श्रीरुक्मिणीसहस्रनामस्तोत्रम्
अथ श्रीरुक्मिणीसहस्रनामस्तोत्रम् ।
ॐ नमो भगवते वासुदेवाय ।
ॐ श्रीगणेशाय नमः ।
सूत उवाच ।
शृणु शौनक मद्वाक्यमाश्चर्यं द्वारकामगात् ।
नारदः पूजयित्वा तं कृष्णो वचनमब्रवीत् ॥ १॥
श्रीकृष्ण उवाच ।
रुक्मिणीनामसाहस्रं कथयस्व तपोधन ।
यस्य स्मरणमात्रेण चित्तं मे शान्तिमेष्यति ॥ २॥
नारद उवाच ।
कृष्ण कृष्णाप्रमेयस्य भार्यानामसहस्रकम् ।
शृणुष्व बुद्धिमाश्रित्य लोकानुग्रहकाम्यया ॥ ३॥
पठेन्नामसहस्रं तु यो ब्रह्मन् विशदाशयः ।
तस्मै तुष्टा भवत्याशु रुक्मिणी करुणालया ॥ ४॥
सूत उवाच ।
इत्युक्त्वा नारदः प्राह कृष्णं विधिविदांवरः ।
रुक्मिणीनामसाहस्रं भगवत्तोषकारकम् ॥ ५॥
अस्य श्रीरुक्मिणीदिव्यसहस्रनामस्तोत्रमन्त्रस्य भगवान्
श्रीकृष्णद्वैपायन ऋषिः । अनुष्टुप् छन्दः । मूलप्रकृतिः ।
श्रीरुक्मिणीदेवता । बीजं योनिः । स्वयं व्यक्तिरिति बीजम् ।
विदर्भकन्यकाशक्तिरिति शक्तिः । सर्वोद्भवकरादेवीति मन्त्रः ।
विष्णुशक्तिश्चक्रधरेति कीलकम् ।
श्रीरुक्मिणीदेवी प्रीत्यर्थे जपे विनियोगः ।
अथ करन्यासः ।
रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।
मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥
इति अङ्गुष्ठाभ्यां नमः ।
चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।
गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥
इति तर्जनीभ्यां नमः ।
ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।
सहस्रांशा सहस्राक्षा सहस्रवदना सुधा ।
इति मध्यमाभ्यां नमः ।
सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।
सहस्रनासिका पद्मा पद्मालयविलासिनि ॥
इति अनामिकाभ्यां नमः ।
आदित्यान्तर्गता ज्योतिरतिबुद्धिर्जितेन्द्रिया ।
अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥
इति कनिष्ठिकाभ्यां नमः ।
धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।
गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥
इति करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासः ।
रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।
मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥
इति हृदयाय नमः ।
चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।
गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥
इति शिरसे स्वाहा ।
ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।
सहस्रांशा सहस्राक्षा सहस्रवदना सुधा ॥
इति शिखायै वषट् ।
सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।
सहस्रनासिका पद्मा पद्यालयविलासिनी ।
इति कवचाय हुम् ।
