॥ प्रचण्डचण्डीत्रिशती ॥

प्रथमं शतकम् प्रथमो मुकुलस्तबकः वज्रं जम्भभिदः सर्वस्वं नभसः । वन्दे वैरिसहं विद्युज्ज्योतिरहम् ॥ १॥ सा शक्तिर्मरुतामीशानस्य तता । व्योमागाररमा सा देवी परमा ॥ २॥ सूक्ष्मं व्यापिमहो दृश्यं वारिधरे । तत्त्वं ते मरुतां राज्ञः पत्निपरे ॥ ३॥ द्वाभ्यां त्वं वनितारूपाभ्यां लससि । एका तत्र शची चण्डाचण्ड्यपरा ॥ ४॥ एका कान्तिमती भर्तृस्तल्पसखी । अन्या वीर्यवती प्रायो युद्धसखी ॥ ५॥ एका मोहयते शक्रं चन्द्रमुखी । अन्या भीषयते शत्रूनर्कमुखी ॥ ६॥ एकस्यां तटितो रम्या दीप्तिकला । अन्यस्यां सुतरामुग्रा शक्तिकला ॥ ७॥ एकस्याः सदृशी सौन्दर्ये न परा । अन्यस्यास्तु समा वीर्ये नास्त्यपरा ॥ ८॥ एका सञ्चरति स्वर्गे भोगवती । अन्या भाति नभोरङ्गे योगवती ॥ ९॥ एका वा दशयोः भेदेन द्विविधा । इन्द्राणी विबुधैः गीता पुण्यकथा ॥ १०॥ चण्डि त्वं वरदे पिण्डे कुण्डलिनी । गीता च्छिन्नशिराः प्राज्ञैर्वैभविनी ॥ ११॥ आहुः कुण्डलिनीं यन्मूध्र्ना वियुताम् । चित्रा सा वचसो भङ्गी बुद्धिमताम् ॥ १२॥ पुत्राच्छिन्नशिराः पुण्यायाऽब्जमुखी । आविक्षत् किल तां शक्तिः शक्रसखी ॥ १३॥ तस्माद्वायमवच्चित्ताम्भोजरमा । उक्ता कृत्तशिराः सा शक्तिः परमा ॥ १४॥ ओजीयस्यबला तुल्या कापि नते । राजारेर्जननि स्वर्नारीविनुते ॥ १५॥ यावन्तोऽवतराः शक्तेर्भूमितला । वीर्येणास्यधिका तेषु त्वं विमले ॥ १६॥ प्रागेव त्वयि सत्यैन्द्रीशक्तिकला । व्यक्ताऽभूच्छिरसि च्छिन्ने भूरिबला ॥ १७॥ त्वं छिन्ने महसां राशिः शक्तिरसि । हुङ्कारेण रिपुव्रातं निर्दहसि ॥ १८॥ भोगासक्तरतिग्राहाङ्कासनगा । बालार्कद्युतिभृत्पादाम्भोजयुवा ॥ १९॥ छिन्नं पाणितले मूर्धानं दधती । प्राणानात्मवशे संस्थाप्यानहती ॥ २०॥ स्फारास्येन पिबन्त्युल्लोलानसृजः । ध्वस्तानादधती दृप्तान् भूमिभुजः ॥ २१॥ डाकिन्याऽनघया वर्णिन्या च युता । रामाम्बाऽवतु मां दिव्यं भावमिता ॥ २२॥ कार्यं साधयितुं वीर्यं वर्धय मे । चित्तं स्वात्मनि च च्छिन्ने स्थापय मे ॥ २३॥ योगं मे विषयारात्यब्धिं तरितुम् । चित्तं देवि कुरु त्वं साक्षाद्दितुम् ॥ २४॥ मान्दारैरिव मे गायत्रैर्विमलैः । छिन्ने सिध्यतु ते पादार्चा मुकुलैः ॥ २५॥
द्वितीयो बृहतीस्तबकः निखिलामयतापहरी निजसेवकभव्यकरी । गगनामृतदीप्तिझरी जयतीश्वरचिल्लहरी ॥ २६॥ विपिने विपिने विनुता नगरे नगरे नमिता । जयति स्थिरचित्तहिता जगतां नृपतेर्दयिता ॥ २७॥ मतिकैरविणीन्दुकला मुनिहृत्कमले कमला । जयति स्तुतिदूरबला जगदीशवधूर्विमला ॥ २८॥ कलिपक्षजुषां दमनी कलुषप्रततेः शमनी । जयति स्तुवतामवनी सदया जगतो जननी ॥ २९॥ अतिचण्डिसुपर्वनुते बलपौरुषयोरमिते । जननं सुजनावनिते जगतामुपकारकृते ॥ ३०॥ सकलामयनाशचणे सततं स्मरतः सुगुणे । मम कार्यगतेः प्रथमं मरणं न भवत्वधमम् ॥ ३१॥ मरणस्य भयं तरितुं करुणारसवाहिनि ते । स्मरणाद्रसयामि गलच्चरणाम्बुरुहादमृतम् ॥ ३२॥ वनितावपुषध्रणं जगदम्ब न वेद्मि तव । वियदग्नितनोध्रणं शिरसेह वहामि सदा ॥ ३३॥ शतशः प्रसृतैध्रणैः मुनिमस्तकवीथिषु सा । विपुले गगने वितता चरति त्रिदशेशसखी ॥ ३४॥ विशति प्रविधाय पथश्चरणस्य विभाम्बगुहाम् । विहितस्य ममेहशिरस्यजरे जगदीश्वरि ते ॥ ३५॥ चरणस्य विभा किमु ते तव काचन वीचिरुत । विविधा विदधाति कथाः प्रविशन्त्ययि भक्त्गुहाम् ॥ ३६॥ निजवीचिविलासपदं मम कायमिदं जगति । करणं सुरकार्यकृते तव निस्तुलभे भवतु ॥ ३७॥ मम वर्ष्मणि हीनबले यदि कश्चन लोप इव । तमपोह्यपटिष्ठतमं कुरु विष्टपमातरिदम् ॥ ३८॥ सहतामिदमम्बवपुस्तव नाट्यमपारजवम् । बहिरन्तरशत्रुसहं भजतां बहुलं च बलम् ॥ ३९॥ पृथिवी च सहेत न ते तटिदीश्वरि नाट्यजवम् । करुणा यदि देवि न ते वपुषामिह का नु कथा ॥ ४०॥ तव शक्तिझरीपतनं बहिरद्भुतवृष्टिरिव । इदमन्तरनन्तबले मदिरारसपानमिव ॥ ४१॥ परमिक्षुरसो मधुरो मदिरामदकृत्परमा । मधुरा मदकृच्च भृशं तव शक्तिकलालहरी ॥ ४२॥ रसनेन्द्रियमात्रामुदं वर इक्षुरसः कुरुते । बहिरन्तरपि प्रमदं तव शक्तिकलालहरी ॥ ४३॥ वपुषो मनसश्चधियो बलमद्भुतमादधती । प्रमदं च जयत्यजरे तव शक्तिकलालहरी ॥ ४४॥ तव शक्तिकलालहरी परिशोधयते भुवि यम् । विदुरागमसारविदः सनिमेषममर्त्यमिमम् ॥ ४५॥ लहरीमखिलाम्ब विना तव योऽनुभवं वदति । अयि वञ्चित एष मृषा विषयेण महाविभवे ॥ ४६॥ सततालहरी यदि ते बहिरन्तरपि प्रगुणा । भवबन्धचयः शिथिलो भुवि जीवत एव भवेत् ॥ ४७॥ इह तावदपारबले सकला अपि योगकथाः । तव यावदनन्तजुषो न पवित्रझरीपतनम् ॥ ४८॥ विषयारिविनाशविधौ रमणीयमुपायमजे । कथयेश्वरि मे विशदं तव नाम्ब न साध्यमिदम् ॥ ४९॥ गणनाथकवेः कृतिभिः बृहतीभिरिमाभिरजा । परितृप्यतु चण्डवधूः कपटागगनाग्निकला ॥ ५०॥
