श्रीरुक्मिणीसहस्रनामावलिः
ॐ नमो भगवते वासुदेवाय ।
ॐ श्रीगणेशाय नमः ।
अस्य श्रीरुक्मिणीदिव्यसहस्रनामस्तोत्रमन्त्रस्य भगवान्
श्रीकृष्णद्वैपायन ऋषिः । अनुष्टुप् छन्दः । मूलप्रकृतिः ।
श्रीरुक्मिणीदेवता । बीजं योनिः । स्वयं व्यक्तिरिति बीजम् ।
विदर्भकन्यकाशक्तिरिति शक्तिः । सर्वोद्भवकरादेवीति मन्त्रः ।
विष्णुशक्तिश्चक्रधरेति कीलकम् ।
श्रीरुक्मिणीदेवी प्रीत्यर्थे जपे विनियोगः ।
अथ करन्यासः ।
रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।
मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥
इति अङ्गुष्ठाभ्यां नमः ।
चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।
गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥
इति तर्जनीभ्यां नमः ।
ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।
सहस्रांशा सहस्राक्षा सहस्रवदना सुधा ।
इति मध्यमाभ्यां नमः ।
सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।
सहस्रनासिका पद्मा पद्मालयविलासिनि ॥
इति अनामिकाभ्यां नमः ।
आदित्यान्तर्गता ज्योतिरतिबुद्धिर्जितेन्द्रिया ।
अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥
इति कनिष्ठिकाभ्यां नमः ।
धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।
गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥
इति करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासः ।
रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।
मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥
इति हृदयाय नमः ।
चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।
गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥
इति शिरसे स्वाहा ।
ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।
सहस्रांशा सहस्राक्षा सहस्रवदना सुधा ॥
इति शिखायै वषट् ।
सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।
सहस्रनासिका पद्मा पद्यालयविलासिनी ।
इति कवचाय हुम् ।
आदित्यान्तर्गताज्योतिरतिबुद्धिर्जितेन्द्रिया ।
अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥
इति नेत्रत्रयाय वौषट् ।
धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।
गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥
इति अस्त्राय फट् ।
अथ ध्यानम् ।
ॐ देवीमुन्नतपीठगां सुवसनां ताटङ्ककर्णां शुभां
भास्वत्स्वर्णसुरेखितायुतमहावक्षस्थलां कामदाम् ।
हस्तस्वर्णकरण्डकां कटितटप्रान्तैकपाणिं वरां
श्रीमद्विठ्ठलचित्तचौर्यचतुरां श्रीरुक्मिणीं तां भजे ॥
ॐ भैष्मीं चन्द्राननाभां सकलसुरगुरुस्तुत्यसद्रूपरूपां
वन्द्यां ब्रह्मादिभिस्तां मुनिवरवरदां रुक्मिणीं कृष्णभार्याम् ।
सर्वालङ्कारशोभां नतसुखदपदामादिशक्तिं सुरेन्द्रां
व्यक्तामाद्यां गुणाढ्यां प्रियकरुणपरां सुन्दराङ्गीं भजेऽहम् ॥
ॐ सिञ्जन्नूपुरशोभिपादकमलां मन्दास्मितोद्यन्मुखीं
कञ्जाक्षीं कुचभारभीरुविलसन्मध्यां क्वणत्कङ्कणाम् ।
शम्भ्वाद्यैः परिसेवितां सुवसनां जाम्बूनदालङ्कृतां
अम्बां तां प्रणतोऽस्मि कृष्णरमणीं लम्बालकां रुक्मिणीम् ॥
अथ मानसपूजा ।
ॐ लं पृथिव्यात्मकं गन्धं परिकल्पयामि ।
ॐ हं आकाशात्मकं पुष्पं परिकल्पयामि ।
ॐ यं वायव्यात्मकं धूपं परिकल्पयामि ।
ॐ रं तेजात्मकं दीपं परिकल्पयामि ।
ॐ वं अमृतात्मकं नैवेद्यं परिकल्पयामि ।
ॐ सं सर्वात्मकान् सर्वोपचारान् परिकल्पयामि ॥
``ॐ ऐं ह्रीं श्रीं रुक्मिण्यै नमः ।''
(इस महामन्त्र का १०८ बार जप करें और फलश्रुती करें ।)
अथ गायत्री ।
ॐ भीष्मक्यै च विद्महे कृष्णपत्न्यै च धीमहि