आदित्यान्तर्गताज्योतिरतिबुद्धिर्जितेन्द्रिया ।
अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥
इति नेत्रत्रयाय वौषट् ।
धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।
गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥
इति अस्त्राय फट् ।
अथ ध्यानम् ।
ॐ देवीमुन्नतपीठगां सुवसनां ताटङ्ककर्णां शुभां
भास्वत्स्वर्णसुरेखितायुतमहावक्षस्थलां कामदाम् ।
हस्तस्वर्णकरण्डकां कटितटप्रान्तैकपाणिं वरां
श्रीमद्विठ्ठलचित्तचौर्यचतुरां श्रीरुक्मिणीं तां भजे ॥
ॐ भैष्मीं चन्द्राननाभां सकलसुरगुरुस्तुत्यसद्रूपरूपां
वन्द्यां ब्रह्मादिभिस्तां मुनिवरवरदां रुक्मिणीं कृष्णभार्याम् ।
सर्वालङ्कारशोभां नतसुखदपदामादिशक्तिं सुरेन्द्रां
व्यक्तामाद्यां गुणाढ्यां प्रियकरुणपरां सुन्दराङ्गीं भजेऽहम् ॥
ॐ सिञ्जन्नूपुरशोभिपादकमलां मन्दास्मितोद्यन्मुखीं
कञ्जाक्षीं कुचभारभीरुविलसन्मध्यां क्वणत्कङ्कणाम् ।
शम्भ्वाद्यैः परिसेवितां सुवसनां जाम्बूनदालङ्कृतां
अम्बां तां प्रणतोऽस्मि कृष्णरमणीं लम्बालकां रुक्मिणीम् ॥
अथ मानसपूजा ।
ॐ लं पृथिव्यात्मकं गन्धं परिकल्पयामि ।
ॐ हं आकाशात्मकं पुष्पं परिकल्पयामि ।
ॐ यं वायव्यात्मकं धूपं परिकल्पयामि ।
ॐ रं तेजात्मकं दीपं परिकल्पयामि ।
ॐ वं अमृतात्मकं नैवेद्यं परिकल्पयामि ।
ॐ सं सर्वात्मकान् सर्वोपचारान् परिकल्पयामि ॥
``ॐ ऐं ह्रीं श्रीं रुक्मिण्यै नमः ।''
(इस महामन्त्र का १०८ बार जप करें और फलश्रुती करें ।)
अथ गायत्री ।
ॐ भीष्मक्यै च विद्महे कृष्णपत्न्यै च धीमहि
तन्नो लक्ष्मीः प्रचोदयात् ।
(हृदयादिन्यास फिरसे करियें ।)
अथ ध्यानम् ।
ॐ भैष्मीं चन्द्राननाभां सकलसुरगुरुस्तुत्यसद्रूपरूपां
वन्द्यां ब्रह्मादिभिस्तां मुनिवरवरदां रुक्मिणीं कृष्णभार्याम् ।
सर्वालङ्कारशोभां नतसुखदपदामादिशक्तिं सुरेन्द्रां
व्यक्तामाद्यां गुणाढ्यां प्रियकरुणपरां सुन्दराङ्गीं भजेऽहम् ॥
श्रीरुक्मिणीदेवी प्रीत्यर्थे जपे विनियोगः । हरिः ॐ ॥
अथ सहस्रनामप्रारम्भः ।
ॐ रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।
मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥ १॥
वल्लभा वल्लरी नन्दा नन्दनाऽऽनन्दकृद्वरा ।
ज्ञाननिष्ठा ज्ञानगम्या ज्ञानवाच्या वचःसुखा ॥ २॥
सुखदा सुखनिष्ठा च सुखगा सुखनिर्मला ।
सुभगा भगगा गङ्गा गङ्गासागरवासगा ॥ ३॥
खगापगा खगाऽगम्या खगगा गोपगाऽनघा ।
विहङ्गा रूपसुभगा सत्रगाऽमित्रनाशिनी ॥ ४॥
योगनिष्ठा योगवासा योगकर्त्री सुयोगका ।
योगिनी योगविन्नेत्री कर्त्री भर्त्री विशारदा ॥ ५॥
कृष्णा विष्णुपदीवन्द्या कृष्णानन्दकरा शुभा ।
शुभकर्त्री शुभानन्दी शुभगा शुभदायका ॥ ६॥
