श्रीमहामार्याष्टकम्
श्री गणेशाय नमः ।
ॐ अस्य श्रीमहामार्याष्टकस्तोत्रमन्त्रस्य वररुचिऋषिः,
अनुष्टुप्छन्दः, श्रीमहामारी महाशक्तिर्देवता, ॐ काली बीजं,
ॐ महाकाली शक्तिः, ॐ भद्रकाली कीलकं, मम महामारीभय-
भूतप्रेतपिशाचब्रह्मराक्षसडाकिनीशाकिनीसर्वोपद्रव
शमनकामनाया धर्मेऽष्टकाम्यसिद्ध्यर्थे जपे विनियोगः ॥
अथ ऋष्यादि न्यासः ।
ॐ वररुचिऋषये नमः शिरसि ।
ॐ अनुष्टुप्छन्दसे नमः मुखे ।
ॐ महामारी महाशक्तिर्देवताय नमः हृदये ।
ॐ काली बीजाय नमः गुह्ये ।
ॐ महाकाली शक्तये नमः पादयो ।
ॐ भद्रकाली कीलकाय नमः सर्वाङ्गे ॥
अथ करन्यासः ।
ॐ काली अङ्गुष्ठ्याभ्यां नमः ।
ॐ महाकाली तर्जनीभ्यां नमः ।
ॐ भद्रकाली मध्यमाभ्यां नमः ।
ॐ महामाया देवी अनामिकाभ्यां नमः ।
ॐ महादेवी कनिष्ठिकाभ्यां नमः ।
ॐ महामारी भयनिवारिणी करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयादि न्यासः ।
ॐ काली हृदयाय नमः ।
ॐ महाकाली शिरसे स्वाहा ।
ॐ भद्रकाली शिखायै वषट् ।
ॐ महामाया देवी कवचाय हुं ।
ॐ महादेवी नेत्रत्रयायै वौषट् ।
ॐ महामारी भयनिवारिणी अस्त्राय फट् ।
अथ ध्यानम् ।
क्षुत्क्षामा कोटराक्षी मसिमलिनमुखी मुक्तकेशी रुदन्ती
नाहं तृप्ता वदन्ती जगदखिलमिदं ग्रासमेकं करोमि ।
हस्ताभ्यां धारयन्ती ज्वलदनलशिखासन्निभं पाशमुग्रम् ।
दन्तैर्जम्बूफलाभैः परिहरतु भयं पातुमां भद्रकाली ॥
अथ मन्त्रः ।
``हौं काली महाकाली किलि किलि फट् स्वाहा ।''
अथ स्तोत्रम् ।
प्रणम्य देवी जगतां धरित्री वहन्ती धात्रीं गुणात्मधारिणी ।
त्रैकालिकी बोधन कार्यसिद्धिं मार्यष्टकं स्यात् पठते मनुष्यः ॥ १॥
कौलाख्ये चित्रकूटे हिमगिरिशिखरे पाञ्चजालान्धदेशे
सौराष्ट्रे सिन्धुदेशे मगधपुरगताधाम रूपे मृगेन्द्रे ।
पातालेचान्तरिक्षे सकलभुविगता सर्वलोकप्रसिद्धा
सामेकामान्ददातु प्रहसित वदना चण्डमौण्डी प्रचण्डा ॥ २॥
ब्रह्माणी कमलेन्दु सौम्यवदना माहेश्वरी लीलया
कौमारी रिपुदर्प्पनाशनकरी चक्रायुधा वैष्णवी ।
वाराही घनघोर घर्घरमुखी ऐन्द्री च वज्रायुधा
चामुण्डा गणदेवरुद्रसहिता रक्षन्तु मे मातरः ॥ ३॥
श्री मद्दत्येरगेन्द्रे हरमकुटजटाजूट पादारविन्दे माद्यं
मातङ्गकुम्भो शशिधरधवरा पद्मपत्रायताक्षी ।
ज्वालामालातिरुष्टः प्रहसितवदना देवि मां रक्षरक्षः ॥ ४॥
बद्ध्वा खट्वाङ्ग कौटौ कपिल मुरुजटामण्डलं पद्मयोने
कृत्वा दैत्योत्तमाङ्गैस्रजसुरसिशिरः शेषरं तार्क्ष्यपक्षैः ।
पूर्णारक्ताशवाद्यैर्यममहिष महाशृङ्गमादाय पाणौ
पायान्नावन्द्यमानः प्रलयेमुदित ये भैरवः कालरात्री ॥ ५॥
त्रैलोत्यक्तैकवेणी त्रपुमयविरसत्कर्णिका क्रान्तवर्णा
लोहेनैकेन कृत्वा चरणनिगदते मात्मनः पादशोभाम् ।
दिग्धासारासभेन भ्रमति जगदिदं जाजराकर्णपूरा
बद्धप्रबद्धः बद्धध्वजवितत भुजासापि देवी प्रसीद ॥ ६॥
दंष्ट्रा रौद्रे मुखस्मिन् स्तवविशति जगद्देवि सर्वक्षणेन
