मुक्तिपुरस्थदेवीस्तोत्रम्
निखिलनिगमवेद्यं तावकानं चरित्रं
निगदितुमसमर्थस्तत्त्वबोधस्वरूपे ।
भगवति तदपि त्वां भक्तिभाराकुलोऽहं
कथमपि जगदीशे स्तोमि मुक्तिस्थलस्थे ॥ १॥
सततविनतभक्तव्रातचिताम्बुजार्ति-
प्रशमनकुशलोद्यद्रागपादारविन्दे ।
अगतिरगसुतेऽहं त्वत्प्रसादाभिलाषी
भगवति नियतं त्वां नौमि मुक्तिस्थलस्थे ॥ २॥
जननमरणघोरक्ष्वेलवाराकरान्तः-
पतन विवशलोकत्राणदक्षान् कटाक्षान् ।
जननि तव दयार्द्रान् निन्दितेन्दीवराभा-
ननुदिनमाय मह्यं देहि मुक्तिस्थलस्थे ॥ ३॥
विशिष्टपदपङ्कजस्रुतमरन्दससवन-
प्रहृष्टधरणीसुरभ्रमरसञ्चयैरञ्चिते ।
त्रिविष्टपसमे गुणैर्महति मुक्तिगह स्थिता-
मभिष्टुतकथामुमामनिशमाश्रये शाश्वतीम् ॥ ४॥
अतित्वरमुदित्वरप्रणयपेशलालोकन-
प्रवृद्धकुतुकाकुलस्मरहराङ्गसङ्गोत्सुके ।
जगत्त्रितयभूषणं जननि मुक्तिगेहस्थिते
पदद्वितयमन्वहं मयि निधेहि शलात्मजे ॥ ५॥
सरोजदळलोचनां सततलिप्तगोरोचनां
विनोदितगजाननां विमलपूर्णचन्द्राननाम् ।
नमामि गिरिनन्दनां नतविरिञ्चसङ्क्रन्दनां
विवेकिकृतभावनां विहितमुक्तिगेहावनाम् ॥ ६॥
सुरासुरनमस्कृते सुललिताङ्गदालङ्कृते
मुनीन्द्रनिहारते मुदितभक्तलोकावृते ।
मनोहरतराकृते मदनवैरिसम्मानिते
महेश्वरि नमोऽस्तु ते महितमुक्तिसद्मास्थिते ॥ ७॥
मनोज्ञनयनाञ्चलं मनसिजाहिते चञ्चलं
कुचद्वयजिताचलं घृसृणरञ्जितोरस्स्थलम् ।
महत्तमदयाकुलं मनसि मे सदा निस्तुलं
महः स्फुरतु निश्चलं महितमुक्तिगेहोज्ज्वलम् ॥ ८॥
मनोजन्मारातेर्महिषि महिषध्वंसिनि शिवे
दुनोम्यापन्नोऽहं मरणमनुचिन्त्यातिभयदम् ।
मनोज्ञं ते पादद्वयमरुणपाथोजसदृशं
विनोदाय स्यान्मे विलासिततना मुक्तिनिलये ॥ ९॥
भवाम्भोधिं घोरं विषयचयकल्लोलविषमं
जवादुत्तीर्यार्तव्यसनशमनात्यन्तनिपुणे ।
भवानि त्वन्नेत्रप्रसृतगुरुकारुण्यजलधौ
भवानि स्नातोऽहं दिवसमनु मुक्तिस्थलगते ॥ १०॥
विमोहाद्यैर्बद्धो विवशतरचित्तोऽहमनिशं
प्रमादं ते लब्धं परमसुखसन्दायिनि शिवे ।
रमानाथाम्भोजासन हरिहयाद्यातगुण
नमामि त्वां भक्त्या मुहुरपि च मुक्यालयगते ॥ ११॥
दुर्गा हतरिपुवर्गां दुर्गायितमुक्तिसदनसन्निहिताम् ।
भर्गाहतामुपासे सर्गावनहरणकर्तृभूतां ताम् ॥ १२॥
शम्बररिपुहरदयित तुम्बुरुभृगुनारदादिविनुतपदे ।
अम्बुरुहाक्षि सदा मामम्ब रमे पाहि मुक्तिगेहगते ॥ १३॥
स्मरशरनिकरविदारितपुरहरसुखवितरणातिनिपुणतनो ।
उरुतरदुरितमशेषं परिहर मम गौरि मुक्ति पुरलसिते ॥ १४॥
चण्डतराहितमण्डलखण्डनचण्डे नमोऽस्तु हतमुण्डे ।
कुण्डलमण्डितगण्डे चण्डहरे चण्डि मुक्तिगेहिनि ते ॥ १५॥
गिरितनये मयि रमतामरुणतरं चरणयुगलमनुदिवसम् ।
