरभूपचिह्नम् । पाशद्वयाक्षवलयेष्टदहस्तमेव स्मृत्वा न्यसेल्लिपिपदेषु समीहितार्थम् ॥ ४८॥ श्रीकण्ठानन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः । उर्वीशो भारभूतिश्चातिथीशः स्थाणुको हरः ॥ ४९॥ चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः । अक्रूरश्च महासेनः स्युरेते वरमूर्त्तयः ॥ ५०॥ ततः क्रोधीशचण्डीशौ पञ्चान्तकशिवोत्तमौ । तथैकरुद्रकूर्मैकनेत्राः सचतुरातनाः ॥ ५१॥ अजेशः शर्वसोमेशौ हरो लाङ्गलिदारुकौ । अर्धनारीश्वरश्चोमाकान्तश्चापाढ्यदण्डिनौ ॥ ५२॥ अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा । खड्गदण्डद्विदण्डौ च सुमहाकालव्यालिनौ ॥ ५३॥ भुजङ्गेशः पिनाकी च खड्गेशश्च बकस्तथा । श्वेतो ह्यभ्रश्च लकुलीशिवः संवर्त्तकस्तथा ॥ ५४॥ पूर्णोदरी च विरजा तृतीया शाल्मली तथा । लोलाक्षी वर्तुलाक्षी च दीर्घङ्घोणा तथैव च ॥ ५५॥ सुदीर्घमुखिगो मुख्यौ नवमी दीर्घजिह्विका । कुञ्जरी चोर्ध्वकेशा च द्विमुखी विकृतानना ॥ ५६॥ सत्यलीलाकलाविद्यामुख्याः स्युः स्वरशक्तयः । महाकाली सरस्वत्यौ सर्वसिद्धिसमन्विते ॥ ५७॥ गौरी त्रैलोक्यविद्या च तथा मन्त्रात्मशक्तिका । लम्बोदरी भूतमता द्रा विणी नागरी तथा ॥ ५८॥ खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा । कोटरा पूतना भद्रा काली योगिन्य एव च ॥ ५९॥ शङ्खिनीगर्जिनीकालरात्रिकूर्दिन्य एव च । कपर्दिनी तथा वज्रा जया च सुमुखेश्वरी ॥ ६०॥ रेवती माधवी चैव वारुणी वायवी तथा । रक्षावधारिणी चान्या तथा च सहजाह्वया ॥ ६१॥ लक्ष्मीश्च व्यापिनीमाये सङ्ख्याता वर्णशक्तयः । द्विरुक्तवालाया वर्णै रङ्गं कृत्वाथ केवलैः ॥ ६२॥ षोढा न्यासं प्रकुर्वीत देवतात्मत्वसिद्धये । विघ्नेशादींस्तु तत्रादौ विन्यसेद्ध्यानपूर्वकम् ॥ ६३॥ तरुणाऽरुणसङ्काशान्गजवक्त्रांस्त्रिलोचनान् । पाशाङ्कुशवराभीतिहस्ताञ्छक्तिसमन्वितान् ॥ ६४॥ विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ । विघ्नकृद्विघ्नहन्ता च विघ्नराड्गणनायकः ॥ ६५॥ एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः । कपर्दवान्दीर्घमुखः शङ्कुकर्णो वृषध्वजः ॥ ६६॥ गणनाथो गजेन्द्रास्यः शूर्पकर्णस्त्रिलोचनः । लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः ॥ ६७॥ आमोदो दुर्मदश्चैव सुमुखश्च प्रमोदकः । एकपादो द्विपादश्च शूरो वीरश्च षण्मुखः ॥ ६८॥ वरदो नाम देवश्च वक्रतुण्डो द्विदन्तकः । सेनानीर्ग्रामणीर्मत्तो मत्तमूषकवाहनः ॥ ६९॥ जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः । भक्ष्यप्रियो गणेशश्च मेघनादो गणेश्वरः ॥ ७०॥ एते गणेशा वर्णानामेकपञ्चाशतः क्रमात् । श्रीश्च ह्रींश्चैव पुष्टिश्च शान्तिस्तुष्टिः सरस्वती ॥ ७१॥ रतिर्मेधा तथा कान्तिः कामिनी मोहिनी तथा । तीव्रा च ज्वालिनी नन्दा सुयशाः कामरूपिणी ॥ ७२॥ उग्रा तेजोवती सत्या विघ्नेशानी स्वरूपिणी । कामार्त्ता मदजिह्वा च विकटा घूर्णितानना ॥ ७३॥ भूतिर्भूमिर्द्विरम्या चामारूपा मकरध्वजा । विकर्णभ्रुकुटी लज्जा दीर्घघोणा धनुर्धरी ॥ ७४॥ तथैव यामिनी रात्रिश्चन्द्रकान्ता शशिप्रभा । लोलाक्षी चपला ऋज्वी दुर्भगा सुभगा शिवा ॥ ७५॥ दुर्गा गुहप्रिया काली कालजिह्वा च शक्तयः । ग्रहन्यासं ततः कुर्याद्ध्यानपूर्वं समाहितः ॥ ७६॥ वरदाभयहस्ताढ्याञ्छक्त्यालिङ्गितविग्रहान् । कुङ्कुमक्षीररुधिरकुन्दकाञ्चनकम्बुभिः ॥ ७७॥ अम्भोदधूमतिमिरैः सूर्यादीन्सदृशान्स्मरेत् । हृदयाधो रविं न्यस्य शीर्ष्णि सोमं दृशोः कुजम् ॥ ७८॥ हृदि शुक्रं च हृन्मध्ये बुधं कण्ठे बृहस्पतिम् । नाभौ शनैश्चरं वक्त्रे राहुं केतुं पदद्वये ॥ ७९॥ ज्वलत्कालानलप्रख्या वरदाभयपाणयः । तारा न्यसेत्ततो ध्यायन्सर्वाभरणभूषिताः ॥ ८०॥ भाले नयनयोः कर्णद्वये नासापुटद्वये । कण्ठे स्कन्धद्वये पश्चात्कूर्पयोर्मणिबन्धयोः ॥ ८१॥ स्तनयोर्नाभिकट्यूरुजानुजङ्घापदद्वये । योगिनीन्यासमादध्याद्विशुद्धो हृदये तथा ॥ ८२॥ नाभौ स्वाधिष्ठिते मूले भ्रूमध्ये मूर्धनि क्रमात् । पद्मेन्दुकर्णिकामध्ये वर्णशक्तीर्दलेष्वथ ॥ ८३॥ दलाग्रेषु तु पद्मस्य मूर्ध्नि सर्वाश्च विन्यसेत् । अमृता नन्दिनीन्द्रा णी त्वीशानी चात्युमा तथा ॥ ८४॥ ऊर्ध्वकेशी ऋद्विदुषी लृकारिका तथैव च । एकपादात्मिकैश्वर्यकारिणी चौषधात्मिका ॥ ८५॥ ततओम्बिकाथो रक्षात्मिकेति षोडश शक्तयः । कालिका खेचरी गायत्री घण्टाधारिणी तथा ॥ ८६॥ नादात्मिका च चामुण्डा छत्रिका च जया तथा । झङ्कारिणी च संज्ञा च टङ्कहस्ता ततः परम् ॥ ८७॥ टङ्कारिणी च विज्ञेयाः शक्तयो द्वादश क्रमात् । डङ्कारी टङ्कारिणी च णामिनी तामसी तथा ॥ ८८॥ थङ्कारिणी दया धात्री नादिनी पार्वती तथा । फट्कारिणी च विज्ञेयाः शक्तयो द्वयपन्नगाः ॥ ८९॥ वर्धिनी च तथा भद्रा मज्जा चैव यशस्विनी । रमा च लामिनी चेति षडेताः शक्तयः क्रमात् ॥ ९०॥ नारदा श्रीस्तथा षण्ढा शश्वत्यपि च शक्तयः । चतस्रोऽपि तथैव द्वे हाकिनी च क्षमा तथा ॥ ९१॥ ततः पादे च लिङ्गे च कुक्षौ हृद्दोःशिरस्सु च । दक्षा दिवामपादान्तं राशीन्मेषादिकान्न्यसेत् ॥ ९२॥ ततः पीठानि पञ्चाशदेकं चक्रं मनो न्यसेत् । वाराणसी कामरूपं नेपालं पौण्ड्रवर्धनम् ॥ ९३॥ वरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् । आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोष्ठकम् ॥ ९४॥ कैलासं भृगुनगरं केदारं चन्द्रपुष्करम् । श्रीपीठं चैकवीरां च जालन्ध्रं मालवं तथा ॥ ९५॥ कुलान्नं देविकोटं च गोकर्णं मारुतेश्वरम् । अट्टहासं च विरजं राजवेश्म महापथम् ॥ ९६॥ कोलापुरकैलापुरकालेश्वरजयन्तिकाः । उज्जयिन्यपि चित्रा च क्षीरकं हस्तिनापुरम् ॥ ९७॥ उडीरां च प्रयागं च षष्टिमायापुरं तथा । गौरीशं सलयं चैव श्रीशैलं मरुमेव च ॥ ९८॥ पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिम् । स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा ॥ ९९॥ पुरोद्यानं तथा छायाक्षेत्रमाहुर्मनीषिणः । लिपिक्रमसमायुक्ताँल्लिपिस्थानेषु विन्यसेत् ॥ १००॥ अन्यान्यथीक्तस्थानेषु संयुक्ताँल्लिपिसङ्क्रमात् । षोढा न्यासो मयाख्यातः साक्षादीश्वरभाषितः ॥ १०१॥ एवं विन्यस्तदेहस्तु देवताविग्रहो भवेत् । ततः षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत् ॥ १०२॥ अंशाद्यानन्द्यमूर्त्यन्तं मन्त्रैस्तु व्यापकं चरेत् । चक्रेश्वरीं चक्रसमर्पणमन्त्रान्हृदि न्यसेत् ॥ १०३॥ अन्यान्यथोक्तस्थानेषु गणपत्यादिकान्न्यसेत् । दक्षिणो रुसमं वामं सर्वांश्च क्रमशो न्यसेत् ॥ १०४॥ गणेशं क्षेत्रपालं च योगिनीं बटुकं तथा । आदाविन्द्रा दयो न्यस्याः पदाङ्गुष्ठद्वयाग्रके ॥ १०५॥ जानुपार्श्वांसमूर्धास्यपार्श्वजानुषु मूर्धनि । मूलाधारेऽणिमादीनां सिद्धीनां दशकं ततः ॥ १०६॥ न्यस्तव्यमंसदोः पृष्ठवक्षस्सु प्रपदोः स्फिजि । दोर्देशपृष्ठयोर्मूर्धपादद्वितययोः क्रमात् ॥ १०७॥ अणिमा चैव लघिमा तृतीया महिमा तथा । ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च । इच्छासिद्धी रससिद्धिर्मोक्षसिद्धिरिति स्मृताः ॥ १०८॥ ततो विप्र न्यसेद्धीमान्मातॄणामष्टकं क्रमात् । पादाङ्गुष्ठयुगे दक्षपार्श्वे मूर्द्धनि वामतः ॥ १०९॥ वामजनौ दक्षजानौ दक्षवामांसयोस्तथा ॥ ११०॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्रा णी चामुण्डा चैव सप्तमी ॥ १११॥ महालक्ष्मीश्च विज्ञेया मातरो वै क्रमाद् बुधैः । मुद्रा देवीर्न्यसेदष्टावेष्वेव द्वे च ते पुनः ॥ ११२॥ मूर्द्धांर्घ्योरपि मुद्रा स्तु सर्वसङ्क्षोभिणी तथा । सर्वविद्रा विणी पश्चात्सर्वार्थाकर्षणी तथा ॥ ११३॥ सर्वाद्या वशकरिणी सर्वाद्या प्रियकारिणी । महाङ्कुशी च सर्वाद्या सर्वाद्या खेचरी तथा ॥ ११४॥ त्रिखण्डा सर्वबीजा च मुद्रा सर्वप्रपूरिका । योनिमुद्रे ति विज्ञेयास्तत्र चक्रेश्वरीं न्यसेत् ॥ ११५॥ त्रैलोक्य मोहनं चक्रं समर्प्य व्याप्य वर्ष्मणि । ततः कलानां नित्यानां क्रमात्षोडशकं न्यसेत् ॥ ११६॥ कामाकर्षणरूपा च शब्दाकर्षणरूपिणी । अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी ॥ ११७॥ स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी । रसाकर्षणरूपा च गन्धाकर्षणरूपिणी ॥ ११८॥ चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी । स्मृत्याकर्षणरूपा च हृदाकर्षणरूपिणी ॥ ११९॥ श्रद्धाकर्षणरूपा च ह्यात्माकर्षणरूपिणी । अमृताकर्षिणी प्रोक्ता शरीराकर्षणी तथा ॥ १२०॥ स्थानानि दक्षिणं श्रोत्रं पृष्ठमंसश्च कूर्परः । दक्षहस्त तलस्याथ पृष्ठं तत्स्फिक्च जानुनी ॥ १२१॥ तज्जङ्घाप्रपदे वामप्रपदादिविलोमतः । चक्रेशीं न्यस्य चक्रं च समर्च्य व्याप्य वर्ष्मणि ॥ १२२॥ न्यसेदनङ्गकुसुमदेव्यादीनामथाष्टकम् । शङ्खजत्रूरुजङ्घासु वामे तु प्रतिलोमतः ॥ १२३॥ अनङ्गकुसुमा पश्चाद्द्वितीयानङ्ग मेखला । अनङ्गमदना पश्चादनङ्गमदनातुरा ॥ १२४॥ अनङ्गरेखा तत्पश्चाद्वेगाख्यानङ्गपूर्विका । ततोऽनङ्गाङ्कुशा पश्चादनङ्गाधारमालिनी ॥ १२५॥ चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि । शक्तिदेवीर्न्यसेत्सर्वसङ्क्षोभिण्यादिका अथ ॥ १२६॥ ललाटगण्डयोरंसे पादमूले च जानुनि । उपर्यधश्च जङ्घायां तथा वामे विलोमतः ॥ १२७॥ सर्वसङ्क्षोभिणी शक्तिः सर्वविद्रा विणी तथा । सर्वाद्याकर्षणी शक्तिः सर्वप्रह्लादिनी तथा ॥ १२८॥ सर्वसम्मोहिनी शक्तिः सर्वाद्या स्तम्भिनी तथा । सर्वाद्या जृम्भिणी शक्तिः सर्वाद्या वशकारिणी ॥ १२९॥ सर्वाद्या रञ्जिनी शक्तिः सर्वाद्योन्मादिनी तथा । सर्वार्थसाधिनी शक्तिस्सर्वाशापूरिणी तथा ॥ १३०॥ सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करा । चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ॥ १३१॥ सर्वसिद्धिप्रदादीनां दशकं चाथ विन्यसेत् । दक्षनासापुटे दन्तमूले दक्षस्तने तथा ॥ १३२॥ कूर्परे मणिबन्धे च न्यस्येद्वामे विलोमतः । सर्वसिद्धिप्रदा नित्यं सर्वसम्पत्प्रदा तथा ॥ १३३॥ सर्वप्रियङ्करा देवी सर्वमङ्गलकारिणी । सर्वाघमोचिनी शक्तिः सर्वदुःखविमोचिनी ॥ १३४॥ सर्व मृत्युप्रशमिनी सर्वविघ्नविनाशिनी । सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी ॥ १३५॥ चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि । सर्वज्ञाद्यान्न्यसेद्वक्षस्यपि दन्तस्थलेष्वथ ॥ १३६॥ सर्वज्ञा सर्वशक्तिश्च सर्वज्ञानप्रदा तथा । सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ १३७॥ सर्वाधारस्वरूपा च सर्वपापहरा तथा । सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी । विज्ञेया दशमी चैव सर्वेप्सितफलप्रदा ॥ १३८॥ चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि । प्राग्वामाद्याश्च विन्यस्य पक्षिण्याद्यास्ततः सुधीः ॥ १३९॥ दक्षे तु चिबुके कण्ठे स्तने नाभौ च पार्श्वयोः । वामा विनोदिनी विद्या वशिता कामिकी मता ॥ १४०॥ कामेश्वरी परा ज्ञेया मोहिनी विमला तथा । अरुणा जयिनी पश्चात्तथा सर्वेश्वरी मता । कौलिनीति समुक्तानि तासां नामानि सूरिभिः ॥ १४१॥ चक्रेश्वरीं न्यसेच्चक्रं समर्प्य व्याप्य वर्ष्मणि । हृदि त्रिकोणं सम्भाव्य दिक्षु प्रागादितः क्रमात् ॥ १४२॥ तद्बहिर्विन्न्यसेद्धीमानायुधानां चतुष्टयम् । न्यसेदग्न्यादिकोणेषु मध्ये पीठचतुष्टयम् ॥ १४३॥ मध्यवृत्तं न्यसित्वा च नित्याषोडशकं न्यसेत् । कामेश्वरी तथा नित्या नित्या च भगमालिनी ॥ १४४॥ नित्यक्लिन्ना तथा नित्या नित्या भेरुण्डिनी मता । वह्निवासिनिका नित्या महावज्रेश्वरी तथा ॥ १४५॥ नित्या च दूती नित्या च त्वरिता तु ततः परम् । कुलसुन्दरिका नित्या कुल्या नित्या ततः परम् ॥ १४६॥ नित्या नीलपताका च नित्या तु विजया परा । ततस्तु मङ्गला चैव नित्यपूर्वा प्रचक्ष्यते ॥ १४७॥ प्रभामालिनिका नित्या चित्रा नित्या तथैव च । एतास्त्रिकोणान्तरेण पादतो हृदि विन्यसेत् ॥ १४८॥ नित्या प्रमोदिनी चैव नित्या त्रिपुरसुन्दरी । तन्मध्ये विन्यसेद्देवीमखण्डजगदात्मिकाम् ॥ १४९॥ चक्रेश्वरीं हृदि न्यस्य कृत्वा चक्रं समुद्धृतम् । प्रदर्श्य मुद्रां योन्याख्यां सर्वानन्दमनुं जपेत् ॥ १५०॥ इत्यात्मनस्तु चक्रस्य चक्रदेवी भविष्यति ॥ १५१॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे श्रीलालितोपाख्याने मन्त्रराजतत्साधनादिकथनं नाम चतुश्चत्वारिशोऽध्यायः ॥ ४४॥ ॥ फलश्रुतिः ॥ य इदं श‍ृणुयाद्दिव्यमाख्यानं कुम्भसम्भव । तस्य सिद्धिः करस्थैव न स भूयोऽभिजायते ॥ १॥ आख्यानं ललितादेव्याः पठेद्यः श‍ृणुयादपि । विधूय सर्वपापानि देवलोके महीयते ॥ २॥ कन्यार्थी लभते कन्यां जयार्थी जयमाप्नुयात् । मोक्षार्थी लभते मोक्षं धर्मार्थी धर्ममाप्नुयात् ॥ ३॥ अर्थकामो लभेदर्थ पुत्रकामो बहून्सुतान् । विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् ॥ ४॥ राज्यार्थी लभते राज्यं ग्रामार्थी ग्राममाप्नुयात् । गर्भिणी लभते पुत्रं कन्या विन्दति सत्पतिम् ॥ ५॥ योऽन्यान्कामयते कामान्मानवः श्रवणादिह । तत्सर्वं शीघ्रमाप्नोति देवानां च प्रियो भवेत् ॥ ६॥ श्रुत्वा चरित्रं श्रीदेव्याः सङ्ग्रामं प्रविशेन्नृपः । स निर्जित्य भयं शत्रून्कल्याणैः परिपूर्यते ॥ ७॥ सर्वव्याधिविनिर्मुक्तः पुत्रपौत्रैः प्रतिष्ठितः । ललिताया उपाख्यानं यमुद्दिश्य पठेत्सकृत् ॥ ८॥ तस्य रोगा न बाधन्ते वातपित्तादिसम्भवाः ॥ ९॥ (one line verse) नाकालमरणं तस्य न सर्पैश्चापि दंश्यते । विषं नाक्रमते देहे न जडत्वं न मूकता ॥ १०॥ नोपसर्गभयं तस्य न चोत्पातभयं तथा । नाभिचारकृतैर्दोषैर्लिप्यते स कदाचन ॥ ११॥ सर्वकामसमृद्धार्थो यः पठेत्तु दिनेदिने । नित्यमूर्जितभक्त्या च दुर्व्याघातादिवर्जितः ॥ १२॥ यत्पुण्यं सर्वतीर्थानां गङ्गादीनां विशेषतः । तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह ॥ १३॥ दशानां राजसूयानामनिष्टोमशतस्य च । श्रवणात्फलमाप्नोति कोटिकोटिगुणोत्तरम् ॥ १४॥ अवध्यः सर्वभूतानामन्येषां च विशेषतः । जीवेद्वर्षशतं सामं सर्वव्याधिविवर्जितः ॥ १५॥ गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः । शरणागतघाती च मित्रविश्वासघातकः ॥ १६॥ दुष्टः पापसमाचारो मातृहा पितृहा तथा । श्रवणादस्य भावेन मुच्यते सर्वपातकैः ॥ १७॥ तीर्थेषु पूजावेलासु विपुवत्ययनेऽपि च । पञ्चपर्वौउ जन्मर्क्षे पुण्येष्वायतनेषु च ॥ १८॥ राज्यक्षोभे रोगभये मारीचोरभयादिषु । ये पठन्तीदमाख्यानं ते संसिद्धिमवाप्नुयुः ॥ १९॥ यत्रेदं लिखितं पुस्ते वर्तते कुम्भसम्भव । तस्मिन्देशे न रोगश्च नच दुर्भिक्षसम्भवः ॥ २०॥ पूजाविधानमखिलं शास्त्रोक्तेनैव वर्त्मना । खण्डान्तरे वदिष्यामि तदाकर्णय कुम्भज ॥ २१॥ द्वात्रिंशल्ललिताख्यानममृतं दिव्यदर्शनम् । देवीमाहात्म्यमपि च पर्यायाः कुम्भसम्भव ॥ २२॥ तस्माद्द्वात्रिंशिकाशास्त्रं ब्रह्माण्डोत्तरकीर्तितम् । देवीसमुत्सवे जाते पठितव्यं प्रयत्नतः ॥ २३॥ देव्यः समस्तास्त्रैलोक्ये यतः श्रीललितात्मिकाः । अतस्ताःस्वस्वपूजासु कुप्यन्त्यस्या अपाठनात् ॥ २४॥ विशेषतस्तु दुर्गायाः सम्प्राप्ते तु महोत्सवे । ब्राह्मणं वरयेद्देव्यै द्वात्रिंशत्पाठकर्मणि ॥ २५॥ स्वयं वापि पठेद्दुर्गासन्निधौ दृढमानसः । एकवारं द्विवारं वा त्रिवारं वा प्रयत्नतः ॥ २६॥ ललिताख्यानपाठस्तु सर्वसिद्धिप्रदायकः । त्रैलोक्यजन्तुजालाढ्यबलेः करणतो यथा ॥ २७॥ ललिताख्यानपाठेन तथा दुर्गा प्रसीदति । अशुचिर्वा शुचिर्वापि यादृक्तादृगवस्थितः ॥ २८॥ पठन्द्वात्रिंशिकापाठं सर्वपापैः प्रमुच्यते । प्रत्यब्दमुत्सवे दौर्गे पाठयेद्भूमिवल्लभः ॥ २९॥ इदं द्वात्रिंशदध्यायसम्मितं दर्शनोत्तमम् । कारणं सर्वसिद्धीनां नास्मात्परतरं महत् ॥ ३०॥ द्वात्रिंशिकाया अस्यास्तु सकृदावर्तनादपि । चण्डिकाकोटिपाठस्य सदृशं फलमुद्भवेत् ॥ ३१॥ आख्यानमेतदवदातगुणाः पठन्तः सत्सम्प्रदायकमपाकृतसर्वदुःखम् । विज्ञानदीपिकलितां ललितामहंशी- मासाद्य चेतसि वहन्ति सदाभितृप्तिम् ॥ ३२॥ ॥ श्रीललितोपाख्यानं समाप्तम् ॥ इति समाप्तं ललितोपाख्यानम् । Proofread by Madhavi Upadrasta
% Text title            : Lalita Upakhyanam
% File name             : lalitopAkhyAnam.itx
% itxtitle              : lalitopAkhyAnam (brahmANDapurANAntargatam)
% engtitle              : lalitopAkhyAnam
% Category              : devii, devI, dashamahAvidyA, lalitA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lalitA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Madhavi Upadrasta
% Description/comments  : From Brahmandapurana uttarabhAga adhyAyas 5-44.  Added phalashruti from the Lalitopakhyanam book.
% Indexextra            : (Scans 1, 2, Translation 1, 2, 3, 4, 5, Tamil, Info)
% Latest update         : March 26, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org