तृतीयः सुप्रतिष्ठास्तबकः चण्डचण्डिकां बालभानुभाम् । नौमि देवताराजवल्लभाम् ॥ ५१॥ नाभिमण्डलश्वेतपद्मगे । चण्डदीधितेर्मण्डले स्थिताम् ॥ ५२॥ सूक्ष्मनाडिकादेहधारिणीम् । घोरपातकव्रातहारिणीम् ॥ ५३॥ उग्रविक्रमच्छिन्नमस्तकाम् । दग्धवासनाघासजालकाम् ॥ ५४॥ नौमि सद्धियं सिद्धसंस्तुताम् । वज्रधारिणः शक्तिमद्भुताम् ॥ ५५॥ प्राणिनां तनौ तन्तुसन्निभाम् । अम्बरस्थले व्यापकप्रभाम् ॥ ५६॥ चारुवर्णिनीप्रीतिलालिताम् । भीमडाकिनीवीर्यनन्दिताम् ॥ ५७॥ दीप्यदक्षिभाभीषितासुराम् । नौमि वज्रिणः शक्तिमक्षराम् ॥ ५८॥ या विशत्तपोध्वस्तपातकाम् । रेणुकां सुतच्छिन्नमस्तकाम् ॥ ५९॥ नौमि तामरिव्रातमर्दिनीम् । नाकमेदिनीपालभामिनीम् ॥ ६०॥ देवसुन्दरीमस्तलालितम् । अम्बिकापदं भातु मे हितम् ॥ ६१॥ शोध्यतामयं सर्वधीपुषा । लोकधात्रि ते पादरोचिषा ॥ ६२॥ कोटिशस्तव प्राज्यशक्त्यः । विद्युदम्बिके पादपङ्क्तयः ॥ ६३॥ तासु विक्रमाधायिचेष्टितम् । तासु विष्टपज्ञानमद्भुतम् ॥ ६४॥ सर्वतोऽम्ब ते पादचेष्टितम् । वेत्ति तत्कृती नो जडः कृतम् ॥ ६५॥ वेत्ति यः कृती तत्रा तद्बलम् । वेद यो नना तत्र नो फलम् ॥ ६६॥ अर्पयेत्तनुं यः सवित्रि ते । शक्तिवैभवं तत्र पण्डिते ॥ ६७॥ पूरुषो भवन्नूर्मिरच्युते । मत्तनुं स्त्रैयं सम्भुनक्तु ते ॥ ६८॥ सर्वतो गतिर्भामदम्ब ते । मद्गुहान्तरे भातु विश्रुते ॥ ६९॥ उग्रवैभवाशक्तिरन्तरे । भातु ते पदप्रेयसःपरे ॥ ७०॥ चण्डि ते पुनश्चेत्प्रचण्डता । कीदृगम्बिके सा महोग्रता ॥ ७१॥ मर्त्यहस्तिनं मस्तभेदिनी । शक्तिरम्ब ते पातु पावनी ॥ ७२॥ उत्तमोत्तमा चित्तचिन्त्यताम् । कृत्तमस्तका मत्तकाशिनी ॥ ७३॥ आत्मवैरिणां नाशने विधिम् । ब्रूहि मे जनन्यन्तरावधिम् ॥ ७४॥ चेतसोऽम्ब ते जायतां हितम् । सौप्रतिष्ठसद्गीतमद्भुतम् ॥ ७५॥
चतुर्थो नरमनोरमास्तबकः अमरपालिनी दितिजनाशिनी । भुवनभूपतेर्जयति भामिनी ॥ ७६॥ अतिशुभा नभस्तलविसारि भा । जगदधीशितुर्जयति वल्लभा ॥ ७७॥ सुरमहीपतेर्हृदयमोहिनी । कपटकामिनी जयति मायिनी ॥ ७८॥ जयति कुण्डलीपुरनिकेतना । तटिदधीश्वरी तरललोचना ॥ ७९॥ विमलमस्तकैर्हृदि विधारिता । दलितमस्तका जयति देवता ॥ ८०॥ जयति विद्युतो युवतिभूमिका । इह खलान्तकृज्जयति रेणुका ॥ ८१॥ अमितविक्रमे जयजयाम्बिके । परशुधारिणो जननि रेणुके ॥ ८२॥ विनतपालिके धरणिकालिके । जनपतिद्विषो जननि पाहि माम् ॥ ८३॥ मम क्तदम्बुजं तव पदाम्बुजे । भजतु लीनतां कपटनार्यजे ॥ ८४॥ १०८ करुणया क्रियाद्भगवती शुभा । मम मुदावहं मदमुदारभा ॥ ८५॥ तव मदे वृषा जयति दानवान् । तव मदे हरो नटति मोदवान् ॥ ८६॥ तव मदे रविस्तपति तेजसा । तव मदे स्वभूरवति चौजसा ॥ ८७॥ तव मदे शशी रमयतेऽखिलम् । तव मदेऽनिलः प्रथयते बलम् ॥ ८८॥ तव मदेऽनलो जगति राजते । तव मदे मुनिर्निगममीक्षते ॥ ८९॥ तव मदे धरा भ्रमति मेदिनी । तव मदे तनुर्मम च मोदिनी ॥ ९०॥ दहनकीलवन्निरुपमोग्रता । शशिमयूखवत्परमसौम्यता ॥ ९१॥ गगनदेशवत्स्थितिरचञ्चला । तपनरश्मिवद्गतिरपङ्किला ॥ ९२॥ अमृतवन्मदः पवनवद्बलम् । तव तरङ्गके किमिव नो फलम् ॥ ९३॥ तव नवामहामदविधायिका । अघहरीसुरा जयति वीचिका ॥ ९४॥ तव सुचित्तिका जननि वीचिका । अमृतवर्षिणी जयति हर्षिणी ॥ ९५॥ अमरराज्ञिदेव्यसुरविघ्नहा । असुरुपासकानवति ते कला ॥ ९६॥ अनुगृहीतवाक्तव गभस्तिना । सकलसिद्धिराड् भवति देविना ॥ ९७॥ सततचिन्तनात्तव गुहान्तरे । नियतचेतसो जगदिदं करे ॥ ९८॥ जननि मे विधिं कथय भीषणे । विषयशात्रावव्रजविदारणे ॥ ९९॥ तव मनोरमे सुरपतेरिमाः । विदधतां मुदं नरमनोरमाः ॥ १००॥