हरदयिते सुरमहिते वरमयि ते मुक्तिगेहपरिलसिते ॥ १६॥
अद्रीशनन्दिनि दयामृतवारिराशे
विद्रावितारिनिवहे नतलोकबन्धो ।
भद्रार्थदे निजपदाब्जजुषां जनानां
रुद्राणि मुक्तिनिलयाधिगते नमस्ते ॥ १७॥
कीनाशदण्डमनुचिन्त्य भयेन नित्यं
स्नानासनादिषु च नोत्सुकमानसं माम् ।
मेनाशयातिसुखदायिनि पाहि बद्धं
नानाशया जननि मुक्तिपुराधिवासे ॥ १८॥
सुभ्भादिघोरतरवीरसुरारिवृन्द-
डभ्भापहे नतजनावनलोलबुद्धे ।
जभ्भारिवन्दितमुमे चरणद्वयं ते
सम्भावयामि हृदि मुक्तिनिकेतनस्थे ॥ १९॥
हस्तालसत्त्रिशिखकृत्तलुलायशस्त-
मस्तातिशोभितमनोज्ञपदारविन्दे ।
चित्ताम्बुजं मम पुनीहि समाश्रितानां
हृत्तापहारिणि लसत्तनु मुक्तिगेहे ॥ २०॥
गर्वादिदोषरहिताशयसाधुलोक-
निर्वाणदाननिपुणे करुणापयोधे ।
सर्वापराधमयि मे सततं क्षमस्व
शर्वाणि मुक्तिपुरवासिनि शलकन्ये ॥ २१॥
शरणागतस्य करुणानिधे शिवे
हर सारसाक्षि तरसा ममामयम् ।
चरणं त्वदीयमरुण हृदम्बुजे
कलयामि मुक्तिनिलयाधिवासिनि ॥ २२॥
उरुमेहरोगपरिमोहितः शिवे
करवै किमद्य पुरवैरिवल्लभे ।
विधिना हतं त्वमधुना सदैव मां
परिपाहि मुक्तिपुरवासलालसे ॥ २३॥
चरितानि देवि दुरितापहानि ते
परिकीर्तयानि सुरकीर्तितान्यहम् ।
अयि त महेशदयिते दया भवे-
दवनाय मुक्तिभवनाधिवासिनि ॥ २४॥
सजलाम्बुदनीलबालभारे निजलावण्य विमोहिताङ्गजारे ।
अचलाधिपनन्दने मतिः स्यादचला मे त्वयि मुक्तिगेहवासे ॥ २५॥
मदनान्तकवल्लभे शिवे ते वदनाम्भोरुहमेव सर्वदा मे ।
वितनोतु सुखं समन्दहासं सुतनो मुक्तिनिकेतनाधिवासे ॥ २६॥
गळसीमनि लम्बमानशुम्भत्तुळसीदामलसद्भुजान्तराळम् ।
कळभाषिणि भासतां मदन्तः कळभामोदिनि मुक्तिगेहगे ते ॥ २७॥
गजकुम्भमदापहं त्वदाय कुचकुम्भद्वयमम्ब मानसे मे ।
रथडभ्भहरं नितम्बबिम्बं सततं भातु च मुक्तिसद्मसंस्थे ॥ २८॥
गजराजकरादृतोरु मोदादजराराधितपादपङ्कजे त्वम् ।
रुचिराङ्गि शिवे भवान्धकूपादचिरादुद्धर मुक्तिगेहगे माम् ॥ २९॥
शरणागतलोकपारिजातावरुणावाजिविधावपारिजाता ।
मरणाधिहरौ शिवे त्वदीयौ चरणौ मुक्तिपुरस्थिते भजेयम् ॥ ३०॥
ललितां पदशोभिनूपुरोद्यत्कळनादामृतशीतळीकृताशाम् ।
कळहंससमादृतां गतिं ते कलये चेतसि मुक्तिगेहगेऽहम् ॥ ३१॥
मुखचन्द्रविनिर्गतां स्मितार्द्रामघहन्त्रीममृतोपमां गिरं ते ।
सुखदां शृणवान्यहं विहातुं निखिलार्तिं लसिताङ्गि मुक्तिगेहे ॥ ३२॥
नतमोहतमोपहे निजानां हितदे हे हतदेववैरिदेहे ।
अतिशोभितगात्रि मुक्तिगेहे सदयं मामवलोकयानुवेलम् ॥ ३३॥
चिकुरादिपदान्तमम्ब चेतोमुकुरान्तः सततं दिदृक्षुमनम् ।
अगराजसुते शिवे त्वमापन्निकरान्मामव मुक्तिगेहसंस्थे ॥ ३४॥
मन्मथारिदयिते दयानिधे सन्मनःकुमुदवृन्दचन्द्रिका ।