मोक्षदा मोक्षगा माया विष्णुशक्तिर्महाद्युतिः ।
द्युतिगा द्युतिदा नित्याऽनित्यध्वंसनकारिणी ॥ ७॥
पञ्चवन्द्या पञ्चगम्या पञ्चाद्या पञ्चपल्लवा ।
पञ्चवासा पञ्चनिष्ठा प्रपञ्चातीतगाऽमृता ॥ ८॥
नारायणसरोवासी नारायणपरायणा ।
नारायणी शारदाम्बा त्र्यम्बकी वसुधा शिवा ॥ ९॥
शिवगा शिववन्द्या च शिवध्यानपरायणा ।
शङ्कराद्या शङ्करी च शङ्करप्रियनूपुरा ॥ १०॥
वाराही मत्स्यकी कूर्मी नारसिंही च वामनी ।
भार्गवी सूर्यवंशाढ्या वासुदेवी जिनप्रिया ॥ ११॥
कल्किनी डाकिनी शूला शूलिनी शूलनाशिनी ।
ब्रह्मादिवन्द्यपादा च ब्रह्मादिज्ञानदायिनी ॥ १२॥
जगत्कर्त्री जगद्धात्री जगद्वन्द्या जगत्प्रिया ।
जगदाकाररूपा च जगदेकपरायणा ॥ १३॥
जगद्ध्वंसी जगद्वासी रुद्राणी रुद्रकारिणी ।
रुद्रप्रिया रुद्रनाशा रुद्रा रुद्रानुगाऽगमा ॥ १४॥
श्यामा श्यामाङ्गना रम्या रम्यकाननवासिनी ।
भक्तिप्रिया भक्तिगम्या भक्तिशक्तिधराऽमरा ॥ १५॥
यज्ञाङ्गा यज्ञवासा च यज्ञरूपा च यज्ञगा ।
यज्ञध्वंसिनी यज्ञकर्त्री यज्ञा यज्ञाङ्गकारका ॥ १६॥
रामा रामप्रियाऽऽरम्भाऽऽरम्भाभिप्रेतकारिणी ।
रम्भा रम्याऽऽरम्भगा चाऽऽरम्भविद्रम्भघा नगा ॥ १७॥
मालती मालिनी माला मालाऽऽकारा मलापहा ।
मूलप्रकृतिराकाशाऽऽद्यानुगा मूलमर्दिनी ॥ १८॥
सदसद्रूपका भ्रान्तिः सरला भ्रान्तिनाशिनी ।
भ्रमदा भ्रमकारा च भ्रमशर्वरिनाशका ॥ १९॥
सूत्रात्मिका सूत्रसूत्रा सूत्रगा सूत्रकारिणी ।
सूत्रपारा पारसूत्रा सूत्रान्तःसञ्चरी वरी ॥ २०॥
महत्तत्त्वा महद्वक्त्रा महती महदाशनी ।
महिमा मोहिनी माया मायामूला महाकृतिः ॥ २१॥
सर्वोत्तमा सर्वशक्तिः सर्वविद्या सुरूपिणी ।
सर्वकर्त्री सर्वभत्रीं सर्वविघ्नविनाशिनी ॥ २२॥
हिरण्यगर्भा गर्भा च हिरण्यसदृशानना ।
हिरण्यवर्णा वर्णा च हिरण्यरजतामला ॥ २३॥
परात्परा परानारी नरभूषणभूषणा ।
विशालाक्षी महामारी सगुणा गुणवर्धना ॥ २४॥
सुपर्णा पार्वती दुर्गा कोटितीर्थाघनाशिनी ।
विश्वम्भरा विश्वरूपा विश्वा विश्वात्मिका सुधीः ॥ २५॥
वैष्णवी माधवी लक्ष्मीः वैकुण्ठाऽकुण्ठसञ्चरी ।
योगपीठा वषट्कारा भूतभव्यभवत्करा ॥ २६॥
अव्यया पौरुषी साक्षी क्षेत्रज्ञा क्षेत्रपालका ।
क्षेत्राधिष्ठा तु गहना क्षेत्रमाला महामतिः ॥ २७॥
क्षेत्राकृतिर्भूतभावा भूतभावनतत्परा ।
पूतात्मिका पूतपरा मुक्तानां गतिरुत्तमा ॥ २८॥
अक्षरी योगिनी जेष्ठा प्रधानपुरुषेश्वरी ।
स्वयम्भवी महाशब्दा ह्यनादिनिधनाऽन्तका ॥ २९॥
विधात्री धारिणी धात्री पद्मनाभा शुचिश्रवाः ।
अप्रमेया ध्रुवा शुद्धा स्थविष्ठा विश्वकर्मिका ॥ ३०॥
अग्राही शाश्वती बाला बालार्कसदृशाकृतिः ।
ईशानी प्राणसृक्प्राणा प्राणाप्राणानुकारिणी ॥ ३१॥
ईश्वरी विक्रमी श्रेष्ठा धन्वी दैत्यनिषूदनी ।