तन्नो लक्ष्मीः प्रचोदयात् ।
श्रीरुक्मिणीदेवी प्रीत्यर्थे जपे विनियोगः । हरिः ॐ ॥
अथ सहस्रनामावलिः ।
ॐ रुक्मिण्यै नमः ।
ॐ कृष्णपत्न्यै नमः ।
ॐ विदर्भाधिपकन्यकायै नमः ।
ॐ मुनिवन्द्यायै नमः ।
ॐ मुनिस्तुत्यायै नमः ।
ॐ प्रियगायै नमः ।
ॐ प्रियकृत्प्रियायै नमः ।
ॐ वल्लभायै नमः ।
ॐ वल्लर्यै नमः ।
ॐ नन्दायै नमः ।
ॐ नन्दनायै नमः ।
ॐ अनन्दकृते नमः ।
ॐ वरायै नमः ।
ॐ ज्ञाननिष्ठायै नमः ।
ॐ ज्ञानगम्यायै नमः ।
ॐ ज्ञानवाच्यायै नमः ।
ॐ वचःसुखायै नमः ।
ॐ सुखदायै नमः ।
ॐ सुखनिष्ठायै नमः ।
ॐ सुखगायै नमः । २०
ॐ सुखनिर्मलायै नमः ।
ॐ सुभगायै नमः ।
ॐ भगगायै नमः ।
ॐ गङ्गायै नमः ।
ॐ गङ्गासागरवासगायै नमः ।
ॐ खगापगायै नमः ।
ॐ खगायै नमः ।
ॐ अगम्यायै नमः ।
ॐ खगगायै नमः ।
ॐ गोपगायै नमः ।
ॐ अनघायै नमः ।
ॐ विहङ्गायै नमः ।
ॐ रूपसुभगायै नमः ।
ॐ सत्रगायै नमः ।
ॐ अमित्रनाशिन्यै नमः ।
ॐ योगनिष्ठायै नमः ।
ॐ योगवासायै नमः ।
ॐ योगकर्त्र्यै नमः ।
ॐ सुयोगकायै नमः ।
ॐ योगिन्यै नमः । ४०
ॐ योगविदे नमः ।
ॐ नेत्र्यै नमः ।
ॐ कर्त्र्यै नमः ।
ॐ भर्त्र्यै नमः ।
ॐ विशारदायै नमः ।
ॐ कृष्णायै नमः ।
ॐ विष्णुपदीवन्द्यायै नमः ।
ॐ कृष्णानन्दकरायै नमः ।
ॐ शुभायै नमः ।
ॐ शुभकर्त्र्यै नमः ।
ॐ शुभानन्द्यै नमः ।
ॐ शुभगायै नमः ।
ॐ शुभदायकायै नमः ।
ॐ मोक्षदायै नमः ।
ॐ मोक्षगायै नमः ।
ॐ मायायै नमः ।
ॐ विष्णुशक्त्यै नमः ।
ॐ महाद्युत्यै नमः ।
ॐ द्युतिगायै नमः ।
ॐ द्युतिदायै नमः । ६०
ॐ नित्यायै नमः ।
ॐ अनित्यध्वंसनकारिण्यै नमः ।
ॐ पञ्चवन्द्यायै नमः ।
ॐ पञ्चगम्यायै नमः ।
ॐ पञ्चाद्यायै नमः ।
ॐ पञ्चपल्लवायै नमः ।
ॐ पञ्चवासायै नमः ।
ॐ पञ्चनिष्ठायै नमः ।
ॐ प्रपञ्चातीतगायै नमः ।
ॐ अमृतायै नमः ।
ॐ नारायणसरोवास्यै नमः ।
ॐ नारायणपरायणायै नमः ।
ॐ नारायण्यै नमः ।
ॐ शारदाम्बायै नमः ।
ॐ त्र्यम्बक्यै नमः ।
ॐ वसुधायै नमः ।
ॐ शिवायै नमः ।
ॐ शिवगायै नमः ।
ॐ शिववन्द्यायै नमः ।
ॐ शिवध्यानपरायणायै नमः । ८०
ॐ शङ्कराद्यायै नमः ।
ॐ शङ्करायै नमः ।
ॐ शङ्करप्रियनूपुरायै नमः ।
ॐ वाराह्यै नमः ।
ॐ मत्स्यक्यै नमः ।
ॐ कूर्म्यै नमः ।
ॐ नारसिंह्यै नमः ।
ॐ वामन्यै नमः ।
ॐ भार्गव्यै नमः ।
ॐ सूर्यवंशाढ्यायै नमः ।
ॐ वासुदेव्यै नमः ।
ॐ जिनप्रियायै नमः ।
ॐ कल्किन्यै नमः ।
ॐ डाकिन्यै नमः ।
ॐ शूलायै नमः ।
ॐ शूलिन्यै नमः ।
ॐ शूलनाशिन्यै नमः ।
ॐ ब्रह्मादिवन्द्यपादायै नमः ।
ॐ ब्रह्मादिज्ञानदायिन्यै नमः ।
ॐ जगत्कर्त्र्यै नमः । १००
ॐ जगद्धात्र्यै नमः ।
ॐ जगद्वन्द्यायै नमः ।
ॐ जगत्प्रियायै नमः ।
ॐ जगदाकाररूपायै नमः ।
ॐ जगदेकपरायणायै नमः ।
ॐ जगद्ध्वंस्यै नमः ।
ॐ जगद्वास्यै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ रुद्रकारिण्यै नमः ।
ॐ रुद्रप्रियायै नमः ।
ॐ रुद्रनाशायै नमः ।
ॐ रुद्रायै नमः ।
ॐ रुद्रानुगायै नमः ।
ॐ अगमायै नमः ।
ॐ श्यामायै नमः ।
ॐ श्यामाङ्गनायै नमः ।
ॐ रम्यायै नमः ।
ॐ रम्यकाननवासिन्यै नमः ।
ॐ भक्तिप्रियायै नमः ।
ॐ भक्तिगम्यायै नमः । १२०
ॐ भक्तिःशक्तिधरायै नमः ।
ॐ अमरायै नमः ।
ॐ यज्ञाङ्गायै नमः ।
ॐ यज्ञवासायै नमः ।
ॐ यज्ञरूपायै नमः ।
ॐ यज्ञगायै नमः ।
ॐ यज्ञध्वंसिन्यै नमः ।
ॐ यज्ञकर्त्र्यै नमः ।
ॐ यज्ञायै नमः ।
ॐ यज्ञाङ्गकारकायै नमः ।
ॐ रामायै नमः ।
ॐ रामप्रियायै नमः ।
ॐ आरम्भायै नमः ।
ॐ आरम्भाभिप्रेतकारिण्यै नमः ।
ॐ रम्भायै नमः ।
ॐ रम्यायै नमः ।
ॐ आरम्भगायै नमः ।
ॐ आरम्भविद्रम्भघायै नमः ।
ॐ नगायै नमः ।
ॐ मालत्यै नमः । १४०
ॐ मालिन्यै नमः ।
ॐ मालायै नमः ।
ॐ मालाकारायै नमः ।
ॐ मलापहायै नमः ।
