पद्मावतीकवचम्
श्रीगणेशाय नमः ।
श्रीभैरव उवाच ।
अधुना कवचं दिव्यं मन्त्रगर्भं वराभयम् ।
वक्ष्ये पार्वति भक्ताते वज्रपञ्जरकाभिधम् ॥ १॥
गुह्यं च परमं गुह्यं सर्वस्वं मे रहस्यकम् ।
सर्वमन्त्रमयं तत्त्वं देवी पद्मावती प्रियम् ॥ २॥
विनाज्ञानेन सिद्धिः स्यात्कवचेन्द्रेण पार्वति ।
मन्त्रस्यास्य महादेव्या नाख्येयं यत्रकुत्रचित् ॥ ३॥
अस्य धारणमात्रेण भैरवोऽहं शिवोऽस्म्यहम् ।
विष्णुर्नारायणो लोके ब्रह्मलोक पितामहः ॥ ४॥
इन्द्रो दिवस्पतिर्देवि गुरुर्वागीशताङ्गतः ।
शुक्रो दैत्यगुरुर्देवि यः पठेद्श्रावयेदपि ॥ ५॥
धारयेन्मूर्ध्नि वा बाहौ सभवेद्भोगमोक्षभाक् ।
कवचस्यास्य देवेशि सदाशिव ऋषिरुढतः ॥ ६॥
त्रिष्टुप छन्द इतिख्यातं देवी पद्मावती स्मृता ।
रमाबीजं पराशक्तिः कामः कीलकमीश्वरि ॥ ७॥
भोगापवर्ग सिध्यर्थं धारयेविनियोगकः ।
ॐ अस्य श्रीपद्मावतीवज्रपञ्जरकवचस्य श्रीसदाशिवऋषिः
त्रिष्टुपछन्दः श्रीसर्वज्ञेश्वरसहिता श्रीपद्मावतीदेवता
श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं श्रीभोगापवर्गसिद्ध्यर्थं
कवचेपाठेधारणे विनियोगः ॥
ॐ ह्रीं श्रीं मे शिरः पातु राज्यलक्ष्मीः शिवप्रिया ।
क्लीं ब्लूं फट् पातु नेत्रे महालक्ष्मीर्हरिप्रिया ॥ ८॥
ॐ ऐं क्लीं मे श्रुती पातु सिद्धलक्ष्मी शिवासना ।
दयावती पातु नासां पातु सत्यवती मुखम् ॥ ९॥
कण्ठं यशोवती पातु स्कन्धौपात्वमरावती ।
प्रभावती भुजौ पातु पायाद्वनवती करौ ॥ १०॥
वक्षः क्रियावती पातु स्तनौ पातुमरावती ।
कुक्षिं मे कमला पातु नाभिं मे विमलावतु ॥ ११॥
पार्श्वौममावृतान्माला विशालाक्षीं कटिं मम ।
पृष्ठं कपालिनी पातु लिङ्गं मेऽवतु मालिनी ॥ १२॥
हारिणी पातु मे मेढ्रे गुदं हालाचतान्मम ।
ममोरू बालिका पातु जानू मे कोमलावतु ॥ १३॥
बलाममावताज्जङ्घे गुल्फौ सेव्याद्बलाकिनी ।
पादौ मे शाकिनी पातु लाकिनी नखरान्मम ॥ १४॥
पादादिमूर्धपर्यन्तं डाकिनी पातु मेवपुः ।
शिरसः पादपर्यन्तं खेचरी सकलं वपुः ॥ १५॥
पूर्वे मां पातु ब्रह्माणी वह्नौ नारायणी च माम् ।
पश्चिमे पातु मां नित्यं मङ्गलाख्यापराजिता ॥ १६॥
वायव्ये पातु कौमारी वाराहीचोत्तरेऽवतु ।
ऐशान्यां नारसिंही मां पातु सर्वत्र सर्वदा ॥ १७॥
असिताङ्गः प्रभातेव्यान्मध्याह्ने रुरुभैरवः ।
