रेणुकास्तोत्रं श्रीविनायकशास्त्रिकृतम्
श्रीगणेशाय नमः ।
त्वदीयपदरेणुके शिरसि मामके रेणुके
निधाय वरदं करं ननुदरं ममाऽनीनशः ।
स्ववत्सलतयाऽनुदोर्नयनलालनच्छद्मना
प्रमोदभर-दृग्झर-स्तुतमदश्रुभिर्धावये ॥
प्रणम्य सुषमामिषद् दृग्निमेषशीर्सोल्लसत्-
किरीटकुलसङ्कुलं परिमलाऽलमङ्घ्र्युत्पलम् ।
मनोलिरयमुमदः सपदि तेऽनुजिघ्रन्मनाक्
तदन्यसुमनस्सु किं व्रजति नाधुना तत्स्मरन् ॥
भजन्तु विषयान् सजूर्विषयिणो विषाणीवते
रसारसिकमौलिना मम मनोऽलिनान्यक्कृताः ।
श्रुतं तदवलोकितं भवतु तत्स्पृशन् जिघ्रता
रसालपदपङ्कजं जननि ते सदा स्वाद्यताम् ॥
विजित्य हृदुपस्थितो मुहुरुपस्थितानन्दकम्
विशुद्धिमुपसंहरन् विरमताभवद्भक्तिषु ।
गिरा भजतु नाम ते करघृतार्चनोपस्करम्
प्रयातु तव मन्दिरं विसृजतु त्वदन्यादरम् ॥
मुमोच किल मां प्रसूः रथविदग्रणीरग्रजा
पिताऽपि दयितोऽग्रजः पर इहाश्रयो यस्य मे ।
श्रयेऽहमधुनेहकं व्रजिन (ब्रजिन) पुङ्जवाक्याहतः
प्रयामि दिशमम्बिके निदिश कान्दिशिकोऽद्यकाम् ॥
यथायथमनुष्ठिताः स्तुतिकथाः कथञ्चिन्नमते
स्मरामि च कृतं न ते तेऽर्चनमकिञ्चनः किञ्चनः ।
तपोमनुजपोऽप्युपोषणकारि न त्वत्कृते-
ऽपराद्धममुमम्बिके ! वद किमुद्धरिष्यस्यतः ॥
विधिर्हरिहरादयो यदवधीरिता नान्तिके
पुरन्दरपुरोगमा न पुर आसितुं शक्नुयुः ।
निगृह्य कृपयाऽमिके ! गुणगणैः स्वकीयैर्दृढम्
बधान न यथा पुनः श्रयति हृत्पशुः शोच्यताम् ॥
अगाध वदपारद्रुम-मदादियदो युता
विवेकमुखमत्सखाऽप्युदधिवीचिमग्नाः परम् ।
निधाय चरणौ पुरो नियमयाऽऽशु तृष्णा नदी
विनश्यति यथाऽम्बिके! न परमार्थ-मार्गो मम ॥
स्तवीमि जमदग्निसद्गृहिणि नाम पृथ्वीगतां
गृणन् परशुराम-सज्जननि ! जल्पिताप्तर्थये ।
तदम्ब ! कॄपयाऽऽप्स्यतेऽद्य वयसो न पञ्चाशताः
मयापद्धति कोऽपि चेत्सफलमाप्नुयात्तादृशम् ॥
इति श्रीमत्पूज्यपादविनायकशास्त्रिवेतालविरचितं
श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com