नवदुर्गास्तोत्रम्
सच्चित्कला भगवती प्रथमं सुसूक्ष्मा
विद्योतते सुकृतिनां हृदये पराख्या ।
भर्गाख्यया सवितृमण्डलमध्यसस्था
सा बुद्धिचोदनपरा भवतु वरेण्या ॥ १॥
ध्यायन्ति यां सहृदया हृदये प्रभाते
गायन्ति यां सुकवयो ललितैर्वचोभिः ।
यां योगिनः सुहृदये परिशीलयन्ति
तां मोक्षदां भगवतीं शरणं प्रपद्ये ॥ २॥
शैलात्मजा कमलभूषितहंसयाना
दुर्गा च दुर्गतिहरा भवनौ सुतारा ।
नारायणेन सुकृतैः स्मृतनामधेया
विघ्नान्निवारयतु द्वादशषड् भुजाढ्या ॥ ३॥
हे वासुदेवसहजे! प्रतार्तिहर्त्रि !
हे नन्दगोपजयदे ! वसुदेवनीते ! ।
हे कंसराजदलिनि! श्रितव्योम मार्गे!
देवैस्तुते! भगवति! वरदे नमोऽस्तु ॥ ४॥
श्रीनीलकण्ठस्य हृतार्धकाया पद्मे सहस्रे धृतपद्मपादा ।
योगीन्द्रवर्यैर्विहितप्रणामा शैलात्मजा विन्ध्यनिवासिनी सा ॥ ५॥
पूर्णेन्दुवक्त्रा शरदिन्दुशुभ्रा भोगेन्द्रहारा नवद्विभुजाढ्या ।
सिंहाधिरूढा सुविशालनेत्रा सा शैलपुत्री भवतु प्रसन्ना ॥ ६॥
या षट् सरोजे च कृताधिवासा तारं जपन्ती प्रणवं प्रमोदात् ।
सार्धत्रिवृत्या च समुल्लसन्ती सा वेदमाता भवतु प्रसन्ना ॥ ७॥
या चन्द्रभाला कमलासने स्वे विन्यस्य पादौ धृतकोणहस्ता ।
कुक्षौ दधाना च सुशुभ्रवीणा सा शारदा नो वरदा सदास्तु ॥ ८॥
कुमारमाता द्विरदाननार्चिता शब्दात्मिका गद्यपदैरुदीरिता ।
उद्गीथबीजा प्रणवस्वरूपिणी सा पद्महस्ता भवतु प्रसन्ना ॥ ९॥
(१) गायत्री (२) मोक्षदा (३) दुर्गा, (४) वरदा (५) विन्ध्यवासिनी ।
(६) शैलजा (७) वेदमाता च, (८) शारदा (९) पद्मधारिणी ॥ १०॥
नवद्वारमयेहर्म्ये गीयतेऽहर्निशं बुधैः ।
हंसीवहंस सहगा खेचरीखगगामिनी ॥ ११॥
मूलाधाराद्विधेरन्ध्रं प्राप्य सहस्रदलेस्थिता ।
नवभिर्गीयते पद्यैर्नवदुर्गा भयापहा ॥ १२॥
इति श्रीजगन्नाथ रविशास्त्रीविरचितम् नवदुर्गास्तोत्रं सम्पूर्णम् ।
-- विनीतः जगत् रविः
Encoded by Kamini Viswanathan
Proofread by Kamini Viswanathan, Lalitha Mallikarjunan, NA