महिषमर्दिनीगीतिः
इच्छामात्र-सुपर्व-विनिःसृत-तेजःपुञ्ज-रचित-ललिताङ्गि ! ।
निर्गुणतो गुणभावमुपेयुषि! जय जय विकसद्-दीर्घापाङ्गि! ॥ १॥
अष्टादश-भुजवल्लि-समर्पित-शस्त्र-क्षपित-महासुरपालि! ।
महिषासुर-वध-रक्षित-लोके! जय जय जननि! जयाम्बुज-नालि! ॥ २॥
एकाप्यङ्ग-कलाभिरनेकावृति-वरिवस्या-सुषमामेषि ।
ब्रह्म-विष्णु-शिव-सृष्टि-विधायिनि! जय जय लोकालोक-महेशि! ॥ ३॥
भक्त-शोक-शङ्कूद्धृति-निपुणे! शरणागत-सौहित्य-विधात्रि! ।
नैसर्गिक-करुणारस-सूते! जय जय भूषण-भूषित-गात्रि! ॥ ४॥
सृष्ट्यादौ साचिव्यमुपेतम् , यत्तस्यापि च सारमुदेति ।
मातस्तत् तव विग्रह-घटकं जय जय दुर्मति-शातन-हेति ॥ ५॥
तत्राद्यत्रिकमैन्दवमारुणमानलमञ्चति, मञ्जुल-धाम ।
वाणी-माया-कामविकाशिनि! जय जय सिद्धि-विधान-ललाम! ॥ ६॥
मध्यं जाम्बूनद-बन्धूक-स्फुटितेन्दीवर-भान्यक्कारि ! ।
उग्रार्तिच्छिदुरे! दयमाने! जय जय जङ्गल-मङ्गलकारि ॥ ७॥
अन्तिम-मञ्जन-पाण्डुर-धूम्र-द्युति-सङ्काशमहित-कुल-हन्त्रि ।
सकल-समीहित-साधन-चुञ्चो! जय जय जय, जगदङ्कुर-कर्त्रि! ॥ ८॥
अयोध्या-पश्चिम-प्रान्त-कल्पित-प्रतियातना ।
यातना-क्षतये भूयादेषा महिष-मर्दिनी ॥ ९॥
इति दुर्गाप्रसादद्विवेदीविरचिता महिषमर्दिनी-गीतिः समाप्ता ।
Encoded and proofread by Rajani Arjun Shankar