ॐ मूलप्रकृत्यै नमः ।
ॐ आकाशायै नमः ।
ॐ आद्यानुगायै नमः ।
ॐ मूलमर्दिन्यै नमः ।
ॐ सदसद्रूपकायै नमः ।
ॐ भ्रान्त्यै नमः ।
ॐ सरलायै नमः ।
ॐ भ्रान्तिनाशिन्यै नमः ।
ॐ भ्रमदायै नमः ।
ॐ भ्रमकारायै नमः ।
ॐ भ्रमशर्वरिनाशकायै नमः ।
ॐ सूत्रात्मिकायै नमः ।
ॐ सूत्रसूत्रायै नमः ।
ॐ सूत्रगायै नमः ।
ॐ सूत्रकारिण्यै नमः ।
ॐ सूत्रपारायै नमः । १६०
ॐ पारसूत्रायै नमः ।
ॐ सूत्रान्तःसञ्चर्यै नमः ।
ॐ वर्यै नमः ।
ॐ महत्तत्त्वायै नमः ।
ॐ महद्वक्त्रायै नमः ।
ॐ महत्यै नमः ।
ॐ महदाशन्यै नमः ।
ॐ महिमायै नमः ।
ॐ मोहिन्यै नमः ।
ॐ मायायै नमः ।
ॐ मायामूलायै नमः ।
ॐ महाकृत्यै नमः ।
ॐ सर्वोत्तमायै नमः ।
ॐ सर्वशक्त्यै नमः ।
ॐ सर्वविद्यायै नमः ।
ॐ सुरूपिण्यै नमः ।
ॐ सर्वकर्त्र्यै नमः ।
ॐ सर्वभत्र्यै नमः ।
ॐ सर्वविघ्नविनाशिन्यै नमः ।
ॐ हिरण्यगर्भायै नमः । १८०
ॐ गर्भायै नमः ।
ॐ हिरण्यसदृशाननायै नमः ।
ॐ हिरण्यवर्णायै नमः ।
ॐ वर्णायै नमः ।
ॐ हिरण्यरजतायै नमः ।
ॐ अमलायै नमः ।
ॐ परात्परायै नमः ।
ॐ परानार्यै नमः ।
ॐ नरभूषणभूषणायै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ महामार्यै नमः ।
ॐ सगुणायै नमः ।
ॐ गुणवर्धनायै नमः ।
ॐ सुपर्णायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ कोटितीर्थाघनाशिन्यै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ विश्वायै नमः । २००
ॐ विश्वात्मिकायै नमः ।
ॐ सुधियै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ माधव्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ वैकुण्ठायै नमः ।
ॐ अकुण्ठसञ्चर्यै नमः ।
ॐ योगपीठायै नमः ।
ॐ वषट्कारायै नमः ।
ॐ भूतभव्यभवत्करायै नमः ।
ॐ अव्ययायै नमः ।
ॐ पौरुष्यै नमः ।
ॐ साक्ष्यै नमः ।
ॐ क्षेत्रज्ञायै नमः ।
ॐ क्षेत्रपालकायै नमः ।
ॐ क्षेत्राधिष्ठायै नमः ।
ॐ गहनायै नमः ।
ॐ क्षेत्रमालायै नमः ।
ॐ महामत्यै नमः ।
ॐ क्षेत्राकृत्यै नमः । २२०
ॐ भूतभावायै नमः ।
ॐ भूतभावनतत्परायै नमः ।
ॐ पूतात्मिकायै नमः ।
ॐ पूतपरायै नमः ।
ॐ मुक्तानां गत्यै नमः ।
ॐ उत्तमायै नमः ।
ॐ अक्षर्यै नमः ।
ॐ योगिन्यै नमः ।
ॐ जेष्ठायै नमः ।
ॐ प्रधानपुरुषेश्वर्यै नमः ।
ॐ स्वयम्भव्यै नमः ।
ॐ महाशब्दायै नमः ।
ॐ अनादिनिधनायै नमः ।
ॐ अन्तकायै नमः ।
ॐ विधात्र्यै नमः ।
ॐ धारिण्यै नमः ।
ॐ धात्र्यै नमः ।
ॐ पद्मनाभायै नमः ।
ॐ शुचिश्रवसे नमः ।
ॐ अप्रमेयायै नमः । २४०
ॐ धुवायै नमः ।
ॐ शुद्धायै नमः ।
ॐ स्थविष्ठायै नमः ।
ॐ विश्वकर्मिकायै नमः ।
ॐ अग्राह्यै नमः ।
ॐ शाश्वत्यै नमः ।
ॐ बालायै नमः ।
ॐ बालार्कसदृशाकृत्यै नमः ।
ॐ ईशान्यै नमः ।
ॐ प्राणसृजे नमः ।
ॐ प्राणायै नमः ।
ॐ प्राणाप्राणानुकारिण्यै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ विक्रम्यै नमः ।
ॐ श्रेष्ठायै नमः ।
ॐ धन्व्यै नमः ।
ॐ दैत्यनिषूदन्यै नमः ।
ॐ गोविदायै नमः ।
ॐ गोपत्यै नमः ।
ॐ गोदायै नमः । २६०
ॐ मधुसूदनतत्परायै नमः ।
ॐ विक्रमाक्रमण्यै नमः ।
ॐ क्रम्यायै नमः ।
ॐ दुराधर्षायै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ मेधान्यै नमः ।
ॐ क्रमण्यै नमः ।
ॐ मेधायै नमः ।
ॐ शरण्यायै नमः ।
ॐ शरणप्रदायै नमः ।
ॐ कलिप्रकृतिविध्वंस्यै नमः ।
ॐ विश्वशुक्लायै नमः ।
ॐ प्रजाभवायै नमः ।
ॐ अह्ने नमः ।
ॐ संवत्सर्यै नमः ।
ॐ व्यालायै नमः ।
ॐ सर्वसिद्ध्यै नमः ।
ॐ अजायै नमः ।
ॐ अन्वितायै नमः ।
ॐ सर्वदर्श्यै नमः । २८०
ॐ प्रत्ययानायै नमः ।
ॐ सर्वाद्यायै नमः ।
ॐ अप्रच्युतायै नमः ।
ॐ वृषायै नमः ।
ॐ सम्मितायै नमः ।
ॐ समचिद्रूपायै नमः ।
ॐ सर्वयोगविनिःसृतायै नमः ।
