श्रीमहालक्ष्मीस्तवकवचपूजा

श्रीमहालक्ष्मीस्तवकवचपूजा

श्रीगणेशाय नमः । नारद उवाच । आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ । महालक्ष्म्याश्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन ॥ १॥ नारायण उवाच । पुष्करे च तपस्तप्त्वा विरराम सुरेश्वरः । आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम् ॥ २॥ तमुवाच हृषीकेशो वरं वृणु यथेप्सितम् । स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा ॥ ३॥ वरं दत्त्वा हृषीकेशः प्रवक्तुमुपचक्रमे । हितं सत्यं च सारं च परिणामसुखावहम् ॥ ४॥ मधुसूदन उवाच । गृहाण कवचं शक्र सर्वदुःखविनाशनम् । परमैश्वर्यजनकं सर्वशत्रुविमर्दनम् ॥ ५॥ ब्रह्मणे च पुरा दत्तं विष्टपे च जलप्लुते । यद्धृत्वा जगतां श्रेष्ठः सर्वैश्वर्ययुतो विधिः ॥ ६॥ बभूवुर्मनवः सर्वे सर्वैश्वर्ययुता यतः । सर्वैश्वर्यप्रदस्यास्य कवचस्य ऋषिर्विधिः ॥ ७॥ पङ्क्तिश्छन्दश्च सा देवी स्वयं पद्मालया वरा । सिद्ध्यैश्वर्यसुखेष्वेव विनियोगः प्रकीर्तितः ॥ ८॥ यद्धृत्वा कवचं लोकः सर्वत्र विजयी भवेत् । मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया ॥ ९॥ नासिकां पातु मे लक्ष्मीः कमला पातु लोचने । केशान्केशवकान्ता च कपालं कमलालया ॥ १०॥ जगत्प्रसूर्गण्डयुग्मं स्कन्धं सम्पत्प्रदा सदा । ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदाऽवतु ॥ ११॥ ॐ ह्रीं श्रीं पद्मालयायै स्वाहा वक्षः सदाऽवतु । पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः ॥ १२॥ ॐ ह्रीं श्रीं लक्ष्म्यै नमः पादौ पातु मे सन्ततं चिरम् । ॐ ह्रीं श्रीं नमः पद्मायै स्वाहा पातु नितम्बकम् ॥ १३॥ ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा । ॐ ह्रीं श्रीं क्लीं महालक्ष्म्यै स्वाहा मां पातु सर्वतः ॥ १४॥ इति ते कथितं वत्स सर्वसम्पत्करं परम् । सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ १५॥ गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः । कण्ठे वा दक्षिणे बाहौ स सर्वविजयी भवेत् ॥ १६॥ महालक्ष्मीर्गृहं तस्य न जहाति कदाचन । तस्यच्छायेव सततं सा च जन्मनि जन्मनि ॥ १७॥ इदं कवचमज्ञात्वा भजेल्लक्ष्मीं स मन्दधीः । शतलक्षप्रजापेऽपि न मन्त्रः सिद्धिदायकः ॥ १८॥ नारायण उवाच । दत्त्वा तस्मै च कवचं मन्त्रं वै षोडशाक्षरम् । सन्तुष्टश्च जगन्नाथो जगतां हितकारणम् ॥ १९॥ ॐ ह्रीं श्रीं क्लीं नमो महालक्ष्म्यै स्वाहा । ददौ तस्मै च कृपया चेन्द्राय च महामुने ॥ २०॥ ध्यानं च सामवेदोक्तं गोपनीयं सुदुर्लभम् । सिद्धैर्मुनीन्द्रैर्दुष्प्राप्यं ध्रुवं सिद्धिप्रदं शुभम् ॥ २१॥ श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् । वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २२॥ ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् । कस्तूरीबिन्दुमध्यस्थं सिन्दूरं भूषणं तथा ॥ २३॥ अमूल्यरत्नरचितकुण्डलोज्ज्वलभूषणम् । बिम्रती कबरीभारं मालतीमाल्यशोभितम् ॥ २४॥ सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् । शान्तां च श्रीहरेः कान्तां तां भजेज्जगतां प्रसूम् ॥ २५॥ ध्यानेनानेन देवेन्द्रो ध्यात्वा लक्ष्मीं मनोहराम् । भक्त्या सम्पूज्य तस्यै च चोपचारांस्तु षोडश ॥ २६॥ स्तुत्वाऽनेन स्तवेनैव वक्ष्यमाणेन वासव । नत्वा वरं गृहीत्वा च लभिष्यसि च निर्वृतिम् ॥ २७॥ स्तवनं श‍ृणु देवेन्द्र महालक्ष्म्याः सुखप्रदम् । कथयामि सुगोप्यं च त्रिषु लोकेषु दुर्लभम् ॥ २८॥ नारायण उवाच । देवि त्वां स्तोतुमिच्छामि न क्षमाः स्तोतुमीश्वराः । बुद्धेरगोचरां सूक्ष्मां तेजोरूपां सनातनीम् । अत्यनिर्वचनीयां च को वा निर्वक्तुमीश्वरः ॥ २९॥ स्वेच्छामयीं निराकारां भक्तानुग्रहविग्रहाम् । स्तौमि वाङ्मनसोः पारां किंवाऽहं जगदम्बिके ॥ ३०॥ परां चतुर्णां वेदानां पारबीजं भवार्णवे । सर्वसस्याधिदेवीं च सर्वासामपि सम्पदाम् ॥ ३१॥ योगिनां चैव योगानां ज्ञानानां ज्ञानिनां तथा । वेदानां वै वेदविदां जननीं वर्णयामि किम् ॥ ३२॥ यया विना जगत्सर्वमबीजं निष्फलं ध्रुवम् । यथा स्तनन्धयानां च विना मात्रा सुखं भवेत् ॥ ३३॥ प्रसीद जगतां माता रक्षास्मानतिकातरान् । वयं त्वच्चरणाम्भोजे प्रपन्नाः शरणं गताः ॥ ३४॥ नमः शक्तिस्वरूपायै जगन्मात्रे नमो नमः । ज्ञानदायै बुद्धिदायै सर्वदायै नमो नमः ॥ ३५॥ हरिभक्तिप्रदायिन्यै मुक्तिदायै नमो नमः । सर्वज्ञायै सर्वदायै महालक्ष्म्यै नमो नमः ॥ ३६॥ कुपुत्राः कुत्रचित्सन्ति न कुत्रापि कुमातरः । कुत्र माता पुत्रदोषं तं विहाय च गच्छति ॥ ३७॥ स्तनन्धयेभ्य इव मे हे मातर्देहि दर्शनम् । कृपां कुरु कृपासिन्धो त्वमस्मान्भक्तवत्सले ॥ ३८॥ इत्येवं कथितं वत्स पद्मायाश्च शुभावहम् । सुखदं मोक्षदं सारं शुभदं सम्पदः प्रदम् ॥ ३९॥ इदं स्तोत्रं महापुण्यं पूजाकाले च यः पठेत् । महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ॥ ४०॥ इत्युक्त्वा श्रीहरिस्तं च तत्रैवान्तरधीयत । देवो जगाम क्षीरोदं सुरैः सार्धं तदाज्ञया ॥ ४१॥ ॥ इति श्रीब्रह्मवैवर्तमहापुराणे गणपतिखण्डे नारदनारायणसंवादे लक्ष्मीस्तवकवचपूजाकथनं नाम द्वाविंशोऽध्यायः ॥ २२॥ Encoded and proofread by Kirk Wortman kirkwort at hotmail.com
% Text title            : mahAlakShmIstavakavachapUjA
% File name             : mahAlakShmIstavakavachapUjA.itx
% itxtitle              : mahAlakShmIstavakavachapUjA (brahmavaivartapurANAntargatam)
% engtitle              : mahAlakShmIstavakavachapUjA
% Category              : kavacha, devii, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kirk Wortman kirkwort at hotmail.com
% Proofread by          : Kirk Wortman kirkwort at hotmail.com
% Description-comments  : brahmavaivartamahApurANe gaNapatikhaNDe adhyAya 22
% Latest update         : January 18, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org