गोविदा गोपतीर्गोदा मधुसूदनतत्परा ॥ ३२॥
विक्रमाक्रमणी क्रम्या दुराधर्षा सुरेश्वरी ।
मेधानी क्रमणी मेधा शरण्या शरणप्रदा ॥ ३३॥
कलिप्रकृतिविध्वंसी विश्वशुक्ला प्रजाभवा ।
अहः संवत्सरी व्याला सर्वसिद्धिरजाऽन्विता ॥ ३४॥
सर्वदर्शी प्रत्ययाना सर्वाद्याऽप्रच्युता वृषा ।
सम्मिता समचिद्रूपा सर्वयोगविनिःसृता ॥ ३५॥
वृषाकृतिरमेयात्मा वृषकर्मी ह्यमोघधृक् ।
अमोघा पुण्डरीकाक्षा विश्वयोनिः कवीश्वरी ॥ ३६॥
स्थाणुरूपा वरारोहा सर्वगा बभ्रुवाहना ।
विष्वक्सेना वेदवेदी जनलोकनिवासिनी ॥ ३७॥
महातपःपरा लोकधिषणा च जनार्दनी ।
धर्माध्यक्षा चतुर्दंष्ट्रा चतुर्व्यूहाऽसुराशनी ॥ ३८॥ (चतुर्व्यूहाऽसुरनाशिनी)
चतुर्भुजा वसुभुजा सुराध्यक्षा कृतागमा ।
जैत्री भोक्त्री सुविजयी भ्राजिष्णुर्जगदात्मिका ॥ ३९॥
उपेन्द्रा सङ्ग्रही वैद्या सर्वस्थित्यन्तकारिणी ।
महामदा महायोग्या मधुहा वीरहा तथा ॥ ४०॥
ऊर्जिता यमुना वेद्या महोत्साहा महाबला ।
इन्द्रियातीतगा देवी महाबुद्धिरतीन्द्रिया ॥ ४१॥
अनिर्देश्या महाकाया महावीर्या धृतात्मिका ।
श्रीमती च महेष्वासा श्रीनिवासा महीधरा ॥ ४२॥
अनिरुद्धपदा नन्दी कौमारी च सतां पतिः
हंसी मरीचदमनी पद्मवासा सुलोचना ॥ ४३॥
सुतपस्वी रमा पद्मा भुजगा भुजगोत्तमा ।
अमृत्युर्विश्रुता शस्त्री गदापाणिः स्थिरा मतिः ॥ ४४॥
सुदुर्मर्षी सुसन्धात्री सिंहस्कन्धा गुरूत्तमा ।
निमिषाऽनिमिषा काली कपिला कपिलप्रिया ॥ ४५॥
स्रग्विलासाऽग्रणीर्न्याय्या नयकारणकारणा ।
समीरप्रेरणा प्रेर्या वायुभक्ष्या सहस्रणीः ॥ ४६॥
सहस्रमस्तका कालकलाकाष्ठाऽऽदिरम्बिका ।
सहस्रचरणा गौरी सम्प्रमर्द्दा विलासिनी ॥ ४७॥
विनायकी विघ्नहन्त्री विवृता वह्निसंयुता ।
गरुडासना महामोहा संवर्तननिशाननी ॥ ४८॥
चतुर्वर्णा चतुर्भर्त्री चतुर्वेदपरायणा ।
आयुर्वेदविदा वेत्री धनुर्वेदविशारदा ॥ ४९॥
गान्धर्ववेदपारा वै शिल्पशास्त्रपरा मता ।
सुप्रसन्ना सुगम्भीरा सिद्धार्था सिद्धसेविता ॥ ५०॥
सङ्कल्पसिद्धिः सिद्धिश्च सिद्धसाधनतत्परा ।
अनेकरूपका कान्तिरनेका सिंहवाहिनी ॥ ५१॥
वर्धमाना श्रुतिस्सारा वृषभा दुर्धरश्रवाः ।
प्रकाशिनी बृहद्रूपा विविक्ता दुर्धरा क्षमा ॥ ५२॥
ओजस्तेजोधरा प्रज्ञा प्रतापा प्रविमोचनी ।
स्पष्टमन्त्राऽक्षरधरा चन्द्रगौरा मनस्विनी ॥ ५३॥
शिशुपालयशोहन्त्री सुदेववरदायिनी ।
जरासन्धतमोहन्त्री द्वारकावासिनी दया ॥ ५४॥
कामहा कामदा कान्ता कामकामप्रदायिनी ।
सुदामावरदाऽऽधारा युगावर्ता युगोत्तमा ॥ ५५॥
इष्टानिष्टा विशिष्टेष्टा चेष्टमाना शिखण्डिनी ।
क्रोधहर्त्री क्रोधकर्त्री प्रथिता प्रणताश्रया ॥ ५६॥
बीजयोनिः स्वयंव्यक्तिः शुचिनी शुचितत्परा ।
परमेष्ठिनी शुचिपदा प्राजापत्या च वाक्पतिः ॥ ५७॥