कल्मषावलिमुमे हराशु मे चिन्मयि त्वमयि मुक्तिगेहगे ॥ ३५॥
मुक्ति मन्दिरगते त्मजे भक्तलोककमनीयविग्रहे ।
मुक्तिदायिनि भवानि देहि मे भक्तिमेव तत्र पादपद्मयोः ॥ ३६॥
मृत्युतापहरणामृतं नृणामत्युदारमयि ते पदाम्बुजम् ।
नृत्यतादिह मदीयमानसे नित्यदा जननि मुक्तिगेहगे ॥ ३७॥
भुवनमङ्गलदीपसमुज्ज्वले भवावषानलदग्धाममं जनम् ।
तव कृपामृतवृष्टिभिरञ्जसा भवति जीवय मुक्तिपुरस्थिते ॥ ३८॥
गदसमूहमपोहितमम्ब त पदसरोजरजोनिचय मुदा ।
वितर मुक्तिनिकेतगते जवादितरदद्य न मे शरणं शिवे ॥ ३९॥
दुरितवारिधिसन्तरणाय ते चरितकीर्तनपोतमुपाश्रितम् ।
स्फुरितमुक्तिनिकेतनसङ्गते त्वरितमेनमुमे परिपाहि माम् ॥ ४०॥
मलयजालसितं शुभदं त्विषां निलयमम्ब तवाननपङ्कजम् ।
सुललितं नियतं हृदि भावये विलसिते वरमुक्तिनिकेतने ॥ ४१॥
जनिमृत्युविनाशिनि पादजुषां मुनिसत्तमसन्नुतसच्चरिते ।
मनसः स्थितिरस्तु ममाविरतं जननि त्वयि मुक्तिनिकेतगते ॥ ४२॥
उररीकृतभक्तजने शिवद गिरिराजसुते मम गारि शिवे
कुरु रोगविनाशनमाशु शिवे गुरुरागिणि मुक्तिनिकेतगते ॥ ४३॥
वरमाल्यसमुज्ज्वलमुक्तिपुरे सुरमानवमानितपादयुगे ।
हरमानसमानसमाधिहरे हर मामकमामयमाशु शिवे ॥ ४४॥
इभगामिनि कामिनि कामरिपोः शुभदायिनि दानवनाशिनि माम् ।
परिपाहि कृपामृतवारिनिधे परमेश्वरि मुक्तिनिकेतगते ॥ ४५॥
उदाररूपे हितदानशीले पदारविन्दे परचिन्मये ते ।
मुदा रमेणाङ्कधरानुरक्ते सदा रमे मुक्तिपुराधिनाथे ॥ ४६॥
सरागयोस्ते पदयोर्महाजना निरागसः सन्ति परागसेवया ।
सरोगमेनं परिपाहि मां शिवे सुरागवन्मुक्तिपुरे विराजिते ॥ ४७॥
सुखावहं नित्यमघापहं शुभं मुखाम्बुजं देवि पदाम्बुजञ्च ते ।
सुखेषु दुःखेषु मदीयमानसे चकास्तु मुक्तिस्थलसंस्थिते शिवे ॥ ४८॥
प्रसीद विश्वेशि रमेशमाये प्रसीद शश्वत् परमेशजाये ।
प्रसीद भक्तप्रियदानशीले प्रसीद मुक्तिस्थलवासलोले ॥ ४९॥
नमोऽस्तु कारुण्यपयोनिधे ते नमोऽस्तु तारुण्यमनोहरे ते ।
नमोऽस्तु मृत्युञ्जयवल्लभे ते नमोऽस्तु मुक्तिस्थलसङ्गते ते ॥ ५०॥
नमो नमः पर्वतकन्यकायै नमो नमः शर्ववरप्रियायै ।
नमो नमो मुक्तिसुखप्रदायै नमो नमो मुक्तिपुरस्थितायै ॥ ५१॥
मातः स्तवं पठति मङ्गलदं य एतं
प्रातः प्रबुद्धय भवतीमनुचिन्त्य नित्यम् ।
प्रीतः स मुक्तिपुरवासिनि भक्तियुक्तो
याति क्षणेन तव पादसरोजमेव ॥ ५२॥
(This is a Stotra in praise of the
goddess MuktipurA. Muktipura seems to be the
sanskritised form of MUkkutala, a famous Mukkola
temple in Malabar.)
इति मुक्तिपुरस्थदेवीस्तोत्रं सम्पूर्णम् ।
Proofread by Mohan Chettoor