द्वितीयं शतकम् पञ्चमो रथोद्धतास्तबकः कृत्तमस्तमपिशातकर्तरीं पाणिपद्मयुगलेन बिभ्रतीम् । संस्मरामि तरुणार्करोचिषं योषितं मनसि चण्डचण्डिकाम् ॥ १०१॥ चण्डचण्डि तव पाणिपङ्कजे यन्निजं लसति कृत्तमस्तकम् । देवि सूचयति चित्तनाशनं तत्तवेन्द्रहृदयाधिनायिके ॥ १०२॥ दीप्तिविग्रहलतां महाबलां वह्निकीलनिभरक्तकुन्तलाम् । संस्मरामि रतिमन्मथासनां देवतां तरुणभास्कराननाम् ॥ १०३॥ रश्मिभिस्तव तनूलताकृता रश्मिभिस्तव कृताश्च कुन्तलाः । रश्मिभिस्तव कृतं ज्वलन्मुखं रश्मिभिस्तव कृते च लोचने ॥ १०४॥ देवि रश्मिकृतसर्वविग्रहे दृष्टिपातकृतसाध्वनुग्रहे । अम्बरोदवसिते शरीरिणामम्ब पाहि रविबिम्बचालिके ॥ १०५॥ यत्तवासनमशेषमोहनौ विद्युदक्षिरतिसूनसायकौ । एतदिन्द्रसखि भाषते त्वया तावुभावपि बलादधः कृतौ ॥ १०६॥ दृष्टिरेव तव शस्त्रमाहवे शात्रवस्तु तव न क्षमः पुरः । वस्त्रमम्ब दिश एव निर्मलाः प्रेक्षितुं भवति न प्रभुः परः ॥ १०७॥ चक्षुषां दशशतानि ते रुचिं पातुमेव परमस्य वज्रिणः । भास्वतः करसहस्रमम्बिके लालनाय तव पादपद्मयोः ॥ १०८॥ शूलमग्नितिलकस्य धूर्जटेः चक्रमच्छजलजातचक्षुषः । वज्रमम्ब मरुतां च भूपतेः तेजसस्तव कृतानि भागकैः ॥ १०९॥ भैरवीचरणभक्त्बान्धवी तारिणी च सुरपक्षधारिणी । कालिका च नतपालिकाऽपराश्चण्डचण्डि तव भीमभूमिकाः ॥ ११०॥ रक्ष मे कुलमतीन्द्रिये तते राक्षसादिनि सुरैः समर्चिते । पुत्राशिष्यसहितोऽहमम्ब ते पावनं पदसरोरुहं श्रये ॥ १११॥ ऐन्द्रिदेवि भवती महाबला छिन्नमस्तयुवतिस्तु ते कला । सर्वलोकबलवित्तशेवधेः पेरक्षिताऽस्ति तव को बलावधेः ॥ ११२॥ येयमम्ब रुचिरुज्ज्वलानने या च काचन विभा विभावसौ । तद्द्वयं तव सवित्रि तेजसो भूमिनाकनिलयस्य वैभवम् ॥ ११३॥ प्राणदा तव रुचिर्जगत्त्राये प्राणहृच्च बत कार्यभेदतः । वैभवं भुवनचक्रपालिके को नु वर्णयितुमीश्वरस्तव ॥ ११४॥ उद्भवस्तवविपाकवैभवे नाशनं च जगदम्ब देहिनाम् । यौवनं नयनहारिनिर्मलं वार्धकं च विततातुलप्रभे ॥ ११५॥ निर्बलो भवति भूतले युवा यच्च देवि जरठो भवेद्बली । तद्वयं तव विचित्रपाकतः पाकशासनसखि क्षरेतरे ॥ ११६॥ वार्धकेन बलकान्तिहारिणा दारुणेन कटुकार्यकारिणा । ग्रस्तमेतमधुना पुनः कुरु त्राणदे युवकवत्पदाश्रितम् ॥ ११७॥ भोगलालसतया न नूतनं देवि विक्रममपारमर्थये । अत्र मे वपुषि लास्यमम्ब ते सोढुमेव मम सेयमर्थना ॥ ११८॥ शक्तिरम्ब मम काचिदन्तरे या त्वयैव निहितालमल्पका । वृद्धिमेत्य सहतामियं परां बाह्यशक्तिमिह निर्गलज्झराम् ॥ ११९॥ अम्ब ते नरसुरासुरस्तुते दिव्यशक्तिलहरीविशोधितम् । पातकानि जहतीव मामिमं कामयन्त इव सर्वसिद्धयः ॥ १२०॥ शक्तिरिन्द्रसखि चेन्न ते मृषा भक्तिरीश्वरि न मे मृषा यदि । उल्लसन्तु रतिकन्तुपीठिके शीध्रमेव मयि योगसिद्धयः ॥ १२१॥ अस्तु भक्तिरखिलाम्ब मे न वा शक्तिरेव तव सम्प्रशोध्य माम् । देवकार्यकरणक्षमं बलादादधातु विदधातु चामृतम् ॥ १२२॥ आस्यमम्ब तव यद्यपीक्षितं लास्यमेतदनुभूयते मया । पादघातततिचूर्णितान्यजे यत्र यान्ति दुरितानि सङ्क्षयम् ॥ १२३॥ स्वीयशक्तिलहरीविलासिने किङ्कराय पदपद्मलम्बिने । भाषतां विषयवैरिदारणे भङ्गवर्जितमुपायमम्बिका ॥ १२४॥ निर्मले करुणया प्रपूरिते सन्ततं विकसिते महामहे । अम्बिकाहृदि वितन्वतामिमाः सम्प्रसादमतुलं रथोद्धताः ॥ १२५॥
षष्ठः स्वागतास्तबकः योगिने बलमलं विदधाना सेवकाय कुशलानि ददाना । अस्तु मे सुरधरापतिशक्तिश्चेतसश्च वपुषश्च सुखाय ॥ १२६॥ कार्यमस्ति मम किञ्चन सत्यं तज्जयाय विलपामि च सत्यम् । एवमप्यकपटैव रतिर्मे वज्रपाणिसखि ते पदपद्मे ॥ १२७॥ श्रद्धया तव नुतिं विदधामि श्रद्धया तव मनुं प्रजपामि । श्रद्धया तव विजृभितमीक्षे श्रद्धया तव कृपां च निरीक्षे ॥ १२८॥ विद्युदेव भवती च मरुत्वान् विद्युदेव गिरिशो गिरिजा च । विद्युदेव गणपः सह सिद्धञ्या षट्कभेद इह कार्यविशेषैः ॥ १२९॥ पूरुषश्च वनितेति विभेदः शक्तशक्तिभिदया वचनेषु । तेज एव खलु विद्युति शक्तं वीर्य एव जगदीश्वरि शक्तिः ॥ १३०॥ विद्युदम्बरभुवि ज्वलतीशे शब्दमम्ब कुरु ते च सुसूक्ष्मम् । इन्द्ररुद्रयुगलव्यवहारे कर्मयुग्ममिदमीश्वरि बीजम् ॥ १३१॥ वैद्युतस्य भवसि ज्वलतोऽग्नेरम्ब शक्तिरसतां दमनि त्वम् । तस्य नादवत आगमगीता कालिका भवति शक्तिरभीता ॥ १३२॥ तेजसो रुचिरभीमकलाभ्यां यद्वदीश्वरि शची भवती च । एवमाश्रितजनावनि गौरी कालिका च निनदस्य कलाभ्याम् ॥ १३३॥ वैद्युतोऽग्निरखिलेश्वरि पिण्डे मूलतामरसपीठनिषण्णः । इन्द्रियं भवति वागिति देवं यं विदो गणपतिं कथयन्ति ॥ १३४॥ ग्रन्थिभेदविकचे सरसीजे जृम्भमाणमिह वैद्युतवह्निः । यां रुचिं प्रकटयत्यतिवीर्यां सैव सिद्धिरिति काचन लक्ष्मीः ॥ १३५॥ विद्युदेव भवती ननु भान्ती विद्युदेव नगजा निनदन्ती । विद्युदेव तपसो विलसन्ती विग्रहेषु परमेश्वरि सिद्धिः ॥ १३६॥ नैव केवलमुदारचरित्रे विद्युदद्भुततमा त्रिविभूतिः । वैभवं बहु सहस्रविभेदं को नु वर्णयतु पावनि तस्याः ॥ १३७॥ वैद्युतं ज्वलनमीश्वरि हित्वा नैव दैवतमभीष्टतमं नः । तद्विभूतिगुणगानविलोला भारती जयतु मे बहुलीला ॥ १३८॥ तेजसश्च सहसश्च विभेदाद्या तनुस्तव भवत्युभयात्मा । तद्वयं च मयि चित्रचरित्रे जृम्भतां नरजगत्कुशलाय ॥ १३९॥ प्रायशो निगमवाचि पुमाख्या तन्त्रावाचि वरदे वनिताख्या । प्राणिनां जननि ते विबुधानां तत्र हेतुरजरे रुचिभेदः ॥ १४०॥ अत्र सिद्धिरुदिता मम देहे भूमिका भुवनधात्रि तवान्या । आह्वयत्यधिकशक्तिकृते त्वां त्वं च सम्प्रविश देहगुहां नः ॥ १४१॥ जृम्भतामियमितः कुलकुण्डादन्तरिक्षतलतोऽवतर त्वम् । उल्लसन्त्ववलसन्तु च देहे वीचयोऽत्र भगिनीद्वितयस्य ॥ १४२॥ केवलं न सहसा महनीये तेजसा च वरदेऽवतर त्वम् । अत्र सिद्धिमपि केवलवीर्योल्लासिनीं जननि योजय भासा ॥ १४३॥ छिन्नमुज्ज्वलतटित्प्रभनेत्रं कण्ठरक्त्जलसींग्रहपात्रम् । मस्तकं तव सहेश्वरि धन्यं मस्तकं मम करोतु विशून्यम् ॥ १४४॥ मोचिताश्रितगुहान्तरबन्धः प्राणवांस्तव सवित्रि कबन्धः । वासनाकुसुमतल्पकसुप्तां सम्प्रबोधयतु मे मतिमाप्ताम् ॥ १४५॥ देवपूज्यचरणा तव चेटी निर्विबन्धकरुणापरिपाटी । वज्रपाणिसखि शोकदरिद्रं वर्णिनी भणतु मे बहुभद्रम् ॥ १४६॥ चण्डचण्डि तव युद्धवयस्या योगिवेद्यनिजवीर्यरहस्या । चेतसश्च भुजयोश्च समग्रं डाकिनी दिशतु मे बलमुग्रम् ॥ १४७॥ मन्मथेन सह रागरसार्द्रा पूरुषायितरता रतिरीड्या । आसनं तव वशीकुरुतान्मे सर्वलोकमपि वज्रशरीरे ॥ १४८॥ दृप्यतां विषयवैरिगणानां मर्दनाय रमणीयमुपायम् । अम्ब शीघ्रमभिधाय नय त्वं मामिमं चरणपङ्कजबन्धुम् ॥ १४९॥ तेजसा च सहसा च विभान्ती पुष्करे च यमिनां च तनूषु । सम्मदं भजतु वासवशक्तिः स्वागताभिरमलाभिरिमाभिः ॥ १५०॥
सप्तम इन्द्रवज्रास्तबकः ज्ञानाय हानाय च दुर्गुणानां भानाय तत्त्वस्य परस्य साक्षात् । देवीं प्रपद्ये सुरपालशक्तिमेकामनंशामभितो विभान्तीम् ॥ १५१॥ ईशोऽशरीरो जगतां परस्तात् देवी खकाया परितो जगन्ति । पूर्वो विशुद्धो गुणगन्धशून्यः स्थानं गुणानामपराऽखिलानाम् ॥ १५२॥ आक्रम्य लोकं सकलं विभाति नो केवलं भूरि विभूतिरम्बा । शुद्धा परस्तादपि नाथचित्ति रूपा विपापा परितश्चकास्ति ॥ १५३॥ त्रौलोक्यभूजानिरणोरणिष्ठस्तस्यात्मशक्तिर्महतो महिष्ठा । एतद्रहस्यं भुवि वेद यो ना तत्त्वप्रसङ्गएषु न तस्य मोहः ॥ १५४॥ ज्ञानं परं धर्मवदीशतत्त्वं धर्मात्मकं ज्ञानमजास्वरूपम् । शक्तीशयोर्भक्तुमशक्ययोरप्येवं विभागो वचसा व्यधायि ॥ १५५॥ दृश्यस्य सर्वस्य च भोगकाले धर्मी च धर्मश्च विभाति बोधः । अन्तः समाधावयमेकरूपः शक्तीशभेदस्तदसावनित्यः ॥ १५६॥ धर्मः परस्तात्परमेश्वरी या धर्मित्वमेषा जगति प्रयाति । यावज्जगज्जीवितमप्रणाशमाकाशमाश्रित्य महच्छरीरम् ॥ १५७॥ व्यक्तिं खकायां प्रजगुः पुमांसमेके परे क्लीबमुदाहरन्ति । अस्माकमेषा परमात्मशक्तिर्माता समस्तस्य च काऽपि नारी ॥ १५८॥ चिद्रूपमत्यन्तसुसूक्ष्ममेतत् ज्योतिर्यदाकाशशरीरमग्र्यम् । प्राणः स एव प्रणवः स एव वह्निः स एवाम्बरदेशवासी ॥ १५९॥ वायुश्च रुद्रश्च पुरन्दरश्च तस्यैव विश्वं दधतः पुमाख्याः । शक्तिश्च काली च महाप्रचण्डचण्डी च योषित्प्रवराह्वयानि ॥ १६०॥ अत्रापि धर्मी पुरुषः परेषां धर्मस्तु नारी विदुषां मतेन । एषोऽपि वाचैव भवेद्विभागः शक्यो विधातुं न तु वस्तुभेदात् ॥ १६१॥ त्वं देवि हन्त्री महिषासुरस्य शुम्भं सबन्धुं हतवत्यसि त्वम् । त्वं योगनिद्रामधुसूदनस्य भद्रासि शक्तिर्बलवैरिणस्त्वम् ॥ १६२॥ कालस्य लीलासहचारिणी त्वं वामाङ्गमस्यन्धकवैरिणस्त्वम् । सिद्धिस्त्वमश्रान्ततपोभिगम्या बुद्धिस्त्वमक्षुद्रमनुष्यनम्या ॥ १६३॥ विद्युत्त्वमाकाशपथे चरन्ती सूर्यप्रभा त्वं परितो लसन्ती । ज्वाला कृशानोरसि भीमलीला वेलातिगा त्वं परमस्य चित्तिः ॥ १६४॥ भेदाः सहस्रं तव देवि सन्तु त्वं मूलशक्तिर्मम मातरेका । स्तोत्राणि ते बुद्धिमतां विभूतिद्वारा बहूनीव विभान्ति लोके ॥ १६५॥ उग्राणि रूपाणि सहस्रशस्ते सौम्यानि चाशेषसवित्रि सन्ति । व्यक्तित्वमेकं तव भूरिशक्तिव्यक्तीः पृथक् च प्रददाति तेभ्यः ॥ १६६॥ कुर्वन्ति ताः पावनि विश्वकार्यं सर्वं च लोकाम्ब विभूतयस्ते । स्वर्वैरिणां च प्रतिसन्धिकालं गर्वं हरन्ति क्षणदाचराणाम् ॥ १६७॥ चण्डी प्रचण्डा तव या विभूतिः वज्रात्मिका शक्तिरपारसारा । सा सम्प्रदायातुलमम्ब वीर्यं देवी क्रियान्मां कृतदेवकार्यम् ॥ १६८॥ आविश्य या मां वपुषो गुहायां चित्राणि ते शक्तिरजे करोति । सा का तव प्राज्यविभूतिमध्ये सद्ध्येयरूपे विशदीकुरुष्व ॥ १६९॥ संशोधनायैव कृतिः किमस्याः सञ्चालनायापि किमु क्रियाणाम् । शक्त्यै किमेषा विदधाति चेष्टामाहोस्विदच्छां च मतिं प्रदातुम् ॥ १७०॥ प्राणप्रदा भीमतमा च शक्तिर्या कृत्तशीर्षां सहसाविवेश । सा मे क्रियात्प्राणबलं प्रशस्तं हस्तं च मे कार्यपटुं करोतु ॥ १७१॥ सन्देहजालं प्रविधूय तेजः सन्दायिनी कृत्तशिराः करोतु । वृन्दारकाराधितपादपद्मा वन्दारुमन्दारलता शुभं नः ॥ १७२॥ मामाविशन्ती भव वा न वा त्वं सम्पादयेष्टं मम वा न वा त्वम् । दुर्ज्ञेयसारे जननि प्रचण्डचण्डि त्वमेका कुलदैवतं नः ॥ १७३॥ नाशं विधातुं विषयद्विषां मे पाशत्रयान्मोचयितुं च देहम् । शेषाहिवर्ण्ये पदकिङ्कराय भाषस्व योगं जननि प्रचण्डे ॥ १७४॥ सर्वात्मशक्तेः पदबन्धुगीताः कुर्वन्तु भूयांसमिह प्रमोदम् । युक्त्स्य देव्यास्तटितः समाधिमत्तस्य चित्तस्य ममेन्द्रवज्राः ॥ १७५॥
अष्टमो भयहारिस्तबकः उग्रतरनादां पापहरपादाम् । नौमि खलमारीं वज्रधरनारीम् ॥ १७६॥ शक्तकरणानां गुप्तभरणानाम् । ध्वान्तहरविद्युद्वीचिकिरणानाम् ॥ १७७॥ नित्यकरुणानां व्योमशरणानाम् । अस्मि गुणवन्दी मातृचरणानाम् ॥ १७८॥ काचन शबर्यां देवि मुनिनार्याम् । पुण्यवदधीते मोहनकला ते ॥ १७९॥ काचिदपि तस्यां मौनिजनगीते । कृत्तशिरसीशे भीषणकला ते ॥ १८०॥ मञ्जुतरगुञ्जाहारनिकरायै । चापशरयुक्त्प्रोज्ज्वलकरायै ॥ १८१॥ सर्वजनचक्षुस्तर्पणविभायै । जङ्गमविचित्रास्वर्णलतिकायै ॥ १८२॥ अभ्रचिकुरायै शुभ्रहसितायै । मादकमनोज्ञस्वादुवचनायै ॥ १८३॥ इन्दुवदनायै कुन्दरदनायै । मन्दरकुचायै मन्दगमनायै ॥ १८४॥ अञ्जलिरयं मे कञ्जनयनायै । मौनिकुलनार्यै पावनशबर्यै ॥ १८५॥ पावनचरित्रां मारमणपुत्राम् । छिन्नशिरसं तां नौमि मुनिकान्ताम् ॥ १८६॥ मातरयि वीर्यत्रातवरधर्मे । माऽस्तु हृदि मोहः सन्न्तिरिपुर्मे ॥ १८७॥ देवि मुनिचेतो रङ्गलसदूर्मे । माऽस्तु हृदि कामः सुस्थितिरिपुर्मे ॥ १८८॥ देवजनभर्तुः प्राणसखि रामे । माऽस्तु हृदि भीतिर्वीर्यदमनी मे ॥ १८९॥ व्योमचरि मातर्भामयि विसीमे । माऽस्तु हृदि कोपो बुद्धिदमनो मे ॥ १९०॥ साध्ववनलोले देवि बहुलीले । अस्तु मम धैर्यं चेतसि सुवीर्यम् ॥ १९१॥ सर्वतनुपाकाधायि तव भव्यम् । अस्तु वरतेजो नेतृ मम दिव्यम् ॥ १९२॥ इच्छति सवित्री यत् प्रियसुताय । तद्वितर सर्वं देवि भजकाय ॥ १९३॥ इच्छति मनुष्यो यद्रिपुजनाय । मत्तदयि दूरे पालय विधाय ॥ १९४॥ वर्धयतु तेजो वर्धयतु शक्तिम् । वर्धयतु मेऽम्बा वज्रभृतिभक्तिम् ॥ १९५॥ वज्रमयि मातर्वज्रधरभक्त्ः । अस्तु तव वीर्यादत्र भुवि शक्त्ः ॥ १९६॥ नश्यतु समस्तो वज्रधरवैरी । एतु जयमन्तर्वज्रधरनारी ॥ १९७॥ हस्तधृतमुण्डः कश्चन कबन्धः । अस्तु मम भिन्नग्रन्थिचयबन्धः ॥ १९८॥ साधय मदिष्टं योगमभिधाय । देवि विषयारिव्रातदमनाय ॥ १९९॥ सम्मदयतान्मे स्वांशकृतशम्बाम् । चारुभयहारिच्छन्द इदमम्बाम् ॥ २००॥
