राज्ञीस्तोत्रम्

राज्ञीस्तोत्रम्

ओङ्काररूपेऽखिलवेदसारे वेदान्तविज्ञानचणैः प्रगीते । मूर्ध्ना महाराज्ञि महार्हपीठे वन्दे त्वदीयं चरणारविन्दम् ॥ १॥ भूरादिलोके कृतलक्षणेऽजे राज्ञि प्रपन्नार्तिहरे नमस्ते । आक्रन्दमाकर्णय मे शरण्ये भक्तार्तिनाशे ह्यपरः प्रभुः कः ॥ २॥ भुवोऽवकाशे रविचन्द्रदीप्तिर्देदीप्यते त्वामनु चित्प्रदीप्तिम् । तमःप्रपञ्चं प्रविलाप्य हार्दं पद्मं ममाबोधय राज्ञि मातः ॥ ३॥ स्वःशाखिदर्पं हरतीष्टदानादाशाधिकाद्यत्स्मृतमात्रमेव । मातर्महाराज्ञि तदाननं ते वन्दे शरत्सुन्दरचन्द्ररम्यम् ॥ ४॥ तद्वाङ्मनोदूरमचिन्तनीयं रूपं स्वकीयं भवदुःखहारि । पीयूषपीयूषमयूखतुल्यं राज्ञि प्रकाश्याम्ब कदा दयेथाः ॥ ५॥ सवितुः शक्तिभूता त्वं सूयसेऽदश्चराचरम् । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ६॥ वरेण्यं त्वत्पदाभ्यर्चामृतचर्वणमस्तु मे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ७॥ भर्गो भर्गेऽपि संसारभर्जको यस्तवैव सः । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ८॥ देवस्य त्रिपुरारातेराहोपुरुषिके शिवे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ९॥ धीमहिम्नापि केनापि यां स्तोतुं न प्रभूयते । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १०॥ धियो मे घोरसंसारलङ्घने सन्तु सञ्जिताः । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ११॥ योऽर्चति त्वां स देवेशि मघवादिभिरर्च्यते । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १२॥ नस्तितोष्ट्रवदम्बाहं कर्मपाशैः प्रपीडितः । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १३॥ प्रचोदयात्तवेच्छा मां तवैवाङ्घ्रिनिषेवणे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १४॥ मातुः स्नेहः सर्वपुत्रेषु तुल्यः श्लाघ्याश्लाघ्येष्वम्ब चेत्सत्यमेतत् । दुर्वृत्तस्याप्तात्मजस्यास्ति किं मे त्यागो युक्तोऽयुक्तदोषौघहर्त्रि ॥ १५॥ राज्ञीस्तोत्रमिदं पुण्यं यः पठेद्भक्तिसंयुतः । तस्य सिध्यति सर्वेष्टमचिराद्देव दुर्लभम् ॥ १६॥ इति श्रीराज्ञीस्तोत्रं समाप्तमनाथक्षेमाय भवतु । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Rajni Stotram 2
% File name             : rAjnIstotram2.itx
% itxtitle              : rAjnIstotram 2 (oNkArarUpe.akhilavedasAre)
% engtitle              : rAjnIstotram 2
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Indexextra            : (Scan)
% Latest update         : September 29, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org