एकैव भगवती साक्षात्सती वेदार्थपारगा ।
ऋष्यनुग्रहका भीष्मा दुःखभेषजभेषजा ॥ ५८॥
विदर्भकन्यका शक्तिर्गायत्री गानतत्परा ।
वीणानादपरा माता जगन्माता जगत्पिता ॥ ५९॥
जगदाभरणा भूतिर्गुणभूता हिरण्मयी ।
विश्वायना विश्वकरा कार्यकारणकारिणी ॥ ६०॥
सर्वोद्भवकरादेवी मन्त्रमालापरायणा ।
भूतेशा सूत्रिणी सूत्रा सूत्रभा सूत्रपारगा ॥ ६१॥
विष्णुशक्तिश्चक्रधरा रविवंशविभूषणा ।
सहस्रबाहुवदना सहस्रकरसंयुता ॥ ६२॥
चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।
गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥ ६३॥
ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।
सहस्रांशा सहस्राक्षा-क्षी सहस्रवदना सुधा ॥ ६४॥
सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।
सहस्रनासिका पद्मा पद्मालयविलासिनी ॥ ६५॥
आदित्यान्तर्गता ज्योतिरतिबुद्धिर्जितेन्द्रिया ।
अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥ ६६॥
धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।
गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥ ६७॥
पुराणी निधना वेलाऽप्रतर्क्या तस्थुषां पतिः ।
प्रयता नियता श्रेया ज्ञातृजेयस्वरूपिणी ॥ ६८॥
भैरवी कालिका शान्ता चन्द्रभागा मरुद्वती ।
ताम्रवर्णी सुदुर्मर्षी बृहती पुष्करालया ॥ ६९॥
ऋग्यजुःसामगा सामा मृत्युसंसारनाशिनी ।
विहङ्गमा कामगमा यातायातपरायणा ॥ ७०॥
छन्दोगात्रा च शकुनिः जनभूषणभूषिता ।
धर्मार्थकामतत्त्वज्ञा क्षेत्रक्षेत्रनिवासिनी ॥ ७१॥
साङ्ख्यात्मिकाऽनन्तरूपा मायावादनिराशिनी ।
विभवा भवहन्त्री च चण्डिका मधुघातिनी ॥ ७२॥
अग्निरूपा वायुरूपा नक्षत्राधिनिवासिनी ।
ऋतुमासकरा कौक्षीः सर्वधर्मपरायणा ॥ ७३॥
रुक्मकेशी रुक्मभूषी वैदर्भी रुक्मयानुजा ।
कृष्णस्यागमनाकाङ्क्षी कृष्णचिन्तनकारिणी ॥ ७४॥
विश्वदर्शी परन्धाम्नी मनुजाकृतिराकृतिः ।
शैलपुत्री महारात्रिः शङ्खचूडनिषूदना ॥ ७५॥
चन्द्रघण्टा महाघण्टा कूष्माण्डा पञ्चमीति च ।
कात्यायनी स्कन्दमाता महागौरीति सिद्धिविद् ॥ ७६॥
कालरात्रिश्च चपला नवदुर्गा च रञ्जिनी ।
अशुभहरणा चण्डी विषमा दुर्गमा तथा ॥ ७७॥
ऐन्द्री गजसमारूढा ईश्वरी वृषवाहना ।
ब्राह्मी हंससमारूढा सर्वापत्तिविनाशिनी ॥ ७८॥
शङ्खिनी चक्रिणी घोरा मुसलायुधधारिणी ।
गदिनी हलिनी शक्तिः खेटकी तोमरी तथा ॥ ७९॥
पाशहस्ता परशुधरा त्रिशूलवरधारिणी ।
कुन्तायुधा शार्ङ्गधरा खड्गचर्मधरा वरा ॥ ८०॥
मुद्गलाधारका धारा बाणपट्टिशधारका ।
दैत्यनाशकरा भक्तपालकाऽभयवाहिनी ॥ ८१॥
महारौद्रा महोत्साहा महाघोरतमाऽऽक्रमा ।
दारुणी ह्यग्निदैवत्या शत्रूणां भयवर्धिनी ॥ ८२॥
