महाविद्याकवचम्
शृणुदेवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
आद्याया महाविद्यायाः सर्वाभीष्टफलप्रदम् ॥ १॥
कवचस्य ऋषिर्देवी सदाशिव इतीरितः ।
छन्दोऽनुष्टुप् देवता च महाविद्या प्रकीर्तितः ॥ २॥
धर्मार्थकाममोक्षाणां विनियोगश्च साधने ॥ ३॥
ऐंकारः पातु शीर्षे मां कामबीजं तथा हृदि ।
रमाबीजं सदापातु नाभौ गुह्ये च पादयोः ॥ ४॥
ललाटे सुन्दरी पातु उग्रा मां कण्ठदेशतः ।
भगमाला सर्वगात्रे लिङ्गे चैतन्यरूपिणी ॥ ५॥
पूर्वे मां पातु वाराही ब्रह्माणी दक्षिणे तथा ।
उत्तरे वैष्णवी पातु चेन्द्राणी पश्चिमेऽवतु ॥ ६॥
माहेश्वरी च आग्नेयां नैरृते कमला तथा
वायव्यां पातु कौमारी चामुण्डा ईशकेऽवतु ॥ ७॥ var ऐशनेऽवतु
इदं कवचमज्ञात्वा महाविद्याञ्च यो जपेत् ।
न फलं जायते तस्य कल्पकोटिशतैरपि ॥ ८॥
इति श्रीरुद्रयामले महाविद्याकवचं सम्पूर्णम् ॥
Proofread by Aruna Narayanan narayanan.aruna at gmail.com