रजस्वला स्तोत्रम्

रजस्वला स्तोत्रम्

श्री गणेशाम्बिकाभ्यां नमः ॥ अस्य श्रीरजस्वलास्तोत्रमन्त्रस्य ईश्वरऋषिः । अनुष्टुप्छन्दः । रजस्वला देवता । हक्लीं बीजम् । हक्लौं शक्तिः । हक्लः कीलकम् । ममोपासनार्थे जपे विनियोगः ॥ अथ षडङ्गः । ॐ रजस्वलायै अङ्गुष्टाभ्यां हृदयाय । ॐ हक्लीं तर्जनीभ्यां शिरसे स्वाहा । ॐ हक्लौं मध्यमाभ्यां शिखायै वषट् । ॐ हक्लः अनामिकाभ्यां कवचाय हुम् । ॐ रजस्वलायै नमः कनिष्ठिकाभ्यां नेत्रत्रया वौषट् । ॐ रजस्वलायै हक्लीं हक्लौं करतलकरपृष्ठाभ्यां अस्त्राय फट् । अथ ध्यानम् । बालार्ककोटिलावण्यां भालचन्द्रनिभाननाम् । अनन्तबाणसहितां ध्यायेद्देविरजस्वलाम् ॥ मानसैः सम्पूज्य । अथमनुः- ॥ ॐ ह्रां रजस्वला हुं हुं हक्लौं हक्लैं हक्लः रजस्वलायै नमः इति मनुः ॥ भगोदेवं जगद्सर्वं त्रैलोक्यं सचराचरम् । सत्यपाताललोचनञ्च सत्यकाशोभवोद्भवम् ॥ १॥ कमलं च भगाकारं विरञ्ची कमलोद्भवम् । तस्मात्भगमायोति सृष्टिस्थितिलयात्मका ॥ २॥ भगवान् भगरूपश्च नौम्यहं भगदेवताम् । चतुरसितिलक्षानां जीवयोनिसमुद्भवः ॥ ३॥ भगलिङ्गात्मकं रूपं प्रदर्श्ये सचराचरम् । निन्दत्ये नरकं यान्ति कल्पकोटी न संशयः ॥ ४॥ यदि भाग्यवशोद्रष्टं पुष्टीभुतं भगं शिवः । दर्शयात्फलमाप्नोति श‍ृणु एवात्मनोप्रिये ॥ ५॥ गजाश्वरथदानञ्च गृहणेदत्त्यते फलम् । रूप्यश्रवणं तुलादिनाम लक्षकोटिगुणम्फलम् ॥ ६॥ भगलिङ्गार्चनं कृत्वा एकान्ते निश्चलव्रते । स्वर्गपातालभूर्लोके पुजनं फलमाप्नुयात् ॥ ७॥ भगन्दृष्ट्वा जपङ्कृत्वा स्वल्पमात्रं च कोटिधा । पूजयोत्वा वन्दित्वाजपान्ते च पुनःपुनः ॥ ८॥ ते धन्यं सर्वलोकेषु पुनर्जन्म न लभ्यते । तरन्ति तारयन्ति च निर्भयो यत्रकुत्रचित् ॥ ९॥ रूपयौवनलावण्यां पोडशब्दन्तु सुन्दरी । रजो दृष्ट्वा भगं दृष्ट्वा नमस्कृत्वा च चन्द्रवत् ॥ १०॥ संसिद्धी पूजयित्वा च ध्यात्वा नत्वा पुनःपुनः । तरं ते तारयन्ति च नौकावनं नवकार्णवात् ॥ ११॥ एककालं द्विकालं वा त्रीकालं मध्यरात्रि के । एकान्ते निश्चलस्थाने पूजयित्वा पठन्ति च ॥ १२॥ अनेककोटीविघ्नानान्नाशयेत् नात्र संशयः । अनन्तफलमवाप्नोति ममवाक्ये च पार्वती ॥ १३॥ गुरूदेवात्मना नेक्यं भावित्वा जपन्ति च । तत्सर्वं फलं यन्यथा न च सिध्यते ॥ १४॥ सप्तकोटी महामन्त्रे सावर्णा सगुणान्वीता । सर्वेप्रश्नमायान्ति क्रोधद्रोहादिकं त्यजेत् ॥ १५॥ रजस्वलामाहास्तोत्रं पठ्यते प्रत्यहं सदा । जपार्चनादिहोमेन प्रयोगेन च सिद्धिदम् ॥ १६॥ जपहोमार्चन कृत्वा विधियुक्तं वरानने । रजस्वला विनास्तोत्रं न च सिध्यन्ति भूतले ॥ १७॥ सर्वेशाक्तमहामन्त्र शक्ति उत्कीलनं तथा । एतत्परमं श्रेष्ठं शाक्तानां नास्ति सुन्दरि ॥ १८॥ महाबीजन्त्रयं देवी राध्यते च रजस्वला । प्रणवादि जपं मात्र त्रिबीजं सर्वसिद्धिदा ॥ १९॥ एषां रजस्वलाविद्या पितापुत्रं न कथ्यते । दाम्भिकाय कृतघ्नाय गुरुद्रोहरताय च ॥ २०॥ घातकाय च दुष्टाय रजस्वला न दीयते । दद्याय शान्ताय शिष्याय गुरुभक्ताय विशेषतः ॥ २१॥ दुर्जनञ्चापि दुष्टाश्च आयुर्भाग्यञ्च नश्यति । इति श्री गर्भकुलार्णवे ईश्वर पार्वतीसंवादे रजस्वला स्तोत्रं सम्पूर्णम् ॥ ॥ श्री ललिताम्बार्पणमस्तु । Proofread by rajesh thyagarajan
% Text title            : Rajasvala Stotram
% File name             : rajasvalAstotram.itx
% itxtitle              : rajasvalAstotram
% engtitle              : rajasvalAstotram
% Category              : devii, stavarAja, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Indexextra            : (Scan)
% Latest update         : March 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org