मृगवाहिनी तथा वाही ब्रह्माणी रौद्रिणी तथा ।
चामुण्डा चोग्रदशना शिववाहिनी वाहिनी ॥ ८३॥
अजिता विजया चित्रा मालाधारी शिखण्डिनी ।
पयस्विनी त्रिनेत्रा च भ्रुकुटीतटवासिनी ॥ ८४॥
व्यवस्थिता मध्यघण्टा यमघण्टा तरस्विनी ।
सुगन्धा कालिका द्वारावासिनी चर्चिका कला ॥ ८५॥
कलामृता महाघण्टा कामाक्षी सर्वमङ्गला ।
नीलग्रीवा भद्रकाली कपिला कपिलप्रिया ॥ ८६॥
वज्रिणी दण्डधारी च मेदिनी कलिनी तथा ।
शूलेश्वरी सुललिता कामिनी कामनाशिनी ॥ ८७॥
मोहिनी मोहरूपा च मोहनाशा च कामहा ।
विन्ध्याद्रिवासिनी विन्ध्या मेघवाहिनी वाहका ॥ ८८॥
पद्मावती पद्मकेशा पद्ममुद्रा पदाम्बुजा ।
महाबला महावीर्या पातालतलवासिनी ॥ ८९॥
केशिनी भीमदंष्ट्रा च कौबेरी कुरुपालिनी ।
ज्वालामुखी ज्वालमाला छत्रिणी छत्रवाहिनी ॥ ९०॥
भूर्लोकानन्ददात्री च ऋग्मूर्तिः मन्त्रयन्त्रिणी ।
सावर्णातनया धारा महामारी तपस्विनी ॥ ९१॥
सा योगनिद्रा विपुला स्वनाभिकमलोद्भवा ।
स्वाहा स्वधा वषट्कारा ह्यर्धमात्रात्मिका तथा ॥ ९२॥
प्रकृतिस्तु गुणाधारा महारात्रिः सुदारुणा ।
श्रीह्रीस्वरूपा बुद्धिश्च बोधलक्षणलक्षिता ॥ ९३॥
परमेश्वरी च परमा लोकनिद्रानुकारिणी ।
तामसी तामसाकारा बोधिनी बोधिकाऽमला ॥ ९४॥
सुरासुरनुताऽशेषा धर्मन्यायपरायणा ।
विष्णुपादाब्जसम्भूता सन्ध्या सावित्रिका स्थितिः ॥ ९५॥
सदासंहृतिरूपास्या मनुरूपा मनोभवा ।
भवरोगहरा देवी समुत्पत्यार्तिनाशिनी ॥ ९६॥
रोगापहाऽऽरोग्यरूपा जगद्रूपा जगत्पतिः ।
जगन्माया जगद्धात्री कल्पान्ताऽशेषभागिनी ॥ ९७॥
सन्मानिता साट्टहासा चञ्चला वसुदाऽचला ।
जयेति विजया चैव सकला शाब्दिकाऽमला ॥ ९८॥
मनोहरा हलधरा धरणीधरपुत्रिका ।
सत्याऽजिता जितक्रोधा वाराणसी मनोभवा ॥ ९९॥
मदनी मन्मथी मारी मानिनी मदनान्तकी ।
शस्त्रास्त्रविपुला घोरा व्याप्तलोकत्रयात्मिका ॥ १००॥
सन्नद्धाऽसुरसैन्यान्ता सदसद्रूपिणी तथा ।
विशालनेत्रा भ्रुकुटिकुटिलाननरञ्जिता ॥ १०१॥
महिषासुरहन्त्री च चक्षुरूपा महोदधिः ।
दिगम्बरा दिशामाला मल्लमर्दनकारिणी ॥ १०२॥
विष्णुमाया महाविद्या महालक्ष्मीर्जगन्मया ।
शुभा शान्ता सिद्धसिद्धा सिद्धिदा च सरस्वती ॥ १०३॥
प्रभा ज्योत्स्ना महाकान्तिः क्षमा शर्वा च मङ्गला ।
हिङ्गुला च तथा पद्मा दान्ता लक्ष्मीर्हरिप्रिया ॥ १०४॥
सुनन्दा नन्दिनी नन्दा त्रिपुरासुरमर्दिनी ।
वेदमाता यज्ञविद्या प्रसिद्धा च सुधा धृतिः ॥ १०५॥
सिद्धविद्या च पृथिवी मृडानी विन्ध्यवासिनी ।
पुरुहूतप्रिया काली पद्मी नारदसेविता ॥ १०६॥
ज्वालामुखी ज्वालमाला कुमुदाऽऽनन्दवासिनी ।
प्रह्लादिनी महादुर्गा दुर्गा दुर्गार्तिनाशिनी ॥ १०७॥
दुर्गमा दुर्लभा भर्गा स्वर्गा त्रिपुरवासिनी ।
शाम्भवी शान्तशान्ता च मदिरा मृदुहासिनी ॥ १०८॥
