पञ्चगङ्गाष्टकम्
श्रीगणेशाय नमः ।
गङ्गा शिवा हि यमुनाऽपि च पुण्यतोया
वाणी पवित्रकिरणा वरधूतपापा ।
श्रीबिन्दुमाधवहरेः पुरतो विचित्रा
काश्यां सदा विजयते वरपञ्चगङ्गा ॥ १॥
प्रातः सदा मुनिगणाः सकलाश्च देवाः
स्नानाय१ माधवपुरःसरमापतन्ति । (१. स्नानार्थ पाठान्तर)
यस्यां स्थिरो भवति माधव आदिदेवः
सेयं सदा विजयते वरपञ्चगङ्गा ॥ २॥
यस्यां सदा हरिहरौ वसतः२ प्रसन्नौ (२. रमतः पाठान्तर)
धर्मद्रवां जनहितां कवयो गृणन्ति ।
ध्यायन्ति यां शुभकरीं कलिकल्मषघ्नीं
सेयं सदा विजयते वरपञ्चगङ्गा ॥ ३॥
संप्राप्य ते सुकृतिनः शिवराजधानीं
काशीं भजन्ति मुदिता वरपञ्चगङ्गाम् ।
ते दुस्तरां गुणमयीं प्रतरन्ति मायां
लोकं पुनन्ति सकलं शिवभक्तियुक्ताः ॥ ४॥
गर्जन्ति पापकरिणो भयदा हि तावद्
यावज्जनो न भजते वरपञ्चगङ्गाम् ।
यां गच्छतः प्रतिपदं भवति प्रपुण्यं
तां त्वां नमामि सततं हृदि पञ्चगङ्गे ! ॥ ५॥
त्यक्ता अपि प्रियजनैरतिपापयुक्ता
रोगादिभिः परिवृता अतिदुःखयुक्ताः ।
दैवाद्यदि त्वयि पतन्त्यथ पञ्चगङ्गे !
तेनैव ते सुकृतिनः परमं व्रजन्ति ॥ ६॥
त्वन्नाम दुर्लभमिदं तव दर्शनञ्च
त्वं कान्तिके त्वतितरां जनदुर्लभाऽसि ।
त्वय्येव भक्तिममलां वरदे ! प्रदेहि
काश्यां शिवे! हरिपदे सुजने श्रुतौ च ॥ ७॥
स्तोतुं न कोऽप्यलमनन्तगुणे ! तथापि
सद्भिः प्रवर्तित इति प्रवदामि किञ्चित् ।
तन्मे क्षमस्व शिशुभावनया सति ! त्वं
प्रातः प्रसीद सुभगे ! मयि पञ्चगङ्गे ! ॥ ८॥
गङ्गाष्टकमिदं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् ।
सत्यज्ञानानदे तीर्थे यतिना रचितं मुदे ॥ ९॥
इदं स्तोत्रं तु रचितं तैलङ्गशास्त्रिशर्मणा ।
लिखितं दुण्ढिराजेन स्तोत्रं सम्पूर्णमुच्यते ॥ १०॥
इदं स्तोत्रं पठेत्रित्यं यः स्मरेत्पुण्यवान्नरः ।
तस्य मुक्तिस्तु जायेत अत्रांशे नास्ति संशयः ॥ ११॥
लिखितं दुण्ढिराजेन कालोपाख्येन धीमता ।
देवीदाशर्मणा सार्धं पुस्तकं दत्तमेव च ॥ १२॥
स्तोत्र-टिप्पणी- अष्टकमिदं पाण्डुलिपिरूपेण रामापुर-वाराणसीस्थाद
आचार्यब्रह्मगोपालभादुड़ीमहाशयस्य पुस्तकालयादस्माभिः सङ्गृहीतम् ।
स्तोत्रस्य दशमश्लोके तैलङ्गशास्त्रिशर्मा अस्य रचयितेत्युक्तम् ।
पुष्पिकायामस्य रचनाकालः संवत् १७८८ इत्युल्लिखितम् । अतः खीष्टाब्दस्य
१७३१ तमे वर्षे लिखितमेतत् केनचित् ढुण्ढिराजेन इति प्रतीयते । एष
एव तैलङ्गशास्त्रिशर्मा सुप्रसिद्धो योगी तैलङ्गास्वामीति विज्ञायते ।
श्लोकेषु काश्चनाशुद्धयोऽस्माभिर्लक्षिताः । स्वबुद्धया ताः संशोध्य
शुद्धपाठः मूलपाठे निवेशितः । हस्तलेखस्याशुद्धपाठाः
तत्तत्स्थाने सङ्ख्याक्रमेण स्तोत्रस्याधस्तादुल्लिखिताः ॥
काश्यां तैलङ्गस्वामी पञ्चगङ्गाघटटे सन्यासिनामाश्रमे
मृत्युपर्यन्तं १८८७ ख्रीष्टाब्दं यावत् दिगम्बरावस्थायां न्यवसत् ।
श्रूयते तथाऽनुमीयते यत् तैलङ्गस्वामिनो मुखादबाधगत्या
निःसृतं पञ्चगङ्गाष्टकमिदं प्रत्यहं तदीयप्रमुखभक्तो
देवीदानामकः श्रुतवान् । देवीदामहोदयस्य स्वेच्छया प्रार्थनया
च दुण्डिराजेनाष्टकमिदं लिपिबद्धमकारि । आरम्भेऽष्टौ श्लोका
वसन्ततिलकाच्छन्दःसु तैलङ्गस्वामिना रचिताः, अन्ते चत्वारः
श्लोकाश्चानुष्टुप्छन्दःसु लेखकेन विरचिताः संयोजिताश्वेत्यनुमीयते ।
इति पञ्चगगङ्गाहकं सम्पूर्णम् ।
Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com