श्रीमातृस्तवः
चाञ्चल्यारणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं
चारुस्मेरमुखीं चराचरजगत्संरक्षणीं तत्पदाम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवावासिनीं भगवतीं श्रीमातरं भावये ॥ १॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिभालस्थली
कर्पूरद्रवमिश्रचूर्णखदिरां मेदोलसद्द्वीपिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २॥
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां
राजीवप्रभवादिदेवमकुटीराजत्पदाम्भोरुहाम् ।
राजीवायतमन्दमण्डितरुचां राजाधिराजेश्वरी
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३॥
षट्ताराङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापहां
षटचक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४॥
श्रीनाथात् कृतपालितत्रिभुवनां श्रीचक्रसञ्चारिणीं
ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्याकृता(ति)म् ।
दीनानामतिवेगभाग्यजननीं दिव्याम्बरालङ्कृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५॥
लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं
सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् ।
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनी
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६॥
धन्य(स्सो)(स्तो) मविभावनीयचरितां धाराधरश्यामलां
मुन्याराधनमेधिनीं शमवतां मुक्तिप्रदानव्रताम् ।
कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७॥
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थिता-
मष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।
कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८॥
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां
गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालङ्कृताम् ।
गङ्गागौतमगर्गसन्नुतपदां गां गौतमीं गोमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९॥
इति श्रीमातृस्तवः सम्पूर्णः ।
Proofread by Rajesh Thyagarajan