तृतीयं शतकम् नवमो मदलेखास्तबकः वन्दे वासवशक्तेः पादाब्जं प्रियभक्त्म् । प्रातर्भास्कररक्तं पापध्वंसनशक्त्म् ॥ २०१॥ हुङ्कारानलकीलादग्धारातिसमूहाम् । विद्युद्भासुरवीक्षानिर्धूताश्रितमोहाम् ॥ २०२॥ देवस्त्रीनिटलेन्दुज्योत्स्नालालितपादाम् । मेघश्रेण्युपजीव्यश्रोत्राकर्षकनादाम् ॥ २०३॥ दीप्तां भास्करकोटिच्छायायामिव मग्नाम् । गात्रालम्बिविनैवक्षौमं किञ्चिदिनग्नाम् ॥ २०४॥ कण्ठे कल्पितहारां मुण्डानां शतकेन । ज्ञेयामूल्यरहस्यां निव्र्याजं भजकेन ॥ २०५॥ स्वर्गस्य क्षितिपालं पश्यन्तीं प्रणयेन । धुन्वानां विबुधानां भीतिं शक्तशयेन ॥ २०६॥ शक्तीनामधिराज्ञीं मायानामधिनाथाम् । चण्डां कामपिचण्डीं गायाम्यद्भुतगाथाम् ॥ २०७॥ भित्त्वा मस्तकमेतत् पादाघातबलेन । आविश्याखिलकायं खेलत्पावनलीलम् ॥ २०८॥ वेगेनावतरत्ते तेजोनाशितपाशम् । चण्डे चण्डि समस्तं गोप्यं भासयतान्मे ॥ २०९॥ अन्तः किञ्च बहिस्ते मातर्दारितमस्ते । मामावृत्य समन्तात्तेजः कर्म करोतु ॥ २१०॥ इन्द्राणीकलया यत्कृत्तामाविशदुग्रा । शक्यं वर्णयितुं तद्दृश्यं केन बुधेन ॥ २११॥ प्राणापेतशरीराण्यावेष्टुं प्रभवन्तः । भेतालास्तव भृत्याश्चण्डे चण्डि चरन्तः ॥ २१२॥ छिन्नां सम्प्रविशन्तीवज्रेश्वर्यतिशक्ता । निःशेषैरतिभीमैर्भेतालैरभिषिक्ता ॥ २१३॥ भेतालाः परमुग्रास्त्वं तेष्वप्यधिकोग्रा । तस्मादाहुरयि त्वां चण्डामीश्वरि चण्डीम् ॥ २१४॥ आसीद्घातयितुं त्वां साधोर्धीर्जमदग्नेः । भेतालप्रभुसर्गायोल्लङ्घ्यैव निसर्गम् ॥ २१५॥ आदेष्टाशमवित्तो हन्तासात्त्विकमौलिः । वध्या निश्चलसाध्वी शोच्येतश्च कथा का ॥ २१६॥ निर्यद्रक्तकणेभ्यः कण्ठात्ते भुवि जाताः । मार्याद्यामयवीजीभूतस्तम्बविशेषाः ॥ २१७॥ करागारनिवासात्माहिष्मपत्यधिपस्य । जाता भार्गवशङ्का हत्यायास्तव मूलम् ॥ २१८॥ सत्यं तेऽम्ब चरित्रां भद्मः कोऽपि निगुह्य । त्रातुं यादवकीतिं मिथ्याहेतुमवादीत् ॥ २१९॥ अन्यागारनिवासे हत्या त्याग उताहो । स्त्रीणां चेत्परुषं धिग्भावं पूरुषजातेः ॥ २२०॥ स्वातन्त्र्यं वनितानां त्रातुं मातरधीशे । दूरीकर्तुमपारं दैन्यं पञ्चमजातेः ॥ २२१॥ धर्मं व्याजमधर्मं भूलोके परिहर्तुम् । वेदार्थे च गभीरे सन्देहानपि हर्तुम् ॥ २२२॥ घोरं वर्णविभेदं कर्तुं च स्मृतिशेषम् । उल्लासं मतिशक्त्योर्मह्यं देहि महान्तम् ॥ २२३॥ योगं मे विषयारीन् निर्मूलं परिमार्ष्टुम् । श्रीमातः कुरु चित्तं कारुण्येन निदेष्टुम् ॥ २२४॥ चण्ड्याध्ण्डतमायाः चित्तं संयममत्तम् । भूयः सम्मदयन्तां हैरम्ब्यो मदलेखाः ॥ २२५॥
दशमः पथ्यावक्त्रास्तबकः इन्द्राण्याः परमां शक्तिं सर्वभूताधिनायिकाम् । प्रचण्डचण्डिकां देवीं छिन्नमस्तां नमाम्यहम् ॥ २२६॥ इन्द्राण्याः शक्तिसारेण प्रादुर्भूते परात्परे । प्रचण्डचण्डि वज्रात्मन् वैरोचनि नमोऽस्तु ते ॥ २२७॥ त्वं विश्वधात्रि वृत्रारेः आयुधस्याधिदेवता । सर्वप्रचण्डभावानां मध्ये प्रकृतितः परा ॥ २२८॥ सर्वस्मिन्नपि विश्वस्य सर्गेऽनर्गलविक्रमे । त्वत्तश्चण्डतमो भावो न भूतो न भविष्यति ॥ २२९॥ तटितः शक्तिसारेण वज्रं निर्मितमायुधम् । अभूत्तद्विनयद्देवं तटिदेव निजांशतः ॥ २३०॥ पर्वतश्च पुलोमा च सजलोऽयं घनाघनः । पार्वतीति तटिद्देवीं पौलोमीति च तद्विदुः ॥ २३१॥ शैवानां भाषया देवि त्वं तटिद्देवि पार्वती । ऐन्द्राणां भाषया मातः पौलोमी त्वमनामये ॥ २३२॥ पूर्वेषां दयितः शब्दो दुर्गेति दुरितापहे । प्रचण्डचण्डिकाशब्द उत्तरेषामतिप्रियः ॥ २३३॥ वैष्णवानां गिरा देवि योगमाया त्वमद्भुता । वाचा हैरण्यगर्भाणां सवित्रि त्वं सरस्वती ॥ २३४॥ दधाना भुवनं सर्वं व्यापिकापद्विवर्जिता । तटिच्छब्दायते व्योम्नि प्राणित्यपि विराजते ॥ २३५॥ प्रचण्डचण्डिका सेयं तटित्सूक्ष्मेण तेजसा । विश्वस्मिन्नखिलान्भावान्माताऽनुभवति स्वयम् ॥ २३६॥ भावानामनुभूतानां वाक्यत्वेनावभासनम् । भवत्यव्यक्तशब्देऽस्याः सर्वंविज्ञानशेवधौ ॥ २३७॥ यदि सा सर्वजगतां प्राणश्चेतश्च शेमुषी । प्राणचेतोमनीषाणां तस्याः को नाम संशयः ॥ २३८॥ प्राणन्ती चिन्तयन्ती सा राजन्ती च विहायसि । तटिच्छब्दायमाना च देवी विजयतेतराम् ॥ २३९॥ सेच्छया दधती रूपं मोहनं कीर्त्यते शची । प्रचण्डचण्डिका गीता बिभ्राणा भीषणं वपुः ॥ २४०॥ पिण्डे कुण्डलिनीशक्तिः सैव ब्रह्नाण्डचालिका । निद्राति जडदेहेषु योगिदेहेषु खेलति ॥ २४१॥ एषा वैरोचनी दुर्गा ज्वलन्ती तपसा परा । समुल्लसति यस्यान्तः स जीवन्नेव मुच्यते ॥ २४२॥ योगिनो बोधयन्ती मां योगेन नियतव्रताः । सर्वार्पकस्य देहे सा स्वयमेव समुल्लसेत् ॥ २४३॥ शारीरशक्तिमात्र्स्य योगी सञ्चालको भवेत् । बाह्यशारीरशक्त्योस्तु योगो नानुग्रहं विना ॥ २४४॥ चण्डनारीस्वरूपेण तटिद्रूपेण चाम्बरे । पिण्डे कुण्डलिनीतन्वा चरन्ती देवि राजसे ॥ २४५॥ मस्तकस्थानमनसो महादेवि विनाशनात् । रेणुकायामुतावेशात् कृत्तमस्तेति ते पदम् ॥ २४६॥ यदाविशस्त्वमुग्रेऽम्ब रेणुकामुग्रतेजसा । तदा पृथङ्महाशक्तिः सा व्यक्तिः समपद्यत ॥ २४७॥ व्यक्तीनां दुर्जनघ्नीनां त्वत्तेजोभागजन्मनाम् । बहुत्वेपि त्वमेकैव मूलशक्तिः सनातनी ॥ २४८॥ उपायमभिधायाम्बा विषयारिविदारणे । प्रचण्डचण्डिका देवी विनयत्वङ्घ्रिसेविनम् ॥ २४९॥ रमयन्तामुपश्लोकयन्ति यान्ति क्तदन्तरम् । पथ्यावक्त्राणि पापघ्नीमेतानि च्छिन्नस्तकाम् ॥ २५०॥
एकादश उपजातिस्तबकः मेरूपमानस्तनभारतान्तां शक्रस्य लीलासहचारिणीं ताम् । हर्तुं समूलं हृदयस्य मोहं प्रचण्डचण्डीमभिवादयेऽहम् ॥ २५१॥ वेदादिबीजं जलजाक्षजाया प्राणप्रिया शीतमयूखमौलेः । कन्तुर्विधातुर्हृदयाधिनाथा जलं जकारो दहनेन युक्त्ः ॥ २५२॥ तोयं पुनर्द्वादशवर्णयुक्तं त्रायोदशेनाथ युतः कृशानुः । तालव्यवर्गप्रथमो नकारः ततध्तुर्थस्वरसम्प्रयुक्त्ः ॥ २५३॥ एकादशेनाथ युतः समीरः स षष्ठबिन्दुः सरणिः सुराणाम् । तदेव बीजं पुनरस्त्रमन्ते कृपीटयोनेर्मनसोऽधिनाथा ॥ २५४॥ विद्या त्वियं सर्दिशाक्षराढ्या स्वयं महाकालमुखोपदिष्टा । गोप्यासु गोप्या सुकृतैरवाप्या षष्ठीविनुत्या परमेष्ठिनापि ॥ २५५॥ स्थाने सहस्रच्छदसायकस्य पुनर्यदीशानमनोधिनाथा । सर्वार्थदः सर्दिशाक्षरोऽन्यः प्रचण्डचण्डी मनुरुत्तमः स्यात् ॥ २५६॥ वेदादिबीजेन विहीनमाद्यं पुनर्भवानीवियुतं द्वितीयम् । मन्त्रावुभौ षोडशवर्णयुक्तौ प्रचण्डचण्ड्याः पविनायिकायाः ॥ २५७॥ मन्त्रे तृतीये यदि कूर्चबीजं स्थाने रतेर्जीवितवल्लभ्स्य । मन्त्रोऽपरः षोडशवर्णयुक्त्ः प्रचण्डचण्ड्याः पटुशक्तिरुक्त्ः ॥ २५८॥ अयं हरेर्वल्लभ्या विहीनो मन्त्रोऽपरः पञ्चदशाक्षरः स्यात् । क्रोधश्च सम्बोधनमस्त्रमग्नेः सीमन्तिनी चेति धरेन्दुवर्णः ॥ २५९॥ धेनुः कृशानोहृदयेश्वरी च प्रचण्डचण्डी मनुरग्निवर्णः । एकैव धेनुः सुरराजशक्तेः एकाक्षरः कश्चन मन्त्रराजः ॥ २६०॥ एतेषु तन्त्राप्रणुतेषु भक्तो मन्त्रां नवस्वन्यतमं गृहीत्वा । यः संश्रयेताश्रितकामधेनुं प्रचण्डचण्डीं स भवेत् कृतार्थः ॥ २६१॥ वेदादिरम्भोरुहनेत्रजाया मायाङ्कुशब्रह्नमनोधिनाथाः । इतीयमव्याजरतिं जपन्तं पञ्चाक्षरी रक्षति रेणुकायाः ॥ २६२॥ ऋष्यादिसङ्कीर्तनमेषु माऽस्तु कराङ्गविन्यासविधिश्च माऽस्तु । मूर्तिं यथोक्तामुत दिव्यतत्त्वं ध्यात्वा जपेत् सिद्धिरसंशयं स्यात् ॥ २६३॥ नाभिस्थशुक्लाब्जगसूर्यबिम्बे संसक्तरत्यम्बुजबाणपीठे । स्थितां पदेनान्यतरेण सम्यगुत्क्षिप्तदीप्तान्यतराङ्घ्रिपद्माम् ॥ २६४॥ दिगम्बरामर्कसहस्रभासमाच्छादितां दीधितिपञ्जरेण । कण्ठस्थलीभासुरमुण्डमालां लीलासखीं देवजनाधिपस्य ॥ २६५॥ छिन्नं शिरः कीर्णकचं दधानां करेण कण्ठोद्गतरक्त्धाराम् । धारात्रये तत्र च मद्यधारां करस्थवक्त्रेण मुदा पिबन्तीम् ॥ २६६॥ पार्श्वे सखीं भासुरवर्णिनीं च पार्श्वान्तरे भीषणडाकिनीं च । अन्ये पिबन्त्यावसृगम्बुधारे निरीक्षमाणामतिसम्मदेन ॥ २६७॥ भयङ्कराहीश्वरबद्धमौलिं ज्वलद्युगान्तानलकीलकेशीम् । स्फुरत्प्रभाभासुरविद्युदक्षीं चण्डीं प्रचण्डां विदधीत चित्ते ॥ २६८॥ गुञ्जाफलाकल्पितचारुहारा शीर्षे शिखण्डं शिखिनो वहन्ती । धनुश्च बाणान्दधती कराभ्यां सा रेणुका वल्कलभृत्विचिन्त्या ॥ २६९॥ तटिज्झरीं कामपि सम्प्रश्यन् आकाशतः सर्वतनौ पतन्तीम् । मौनेन तिष्ठेद्यमिनां वरिष्ठो यद्येतदम्बास्मरणं प्रशस्तम् ॥ २७०॥ दृश्यानशेषानपि वर्जयित्वा दृष्टिं निजां सूक्ष्ममहःस्वरूपाम् । निभालयेद्यन्मनसा वरीयानन्योऽयमम्बास्मरणस्य मार्गः ॥ २७१॥ विना प्रपत्तिं प्रथमो न सिध्येत् मार्गोऽनयोः केवलभावनातः । हृदिस्थले योगबलेन चित्तेर्निष्ठां विना सिध्यति न द्वितीयः ॥ २७२॥ आरम्भ एवात्र पथोर्विभेदः फले न भेदो रमणो यथाह । स्थितौ धियो हस्तगताप्रपत्तिः प्रपत्तिसिद्धौ सुलभैव निष्ठा ॥ २७३॥ उपायमेकं विषयारिनाशविधौ विधायावगतं ममाम्बा । कृत्वा समर्थं च निजानुकम्पां प्रचण्डचण्डी प्रथयत्वपाराम् ॥ २७४॥ सध्यानमार्गं वरमन्त्रकल्पं प्रचण्डचण्ड्याः परिकीर्तयन्त्यः । भवन्तु मोदातिशयाय शक्तेरुपासकानामुपजातयो नः ॥ २७५॥
