श्रीमातृस्तवः

श्रीमातृस्तवः

चाञ्चल्यारणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं चारुस्मेरमुखीं चराचरजगत्संरक्षणीं तत्पदाम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवावासिनीं भगवतीं श्रीमातरं भावये ॥ १॥ कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिभालस्थली कर्पूरद्रवमिश्रचूर्णखदिरां मेदोलसद्द्वीपिकाम् । लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २॥ राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां राजीवप्रभवादिदेवमकुटीराजत्पदाम्भोरुहाम् । राजीवायतमन्दमण्डितरुचां राजाधिराजेश्वरी श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३॥ षट्ताराङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापहां षटचक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् । षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४॥ श्रीनाथात् कृतपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्याकृता(ति)म् । दीनानामतिवेगभाग्यजननीं दिव्याम्बरालङ्कृतां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५॥ लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् । भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनी श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६॥ धन्य(स्सो)(स्तो) मविभावनीयचरितां धाराधरश्यामलां मुन्याराधनमेधिनीं शमवतां मुक्तिप्रदानव्रताम् । कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७॥ कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थिता- मष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् । कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८॥ गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालङ्कृताम् । गङ्गागौतमगर्गसन्नुतपदां गां गौतमीं गोमतीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९॥ इति श्रीमातृस्तवः सम्पूर्णः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Matri Stava 08 02
% File name             : mAtRRistavaH.itx
% itxtitle              : mAtRistavaH
% engtitle              : mAtRistavaH
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-02
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org