ॐ वृषाकृत्यै नमः ।
ॐ अमेयात्मने नमः ।
ॐ वृषकर्म्यै नमः ।
ॐ अमोघधृचे नमः ।
ॐ अमोघायै नमः ।
ॐ पुण्डरीकाक्षायै नमः ।
ॐ विश्वयोनये नमः ।
ॐ कवीश्वर्यै नमः ।
ॐ स्थाणुरूपायै नमः ।
ॐ वरारोहायै नमः ।
ॐ सर्वगायै नमः ।
ॐ बभ्रुवाहनायै नमः ।
ॐ विष्वक्सेनायै नमः । ३००
ॐ वेदवेद्यै नमः ।
ॐ जनलोकनिवासिन्यै नमः ।
ॐ महातपःपरायै नमः ।
ॐ लोकधिषणायै नमः ।
ॐ जनार्दन्यै नमः ।
ॐ धर्माध्यक्षायै नमः ।
ॐ चतुर्दंष्ट्रायै नमः ।
ॐ चतुर्व्यूहायै नमः ।
ॐ असुराशन्यै नमः । (असुरनाशिन्यै)
ॐ चतुर्भुजायै नमः ।
ॐ वसुभुजायै नमः ।
ॐ सुराध्यक्षायै नमः ।
ॐ कृतागमायै नमः ।
ॐ जैत्र्यै नमः ।
ॐ भोक्त्र्यै नमः ।
ॐ सुविजय्यै नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ जगदात्मिकायै नमः ।
ॐ उपेन्द्रायै नमः ।
ॐ सङ्ग्रह्यै नमः । ३२०
ॐ वैद्यायै नमः ।
ॐ सर्वस्थित्यन्तकारिण्यै नमः ।
ॐ महामदायै नमः ।
ॐ महायोग्यायै नमः ।
ॐ मधुहने नमः ।
ॐ वीरहने नमः ।
ॐ ऊर्जितायै नमः ।
ॐ यमुनायै नमः ।
ॐ वेद्यायै नमः ।
ॐ महोत्साहायै नमः ।
ॐ महाबलायै नमः ।
ॐ इन्द्रियातीतगायै नमः ।
ॐ देव्यै नमः ।
ॐ महाबुद्ध्यै नमः ।
ॐ अतीन्द्रियायै नमः ।
ॐ अनिर्देश्यायै नमः ।
ॐ महाकायायै नमः ।
ॐ महावीर्यायै नमः ।
ॐ धृतात्मिकायै नमः ।
ॐ श्रीमत्यै नमः । ३४०
ॐ महेष्वासायै नमः ।
ॐ श्रीनिवासायै नमः ।
ॐ महीधरायै नमः ।
ॐ अनिरुद्धपदायै नमः ।
ॐ नन्द्यै नमः ।
ॐ कौमार्यै नमः ।
ॐ सतां पत्यै नमः ।
ॐ हंस्यै नमः ।
ॐ मरीचदमन्यै नमः ।
ॐ पद्मवासायै नमः ।
ॐ सुलोचनायै नमः ।
ॐ सुतपस्व्यै नमः ।
ॐ रमायै नमः ।
ॐ पद्मायै नमः ।
ॐ भुजगायै नमः ।
ॐ भुजगोत्तमायै नमः ।
ॐ अमृत्यवे नमः ।
ॐ विश्रुतायै नमः ।
ॐ शस्त्र्यै नमः ।
ॐ गदापाण्यै नमः । ३६०
ॐ स्थिरायै नमः ।
ॐ मत्यै नमः ।
ॐ सुदुर्मर्ष्यै नमः ।
ॐ सुसन्धात्र्यै नमः ।
ॐ सिंहस्कन्धायै नमः ।
ॐ गुरूत्तमायै नमः ।
ॐ निमिषायै नमः ।
ॐ अनिमिषायै नमः ।
ॐ काल्यै नमः ।
ॐ कपिलायै नमः ।
ॐ कपिलप्रियायै नमः ।
ॐ स्रग्विलासायै नमः ।
ॐ अग्रण्यै नमः ।
ॐ न्याय्यायै नमः ।
ॐ नयकारणकारणायै नमः ।
ॐ समीरप्रेरणायै नमः ।
ॐ प्रेर्यायै नमः ।
ॐ वायुभक्ष्यायै नमः ।
ॐ सहस्रण्यै नमः ।
ॐ सहस्रमस्तकायै नमः । ३८०
ॐ कालकलाकाष्ठायै नमः ।
ॐ आदये नमः ।
ॐ अम्बिकायै नमः ।
ॐ सहस्रचरणायै नमः ।
ॐ गौर्यै नमः ।
ॐ सम्प्रमर्द्दायै नमः ।
ॐ विलासिन्यै नमः ।
ॐ विनायक्यै नमः ।
ॐ विघ्नहन्त्र्यै नमः ।
ॐ विवृतायै नमः ।
ॐ वह्निसंयुतायै नमः ।
ॐ गरुडासनायै नमः ।
ॐ महामोहायै नमः ।
ॐ संवर्तननिशानन्यै नमः ।
ॐ चतुर्वर्णायै नमः ।
ॐ चतुर्भर्त्र्यै नमः ।
ॐ चतुर्वेदपरायणायै नमः ।
ॐ आयुर्वेदविदायै नमः ।
ॐ वेत्र्यै नमः ।
ॐ धनुर्वेदविशारदायै नमः । ४००
ॐ गान्धर्ववेदपारायै नमः ।
ॐ शिल्पशास्त्रपरायै नमः ।
ॐ मतायै नमः ।
ॐ सुप्रसन्नायै नमः ।
ॐ सुगम्भीरायै नमः ।
ॐ सिद्धार्थायै नमः ।
ॐ सिद्धसेवितायै नमः ।
ॐ सङ्कल्पसिद्ध्यै नमः ।
ॐ सिद्ध्यै नमः ।
ॐ सिद्धसाधनतत्परायै नमः ।
ॐ अनेकरूपकायै नमः ।
ॐ कान्त्यै नमः ।
ॐ अनेकायै नमः ।
ॐ सिंहवाहिन्यै नमः ।
ॐ वर्धमानायै नमः ।
ॐ श्रुतये नमः ।
ॐ सारायै नमः ।
ॐ वृषभायै नमः ।
ॐ दुर्धरश्रवसे नमः ।
ॐ प्रकाशिन्यै नमः । ४२०
ॐ बृहद्रूपायै नमः ।
ॐ विविक्तायै नमः ।
ॐ दुर्धरायै नमः ।
ॐ क्षमायै नमः ।
ॐ ओजस्तेजोधरायै नमः ।
ॐ प्रज्ञायै नमः ।
ॐ प्रतापायै नमः ।
ॐ प्रविमोचन्यै नमः ।
ॐ स्पष्टमन्त्रायै नमः ।
ॐ अक्षरधरायै नमः ।
ॐ चन्द्रगौरायै नमः ।
ॐ मनस्विन्यै नमः ।
ॐ शिशुपालयशोहन्त्र्यै नमः ।
ॐ सुदेववरदायिन्यै नमः ।
ॐ जरासन्धतमोहिन्त्र्यै नमः ।