महानिद्रा योगनिद्रा भवानी भवहारिणी ।
कुलेश्वरी महामारी प्रज्ञा तारा कलेश्वरी ॥ १०९॥
ओङ्कारा पृथिवीकारा चेतना कोपनाकृतिः ।
कलावती कलाकारा बिन्दुमात्रा जयाकृतिः ॥ ११०॥
पद्मासना कुण्डला च बुद्धमाता जनेश्वरी ।
जनमाता शारदा च जितेन्द्रा हंसवाहिनी ॥ १११॥
सुधात्मिका राजवन्द्या विभूतिस्तारिणी शिवा ।
सद्गतिः सत्परा भूता सिन्धुराऽसुरमर्दिनी ॥ ११२॥
मन्दाकिनी विपाशा च सरयू शरहृत्तथा ।
कौशिकी गण्डकी चैव सत्या साध्वी पतिव्रता ॥ ११३॥
सुश्रोणी रजनीरूपा भगा च भगमालिनी ।
पताका च प्रतापा च सेनाश्रेणिः सुयुद्धदा ॥ ११४॥
सुव्यूहा काङ्क्षिणी काङ्क्षा दयाकारा पताकिनी ।
कला कान्ता परा तारा त्रिशक्तिः शक्तिमालिनी ॥ ११५॥
इच्छाधेनुः कामधेनुः पावनी पवनाशनी ।
मोक्षदा मोक्षकामा च कृपाला चण्डविक्रमा ॥ ११६॥
गौरी गौरा सुवर्णा च जगत्संहारकारिणी ।
महाभुजैकाऽनेका च भुजगोरगभूषणा ॥ ११७॥
चक्रभेदी चक्रघाती भेदिनी श्यामला तथा ।
सुस्मिता स्मितलक्ष्या च सुमुखी सुखिनी तथा ॥ ११८॥
कृशा च बहुवर्णा च बह्वी च बहुहासिनी ।
रक्ताम्बरा रक्तमाला नानापुष्पविराजिता ॥ ११९॥
तुलसी तुलसीपत्रप्रिया कृष्णातिवल्लभा ।
सप्तछन्दोमयादेवी भीमकी भीमकाकृतिः ॥ १२०॥
कलाकाष्ठा च गायत्री बृहती पङ्क्तिरेव च ।
सुवर्णरशना कान्ता वेणीभूषणभूषिता ॥ १२१॥
गण्डकी गन्धवासा च कटिभूषणभूषिता ।
पीताम्बरधरा गौरी विख्याता च पयस्विनी ॥ १२२॥
कुङ्कुमागरुशोभाढ्या द्वारकावासिनी तथा ।
पद्मयोनिर्बह्मयोनिः सुगन्धा चन्दनप्रिया ॥ १२३॥
त्रिपुष्कराऽप्रमेया च काशिका मथुरा तथा ।
अवन्तिका कुशावर्ता नानातीर्थस्वरूपिणी ॥ १२४॥
ब्रह्माण्डनायिकाऽवर्णा रतिर्मातङ्गगामिनी ।
सोऽहंरूपा हंसगतिर्ज्वालिनी ज्वलदायिनी ॥ १२५॥
लेख्या भीमरथी चैव चन्द्रभागा च मुण्डका ।
पूर्णा कुम्भधरा भीमा दिव्या त्रिपुरभैरवी ॥ १२६॥
कराला विकराला च घोरा घुर्घुरनादिनी ।
उर्ध्वकेशी रक्तदन्ता त्रिवेणी वेणिका तथा ॥ १२७॥
कर्पूरामोदिकाऽऽमोदा जयश्रीर्जयमङ्गला ।
जयदा जयविश्रामा जयजया सर्वमङ्गला ॥ १२८॥
(अथ हृदयादिन्यासः ।
रुक्मिणी कृष्णपत्नी च विदर्भाधिपकन्यका ।
मुनिवन्द्या मुनिस्तुत्या प्रियगा प्रियकृत्प्रिया ॥
इति हृदयाय नमः ।
चन्द्रसूर्योद्भवकरा चन्द्रसूर्यसमप्रभा ।
गालवी वल्गुवचना वल्गुशब्दप्रिया घृणिः ॥
इति शिरसे स्वाहा ।
ब्रह्मण्या करुणाशीला हरिपादप्रियेक्षणा ।
सहस्रांशा सहस्राक्षा सहस्रवदना सुधा ॥
इति शिखायै वषट् ।
सुवर्णवर्णा हेमाढ्या सहस्रकटिशोभिता ।
सहस्रनासिका पद्मा पद्यालयविलासिनी ।
इति कवचाय हुम् ।
आदित्यान्तर्गताज्योतिरतिबुद्धिर्जितेन्द्रिया ।
अणीयसी स्थूलरूपा सदसद्ग्रन्थिनी पटुः ॥
