महामायादेवीस्वरूपध्यानम्
शोणपद्मप्रतीकाशां मुक्तमूर्धजलम्बिनीम् ॥ २४॥
चलत्काञ्चनामारुह्य कुण्डलोज्ज्वलशालिनीम् ।
सुवर्णरत्नसम्पन्नकिरीटद्वयधारिणीम् ॥ २५॥
शुक्लकृष्णारुणैर्नेत्रैस्त्रिभिश्चारुविभूषिताम् ।
सन्ध्याचन्द्रसमप्रख्यकपोलां लोललोचनाम् ॥ २६॥
विपक्वदाडिमीबीजदन्तान् सुभ्रूयुगोज्ज्वलाम् ।
बन्धूकदन्तवसनां शिरीषप्रभनासिकाम् ॥ २७॥
कम्बुग्रीवां विशालाक्षीं सूर्यकोटिसमप्रभाम् ।
चतुर्भुजां विवसनां पीनोन्नतपयोधराम् ॥ २८॥
दक्षिणोर्ध्वेन निस्त्रिंशत्परेण सिद्धसूत्रकम् ।
बिभ्रतीं वामहस्ताभ्यामभीतिं वरदायिनीम् ॥ २९॥
निम्ननाभिक्रमायातां क्षीणमध्यां मनोहराम् ।
आनमन्नागपाशोरूं गुप्तगुल्फां सुपार्ष्णिकाम् ॥ ३०॥
बद्धपर्यङ्कसङ्कल्पां नीवारासनराजिताम् ।
गात्रेण रत्नसंस्तम्भं सम्यगालम्ब्य संस्थिताम् ॥ ३१॥
किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः ।
पञ्चाननं पुरःसंस्थं निरीक्षन्तीं सुवाहनम् ॥ ३२॥
मुक्तावलीस्वर्णरत्नहारकेयूरकङ्कणादिभिः ।
सर्वैरलङ्कारगणैरुज्ज्वलां सस्मिताननाम् ॥ ३३॥
सूर्यकोटिप्रतीकाशां सर्वलक्षणसंयुताम् ।
नवयौवनसम्पन्नां तथा सर्वाङ्गसुन्दरीम् ॥ ३४॥
इति कालिकापुराणे त्रिपञ्चाशत्तमाध्यायान्तर्गतं
महामायादेविस्वरूपध्यानं सम्पूर्णम् ।
Proofread by PSA Easwaran