ॐ द्वारकावासिन्यै नमः ।
ॐ दयायै नमः ।
ॐ कामघ्ने नमः ।
ॐ कामदायै नमः ।
ॐ कान्तायै नमः । ४४०
ॐ कामकामप्रदायिन्यै नमः ।
ॐ सुदामवरदायै नमः ।
ॐ आधारायै नमः ।
ॐ युगावर्तायै नमः ।
ॐ युगोत्तमायै नमः ।
ॐ इष्टानिष्टायै नमः ।
ॐ विशिष्टेष्टायै नमः ।
ॐ चेष्टमानायै नमः ।
ॐ शिखण्डिन्यै नमः ।
ॐ क्रोधहर्त्र्यै नमः ।
ॐ क्रोधकर्त्र्यै नमः ।
ॐ प्रथितायै नमः ।
ॐ प्रणताश्रयायै नमः ।
ॐ बीजयोनये नमः ।
ॐ स्वयंव्यक्त्यै नमः ।
ॐ शुचिन्यै नमः ।
ॐ शुचितत्परायै नमः ।
ॐ परमेष्ठिन्यै नमः ।
ॐ शुचिपदायै नमः ।
ॐ प्राजापत्यायै नमः । ४६०
ॐ वाक्पत्यै नमः ।
ॐ एकैव भगवत्यै नमः ।
ॐ साक्षात्सत्यै नमः ।
ॐ वेदार्थपारगायै नमः ।
ॐ ऋष्यनुग्रहकायै नमः ।
ॐ भीष्मायै नमः ।
ॐ दुःखभेषजभेषजायै नमः ।
ॐ विदर्भकन्यकायै नमः ।
ॐ शक्त्यै नमः ।
ॐ गायत्र्यै नमः ।
ॐ गानतत्परायै नमः ।
ॐ वीणानादपरायै नमः ।
ॐ मात्रे नमः ।
ॐ जगन्मात्रे नमः ।
ॐ जगत्पित्रे नमः ।
ॐ जगदाभरणायै नमः ।
ॐ भूत्यै नमः ।
ॐ गुणभूतायै नमः ।
ॐ हिरण्मय्यै नमः ।
ॐ विश्वायनायै नमः । ४८०
ॐ विश्वकरायै नमः ।
ॐ कार्यकारणकारिण्यै नमः ।
ॐ सर्वोद्भवकरायै देव्यै नमः ।
ॐ मन्त्रमालायै नमः ।
ॐ परायणायै नमः ।
ॐ भूतेशायै नमः ।
ॐ सूत्रिण्यै नमः ।
ॐ सूत्रायै नमः ।
ॐ सूत्रभायै नमः ।
ॐ सूत्रपारगायै नमः ।
ॐ विष्णुशक्त्यै नमः ।
ॐ चक्रधरायै नमः ।
ॐ रविवंशविभूषणायै नमः ।
ॐ सहस्रबाहुवदनायै नमः ।
ॐ सहस्रकरसंयुतायै नमः ।
ॐ चन्द्रसूर्योद्भवकरायै नमः ।
ॐ चन्द्रसूर्यसमप्रभायै नमः ।
ॐ गालव्यै नमः ।
ॐ वल्गुवचनायै नमः ।
ॐ वल्गुशब्दप्रियायै नमः । ५००
ॐ घृण्यै नमः ।
ॐ ब्रह्मण्यायै नमः ।
ॐ करुणाशीलायै नमः ।
ॐ हरिपादप्रियेक्षणायै नमः ।
ॐ सहस्रांशायै नमः ।
ॐ सहस्राक्षायै नमः ।
ॐ सहस्रवदनायै नमः ।
ॐ सुधायै नमः ।
ॐ सुवर्णवर्णायै नमः ।
ॐ हेमाढ्यायै नमः ।
ॐ सहस्रकटिशोभितायै नमः ।
ॐ सहस्रनासिकायै नमः ।
ॐ पद्मायै नमः ।
ॐ पद्मालयविलासिन्यै नमः ।
ॐ आदित्यान्तर्गतायै नमः ।
ॐ ज्योतिषे नमः ।
ॐ अतिबुद्धये नमः ।
ॐ जितेन्द्रियायै नमः ।
ॐ अणीयस्यै नमः ।
ॐ स्थूलरूपायै नमः । ५२०
ॐ सदसद्ग्रन्थिन्यै नमः ।
ॐ पटवे नमः ।
ॐ धनुर्धरायै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ श्रेयसामपि श्रेयस्यै नमः ।
ॐ गरीयस्यै नमः ।
ॐ वाक्यभङ्ग्यै नमः ।
ॐ संविदग्नये नमः ।
ॐ अनन्यभाचे नमः ।
ॐ पुराण्यै नमः ।
ॐ निधनायै नमः ।
ॐ वेलायै नमः ।
ॐ अप्रतर्क्यायै नमः ।
ॐ तस्थुषां पत्यै नमः ।
ॐ प्रयतायै नमः ।
ॐ नियतायै नमः ।
ॐ श्रेयायै नमः ।
ॐ ज्ञातृजेयस्वरूपिण्यै नमः ।
ॐ भैरव्यै नमः ।
ॐ कालिकायै नमः । ५४०
ॐ शान्तायै नमः ।
ॐ चन्द्रभागायै नमः ।
ॐ मरुद्वत्यै नमः ।
ॐ ताम्रवर्ण्यै नमः ।
ॐ सुदुर्मर्ष्यै नमः ।
ॐ बृहत्यै नमः ।
ॐ पुष्करालयायै नमः ।
ॐ ऋग्यजुःसामगायै नमः ।
ॐ सामायै नमः ।
ॐ मृत्युसंसारनाशिन्यै नमः ।
ॐ विहङ्गमायै नमः ।
ॐ कामगमायै नमः ।
ॐ यातायातपरायणायै नमः ।
ॐ छन्दोगात्रायै नमः ।
ॐ शकुन्यै नमः ।
ॐ जनभूषणभूषितायै नमः ।
ॐ धर्मार्थकामतत्त्वज्ञायै नमः ।
ॐ क्षेत्रक्षेत्रनिवासिन्यै नमः ।
ॐ साङ्ख्यात्मिकायै नमः ।
ॐ अनन्तरूपायै नमः । ५६०
ॐ मायावादनिराशिन्यै नमः ।
ॐ विभवायै नमः ।
ॐ भवहन्त्र्यै नमः ।
ॐ चण्डिकायै नमः ।
ॐ मधुघातिन्यै नमः ।
ॐ अग्निरूपायै नमः ।
ॐ वायुरूपायै नमः ।
ॐ नक्षत्राधिनिवासिन्यै नमः ।
ॐ ऋतुमासकरायै नमः ।
ॐ कौक्षीयै नमः ।
ॐ सर्वधर्मपरायणायै नमः ।
ॐ रुक्मकेश्यै नमः ।
ॐ रुक्मभूष्यै नमः ।
ॐ वैदर्भ्यै नमः ।
ॐ रुक्मयानुजायै नमः ।
ॐ कृष्णस्यागमनाकाङ्क्ष्यै नमः ।