इति नेत्रत्रयाय वौषट् ।
धनुर्धरा महाशक्तिः श्रेयसामपि श्रेयसी ।
गरीयसी वाक्यभङ्गी संविदग्निरनन्यभाक् ॥
इति अस्त्राय फट् ।
अथ ध्यानम् ।
ॐ भैष्मीं चन्द्राननाभां सकलसुरगुरुस्तुत्यसद्रूपरूपां
वन्द्यां ब्रह्मादिभिस्तां मुनिवरवरदां रुक्मिणीं कृष्णभार्याम् ।
सर्वालङ्कारशोभां नतसुखदपदामादिशक्तिं सुरेन्द्रां
व्यक्तामाद्यां गुणाढ्यां प्रियकरुणपरां सुन्दराङ्गीं भजेऽहम् ॥)
फलश्रुतिः ।
नारद उवाच ।
इदं नामसहस्रन्ते रुक्मिण्याः सर्वमङ्गलम् ।
देवदेव मया प्रोक्तं सर्वलोकहिताय च ॥ १॥
प्रातरुत्थाय मनुजः शुचिर्भूत्वा समाहितः ।
यः पठेच्छृणुयाद्वापि मुच्यते सर्वतो भयात् ॥ २॥
एककालं द्विकालं वा त्रिकालं यः पठेदिदम् ।
सर्वदुःखविनिर्मुक्तो विष्णुलोके महीयते ॥ ३॥
तुलसीरूपिणी देवी तुलसीपत्रकैः शुभैः ।
अर्चयन्नामसाहस्रैर्वैकुण्ठे वसतिर्भवेत् ॥ ४॥
कोमलैर्बिल्वपत्रैश्च अर्चयेद्रुक्मिणीं सदा ।
सहस्रनामभिर्यो वै शिवलोकं स गच्छति ॥ ५॥
कह्लारैर्जातिकुसुमैर्नानापुष्पैश्च यो यजेत् ।
गोलोकं समवाप्नोति नात्र कार्या विचारणा ॥ ६॥
यः पठेन्नामसाहस्रं रुक्मिणीसन्निधौ सदा ।
तस्मै तुष्टा भवत्येवं रुक्मिणी सिद्धिनायका ॥ ७॥
पुत्रवान्धनवान्श्रीमान्नानाविद्यानिधिर्भवेत् ।
सहस्रनामपठणाद्यो नरः स कविर्भवत् ॥ ८॥
इदं नामसहस्रं तु त्रिषु लोकेषु दुर्लभम् ।
भगवन् तव तोषार्थं मया चोक्तं महीतले ॥ ९॥
पुरा तु सत्यलोकेऽस्मिन्ब्रह्मणा कथितं हरेः ।
पुत्रेभ्यो भृगुमुख्येभ्यो लोकोद्धारार्थ कारणात् ॥ १०॥
कैलासशिखरे रम्या शिवया चाभिमन्त्रितः ।
कथयामास शर्वायै शङ्करो लोकशङ्करः ॥ ११॥
पुत्रार्थी लभते पुत्रान्सुतार्थी लभते सुताम् ।
धनं धनार्थी लभते कामार्थी काममाप्नुयात् ॥ १२॥
मोक्षार्थी लभते मोक्षं सिध्यर्थी सिद्धिमाप्नुयात् ।
पठनाच्छ्रवणाद्वापि ह्यन्ते मुक्तो न संशयः ॥ १३॥
ससुरासुरगन्धर्वदैत्यदानवखेचराः ।
सिद्धाः किम्पुरुषाश्चापि पन्नगा उरगा नगाः ॥ १४
एतेषामपि यः कोऽपि त्विदं नामसहस्रकम् ।
पठते सर्वदा कृष्ण मुच्यते नात्र संशयः ॥ १५॥
कृष्णकृष्णाप्रमेयात्मन् तव पत्न्याः प्रकीर्तितम् ।
नाम्नां सहस्रं दिव्यानां कोकवैभवकारणम् ॥ १६॥
सूत उवाच ।
ब्रह्मन्जानीहि कृष्णस्य पत्न्या नामसहस्त्रकम् ।
नारदेनोक्तमतुलं कृष्णाय परमात्मने ॥ १७॥
इदं तु ते गुह्यतमं प्रोवाच भृगुनन्दन ।
अस्मिल्लोकेऽथवाऽमुष्मिन्दुर्लभं नात्र संशयः ॥ १८॥
इति श्रीस्कन्दपुराणे नारदसंवादे
श्रीरुक्मिणीदिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।
श्रीरुक्मिणीचरणारविन्दार्पणमस्तु ।
शुभं भवतु । शुभं भवतु । शुभं भवतु ।
Proofread by Saritha Sangameswaran, PSA Easwaran