श्रीपद्मावतीकवचम् २

श्रीपद्मावतीकवचम् २

भगवन् ! सर्वमाख्यातं मन्त्रं यन्त्रं शुभप्रदम् । पद्मायाः कवचं ब्रूहि यद्यहं तव वल्लभः ॥ १॥ महागोप्यं महागुह्यं पद्मायाः सर्वकामदम् । कवचं मोहनं देवि ! गुरुभक्ताय दीयते ॥ २॥ राज्ये देयं च सर्वस्वं कवचं न प्रकाशयेत् । गुरुभक्ताय दातव्यमन्यथा सिद्धिदं न हि ॥ ३॥ ऐं बीजम् । क्लीँ शक्तिः । ह्सौँ कीलकम् । पद्मावतीप्रीत्यर्थ जपे विनियोगः । ॐ परब्रह्मणे नमः शिरसि । अनुष्टुप्छन्दो यो नमः मुखे । श्रीपद्मावतीशक्तिदेवतायै नमः हृदये । आं बीजाय नम कण्ठे । ह्रीं शक्तये नमः गुह्ये । क्रौँ कीलकाय नमः पादयोः । श्रीपद्मावतीकवचसिद्ध्यर्थं जपे विनियोगः ॥ ॐ पद्मा बीजं शिरः पातु ललाटं पञ्चमी परा । नेत्रे कामप्रदा पातु मुखं भुवनसुन्दरी ॥ ४॥ नाशिकां नागनाथश्च जिह्वां वागीश्वरी तथा । श्रुतिरूपा जगद्धात्री करौ हृथिमवासिनी ॥ ५॥ उदरं मोहदमनी कुण्डली नाभिमण्डलम् । पार्श्व पृष्ठं कटिं गुह्यं शक्तिस्थाननिवासिनी ॥ ६॥ ऊरू जङ्घे तथा पादौ सर्वविघ्नविनाशिनी । रक्ष रक्ष महामाये पद्मे ! पद्मालये शिवे ॥ ७॥ वाञ्छितं पूरयत्याशु पद्मा सा पात सर्वतः । भवद तु कवचं ढेगृया यो जानाति स मन्त्रवित ॥ ८॥ राजद्वारे श्मशाने च भूतप्रेतोपचारके । बन्धने च महादुःखे भये शत्रुसमागमे ॥ ९॥ स्मरणात्कवचस्याम्य भयं किञ्चिन्न जायने । प्रयोगमुपचार च पद्मायाः कर्तुमिच्छति ॥ १०॥ कवचं प्रपठेदादौ ततः सिद्धिमवानुप्नुयात् । भूर्यपत्रे लिखित्वा तु कवचं यस्तु धारयेत् ॥ ११॥ देहे च यत्र कुत्रापि सर्वसिद्धिर्भवेद ध्रुवम् । शस्त्राग्निजं भयं नेव भूतादिभयनाशनम् ॥ १२॥ गुरुभक्तिं समासाद्य पद्मायाः स्तवनं कुरु । सहस्रनामपठने कवचं प्रथमं कुरु ॥ १३॥ नन्दिना कथितं देवि ! तवाग्रे तत्प्रकाशितम् । साङ्गता जायते देवि ! नान्यथा गिरिनन्दिनी ॥ १४॥ इद कवचमज्ञात्वा पद्मायाः स्तौति यो नर । कल्पकोटीशतेनापि न भवेत्सिद्धिदायिनी ॥ १५॥ इति श्रीपद्मावतीकवचं सम्पूर्णम् । Proofread by DPD
% Text title            : padmAvatIkavacham 2
% File name             : padmAvatIkavacham2.itx
% itxtitle              : padmAvatIkavacham 2 (bhagavan sarvamAkhyAtam)
% engtitle              : padmAvatIkavacham 2
% Category              : devii, devI, jaina, kavacha
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 30, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org