संसारस्यान्त कालेनररुधिर वसात् सम्प्लवोद्धूमधूमे ।
काली कापालिनीत्वं शवशयननता योगिनी योगमुद्रा वक्त्रा
ऋज्वा च मारीमरणभय हरात्वं शिवा चण्डघण्टा ॥ ७॥
सङ्ग्रामे हेति कृत्वासुरुचिर दशनैः सहटानां शिरोभिः
मालामावर्द्ध नृत्य द्वि तत भुजलतात्वं श्मशाने प्रविष्टा ।
दृष्ट्वा भूतैः प्रभुतैः पृथु जघनघनाबद्धनागेन्द्रकाङ्ची
मूलासिव्यग्रहस्ता रुधिरमधुमदात्ताम्र नेत्रा निशायाम् ॥ ८॥
कर्तर्युत्कृत्त प्रचि प्रमथे ए प्राण सृक् तत पटिका वेष्टितं स्फिक्
स्फुटार्था साध्यानालान्त नाली घटित मुखमयी घण्टितोद्यष्ट घण्टा ।
प्रत्यग्न प्रोहटा सृक् स्तुतवहर वशादत्त चर्चीर्च्चितायाः
पायात्कापालिनी मां दशनमठ थ घ च्छोटिका प्रेत मांसा ॥ ९॥
कृत्वा पाताल मूलात् क्रमकरणरणच्छूष्मशोभा हि तन्त्री
मांसस्य ग्रन्थिबद्ध भ्रम चरण नमस्कन्धरामेढकेट ।
कल्पन्ति भद्रकालीय मम हिषमहाशृङ्गकोण प्रहारी
पायान्नो वादयन्ती प्रलय परिगता ब्रह्मकङ्कालवीणा ॥ १०॥
विष्वक् संसार घोर ज्वलदनलशिखाभासदुत्तान सूत्र
प्रोतः प्रेतात सूत्र ग्रथित शवशिरः सर्पनद्धार्द्धजूटा ।
सद्यः कृत्वा समिश्रासुर जगदिति जत्वकपटी मोदधाना
चामुण्डा चण्डमुण्डी मथमथित शिरः चर्च्चयन्ती पुनातु ॥ ११॥
भद्रां रौद्रीं मनीयां मनपिसित मुखीं वामपूर्णामिदिक्षुः
ताभ्राताञ्च सद्य नतिनद्दशा मातरस्त्वानमन्ति ।
शुक्लाद्यामस्तु गति प्रतिदिन मसकृत्व्या मलाङ्गी मलम् ॥ १२॥
वामे कर्णे मृगाङ्कं प्रलये परिगतं दक्षिणे सूर्यबिम्बं
कण्ठेन क्षत्रहारं परिविकटजटाजूटकेकेतुमालम् ।
स्कन्धे बद्धोरगेन्द्रे ध्वजनिगतयुतं ब्रह्मकङ्काल हालाँ
प्रध्वस्ताध्वस्तटान्तं प्रतिनयन विधौपानपात्रा भवेत्मा ॥ १३॥
चर्वन्तिमस्थि खण्डं प्रकटकटकटाशब्द सङ्घातमुग्रं
कुर्वाणो प्रेतमध्ये स क ह क हक हा हास्यमुग्रं कृशाङ्गी ।
नित्यं नृत्ये प्रशक्ता डमरु डिमिडिमाडिण्डिमा स्फारयन्ती
पायान्नोश्चण्डीकेयं झ झ म झम झमा झं पमानात्रमन्ती ॥ १४॥
मृत्युर्न्नश्यत्युपापोप्य पसरति शुचानोपसम्पत्येमित्रा
नश्यन्ति व्याधयश्च प्रलयमनुसरच्चान्य पीडाग्रहश्च ।
भूताप्रेतापिशाचा विषमविषघरावृश्चिकादग्निचौरा
मार्यास्तोत्र पठन्तं वररुचिरचितं तस्य सन्तीह देव्याः ॥ १५॥
मार्याभट्टारिकायास्तुतिमघ दहनीये पठन्तीह भक्त्या
सन्ध्याकालान्तकाले वररुचिरचितं तद्गतागैकचित्ताः ।
तेषां दारिद्ररोगा ज्वलमरणभयं नाशयन्त्पाशुमाता
संसारे घोरयन्ती ममहरतु भयं भद्रदा भद्रकाली ॥ १६॥
मारीरोग मसूरिकाभयहरं वेतालभूतापहं
चौरव्याघ्र महोरगादि विषहंशीत ज्वरार्च्चाटनम् ।
स्त्री सौभाग्य दयावहं शुचिकरं वर्चः सुपुत्रप्रदं
तन्मार्यष्टकमन्त्रमिष्टफलदं स्तोत्रं त्रिसन्ध्यं पठेत् ॥ १७॥
॥ इति श्रीरुद्रयामले कालीखण्डे वररुचिरचितं महामार्याष्टकं सम्पूर्णम् ॥
Verses 4 and 12 have three lines.
Encoded and proofread by Ravin Bhalekar ravibhalekar at hotmail.com