द्वादशो नाराचिकास्तबकः वीर्ये जवे च पौरुषे योषाऽपि विश्वतोऽधिका । मां पातु विश्वचालिका माता प्रचण्डचण्डिका ॥ २७६॥ शुद्धा चितिः सतः पुरा पश्चान्नभः शरीरका । योषातनुस्ततः परं माता प्रचण्डचण्डिका ॥ २७७॥ पारे परात्मनः प्रमा खे शक्तिरुत्तमोत्तमा । पिण्डेषु कुण्डलिन्यजा माता प्रचण्डचण्डिका ॥ २७८॥ नाके विलासशेवधिर्नालीकलोचना शची । प्राणप्रकृष्टविष्टपे माता प्रचण्डचण्डिका ॥ २७९॥ एकस्य सा महेन्दिरा देवी परस्य कालिका । अस्माकमुज्ज्वलानना माता प्रचण्डचण्डिका ॥ २८०॥ राजीवबान्धवो दिवि ह्रादिन्यपारपुष्करे । अग्निर्मनुष्यविष्टपे माता प्रचण्डचण्डिका ॥ २८१॥ तेजः समस्तपाचकं चक्षुः समस्तलोककम् । चित्तं समस्तचिन्तकं माता प्रचण्डचण्डिका ॥ २८२॥ द्यौस्तेजसां महानिधिः भूमिश्च भूतधारिणी । आपश्च सूक्ष्मवीचयो माता प्रचण्डचण्डिका ॥ २८३॥ निर्बाहुकस्य सा करो निर्मस्तकस्य सा मुखम् । अन्धस्य सा विलोचनं माता प्रचण्डचण्डिका ॥ २८४॥ पाणिं विना करोति सा जानाति मानसं विना । चक्षुर्विना च वीक्षते माता प्रचण्डचण्डिका ॥ २८५॥ हस्तस्य हस्त उत्तमः चित्तस्य चित्तमद्भुतम् । नेत्रास्य नेत्रामायतं माता प्रचण्डचण्डिका ॥ २८६॥ सा भारती मनीषिणां सा मानसं महात्मनाम् । सा लोचनं प्रजानतां माता प्रचण्डचण्डिका ॥ २८७॥ सक्तिः समस्तबाधिका युक्तिः समस्तसाधिका । शक्तिः समस्तचालिका माता प्रचण्डचण्डिका ॥ २८८॥ छिन्नाऽपि जीवधारिणी भीमाऽपि शान्तिदायिनी । योषाऽपि वीर्यवर्धनी माता प्रचण्डचण्डिका ॥ २८९॥ माहेन्द्रशक्तिरुत्तमा सूक्ष्माऽपि भारवत्तमा । शातापि तेजसा तता माता प्रचण्डचण्डिका ॥ २९०॥ पुत्रेण कृत्तमस्तकामाविश्य रेणुकातनुम् । सा खेलति क्षमातले माता प्रचण्डचण्डिका ॥ २९१॥ मामुग्रपापहारिणी सर्वप्रपञ्चधारिणी । पायादपायतोऽखिलान् माता प्रचण्डचण्डिका ॥ २९२॥ इन्द्रेसुरारिहर्तरि त्रैलोक्यभूमिभर्तरि । भक्तिं तनोतु मे परां माता प्रचण्डचण्डिका ॥ २९३॥ निष्ठामनन्यचालितां श्रेष्ठां धियं च सर्वगाम् । गीता सुरैर्ददातु मे माता प्रचण्डचण्डिका ॥ २९४॥ सत्यां गिरं ददातु मे नित्यां करोतु च स्थितिम् । धूताखिलाऽघसन्ततिः माता प्रचण्डचण्डिका ॥ २९५॥ सर्वं च मे कृताकृतं कर्माग्र्यमल्पमेव वा । सम्पूरयत्वनामया माता प्रचण्डचण्डिका ॥ २९६॥ तेजोझरस्वरूपया भूयादृतस्य धारया । विश्वावभासिकेह मे माता प्रचण्डचण्डिका ॥ २९७॥ सा मेऽल्पमर्त्यताश्रितां हत्वाऽधमामहङ्कृतिम् । आक्रम्य भातु मे तनुं माता प्रचण्डचण्डिका ॥ २९८॥ आत्मारिनाशने विधिं सा मेऽभिधायवत्सला । सर्वं धुनोतु संशयं माता प्रचण्डचण्डिका ॥ २९९॥ एताभिरुत्तमांशुभिः नाराचिकाभिरीश्वरी । सन्तोषमेतु वर्धतां माता प्रचण्डचण्डिका ॥ ३००॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः प्रचण्डचण्डीत्रिशती समाप्ता ॥ From Complete works of shri Vasishtha Ganapati Muni Vol. 2.15 Proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com

% Text title            : prachaNDachaNDItrishatI
% File name             : prachaNDachaNDItrishatI.itx
% itxtitle              : prachaNDachaNDItrishatI
% engtitle              : prachaNDachaNDItrishatI
% Category              : trishati
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Author                : Shri Vasishtha Ganapati Muni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Description-comments  : From Complete works.  Vol 2.15
% Indexextra            : (Ganapati Muni) also godess Renuka
% Latest update         : July 3, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP