श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम्

श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाय नमः । देव्युवाच देवदेव महादेव त्रिकालज्ञ महेश्वर । करुणाकर देवेश भक्तानुग्रहकारक ॥ १॥ अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः । ईश्वर उवाच देवि साधु महाभागे महाभाग्यप्रदायकम् । सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ २॥ सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् । राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ३॥ दुर्लभं सर्वदेवानां चतुःषष्टिकलास्पदम् । पद्मादीनां वरान्तानां विधीनां नित्यदायकम् ॥ ४॥ समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् । किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥ ५॥ तव प्रीत्याद्य वक्ष्यामि समाहितमनाः श‍ृणुम् । अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥ ६॥ क्लींबीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी । अङ्गन्यासः करन्यास स इत्यादिः प्रकीर्तितः ॥ ७॥ ध्यानम् - वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् । भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ ८॥ सरसिजनयने सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ ९॥ ॐ प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम् । श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ १०॥ वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् । धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ ११॥ अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् । नमामि कमलां कान्तां कामाक्षीं क्रोधसम्भवाम् ॥ १२॥ var कामा क्षीरोदसम्भवाम् अनुग्रहपदां बुद्धिमनघां हरिवल्लभाम् । अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥ १३॥ नमामि धर्मनिलयां करुणां लोकमातरम् । पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥ १४॥ पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् । पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् ॥ १५॥ पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् । नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥ १६॥ चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम् । आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ १७॥ विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् । प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम् ॥ १८॥ भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् । वसुन्धरामुदाराङ्गीं हरिणीं हेममालिनीम् ॥ १९॥ (वसुन्धरामुदाराङ्गां) धनधान्यकरीं सिद्धिं सदा सौम्यां शुभप्रदाम् । नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥ २०॥ शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् । नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ २१॥ विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् । दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम् ॥ २२॥ नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् । त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम् ॥ २३॥ लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् । श्रीमन्मन्दकटाक्षलब्धविभवद्ब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ २४॥ मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः । क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥ २५॥ त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेन्द्रियः । दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः ॥ २६॥ देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् । येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ २७॥ भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् । अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले ॥ २८॥ दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् । येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः ॥ २९॥ भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात् । प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये । पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम् ॥ ३०॥ ॥ इति श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : lakShmyaShTottarashatanAmastotram
% File name             : laxmi108naama.itx
% itxtitle              : lakShmyaShTottarashatanAmastotram 1 (prakRitiM vikRitiM vidyAM)
% engtitle              : lakShmyaShTottarashatanAmastotram
% Category              : aShTottarashatanAma, devii, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Latest update         : July 21, 2004
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org