ॐ कृष्णचिन्तनकारिण्यै नमः ।
ॐ विश्वदर्श्यै नमः ।
ॐ परम्धाम्न्यै नमः ।
ॐ मनुजाकृत्यै नमः । ५८०
ॐ आकृत्यै नमः ।
ॐ शैलपुत्र्यै नमः ।
ॐ महारात्र्यै नमः ।
ॐ शङ्खचूडनिषूदनायै नमः ।
ॐ चन्द्रघण्टायै नमः ।
ॐ महाघण्टायै नमः ।
ॐ कूष्माण्डायै नमः ।
ॐ पञ्चम्यै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ स्कन्दमात्रे नमः ।
ॐ महागौर्यै नमः ।
ॐ सिद्धिविदे नमः ।
ॐ कालरात्र्यै नमः ।
ॐ चपलायै नमः ।
ॐ नवदुर्गायै नमः ।
ॐ रञ्जिन्यै नमः ।
ॐ अशुभहरणायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ विषमायै नमः ।
ॐ दुर्गमायै नमः । ६००
ॐ ऐन्द्र्यै नमः ।
ॐ गजसमारूढायै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ वृषवाहनायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ हंससमारूढायै नमः ।
ॐ सर्वापत्तिविनाशिन्यै नमः ।
ॐ शङ्खिन्यै नमः ।
ॐ चक्रिण्यै नमः ।
ॐ घोरायै नमः ।
ॐ मुसलायुधधारिण्यै नमः ।
ॐ गदिन्यै नमः ।
ॐ हलिन्यै नमः ।
ॐ शक्त्यै नमः ।
ॐ खेटक्यै नमः ।
ॐ तोमर्यै नमः ।
ॐ पाशहस्तायै नमः ।
ॐ परशुधरायै नमः ।
ॐ त्रिशूलवरधारिण्यै नमः ।
ॐ कुन्तायुधायै नमः । ६२०
ॐ शार्ङ्गधरायै नमः ।
ॐ खड्गचर्मधरायै नमः ।
ॐ वरायै नमः ।
ॐ मुद्गलाधारकायै नमः ।
ॐ धारायै नमः ।
ॐ बाणपट्टिशधारकायै नमः ।
ॐ दैत्यनाशकरायै नमः ।
ॐ भक्तपालकायै नमः ।
ॐ अभयवाहिन्यै नमः ।
ॐ महारौद्रायै नमः ।
ॐ महोत्साहायै नमः ।
ॐ महाघोरतमायै नमः ।
ॐ आक्रमायै नमः ।
ॐ दारुण्यै नमः ।
ॐ अग्निदैवत्यायै नमः ।
ॐ शत्रूणां भयवर्धिन्यै नमः ।
ॐ मृगवाहिन्यै नमः ।
ॐ वाह्यै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ रौद्रिण्यै नमः । ६४०
ॐ चामुण्डायै नमः ।
ॐ उग्रदशनायै नमः ।
ॐ शिववाहिन्यै नमः ।
ॐ वाहिन्यै नमः ।
ॐ अजितायै नमः ।
ॐ विजयायै नमः ।
ॐ चित्रायै नमः ।
ॐ मालाधार्यै नमः ।
ॐ शिखण्डिन्यै नमः ।
ॐ पयस्विन्यै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ भ्रुकुटीतटवासिन्यै नमः ।
ॐ व्यवस्थितायै नमः ।
ॐ मध्यघण्टायै नमः ।
ॐ यमघण्टायै नमः ।
ॐ तरस्विन्यै नमः ।
ॐ सुगन्धायै नमः ।
ॐ कालिकायै नमः ।
ॐ द्वारावासिन्यै नमः ।
ॐ चर्चिकायै नमः । ६६०
ॐ कलायै नमः ।
ॐ कलामृतायै नमः ।
ॐ महाघण्टायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ नीलग्रीवायै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ कपिलायै नमः ।
ॐ कपिलप्रियायै नमः ।
ॐ वज्रिण्यै नमः ।
ॐ दण्डधार्यै नमः ।
ॐ मेदिन्यै नमः ।
ॐ कलिन्यै नमः ।
ॐ शूलेश्वर्यै नमः ।
ॐ सुललितायै नमः ।
ॐ कामिन्यै नमः ।
ॐ कामनाशिन्यै नमः ।
ॐ मोहन्यै नमः ।
ॐ मोहरूपायै नमः ।
ॐ मोहनाशायै नमः । ६८०
ॐ कामघ्ने नमः ।
ॐ विन्ध्याद्रिवासिन्यै नमः ।
ॐ विन्ध्यायै नमः ।
ॐ मेघवाहिन्यै नमः ।
ॐ वाहकायै नमः ।
ॐ पद्मावत्यै नमः ।
ॐ पद्मकेशायै नमः ।
ॐ पद्ममुद्रायै नमः ।
ॐ पदाम्बुजायै नमः ।
ॐ महाबलायै नमः ।
ॐ महावीर्यायै नमः ।
ॐ पातालतलवासिन्यै नमः ।
ॐ केशिन्यै नमः ।
ॐ भीमदंष्ट्रायै नमः ।
ॐ कौबेर्यै नमः ।
ॐ कुरुपालिन्यै नमः ।
ॐ ज्वालामुख्यै नमः ।
ॐ ज्वालमालायै नमः ।
ॐ छत्रिण्यै नमः ।
ॐ छत्रवाहिन्यै नमः । ७००
ॐ भूर्लोकानन्ददात्र्यै नमः ।
ॐ ऋग्मूर्त्यै नमः ।
ॐ मन्त्रयन्त्रिण्यै नमः ।
ॐ सावर्णातनयायै नमः ।
ॐ धारायै नमः ।
ॐ महामार्यै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ योगनिद्रायै नमः ।
ॐ विपुलायै नमः ।
ॐ स्वनाभिकमलोद्भवायै नमः ।
ॐ स्वाहायै नमः ।
ॐ स्वधायै नमः ।
ॐ वषट्कारायै नमः ।
ॐ अर्धमात्रात्मिकायै नमः ।
ॐ प्रकृत्यै नमः ।
ॐ गुणाधारायै नमः ।
