रमाहृदय स्तोत्रम्
रमाहृदय स्तोत्रम्
श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी
मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना ।
सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश,
प्रातः शुद्धतराः पठन्त्यभिमतान् सर्वान् लभन्ते शुभान् ॥
नामावलिः
ॐ श्री श्रियै नमः ।
ॐ श्रीपद्मायै नमः ।
ॐ श्रीकमलायै नमः ।
ॐ श्रीमुकुन्दमहिष्यै नमः ।
ॐ श्रीलक्ष्म्यै नमः ।
ॐ श्रीत्रिलोकेश्वर्यै नमः ।
ॐ श्रीमायै नमः ।
ॐ श्रीक्षीराब्धिसुतायै नमः ।
ॐ श्रीविरिञ्चिजनन्यै नमः ।
ॐ श्रीविद्यायै नमः ।
ॐ श्रीसरोजासनायै नमः ।
ॐ श्रीसर्वाभीष्टफलप्रदायै नमः ।
इति रमाहृदय स्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com