श्रीविद्या महाशक्तिन्यासः

श्रीविद्या महाशक्तिन्यासः

योनिरित्युच्यते शक्तिरेषा ब्रह्माण्डभेदिनी । लेपं विलीनयेद्देहे रेफो बिन्दुरिति स्मृतः ॥ १॥ द्वासप्ततिसहस्रेषु नाडीभेदेषु पञ्जरम् । व्याप्यमाना महाशक्तिः कामिनीनामृतुक्रमे ॥ २॥ नाडीचक्रागतं रक्तं योनिमार्गे निपातितम् । पुष्पीभूते भगे पुष्पं मासपक्षादिषु क्रमात् ॥ ३॥ ऐङ्कारोऽपि स्वयं योनिर्नात्र कार्या विचारणा । न्यस्तं वाप्यत्र देवेशिः ! त्रैलोक्यं सचराचरम् ॥ ४॥ इत्यन्त श्लोकसमुदायस्याऽर्थं चिन्तयन् महाकामकलायां ब्रह्मरन्ध्रस्थायां लयं भावयित्वा ब्रह्मरन्ध्रे ॐ ३ नमः । नादमध्ये ॐ ३। ॐ ३ नमः । नादान्ते ॐ ३। ॐ ३ नमः कण्ठे ॐ ३। ३ अः नमः । हृदि ॐ ३ । ३ कं नमः । एवं मस्तके खं नमः । जङ्घयो गं नमः । स्तनयोः घं नमः । नासिकान्ते ङं नमः । आज्ञायां चं नमः । वामकुक्षौ छं नमः । दक्षिणकुक्षौ जं नमः । उरुमूलयोः झं नमः । दन्तपङ्क्त्योः ञं नमः । जिह्वाग्रे टं नमः । मुखे ठं नमः । कक्षयोः डं नमः । अस्थिसन्धिषु ढं नमः । चित्ते णं नमः । नाभौ तं नमः । ललाटे थं नमः । कर्णरन्ध्रयोः दं नमः । कपालयोः धं नमः । नयनयो नं नमः । श्वेतसहस्रदलकमले पं नमः । हृत्पद्मे फं नमः । स्कन्धयो बं नमः । भूमध्ये भं नमः । हनुमूले मं नमः । तालुमूले यं नमः । लिङ्गगुदयोर्मध्ये रं नमः । जिह्वायां लं नमः । सर्वाङ्गे वं नमः । वामादिदक्षिणशिरः - पर्यन्तमापादतलवेष्टत्वेन शं नमः । तालुमूलेषु षं नमः । सर्वाङ्गे सं नमः । ब्रह्मरन्ध्रे हं नमः । हस्तपादयोः सर्वाङ्गुलीषु क्षं नमः । प्रागुक्तमूलाधारस्थितकुण्डलिन्याम् ३ ॐ । ३ ॐ इति विन्यस्य ॐ ३ । ॐ ३ समस्तमातृकामुच्चरन् तां कुण्डलिनीं सुषुम्नावर्त्मना षट्चक्रभेदक्रमेण ब्रह्मरन्ध्रं नीत्वा तत्रस्थाकुलसहस्रदलकमलकर्णिकामध्यस्थितपरमात्मनि शिवे विलीना विभाव्य ॐ ३ । ३ रक्षरक्ष शूलिनि त्रैलोक्यानन्ददायिनि त्रिपुरे देवि । रक्ष मां त्रिपुरेश्वरि ! रक्ष रक्ष महादेवि अस्मदीयमिदं वपुः ऐं ह्रीं श्रीं हस्फ्रें ह्सौः २ हस्फ्रें श्रीं ह्रीं ऐं श्रीं समयिनि मदिरानन्दसुन्दरि समस्तसुरासुरवन्दिते भुजङ्गभूपालमौलिमालालङ्कतचरणकमले विकटदन्तच्छटाटोपनिवारिणि मदीयं शरीरं रक्ष रक्ष परमेश्वरि हुं फट् स्वाहा ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा ॐ भूर्भुव स्वः स्वाहा नरान्त्रमालाभरणभूषिते महाकौलिनि महाब्रह्मवादिनि महाधनोन्मादनकारिणि महाभोगप्रदे अस्मदीय शरीरं वज्रमयं कुरु कुरु दुर्जनान् हन हन दुष्टमहीपालान् भक्षय भक्षय परचक्रं भञ्जय भञ्जय जयङ्करि गगनगामिनि त्रैलोक्यस्वामिनि यमलवरयूं भमलवरयूं वमलवरयूं शमलवरयूं श्रीभैरवि प्रसादय स्वाहा । कुलाङ्गना कुलं सर्वं मदीयं त्रिपुरेश्वरि ! । देवी रक्षतु दिव्याङ्गी दिव्यात्मा भोगदायिनि ! ॥ १॥ रक्ष रक्ष महादेवि ! शरीरं परमेश्वरि ! मदीयं मदिरानन्दे आपादतलमस्तकम् ॥ २॥ इत्यात्मरक्षां कृत्वा, त्रिपुराख्या महादेवी भुक्तिमुक्तिफलप्रदा । न गुरोः सदृशं वस्तु न देवः शङ्करोपमः ॥ ३॥ न च कौलात्परो योगो न विद्या त्रैपुरीसमा । न च शान्तेः परं ज्ञानं न च क्षान्तेः परं सुखम् ॥ ४॥ न च शक्तिसमो न्यासो न विद्या त्रैपुरीसमा । दर्शनेषु समस्तेषु पाखण्डेषु विशेषतः ॥ ५॥ दिव्यरूपा महादेवी सर्वत्र परमेश्वरी । इति मन्त्रविद्ययोमहिमान स्मृत्वा ``पीठोपपीठशिरस्था गगनगिरिभुवन- गिरिभुवनगोकुलनिवासिनी जयति कुलशक्त्तिमहीतलपातालनिवासिनी कुलकौल- विभेदिनी सकलजनमन आनन्दकारिणी करोतु मम चिन्तितं कार्यं भैरवीशतमेकं पुनातु परमेश्वरी मदनमण्डलालम्बिनी सप्तकोटिसहस्राणां मन्त्राणां परमेश्वरी'' इति मन्त्रं सकृज्जपित्चा, ``ऐं नमो भगवति त्रिकोणे त्रिधावर्ते महालिङ्गालङ्कृते त्रैलोक्योत्पत्तिस्थितिप्रलयकारिणि सहल ह्रीं कन्दर्पानन्ददायिनि सहहीं ब्रह्मदण्डरेखे सहहौं चित्स्वरूपेण पाशाङ्कुशालङ्कृते वद वद वाग्वादिनि श्रीं मूष्टपालराज्यपदे ऐं वं वरदाशिवहस्ते समस्तजनानन्दकारिणि क्लीं क्लीं कामराजबीजाश्रये द्रां द्रीं क्लीं ब्लूं सः क्षोभय क्षोभय क्षोभिणि ह्सौः ह्सः ह्सौः मथ मथ अभयप्रदायिनि चतुर्भुजे त्रिनेत्रे प्रेतासनोच्चारिणि महाकपालमालालङ्कृते चन्द्रशेखरे भुक्तिमुक्तिफलप्रदे ॐ ऐं ॐ नमः सिद्धं अं ५१ क्षमित्यादिविलोमेनाकारान्तं ५१ सिद्धं मनः ॐ ऐं ॐ सर्वबीजमातः श्रीसमयिनि मम मनोरथं देहि देहि स्वाहा ॥'' एवं जपित्वा ``ऐं ईं सौः श्रीमन्त्रराजाय नमः'' इति त्रैपुरमन्त्रस्य पूजा विधाय त्रिपुरादिमहानाम्ना त्रयोदशविद्या पूजयेत् । (१) ॐ ऐं स हौ स ह ल ह्रीं स ह ह्रौः ऐं स ह ह्रीं स ह हूं कामत्रिपुरायै नमः । (२) ॐ ऐं ह्रीं क्लीं ह सौः त्रिपुरभैरव्यै नमः । (३) ॐ ३ ऐं ह्रीं सः वाक्त्रिपुरायै नमः । (४) ॐ ऐं ह्रीं श्रीं सौः महालक्ष्यै त्रिपुरायै नमः । (५) ॐ ऐं प्रें क्लीं मोहिन्यै त्रिपुरायै नमः । (६) ॐ ऐं क्लीं ब्लूं स्त्रीं भ्रामरीत्रिपुरायै नमः । (७) ॐ ३ ऐं ह्रीं श्रीं प्रें ह सौः त्रैलोक्यस्वामिन्यै त्रिपुरायै नमः । (८) ॐ ऐं डां डीं डूं डैं डौं डः हंस्यै त्रिपुरायै नमः । (९) ऐं ऐं ऐं सौः कौलिकायै त्रिपुरायै नमः । (१०) ऐं ऐं सौः षण्डिकायै त्रिपुरायै नमः । (११) ऐं ऐं सौः तालुमध्यमायै त्रिपुरायै नमः । (१२) ऐं ऐं सौः कपालाङ्कुरवासिन्यै त्रिपुरायै नमः । (१३) ठः ठः ठः ॥ यथाशक्ति जपित्वा, रक्तपुष्पैः शिरसि ऐं ईं सौः आत्मदेहाय नमः - इति गन्धाक्षतैश्च सप्तधा सम्पूज्य, धूपदीपौ, निवेद्य,तस्मिन्नेव त्रिपुरे देहे ``ऐं ईं सौः'' इति वनिताक्षोभकरीं महाकामकलां ध्यायेत् । ततः श्लोकशतकं न्यासानुसन्धानेन पठेत् ।

शक्तिन्यासश्लोकशतकम्

शक्तिरुद्रमयं देहं मदीयं त्रिपुरे कुरु । देहि मे देवदेवेशि ! वरं नित्यमभीप्सितम् ॥ १॥ मस्तकं मङ्गला देवी ललाटं कुलसुन्दरी । नेत्रयुग्मं महाकाली कर्णौ रक्षतु कुण्डली ॥ २॥ कपाली कर्णगर्भं तु कपोलौ कमलावती । दन्तान् रक्षतु चामुण्डा चिबुके मेरुवासिनी ॥ ३॥ भ्रूमध्यं कण्ठदेशं च रक्ष मे भुवनेश्वरी । जिह्वां सरस्वती रक्षेत् तालुकं तालुवासिनी ॥ ४॥ स्थातु मे कपिला स्कन्धे स्कन्धां वामां) से कुलमालिनी । कुक्षौ विनायकी स्थातु जयानन्दा स्तनद्वये ॥ ५॥ कण्ठकूपे महालक्ष्मीर्हृदये चण्डभैरवी । ब्रह्माणी नाभिदेशे तु स्थातु ज्वालावती गुदे ॥ ६॥ लिङ्गे लिङ्गप्रभा चैव मुण्डिनी मेदमण्डले । नाडीचक्रे महायोगा उद्भटा दक्षिणे करे ॥ ७॥ वामहस्ते महामाया विद्या हस्ताङ्गुलीषु च । वैष्णवी वामपादे च स्थातु चक्रायुधान्विता ॥ ८॥ तथा दक्षिणपादान्ते एकपादा सुरेश्वरी । पादाङ्गुलीषु कौबेरी रोमकूपे महोद्भटा ॥ ९॥ मण्डली नस्यमूले तु वाराही मेदमण्डले । जालन्धरी जलस्थाने कामाक्षी काममध्यगा ॥ १०॥ उद्भटा नाभिलिङ्गान्ते नासाग्रे पूर्णपीठगा । पृष्ठवंशे जया देवी अस्थिसन्धिषु चर्चिता ॥ ११॥ चर्मधारी त्वचायां तु स्थातु नित्यं महाशयाः । रक्तमध्ये मनोऽन्ते च स्थातु मे हिंसनी शुभा ॥ १२॥ माहेश्वरी च कौमारी द्वे चैते स्थातु जङ्घयोः । वामदक्षिणयोश्चैव वीराली कटिसन्धिषु ॥ १३॥ देवी रक्षतु मे गात्रं मस्तकं कुलकामिनी । पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ १४॥ पञ्चभूतेषु भूतेशी सदा रक्षतु मे कुलम् । राज्यं ददातु मे चैन्द्री पूजां चैव प्रजावती ॥ १५॥ माया ददातु मे नित्यं धनं धान्यं यशस्तथा । रणे राजकुले चैव शत्रुमध्ये महावने ॥ १६॥ रक्तनेत्रा महादेवी करोतु मम चिन्तितम् । समया समयं रक्षेद्विद्यां विद्या कुलागमे ॥ १७॥ साधकानां जगन्नाथा भुक्तिमुक्तिफलप्रदा । प्राणा करोतु मे सिद्धिं त्रैलोक्यविजया सुखम् ॥ १८॥ घण्टाली या महाविद्या सा मे यच्छतु मङ्गलम् । सप्तकोटिसहम्राणां मन्त्राणां नायिका तु या ॥ १९॥ सा मे सुरेश्वरी देवी सदा सिद्धिं प्रयच्छतु । उल्कामुखा मुखे स्थातु मार्जारी देहसन्धिषु ॥ २०॥ भद्रकाली तु या विद्या सा मे स्थातु शिवामये । त्रिकोणं च त्रिधावर्तं त्रैपुरं चक्रमुत्तमम् ॥ २१॥ मस्तके स्थातु मे नित्यं तस्यान्ते बहुरूपिणी । पूर्वोक्ता त्रैपुरी शक्तिः स्थातु मे मन्मथोत्थिता ॥ २२॥ क्षोभावती जगत्सर्वं मदिरानन्दविह्वला । निवासं कुरु मे देहे साम्प्रतं दिव्ययोगिनी ॥ २३॥ एह्येहि त्वं महादेवि सिद्धयोगिनि मे कुले । शत्रूणां घातनार्थाय जेतॄणां भोगदायिनी ॥ २४॥ महायोगिनि देहेऽस्मिन् सर्वदा निलयं कुरु । माहेन्द्री च शिखां स्थातु योनिमध्ये गणेश्वरी ॥ २५॥ प्रेताशी नाम विख्याता करोतु कुशलं मम । डाकिनी पूर्वभागे च मम सौख्यं प्रयच्छतु ॥ २६॥ शाकिनी पश्चिमाङ्गेषु दक्षिणे चाऽपि राकिणी । var राक्षसी । वामभागे महामाया करोतु कुशलं मम ॥ २७॥ साऽस्मदीयं शिरः पातु सदा तिष्ठतु भैरवी । या विशाला विशालाक्षी निर्मला मलवर्जिता ॥ २८॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । या कालकल्पिता काली कालरात्री तु कथ्यते ॥ २९॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । या निशाचरराजन्यपूजिता च निशाचरी ॥ ३०॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । या चोर्ध्वकेशिका नाम मुक्तकेशी महाभया ॥ ३१॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । या वीरेति समाख्याता वीराणां जयदायिनी ॥ ३२॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । या मालिनी समाख्याता नासाग्रे विद्रुमाजिनी ॥ ३३॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । या कङ्कालकरालाङ्गी चण्डकङ्कालकुण्डला ॥ ३४॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । प्रचण्डा च विरूपाक्षी विरूपा विश्वरूपिणी ॥ ३५॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । खद्वाङ्गी कथ्यते या च रौद्रीरूपेण पूजिता ॥ ३६॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । कलियोगिनी प्रसिद्धा च या लोके श्रूयते कलौ ॥ ३७॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । प्रेताक्षी कथ्यते या च फेत्कारोत्कटवर्जिता ॥ ३८॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । धूम्राक्षी या समाख्याता शास्त्रेऽस्मिन् योगिनीमते ॥ ३९॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । घोररूपा महादेवी कथ्यते या कुलागमे ॥ ४०॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । विश्वरूपा विशेषेण करोति च जगत्त्रयम् ॥ ४१॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । भयङ्करी समादिष्टा या चोक्ता वै कुलागमे ॥ ४२॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । कपालमालिका प्रोक्ता या देवी मुण्डधारिणी ॥ ४३॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । भीषणा भैरवी नाम या देवी भीमविक्रमा ॥ ४४॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । न्यग्रोधवासिनी या च कथ्यते तु सुरार्चिता ॥ ४५॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । भैरवी भीषणा या च भैरवाष्टकवन्दिता ॥ ४६॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । प्रोच्यते दीर्घलम्बोष्ठी महामाया महाबला ॥ ४७॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । खड्गाङ्गी या महाशक्तिः संसारार्णवतारिणी ॥ ४८॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । या समस्तेषु मन्त्रेषु प्रोच्यते मन्त्रवादिनी ॥ ४९॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । कालघ्नी कथ्यते या च युगान्ते परमेश्वरी ॥ ५०॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । ग्राहिणीति समाख्याता सुरासुरमहोरगैः ॥ ५१॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । चक्रिणी गद्यते या च एकपादा त्रिलोचना ॥ ५२॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । या विश्वबाहुका देवी विश्वनाथप्रिया सदा ॥ ५३॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । दर्शनेषु समस्तेषु विदिता परमेश्वरी ॥ ५४॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । कण्टकोच्छेदनार्थाय शास्त्रे या कण्टकी स्मृता ॥ ५५॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । कीलकी कथ्यते या च सप्तहस्ता महाबला ॥ ५६॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । सङ्ग्रामे या महादेवी महामारीति कथ्यते ॥। ५७॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । यमदतीत विख्याता या सुरासुरपूजिता ॥ ५८॥ सा योगिनी महामाया स्थातु श्रीर्र्मस्तके मम । करालिनीति या देवी महाविद्या महाबला ॥ ५९॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । ललिताम्बा महाराज्ञी सर्वचकैकनायिका ॥ ६०॥ सा योगिनी महामाया स्थातु श्रीर्मस्तके मम । नासाग्रे कौलिकी स्थातु मदनस्था तथा मुखे ॥ ६१॥ व्योमजङ्घे कपोले च गोलके चापहारिणी (चापधारिणी) । सा योगिनी महामाया स्थातु श्रीर्मस्तके मम ॥ ६२॥ द्राविणी क्षोभिणी चैव स्तम्भिनी मोहिनी तथा । रौद्रकर्मा महाघण्टा चमरी त्वरिता मतिः ॥ ६३॥ रौद्री च कुलमाता च काकदृष्टिरधोमुखी । कपाली कुण्डली दीर्घा कपाली कुलगामिनी ॥ ६४॥ देवी रक्षतु मे गात्रं मस्तकं कुलमालिनी । भूमिरापस्तथा तेजो वायुराकाशमेव च ॥ ६५॥ पञ्चभूतेषु भूतेशी सदा रक्षतु मे कुलम् । राज्यं ददातु मे चैन्द्री प्रजां चैव प्रजावती ॥ ६६॥ माया ददातु मे नित्यं धनं धान्यं यशस्तथा । रणे राजकुले चैव शत्रुमध्ये महावने ॥ ६७॥ रक्तनेत्रा महादेवी करोतु मम चिन्तितम् । समया समये रक्षेद् विद्यां विद्या कुलागमे ॥ ६८॥ साधकानां जगन्नाथा भुक्तिमुक्तिफलप्रदा । द्विजटी त्रिजटी प्रोक्ता कन्दली ललिताखिला ॥ ६९॥ गायत्री चाम्बिका तारा पार्वती कमलप्रभा । मादिनी मदनोन्मादा मन्दारी मदनातुरा ॥ ७०॥ भीषणा भीषणी नाम प्रेतसिद्धा विभीषणा । क्षुत् तृष्णा तथा निद्रा कान्तिर्बुद्धिस्तथा द्युतिः ॥ ७१॥ सन्ध्या धृती रतिः क्षान्तिर्ह्यनिशं परिपठ्यते । सुरनाथेति विख्याता नगरेतरदेवता ॥ ७२॥ ग्रामदेवी ह्यधिष्ठात्री पीठे पीठेश्वरीं विदुः । कावेरी नर्मदा चैव गङ्गेति यमुनोच्यते ॥ ७३॥ गोदावरी महापुण्या प्रोच्यते चाप्यरुन्धती । त्रैलोक्येऽपि महादेवी स्त्रीनाम्नी या प्रकाशिता ॥ ७४॥ सा देवीरूपलक्षे तु स्थातु श्रीर्हृदये नमः ॥ सुवर्णरेखिणी प्रोक्ता विद्या या प्रोच्यते किल ॥ ७५॥ निर्मूलिनी भुजङ्गानां सा करोतु सुखं मम । कुरुकुल्लेति विख्याता पक्षिराजमुखोद्भवा ॥ ७६॥ या विद्या सा महारूपा जिह्वाग्रे स्थातु मे सदा । ॐ कारिणीति विख्याता देहे स्थातु सदा मम ॥ ७७॥ विद्यापहारिणी नाम कलिरूपविदारिणी । भेरुण्डा स्थातु मे कण्ठे तोरला स्थातु मस्तके ॥ ७८॥ तथा शवलरेखाऽपि मूले स्थातु सदा मम । जाङ्गली विषनाशाय वाचां सिद्धिं करोतु मे ॥ ७९॥ सर्वसिद्धिकरी विद्या भुक्तिमुक्तिफलप्रदा । अहं ब्रह्मा अहं विष्णुरहं देवो महेश्वरः ॥ ८०॥ सर्वभूतनिवासोऽहं लोके श्रीशक्तिचिन्तकः । शक्तिन्यासेन पूतेन शरीरेण सुरासुराः ॥ ८१॥ प्रधानदेशमात्रेण आशां (आज्ञां) कुर्वन्तु मे सदा । यत्किञ्चिद् योगिनीरूपं त्रैलोक्ये चास्ति शङ्कर ॥ ८२॥ तत्सर्वं तिष्ठते देहे शक्तिन्यासे उपासिते । कामिनी कुरुते चापि या न्यासं भक्तिनिर्मितम् ॥ ८३॥ तां देवीं दिव्यरूपस्थां संसारे त्रिपुरां विदुः । नमोऽस्तु ते जगन्मातर्नमोऽस्तु भुवनेश्वरी ॥ ८४॥ नमो भोगप्रदे देवि ! नमस्तुभ्यं महेश्वरि ! ॥ प्रकटा गोपिताः सर्वा निर्वाणभैरवी शिवा ॥ ८५॥ सम्भ्रमा विजया हंसा शुभा चानलदेवता । यक्षिणी चूडकन्या च तथा चाकाशगामिनी ॥ ८६॥ भूचरी चरिता कुम्भी सर्वागमनिवासिनी । चतुष्यष्ट्याश्रया देवी योगिन्यो येन चिन्तिताः ॥ ८७॥ आधारे लीयमानास्तु स योगी योगविद्भवेत् । ललाटे मण्डला स्थातु विरजा स्थातु मस्तके ॥ ८८॥ एकाक्षी दक्षिणस्कन्धे वामे चैव त्रिलोचना । जयन्ती स्थातु मे कुक्षौ कट्यां कन्दर्पकुण्डली ॥ ८९॥ मालिनी लिङ्गसन्धौ च हृदि स्थातु समाधिनी । अम्बिका पृष्ठवंशे च पार्श्वयोः स्थातु मेदिनी ॥ ९०॥ दिग्गजाङ्गी कराग्रे च नागेन्द्री नखसन्धिषु । व्याघ्री चक्री च जङ्घायां स्थातु पादतले मही ॥ ९१॥ अमृताशङ्खिनी रन्ध्रे लोचने च विलासिनी । कालिन्दी मूलजिह्वां च रक्तं रक्षतु रक्तिनी ॥ ९२॥ लाङ्गली जङ्गले रक्षेदस्थिनी चाऽस्थिसन्धिषु । मज्जिनी देहमज्जां तु शुक्रं शुक्रेश्वरी तथा ॥ ९३॥ त्वचं रक्षतु वेताली मम रोगप्रणाशिनी । रुद्धटा कुरुते शान्तिं सदैव मम विग्रहे ॥ ९४॥ पादा पादतले स्थातु पथि रक्षतु पन्थिनी । चोराग्निराजसर्पेभ्यो भयाद्रक्षतु भैरवी ॥ ९५॥ दुष्टानां दृष्टिबन्धं तु सदा करोतु बन्धिनी । चापेटी नाम या विद्या सा मे करोतु मङ्गलम् ॥ ९६॥ मर्कटी घण्टकर्णी च हनुमन्ती च रावणी । धर्धुरा कीतिविख्याता वन्दे विद्याचतुष्टयम् ॥ ९७॥ चेटका ज्ञानदा विद्या कौमारी चरणावली । विघ्नराजैस्तता नाम तुष्टा सन्तानरूपिणी ॥ ९८॥ मूलाधारस्थिता हंसी पातकी दलनोद्धता । दशैता मन्त्रविद्यास्तु तिष्ठन्तु मम मस्तके ॥ ९९॥ शुभा मे चाग्रतः स्थातु लोहिता स्थातु दक्षिणे । वामाङ्गं रतिकाले च पश्चिमे स्थातु श‍ृङ्खला ॥ १००॥ शिखायां शङ्खिनी रक्षेद् वस्ने वस्त्रवती शुभा । कवचे कवचाङ्गी च नेत्रे नेत्रकृतोत्सवा ॥ १०१॥ तिष्ठन्ति योगिनीरूपास्त्रैलोक्ये सचराचरे । योगिन्यो याः स्तुताः सर्वा गेहं कुर्वन्तु मे वपुः ॥ १०२॥ पुत्राणां च सदा देयं भक्तानां तु विशेषतः । शक्तिन्यासमिदं देयं न देयं यस्य कस्यचित् ॥ १०३॥ मनुष्याणां महीलोके चिन्तितार्थफलप्रदम् । यः करोति महान्यासं षोढान्यासादिकं विभो! ॥ १०४॥ स जीवन्शक्तिरूपी वै त्रैलोक्योन्मूलनक्षमः । शक्तिन्यासे कृते जीवेद् यः कश्चिच्छेदको भवेत् ॥ १०५॥ कर्मणा मनसा वाचा तस्य घातो भविष्यति ॥ ॥ इति श्रीविद्या महाशक्तिन्यासः सम्पूर्णः ॥ Encoded and proofread by DPD
% Text title            : mahAshaktinyAsaH
% File name             : mahAshaktinyAsaH.itx
% itxtitle              : mahAshaktinyAsaH
% engtitle              : mahAshaktinyAsaH
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description/comments  : Shri Vidyaratnakara, Karpatri Maharaj, Page 409
% Indexextra            : (Scan)
% Latest update         : December 14, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org