ॐ महारात्र्यै नमः ।
ॐ सुदारुणायै नमः ।
ॐ श्रीह्रीस्वरूपायै नमः ।
ॐ बुद्ध्यै नमः । ७२०
ॐ बोधलक्षणलक्षितायै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ परमायै नमः ।
ॐ लोकनिद्रानुकारिण्यै नमः ।
ॐ तामस्यै नमः ।
ॐ तामसाकारायै नमः ।
ॐ बोधिन्यै नमः ।
ॐ बोधिकायै नमः ।
ॐ अमलायै नमः ।
ॐ सुरासुरनुतायै नमः ।
ॐ अशेषायै नमः ।
ॐ धर्मन्यायपरायणायै नमः ।
ॐ विष्णुपादाब्जसम्भूतायै नमः ।
ॐ सन्ध्यायै नमः ।
ॐ सावित्रिकायै नमः ।
ॐ स्थित्यै नमः ।
ॐ सदासंहृत्यै नमः ।
ॐ ऊपास्यायै नमः ।
ॐ मनुरूपायै नमः ।
ॐ मनोभवायै नमः । ७४०
ॐ भवरोगहरायै नमः ।
ॐ देव्यै नमः ।
ॐ समुत्पत्यार्तिनाशिन्यै नमः ।
ॐ रोगापहायै नमः ।
ॐ आरोग्यरूपायै नमः ।
ॐ जगद्रूपायै नमः ।
ॐ जगत्पत्यै नमः ।
ॐ जगन्मायायै नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ कल्पान्तायै नमः ।
ॐ अशेषभागिन्यै नमः ।
ॐ सन्मानितायै नमः ।
ॐ साट्टहासायै नमः ।
ॐ चञ्चलायै नमः ।
ॐ वसुदायै नमः ।
ॐ अचलायै नमः ।
ॐ जयायै नमः ।
ॐ विजयायै नमः ।
ॐ सकलायै नमः ।
ॐ शाब्दिकायै नमः । ७६०
ॐ अमलायै नमः ।
ॐ मनोहरायै नमः ।
ॐ हलधरायै नमः ।
ॐ धरणीधरपुत्रिकायै नमः ।
ॐ सत्यायै नमः ।
ॐ अजितायै नमः ।
ॐ जितक्रोधायै नमः ।
ॐ वाराणस्यै नमः ।
ॐ मनोभवायै नमः ।
ॐ मदन्यै नमः ।
ॐ मन्मथ्यै नमः ।
ॐ मार्यै नमः ।
ॐ मानिन्यै नमः ।
ॐ मदनान्तक्यै नमः ।
ॐ शस्त्रास्त्रविपुलायै नमः ।
ॐ घोरायै नमः ।
ॐ व्याप्तलोकत्रयात्मिकायै नमः ।
ॐ सन्नद्धायै नमः ।
ॐ असुरसैन्यान्तायै नमः ।
ॐ सदसद्रूपिण्यै नमः । ७८०
ॐ विशालनेत्रायै नमः ।
ॐ भ्रुकुटिकुटिलाननरञ्जितायै नमः ।
ॐ महिषासुरहन्त्र्यै नमः ।
ॐ चक्षुरूपायै नमः ।
ॐ महोदध्यै नमः ।
ॐ दिगम्बरायै नमः ।
ॐ दिशामालायै नमः ।
ॐ मल्लमर्दनकारिण्यै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ जगन्मयायै नमः ।
ॐ शुभायै नमः ।
ॐ शान्तायै नमः ।
ॐ सिद्धसिद्धायै नमः ।
ॐ सिद्धिदायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ प्रभायै नमः ।
ॐ ज्योत्स्नायै नमः ।
ॐ महाकान्त्यै नमः । ८००
ॐ क्षमायै नमः ।
ॐ शर्वायै नमः ।
ॐ मङ्गलायै नमः ।
ॐ हिङ्गुलायै नमः ।
ॐ पद्मायै नमः ।
ॐ दान्तायै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ हरिप्रियायै नमः ।
ॐ सुनन्दायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ नन्दायै नमः ।
ॐ त्रिपुरासुरमर्दिन्यै नमः ।
ॐ वेदमात्रे नमः ।
ॐ यज्ञविद्यायै नमः ।
ॐ प्रसिद्धायै नमः ।
ॐ सुधायै नमः ।
ॐ धृत्यै नमः ।
ॐ सिद्धविद्यायै नमः ।
ॐ पृथिव्यै नमः ।
ॐ मृडान्यै नमः । ८२०
ॐ विन्ध्यवासिन्यै नमः ।
ॐ पुरुहूतप्रियायै नमः ।
ॐ काल्यै नमः ।
ॐ पद्म्यै नमः ।
ॐ नारदसेवितायै नमः ।
ॐ ज्वालामुख्यै नमः ।
ॐ ज्वालमालायै नमः ।
ॐ कुमुदायै नमः ।
ॐ आनन्दवासिन्यै नमः ।
ॐ प्रह्लादिन्यै नमः ।
ॐ महादुर्गायै नमः ।
ॐ दुर्गायै नमः ।
ॐ दुर्गार्तिनाशिन्यै नमः ।
ॐ दुर्गमायै नमः ।
ॐ दुर्लभायै नमः ।
ॐ भर्गायै नमः ।
ॐ स्वर्गायै नमः ।
ॐ त्रिपुरवासिन्यै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ शान्तशान्तायै नमः । ८४०
ॐ मदिरायै नमः ।
ॐ मृदुहासिन्यै नमः ।
ॐ महानिद्रायै नमः ।
ॐ योगनिद्रायै नमः ।
ॐ भवान्यै नमः ।
ॐ भवहारिण्यै नमः ।
ॐ कुलेश्वर्यै नमः ।
ॐ महामार्यै नमः ।
ॐ प्रज्ञायै नमः ।
ॐ तारायै नमः ।
ॐ कलेश्वर्यै नमः ।
ॐ ओङ्कारायै नमः ।
ॐ पृथिवीकारायै नमः ।
ॐ चेतनायै नमः ।
ॐ कोपनाकृत्यै नमः ।
ॐ कलावत्यै नमः ।
ॐ कलाकारायै नमः ।
ॐ बिन्दुमात्रायै नमः ।
ॐ जयाकृत्यै नमः ।
ॐ पद्मासनायै नमः । ८६०
