नित्याकवचम्
तन्त्रराजतन्त्रे अष्टाविंशं पटलान्तर्गतम् ।
समस्तापद्विमुक्त्यर्थं सर्वसम्पदवाप्तये ।
भूतप्रेतपिशाचादिपीडाशान्त्यै सुखाप्तये ॥ १॥
समस्तरोगनाशाय समरे विजयाय च ।
चोरसिंहद्वीपिगजगवयादिभयानके ॥ २॥
अरण्ये शैलगहने मार्गे दुर्भिक्षके तथा ।
सलिलादिमनः पीडास्वब्धौ पोतादिसङ्कटे ॥ ३॥
प्रजप्य नित्याकवचं सकृत्सर्वन्तरत्यसौ ।
सुखी जीवति निर्द्वन्द्वो निःसपत्नो जितेन्द्रियः ॥ ४॥
शृणु तत् कवचं देवि वक्ष्ये तव तदात्मकम् ।
येनाहमपि युद्धेषु देवासुरजयी सदा ॥ ५॥
सर्वतः सर्वदात्मानं ललिता पातु सर्वगा ।
कामेशी पुरतः पातु भगमाला त्वनन्तरम् ॥ ६॥
दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ।
नित्यक्लिन्ना च भेरुण्डा दिशं पातु सदा मम ॥ ७॥
तथैव पश्चिमं भागं रक्षेत् सा वह्निवासिनी ।
महावज्रेश्वरी रक्षेदनन्तरदिशं सदा ॥ ८॥
वामपार्श्वं सदा पातु दूती मे त्वरिता ततः ।
पालयेत्तु दिशं चान्यां रक्षेन्मां कुलसुन्दरी ॥ ९॥
नित्या मामूर्द्ध्वतः पातु साधो मे पातु सर्वदा ।
नित्या नीलपताकाख्या विजया सर्वतश्च माम् ॥ १०॥
करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ।
देहेन्द्रियमनःप्राणान् ज्वालामालिनिविग्रहा ॥ ११॥
पालयेदनिशं चित्रा चित्तं मे पातु सर्वदा ।
कामात् क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ १२॥
पापान्मत्सरतः शोकात् संशयात् सर्वतः सदा ।
स्तैमित्याच्च समुद्योगादशुभेषु तु कर्मसु ॥ १३॥
असत्यक्रूरचिन्तातो हिंसातश्चौर्यतस्तथा ।
रक्षन्तु मां सर्वदा ताः कुर्वन्त्विच्छां शुभेषु च ॥ १४॥
नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः ।
तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ १५॥
सिंहारूढास्तथा पान्तु मान्तरक्षगता अपि ।
रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ १६॥
तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगतास्तथा ।
भूगताः सर्वदा पान्तु माञ्च सर्वत्र सर्वदा ॥ १७॥
भूतप्रेतपिशाचापस्मारकृत्यादिकान् गदान् ।
द्रावयन्तु स्वशक्तीनां भीषणैरायुधैर्मम ॥ १८॥
गजाश्वद्वीपिपञ्चास्यतार्क्ष्यरूढाखिलायुधाः ।
असंख्याः शक्तयो देव्याः पान्तु मां सर्वतः सदा ॥ १९॥
सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् ।
कदाचिन्नाशुभं पश्येन्न शृणोति च मत्समः ॥ २०॥
इति षोडशनित्यातन्त्रेषु श्रीकादिमते लोकतादात्म्यादिकथनं नाम
अष्टाविशं पटलान्तर्गतं नित्याकवचं सम्पूर्णम् ॥ १
From tantrarAja paTala, shloka 52-71
NA