निशान्तेऽवतुसोन्मत्तः सर्वदामां कपालकः ॥ १८॥
रात्रिर्दिनं भीषणेशः संहारः सर्वतोऽवतु ।
सर्वतः सर्वदा सत्यं रणे राजभयादिषु ॥ १९॥
पातु मां सकलत्रं च देवी पद्मावती परा ।
इन्द्रोमे कमलां पातु पातु वह्नि भयाच्चमाम् ॥ २०॥
धर्मराजोऽवताद्वर्मं रक्षोभीतिषुनिन्दतिः ।
वरुणः सलिला पातु कल्पान्तपवनान्मरुत् ॥ २१॥
धनं धनपतिः पायादैश्वर्य परमेश्वरः ।
ऊर्ध्वं ब्रह्मा सदा पायादधोनारायणोऽवतुः ॥ २२॥
सर्वतः सकलं सेव्यात्सवज्ञेश्वरभैरवः ।
ॐ ॐ ॐ वं वं ॐ विषाद्विषधरात्पद्मावती पातुमाम् ॥ २३॥
ह्रीं ह्रीं ह्रीं ह ह हा ह्सौः हयगजन्त्रासात्परापातु माम् ।
श्रीं श्रीं श्रीं श श शा शशाङ्कमुकुटः सर्वज्ञनाथोऽवतु ॥ २४॥
क्लीं क्लीं क्लीं कलिपावतोरिपुभयान्नागेन्द्रभूनायकी ।
इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् ।
सर्वमन्त्रमयं सिद्धं सर्वदेवीमयं परम् ॥ २५॥
सर्व सम्मोहनं वर्म सर्वासा परिपूरकम् ।
धनदं कीर्तिदं देवि सर्वसारस्वतप्रदम् ॥ २६॥
सर्वपूजारहस्यं च सर्वयज्ञफलप्रदम् ।
सर्वैश्वर्यप्रदं तत्त्वं सर्वमन्त्ररहस्यकम् ॥ २७॥
यः पठेत्पाठयेद्वापि शृणोति श्रावयेदपि ।
सवाग्मीधनवांल्लोके विद्यया गुरूसन्निभः ॥ २८॥
ऐश्वर्येण महेशस्तु श्रियावैश्रवणोपमः ।
बलेन वायुःसदृशोनीत्या भार्गवसन्निभः ॥ २९॥
जयवान् रामसदृशो दययाविष्णुदेवसः ।
बहुनोक्तेन किं देवि यः पठेद्धारयेदिदम् ॥ ३०॥
इहलोके रिपूञ्जित्वा प्राप्नुयान्निश्चलां श्रियम् ।
रवौभूर्जे लिखेद्वर्म मूलमन्त्रमयं शिवे ॥ ३१॥
सयन्त्रं वाष्टगन्धेन मातृकाक्षरवेष्टितम् ।
श्वेतसूत्रेण संवेष्ट्य लाक्षयापरिवेष्टयेत् ॥ ३२॥
सौवर्णेनाथ संवेष्ट्य पूजयेद्यन्त्रराजवत् ।
धारयन् मूर्ध्निवाबाहौयोषिद्वामकरेतथा ॥ ३३॥
किं किं न साधयेद्वीरो भवेद्भैरवसन्निभः ।
वन्ध्याप्रसूयते पुत्रान् काकवन्ध्याचिरायुषः ॥ ३४॥
मृतवत्सापिदेवेशि लभेत्पुत्रकुलोत्तमान् ।
रणेरिपूञ्जयेद्वीरः शय्यराज्यमकण्टकम् ॥ ३५॥
भुक्त्वाभोगां लभेदन्ते परं भागवतं पदम् ।
इदं रहस्यमेशानि तवभक्त्यामयेरितम् ॥ ३६॥
अदातव्यमभक्ताय गोपनीयं स्वयोनिवत् ।
इति श्रीदेवीयामलतन्त्रे षडाम्नाय प्रदीपिकायां
पद्मावतीकवचं सम्पूर्णम् ॥
Encoded and Proofread by Ravin Bhalekar ravibhalekar at hotmail.com