ॐ कुण्डलायै नमः ।
ॐ बुद्धमात्रे नमः ।
ॐ जनेश्वर्यै नमः ।
ॐ जनमात्रे नमः ।
ॐ शारदायै नमः ।
ॐ जितेन्द्रायै नमः ।
ॐ हंसवाहिन्यै नमः ।
ॐ सुधात्मिकायै नमः ।
ॐ राजवन्द्यायै नमः ।
ॐ विभूत्यै नमः ।
ॐ तारिण्यै नमः ।
ॐ शिवायै नमः ।
ॐ सद्गत्यै नमः ।
ॐ सत्परायै नमः ।
ॐ भूतायै नमः ।
ॐ सिन्धुरायै नमः ।
ॐ असुरमर्दिन्यै नमः ।
ॐ मन्दाकिन्यै नमः ।
ॐ विपाशायै नमः ।
ॐ सरय्वे नमः । ८८०
ॐ शरहृते नमः ।
ॐ कौशिक्यै नमः ।
ॐ गण्डक्यै नमः ।
ॐ सत्यायै नमः ।
ॐ साध्व्यै नमः ।
ॐ पतिव्रतायै नमः ।
ॐ सुश्रोण्यै नमः ।
ॐ रजनीरूपायै नमः ।
ॐ भगायै नमः ।
ॐ भगमालिन्यै नमः ।
ॐ पताकायै नमः ।
ॐ प्रतापायै नमः ।
ॐ सेनाश्रेण्यै नमः ।
ॐ सुयुद्धदायै नमः ।
ॐ सुव्यूहायै नमः ।
ॐ काङ्क्षिण्यै नमः ।
ॐ काङ्क्षायै नमः ।
ॐ दयाकारायै नमः ।
ॐ पताकिन्यै नमः ।
ॐ कलायै नमः । ९००
ॐ कान्तायै नमः ।
ॐ परायै नमः ।
ॐ तारायै नमः ।
ॐ त्रिशक्त्यै नमः ।
ॐ शक्तिमालिन्यै नमः ।
ॐ इच्छायै नमः ।
ॐ धेनवे नमः ।
ॐ कामधेनवे नमः ।
ॐ पावन्यै नमः ।
ॐ पवनाशन्यै नमः ।
ॐ मोक्षदायै नमः ।
ॐ मोक्षकामायै नमः ।
ॐ कृपालायै नमः ।
ॐ चण्डविक्रमायै नमः ।
ॐ गौर्यै नमः ।
ॐ गौरायै नमः ।
ॐ सुवर्णायै नमः ।
ॐ जगत्संहारकारिण्यै नमः ।
ॐ महाभुजायै नमः ।
ॐ एकायै नमः । ९२०
ॐ अनेकायै नमः ।
ॐ भुजगोरगभूषणायै नमः ।
ॐ चक्रभेद्यै नमः ।
ॐ चक्रघात्यै नमः ।
ॐ भेदिन्यै नमः ।
ॐ श्यामलायै नमः ।
ॐ सुस्मितायै नमः ।
ॐ स्मितलक्ष्यायै नमः ।
ॐ सुमुख्यै नमः ।
ॐ सुखिन्यै नमः ।
ॐ कृशायै नमः ।
ॐ बहुवर्णायै नमः ।
ॐ बह्व्यै नमः ।
ॐ बहुहासिन्यै नमः ।
ॐ रक्ताम्बरायै नमः ।
ॐ रक्तमालायै नमः ।
ॐ नानापुष्पविराजितायै नमः ।
ॐ तुलस्यै नमः ।
ॐ तुलसीपत्रप्रियायै नमः ।
ॐ कृष्णातिवल्लभायै नमः । ९४०
ॐ सप्तछन्दोमयायै देव्यै नमः ।
ॐ भीमक्यै नमः ।
ॐ भीमकाकृत्यै नमः ।
ॐ कलाकाष्ठायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ बृहत्यै नमः ।
ॐ पङ्क्त्यै नमः ।
ॐ सुवर्णरशनायै नमः ।
ॐ कान्तायै नमः ।
ॐ वेण्यै नमः ।
ॐ भूषणभूषितायै नमः ।
ॐ गण्डक्यै नमः ।
ॐ गन्धवासायै नमः ।
ॐ कटिभूषणभूषितायै नमः ।
ॐ पीताम्बरधरायै नमः ।
ॐ गौर्यै नमः ।
ॐ विख्यातायै नमः ।
ॐ पयस्विन्यै नमः ।
ॐ कुङ्कुमागरुशोभाढ्यायै नमः ।
ॐ द्वारकावासिन्यै नमः । ९६०
ॐ पद्मयोनये नमः ।
ॐ बह्मयोनये नमः ।
ॐ सुगन्धायै नमः ।
ॐ चन्दनप्रियायै नमः ।
ॐ त्रिपुष्करायै नमः ।
ॐ अप्रमेयायै नमः ।
ॐ काशिकायै नमः ।
ॐ मथुरायै नमः ।
ॐ अवन्तिकायै नमः ।
ॐ कुशावर्तायै नमः ।
ॐ नानातीर्थस्वरूपिण्यै नमः ।
ॐ ब्रह्माण्डनायिकायै नमः ।
ॐ अवर्णायै नमः ।
ॐ रत्यै नमः ।
ॐ मातङ्गगामिन्यै नमः ।
ॐ सोऽहंरूपायै नमः ।
ॐ हंसगत्यै नमः ।
ॐ ज्वालिन्यै नमः ।
ॐ ज्वलदायिन्यै नमः ।
ॐ लेख्यायै नमः । ९८०
ॐ भीमरथ्यै नमः ।
ॐ चन्द्रभागायै नमः ।
ॐ मुण्डकायै नमः ।
ॐ पूर्णायै नमः ।
ॐ कुम्भधरायै नमः ।
ॐ भीमायै नमः ।
ॐ दिव्यायै नमः ।
ॐ त्रिपुरभैरव्यै नमः ।
ॐ करालायै नमः ।
ॐ विकरालायै नमः ।
ॐ घोरायै नमः ।
ॐ घुर्घुरनादिन्यै नमः ।
ॐ उर्ध्वकेश्यै नमः ।
ॐ रक्तदन्तायै नमः ।
ॐ त्रिवेण्यै नमः ।
ॐ वेणिकायै नमः ।
ॐ कर्पूरामोदिकायै नमः ।
ॐ आमोदायै नमः ।
ॐ जयश्रियै नमः ।
ॐ जयमङ्गलायै नमः । १०००
ॐ जयदायै नमः ।
ॐ जयविश्रामायै नमः ।
ॐ जयजयायै नमः ।
ॐ सर्वमङ्गलायै नमः । १००४
इति श्रीस्कन्दपुराणे नारदसंवादे
श्रीरुक्मिणीदिव्यसहस्रनामस्तोत्रमुद्धृता सहस्रनामावलिः सम्पूर्णा ।
श्रीरुक्मिणीचरणारविन्दार्पणमस्तु ।
शुभं भवतु । शुभं भवतु । शुभं भवतु ।
Proofread by PSA Easwaran