मातङ्गी स्तोत्रम्
नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम् ।
सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १॥
रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् ।
गुंजाहारस्तनाढ्यान्तां परंज्योतिस्वरूपिणीम् ॥ २॥
मारणं मोहनं वश्यं स्तम्भनाकर्ष दायिनी ।
मुण्ड कर्त्रिं शरावामां परंज्योतिस्वरूपिणीम् ॥ ३॥
स्वयम्भुकुसुम प्रीतां ऋतुयोनिनिवासिनीम् ।
शवस्थां स्मेरवदनां परंज्योतिस्वरूपिणीम् ॥ ४॥।
रजस्वला भवेन्नित्यं पूजेष्टफलदायिनी ।
मद्यप्रियं रतिमयीं परंज्योतिस्वरूपिणीम् ॥ ५॥
शिवविष्णुविरञ्चीनां साद्यां बुद्धिप्रदायिनीम् ।
असाध्यं साधिनीं नित्यां परंज्योतिस्वरूपिणीम् ॥ ६॥
रात्रौ पूजा बलियुतां गोमांस रुधिरप्रियाम् ।
नानाऽलङ्कारिणीं रौद्रीं पिशाचगणसेविताम् ॥ ७॥
इत्यष्टकं पठेद्यस्तु ध्यानरूपां प्रसन्नधीः ।
शिवरात्रौ व्रतेरात्रौ वारूणी दिवसेऽपिवा ॥ ८॥
पौर्णमास्याममावस्यां शनिभौमदिने तथा ।
सततं वा पठेद्यस्तु तस्य सिद्धि पदे पदे ॥ ९॥
इति एकजटा कल्पलतिका शिवदीक्षायान्तर्गतम् मातङ्गी स्तोत्रं सम्पूर्णम् ॥
Proofread by Aruna Narayanan narayanan.aruna at gmail.com