सकारादिश्रीसीतासहस्रनामस्तोत्रम्

सकारादिश्रीसीतासहस्रनामस्तोत्रम्

(श्रीरुद्रयामलतन्त्रोक्तम्) सुरालये प्रधाने तु देवदेवं महेश्वरम् । दशैलाधिपस्यतनया सङ्गे हरसुवाच हि ॥ १॥ श्रीदेव्युवाच । परमेश परन्धाम प्रधानपुरुषेश्वर । नाम्नां सहस्रं सीतायाः विस्तरातू वद शङ्कर ! ॥ २॥ श्रीमहादेव उवाच । श‍ृणु देवि प्रवक्ष्यामि नाममध्येसहस्रकम् । परन्धामप्रदाविद्या चतुर्वर्गफलप्रदा ॥ ३॥ गुह्यात् गुह्यतमं देवि ! सर्वसिद्ध्येकवन्दिता । अतिगुह्यतराविद्या सर्वतन्त्रेषु वेदिता ॥ ४॥ विशेषतः कलियुगे महासिद्व्यौघदायिनी । गोपनीया प्रयत्नेन कस्मैचिन्नप्रकाशयेत् ॥ ५॥ विनाध्यान-विनापूजा-विनाहोम-विनाजपम् । विनापुष्प-विनागन्धं विनादानं विनामखम् ॥ ६॥ सकृदुच्चरिताविद्या ब्रह्महत्यां व्यपोहति । एतद्विज्ञानमात्रेण सर्वसिद्धीश्वरोभवेत् ॥ ७॥ अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते । रोधिनी विघ्नसङ्घानां मोहिनीपरयोषिताम् ॥ ८॥ स्तम्भिनि राजसैन्यानां वादिनी परवादिनाम् । कलौ पापसमाकीर्णे पठनान्मुक्तकिल्विषाम् ॥ ९॥ तस्मात्त्वं पठ देवेशि ! स्वर्गमोक्षप्रदायकम् । न्यासविद्यां प्रवक्ष्यामि श‍ृणु पर्वतनन्दिनी ॥ १०॥ अस्य सहस्रनामस्य ऋषिर्ब्रह्मा प्रकीर्तितः । छन्दोऽनुष्टुप् प्रोक्तश्च सीतादेवी प्रकीर्तिता ॥ ११॥ सौरभं बीजमाख्यातं कमलाशक्तिरीरिता । कीलकं पाशबीजेन विनियोगस्ततः परम् ॥ १२॥ अथ ध्यानं प्रवक्ष्यामि सीतायाः परमाद्भुतम् । सर्वपापहरं दिव्यं सर्वकामफलप्रदम् ॥ १३॥ आयुः कीर्तिकरं पुण्यं सर्वाघौघविनाशनम् । ज्ञात्वा सम्यक्विधानेन न्यासजालं समाचरेत् ॥ १४॥ ॐ अस्य श्रीसीतासहस्रनाममन्त्रस्य ब्रह्माऋषिः अनुष्टुप् छन्दः श्रीसीतादेवतायैनमः । ह्रीं ह्रीं क्लीं बीजाय नमः श्रीशक्तये नमः आं कीलकाय नमः ममसकलाभीष्टसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानम् । ध्यायेज्जानकी रम्यां मुक्ताहारसुशोभिताम् । अनन्तरत्नरचितां सिंहासनविराजिताम् ॥ उद्यत्सूर्यसहस्राभां दाडिमीकुसुमप्रभाम् । सुवृत्तनिविडोत्तुङ्गकुचमण्डलराजिताम् ॥ अनर्घ्य मौक्तिकस्फार हारभारविराजिताम् । नवरत्नप्रभाराजि ग्रैवेयवरभूषणाम् ॥ श्रुतिभूषामनोरम्यां सुगण्डस्थलभूषणान् । नमामि परमां देवीं रामवामाङ्कगां शिवाम् ॥ इति ध्यात्वा हृद्युपचारैस्सम्पूज्य स्तोत्रकं पठेत् । अथ सहस्रनामस्तोत्रम् । ॐ सीता सीमन्तिनी सीमा सन्मन्त्रफलदायिनी ॥ १॥ सत्या सत्यवती सामा सात्विकी सर्वमङ्गला । सत्प्रभावा सतीसाध्वी सत्कला सकलेष्टदा ॥ २॥ समस्ता समदा सान्द्रा सान्द्रनीलसमप्रभा । सौभाग्यजननी सेव्या सौम्या सुन्दररूपिणीम् ॥ ३॥ सम्भ्रमा सम्भ्रमातीता सन्तुष्टफलदायिनी । सर्वोत्तुङ्गकला सर्वा सर्वेष्टा सङ्गमप्रिया ॥ ४॥ शान्तिप्रिया शान्तिमती सीमन्तमणिभूषणा । सावित्री सन्मुखी सिद्धा शारदा च समप्रभा ॥ ५॥ स्वतन्त्रा सत्यसङ्कल्पा समदृष्टिफलप्रदा । सारङ्गसदृशा श्यामा सरसा शशिशेखरा ॥ ६॥ समाना सामगा शुद्धा समस्तसुरसम्मुखी । सर्वसम्पत्प्रदात्री च शमदा सिन्धुसेविनी ॥ ७॥ सरसीरुहमध्यस्था सरोवरविहारिणी । सरस्वती सुवह्निश्री श्रीजया शुभदायिनी ॥ ८॥ सर्वमाङ्गल्यजननी सार्वभौमप्रदायिनी । साम्राज्यकारिणी साम्रा साम्राज्यफलदायिनी ॥ ९॥ सत्यव्रता सत्यपरा सद्भावा सत्परायणा । सन्मार्गकर्त्री सम्मान्या सम्मानसुखदायिनी ॥ १०॥ सत्यज्ञानप्रदात्री च सुमनाराध्यपादुका । स्वर्णकान्ति समप्रख्या स्वर्णाभरणभूषिता ॥ ११॥ सत्सङ्कल्पप्रदा सज्या सुखी सौख्यवरप्रदा । संसारसागरारूढा संसारभयनाशिनी ॥ १२॥ सर्वार्थसाधिनी सर्वा शर्वाणी शङ्करप्रिया । शाश्वतस्थानफलदा शासना शासनप्रिया ॥ १३॥ समता समतासारा सारस्वतफलप्रदा । सिञ्जानमणिमञ्जिरा सस्मिताऽधरपल्लवा ॥ १४॥ सर्वसौन्दर्यनिलया सर्वसौभाग्यशालिनी । सञ्जनानन्दनिलया सत्कर्मफलदायिनी ॥ १५॥ सूक्ष्मा सूक्ष्मगतिस्स्तुत्या सूक्ष्मज्ञानप्रदायिनी । सौदामिनी सुधादेवी सिन्धुरूपा च साम्बिका ॥ १६॥ सिद्धिप्रदा सिद्धिबन्धु सिद्धेशी सिद्धसुन्दरी । सन्ध्येयत्री सन्ध्यञ्जरा सन्ध्यातारुण्यलालिता ॥ १७॥ शमदा शाङ्करी सेतु सुकोला सरसीरुहा । सोमेश्वरी सोमकला सोमपानसुसम्मता ॥ १८॥ सौम्यानना सौम्यरूपा सोमस्या सोमसुन्दरी । सूर्यप्रभा सूर्यमुखी सूर्यजा सूर्यसुन्दरी ॥ १९॥ सूर्यकोटिप्रतीकाशा सूर्यतेजोमयी सती । सोमकोटिप्रभा शोभा सोममण्डलवासिनी ॥ २०॥ शतानन्दा श्रुतिधरा सुषुम्ना शोभनप्रिया । शोभावती सुशोभाढ्या शोभना सुभगा सुखा ॥ २१॥ शताक्षी शम्बरध्वंसी सहस्राक्षी सहोदरी । सहस्रशीर्षा सर्वेशी सहस्रपदसंयुता ॥ २२॥ सहस्राक्षी सुवस्त्राढ्या सहस्रभुजवल्लिका । शुभवस्त्रप्रिया सुन्दा शत्रुघ्नी शन्तनुप्रिया ॥ २३॥ शतानना च शबरी सहस्रपदपङ्कजा । शिशुपावृक्षनिलया शम्बरारि सुखप्रदा ॥ २४॥ श्रान्तिहा सन्ततिः सत्या सन्तानफलदायिनी । श्रीङ्काररूपिणी श्रद्धा श्रेयदा श्रमनाशिनी ॥ २५॥ श्रेष्ठा श्रेष्ठकरी श्रेया श्रुतिरूपा श्रुतिप्रिया । श्रेणीपति समाराध्या सुष्टुङ्गानप्रियङ्करी ॥ २६॥ स्थाणुपत्नि स्थितिकरा स्थितिस्था स्थितिवर्द्धिनि । श्रद्धावती च श्रमदा श्रद्धाभक्तिसमन्विता ॥ २७॥ श्रीविद्या षोडशी षोढा षोढान्यासफलप्रदा । शुक्लाम्बरपरीधाना शुक्लगन्धानुलेपना ॥ २८॥ शुक्लपुष्पप्रिया शुक्ला शुक्लाभरणभूषिता । स्वयञ्ज्योतिः स्वयङ्कर्त्री स्वयमानन्दविग्रहा ॥ २९॥ शेषादिशायिनी शेषा श्रीधरार्चितपादुका । सङ्कर्षणप्रिया सभ्या सभामण्डलवासिनी ॥ ३०॥ सर्वेन्द्रिया-सर्वगतिः-सर्वसाक्षी-समुन्नता । सङ्ग्रामकारिणी-शैवा-सरयूतीरवासिनी ॥ ३१॥ सद्ब्राह्मणकुलोत्पन्ना-सच्चिदानन्दरूपिणी । सुगमा-सुगमप्रीता-सुगमध्यानतत्परा ॥ ३२॥ सोमपानरता-सोमा-शाम्भवी-शम्भुवल्लभा । समय-समयाचारा-संविज्ञानपरायणा ॥ ३३॥ सनातनप्रिया-शूरा-शूरश्रेणीविराजिता । श्रुतिस्मृतिप्रदात्रीच-श्रावणी-श्रावणप्रिया ॥ ३४॥ शतपत्रप्रिया-स्वैरा-सामन्तकुसुमार्चिता । सुबोधा-सुमतिः स्वेच्छा-सुरेशवरदायिनी ॥ ३५॥ सङ्गीतगानरसिका सदास्वरविराजिता । सरिगमज्ञानफलदा सदासन्तोषकारिणी ॥ ३६॥ सामवेदकृतोत्सङ्गा-सामगानप्रियङ्करी । श्रीवैष्णवसमाराध्या स्वेच्छाविभवदायिनी ॥ ३७॥ स्वच्छन्दाचारनिलया-स्वेष्टा -स्वेष्टफलप्रदा । स्वच्छन्दा-सानुरूपस्था-साम्याधिकवरप्रदा ॥ ३८॥ शाकम्भरी-शिवाराध्या सिंहाचलनिवासिनी । शिवङ्करी -शिवाङ्कस्था-शिवध्यानपरायणा ॥ ३९॥ सम्पादनप्रिया सभ्या-सम्पूर्णफलदायिनी । शङ्खपत्राशिनी शङ्खस्वना-शङ्खगलाशशी ॥ ४०॥ शङ्खिनी-शङ्खवलया-शङ्खमालावती-समी । शम्बरी शाम्बरी शम्बू-शम्बुकी-शबराशिनी ॥ ४१॥ शङ्खी-शङ्खवती-शङ्खा-श्यामाङ्गी-श्यामलोचना । श्मशानस्था -श्मशाना च श्मसानस्थलभूषणा ॥ ४२॥ शिवदाऽशिवहन्त्री च शकुनी -शङ्खशेखरा । सुमुखी-शोषिणी-शोषी-सौरी सौर्या सरासरी ॥ ४३॥ शम्पहा शापहा शम्पा सम्पत् -सम्पत्तिदायिनी । श‍ृङ्गिणी -श‍ृङ्गीफलभुक् शान्तिनी-शङ्करप्रिया ॥ ४४॥ शङ्का-शङ्कापहासंस्था शाश्वता शीतला-शिवा । शिवस्था -शिवभुक् शाली -शिवाकरा शिवोदरी ॥ ४५॥ शायिनी शयनी-शिंसा शिशुपा -शिशुपायिनी । शवकुण्डलिनी श्वेता शीकरी-शशिलोचना ॥ ४६॥ शिवकाञ्ची -शिवश्रीका शिवमाला शिवाकृति । सम्पातिः शङ्कुवसतिः शन्तनुः शीलदायिनी ॥ ४७॥ सिन्धुः स्वैरगतः सैन्ध्री सुन्दरी सुन्दरानना । साधुः सिद्धा सिद्धिदात्री सिद्धासिद्धस्वरूपिणी ॥ ४८॥ सरः समा समाना च समाराध्या समस्तदा । समृद्धा समदा सस्प्रा सम्मोहारूपदर्शना ॥ ४९॥ समितिः समिधा स्नेहा सुधारससमन्विता । समीरा सन्तता सप्ता साध्वी साधुसहायिनी ॥ ५०॥ शाद्वली सङ्कृतिः शाढ्या सम्प्रदायप्रसादिनी । सुवना सुमनाचारा समाना सामसी शुभा ॥ ५१॥ श्रीमतां श्रीमती श्रीमा श्रीशा श्रीपद्मवासिनी । सालङ्कृता शालुवेशी शालुवेशप्रियङ्करी ॥ ५२॥ सुलभा सुलभाराध्या सुश्रावा सुष्ठुमल्लिका । शुचिज्ञा सुमना शुद्धा शुचिध्यानसमाश्रिता ॥ ५३॥ शुचिकर्मपरा शुत्री शुचिनी सूचनप्रिया । सुज्ञाननिलया सुज्ञा सुबुद्धि सन्निवेशना ॥ ५४॥ सत्कालगामिनी स्पर्शा शिवमौलिकृताश्रया । स्तुत्यर्था सर्वदोषघ्नी सम्पक्वफलदायिनी ॥ ५५॥ संसर्गा संस्पृशा स्तुत्या स्तोकस्तोत्रप्रियङ्करी । सदा सर्वदास्तुत्या सुधिया सर्वदेवता ॥ ५६॥ सुरालया सुष्ठुरता सुपर्णा सुमनार्चिता । सद्बोधनिरता सस्या सव्यपाणिः सुरद्युतिः ॥ ५७॥ साङ्ख्ययनमुनिस्तुत्या सङ्ख्यासाहित्यदायिनी । शाल्मलीकुसुमप्रख्या शोण्डीमेमार्जनीकर ॥ ५८॥ स्कन्दपुत्री स्कन्दमाता स्कन्दा स्कन्दवरप्रदा । स्फुटार्थफलदा स्फोटा स्फुटवक्त्रा स्फुटप्रिया ॥ ५९॥ संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता । सानिध्यदायिनी सन्धिः सुदशा सुमनोहरा ॥ ६०॥ सम्यकसमुच्चरी सस्या स्वर्भानुःफलदायिनी । शसका सस्मिता सस्मा सुमेरू शुचिभूषणा ॥ ६१॥ शुचिस्मिता सुनेत्रा च सुकोमला सुलक्षणा । शुण्डप्रिया शुण्डमाता शुण्डादण्डविराजिता ॥ ६२॥ सञ्चिता सञ्चरी सैवा सत्याभूपालसेविता । सुमेखला सुगुप्ता च स-गिरा च सुविस्तरा ॥ ६३॥ सकुन्तलाच सद्गुण्या शठदर्पापहारिणी । स्मरपत्नीसमाराध्या स्मरारि सुखदायिनी ॥ ६४॥ सम्पूज्यदेवतारूपा सनकादिमुनिस्तुता । स्वभावचञ्चलापाङ्गी सनन्दनवरप्रदा ॥ ६५॥ साष्टाङ्गनमनप्रीता सम्मीलनपरायणा । शान्तोदरी स्वयन्धामा शरणागतवत्सला ॥ ६६॥ शोभावती शुभाकारा शङ्कररीर्धशारिणी । श्रोणा शुभ्रजला सुश्रू शरसन्धानकारिणी ॥ ६७॥ शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना । शलभा शूलिनी श्रोता सुनम्ना शुक्लवाहना ॥ ६८॥ सुभ्रूर्वारिष्यैवा षडृतुश्च षडानना । षडाधारस्थिता शस्ना षडञ्जा षण्मुखप्रिया ॥ ६९॥ सन्यासधारिणी सैन्या सुधन्या सुष्ठुगोचरा । षडङ्गरूपसुरता सुरासुरनमस्कृता ॥ ७०॥ सर्ववासा सदोन्मत्ता सुस्तनी सागराम्बरा । सुव्यवस्था च सुरभिः सूर्यमण्डलमध्यगा ॥ ७१॥ सत्यार्थनिलया सत्या सत्यजिह्वाग्रवासिनी । सहस्रद्वयजिह्वाग्रशेषपर्य्यङ्कशायिनी ॥ ७२॥ सत्यार्चिमण्डलगता सव्या सूर्यविभूषणा । सारिका श्यामला स्मेरा स्मेरवक्त्रा शुकप्रिया ॥ ७३॥ शुकाध्ययनसम्पन्ना शुकी शुकवरप्रिया । शुक्राचार्यप्रियाऽशोका शोकसन्तापहारिणी ॥ ७४॥ स्वर्गमोक्षसुखद्वारा सर्वकामसुखप्रदा । सप्तद्वीपात्मकाधारा सप्तसागरधारिणी ॥ ७५॥ सर्वपर्वा च पर्वाग्रा सप्तर्षि सुरसेविता । सद्योजीवा सर्वसन्ध्या सर्वलोकसमाश्रया ॥ ७६॥ सुधावक्त्रा सौमनस्या सम्भूता सुकृतालया । सर्वा सर्वजगत्पूज्या सर्वद्वन्दविनाशिनी ॥ ७७॥ संसारपाशविछिन्ना सर्वमन्त्रमयी सुरा । सुधासम्पृष्टसर्वाङ्गी सुधापङ्कजमालिनी ॥ ७८॥ सूर्याङ्गुली सुनक्षत्रा सौरीकेशीस्वलङ्कृता । सर्वदेवसमुत्पन्ना सर्वदेवमयीश्वरी ॥ ७९॥ सूर्यजालांशुमध्यस्था सङ्क्रमा सङ्क्रमप्रिया । सर्वपौरुषवल्ली च सर्वधर्माधिकारिणी ॥ ८०॥ सप्तकोटीश्वरीविद्या संसारार्णवतारिणी । श्रीकण्ठा शितिकण्ठा च सुधाधाराम्बुवर्षिणी ॥ ८१॥ समुत्तीर्णा शक्तिरूपा सुशक्तिश्च सुधावती । सकलाख्यानसन्तुष्टा सोमसूर्याग्निमध्यगा ॥ ८२॥ सूक्ष्मसूत्रा सूक्ष्मरूपा सूसूत्रा सूत्ररूपिणी । सहस्रादित्यसङ्काशा सहस्रनयनोज्ज्वला ॥ ८३॥ सहस्रमूला सहस्रेशी सर्वविघ्नविनाशिनी । सर्ववादित्रहस्ता च सर्वप्रहरणोद्यता ॥ ८४॥ सुरभी सौरभेयी च सुधाधारा सुधावहा । सर्वबन्धनसङ्क्षेत्री सर्वाभिचारनाशिनी ॥ ८५॥ सर्वसिद्धिमहामाया सर्वार्थकसाधिका । सर्वसङ्ग्रामजननी सर्वशत्रुविनाशिनी ॥ ८६॥ सर्वेश्वर्यसमुत्पत्तिः सर्वलोकैकदीपिका । सर्वलोकसुखोत्पन्ना सर्वतःसुखदायिनी ॥ ८७॥ सर्वदुःखान्तकरणी सुभद्रा सर्वसात्विका । सहस्रशाखाफलिनी सर्वरोगनिषूदिनी ॥ ८८॥ शत्रुद्वेष्टी शत्रुहन्त्री शत्रुनामनिकन्दिनी । सकलंहास्वरूपस्था सोऽहं-शब्दस्वरूपिणी ॥ ८९॥ श्रीमन्त्रराजसदृशा श्रीशैलपदगामिनी । श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ ९०॥ सुवासिन्यर्चनप्रीता सुकुमारप्रियङ्करी । सदोन्मत्ता सदातुष्टा शर्मदा शम्भुगेहिनी ॥ ९१॥ स्वस्था स्वभावमधुरा सदाशिवकुटुम्बिनी । सव्यापसव्यमार्गस्था सव्यसात्री सहायिनी ॥ ९२॥ सुदक्षिणा सुकौमारी सुमेना च सुरम्भिका । सर्वोपनिषदस्तुत्या समीरतनयस्तुता ॥ ९३॥ सत्यज्ञानानन्दरूपा सामरस्यपरायणा । सर्वोपाधिविनिमुर्मुक्ता सदाशिवपतिव्रता ॥ ९४॥ सर्वतन्त्रेश्वरी शक्ति सर्वगा सर्वमोहिनी । सर्वाधारा सुप्रतिष्ठा सदसद्रुपधारिणी ॥ ९५॥ सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी । शुभाचारा समावाणी सवीदक्षिणविराजिता ॥ ९६॥ सर्वादनेप्रीतचित्ता सिन्दूरतिलकाङ्किता । सहस्रदलमध्यस्था सर्ववर्णोपशोभिता ॥ ९७॥ सर्वायुधधरा शुक्रा संस्थिता सर्वतोमुखी । स्वाहा स्वधा सहस्रारा सर्वमृत्युनिवारिणी ॥ ९८॥ सश्लाघायुधसम्पन्ना स्वाधिष्टाम्बुजसंस्थिता । समस्तभक्तसुखदा शाकिन्येवास्वरूपिणी ॥ ९९॥ शिवदूती शिवाराध्या शिष्टेष्टा शिष्टपूजिता । संहृताशेषपाखण्डा सदाचारप्रवर्तिनी ॥ १००॥ स्वात्मानन्दलयीसूक्ष्मा शुभाह्लादनचन्द्रिका । सद्यःप्रसादिनी साक्षी साक्षिणी साक्षिवर्जिता ॥ १०१॥ षडङ्गदेवतायुक्ता षाड्गुण्ययरिपूजिता । श्रुतिसीमन्तसिन्दूरी सदाशिवगृहस्थिता ॥ १०२॥ सकलागमसन्दोहा शुक्तिसम्पुटमौक्तिका । सहस्रवदनप्रीता सर्वश्रमनिवारिणी ॥ १०३॥ सत्यप्राज्ञापिका सत्या सर्वावस्थाविवर्जिता । संहारिणी सृष्टिरूपा सृष्टिकर्त्री शिवालया ॥ १०४॥ सकल-ह्रीं-बीजरूपात्मा सौंबीजनिलयात्मिका । सहौं-बीजसुसर्वाङ्गी सम्मोहनऋषिप्रिया ॥ १०५॥ सफल-ह्रीं-महाविद्या शुक्राचार्यहृदिस्थिता । साक्षमौलैकबीजस्था सच्छूद्रसमुपाश्रिता ॥ १०६॥ सदसद्रामनिलया शतरुद्राशतानना । श्रीरामहृदयानन्ददशधाननविघातिनी ॥ १०७॥ ख्यौं-बीजा श्रीं-बीजा श्रींश्रींश्रींह्रीनिकेतना । स्वरन्यासस्वरूपस्था शुक्रान्ता शुक्रतर्पणा ॥ १०८॥ सुकर्पूरनिभासात्मा शुभस्थलनिवासिनी । सन्ध्याग्ररूपिणी सन्ध्या संहिता संहितात्मना ॥ १०९॥ सृन्नासमेदोस्थिगता सुकुक्षा सुहृदिस्थिता । फिंसुलो च भासौफासक्रौं समदलात्मिका ॥ ११०॥ सक्रीं-हंसस्वरूपस्था स-क्लौंविहगरूपिणी । सुवर्णीवर्णसर्वाङ्गी स्त्रीरूपा शास्त्रशालिनी ॥ १११॥ सक्रमान्यासवेणी च स्वामिनी शिवपोषिणी । श्वेतातपत्रधरिणी सिद्धार्थी शीलभूषणा ॥ ११२॥ सत्यार्थिनी सन्ध्याभा च शची सिंही सहङ्करी । सङ्कोचार्थप्रदर्शी च सुहृदबन्धुविहारिणी ॥ ११३॥ शिपिविष्टप्रियाश्लोका सुकामा सज्जनाश्रया । सूक्ष्मेलवरघुरुषां स्थारलौरूपधारिणी ॥ ११४॥ शिवशक्तिसमाश्लिष्टा स्फुरद्व्योमान्तरस्थिता । सर्वरोगहराख्या च सौरभाचौरसंस्तुता ॥ ११५॥ सम्पुटब्रह्ममध्यस्था सर्वसम्पुटमालिका । सर्वाशापूरणीश्लाघ्या श्लींबीजा श्लीम्पराशिला ॥ ११६॥ शिलास्वरूपतरणीं शुक्लाङ्गी शुक्लभाषिणी । सदा श‍ृङ्गनिवासी च सावर्णीतनयस्तुता ॥ ११७॥ सुरथ्या सुरथारूढा सुरथज्ञानदायिनी । स्त्रौम्बीजवासिनी श्रान्ता श्रान्तसन्तापहारिणी ॥ ११८॥ श्मशानकाली सागुह्या श्मशानागारभूषणा । शाक्तप्रिया शक्तिकला शाक्ता शक्तिपरायणा ॥ ११९॥ सखीवृन्दनिवासा च सखिगोष्ठीप्रियङ्करी । शुभभोगाद्यसन्तुष्टा सर्वज्ञानाक्षमालिनी ॥ १२०॥ श्वेतद्वीपनिवासा च शुभ्रजाम्बूनदस्थिता । समश्लेषातुरात्मा च सविद्युत्तेजरूपिणी ॥ १२१॥ साकारनिलया साका साकेतपुरवासिनी । सप्तव्याहृतिसंयुक्ता स्नुषा सुव्यक्तमालिका ॥ १२२॥ साम्बालया साम्बरूपा सुनागमणिभूषणा । सुजटा सौकला सौख्या सर्पमालविभूषणा ॥ १२३॥ संहारभैरवस्तुत्या स्मार्तहोमप्रियङ्करी । सर्वप्रिया समृद्धा सा सद्वैद्यभिषजप्रिया ॥ १२४॥ सौराष्ट्रदेशमध्यस्था सोमनाथेश्वराङ्गा । स्वयंवरोत्सवप्रीता सौमित्रिप्रियभाषिणी ॥ १२५॥ शक्तिसङ्गमसन्तुष्टा शरत्ताराङ्गणस्थिता । सप्ताश्वरथसंस्था च श्वेतकुञ्जरवाहिनी ॥ १२६॥ श्रीमद्भगवती श्वासा सुकुमारी सुकन्यका । श्रीसागानन्ददमना श्रीमज्जनकनन्दिनी ॥ १२७॥ सदाद्वैतस्वरुपा च सुकर्णा च सुकुण्डला । सम्भाषकारिणीं श्वासा चातुरी शान्तरोहिणी ॥ १२८॥ सैरावती सरोन्मादा सरावणनिकन्दिनी । सहस्राननधाती च सपट्टिशकरायुधा ॥ १२९॥ सक्रींकालीस्वरूपस्था स-ल्हौं-भेदस्वरूपिणी । सग्लौं-पञ्चास्त्ररूपस्था सध्वं-पञ्चस्वरूपिणी ॥ १३०॥ सल्वं-पञ्चमुद्राधिगता सच्छीध्रश्च मधुव्रता । सनातनप्रेतसंस्था स-पञ्चामृतभक्षिणी ॥ १३१॥ सकौलिकगृहान्तस्था सवामां च सदक्षिणा । स-पञ्चवाणव्यथिता सदादेवप्रसादिनो ॥ १३२॥ सघना च सुगन्धा च सतडित्कान्ति सन्निभा । सर्वकालमयीरूपा सबिम्बा शीललङ्घना ॥ १३३॥ सेन्द्रायुधसमुत्कण्ठा सुराचार्यवरप्रदा । सुगन्धवल्लीकान्तस्था समुद्या सान्द्रमालिका ॥ १३४॥ सत्यज्योतिस्वरूपस्था सजुहोमितभाषिणी । शुनिसेफः ऋषिस्तुत्या श्वेतवर्णा समुज्ज्वला ॥ १३५॥ श्रीकृष्णाङ्कनिवासिनी शुभगा शुभमङ्गला । स्नानोदकप्रिया स्नाता समुद्रा सिन्धुवासिनी ॥ १३६॥ सच्छिष्यबोधिनी शिष्या शतजन्मा शताकृतिः । सद्वनाश्रितपादाब्जा सदानन्दविहारिणी ॥ १३७॥ सर्वतीर्थाऽवगाहिनी संशोभनसच्चकुका । श्रीं ह्रीं क्रीं भैरवीसाद्या श्रीं क्रीं ह्रीं ह्रूं समन्विता ॥ १३८॥ शब्दब्रह्मसमुत्पन्ना शङ्करोत्पत्तिकारिणी । शत्रुनाशा शत्रुदाता शत्रुनाशनतत्परा ॥ १३९॥ श्रीं ह्रीं स्त्री शुक्लभैरवी शुं शुं शक्तिस्वरूपिणी । शालाक्षी शालरूपा च शालपानपरायणा ॥ १४०॥ शूं शूं शूंगतिस्वरूपिणी सकाराक्षरभूषिता । शीघ्ररूपा च शीघ्रा च शीघ्रतत्त्वविमोहिनी ॥ १४१॥ शूकरस्थाः शूकरेज्या शूकराकृतिलालना । शत्रोरशनसन्तुष्टा शैलस्नेहप्रियङ्करी ॥ १४२॥ शमीपूजारतप्रीता शान्तिस्तोत्रपरायणी । शववाहनसन्तुष्टा शवरूपा शवेश्वरी ॥ १४३॥ श्रीमद्रूपा च सद्वाला शेषचण्डपरायणा । श्रीगुणा श्रीशरन्माया शारदानन्दकारिणी ॥ १४४॥ श्रीपार्वति शक्तिमेधा श्रीकमला च सुगर्भिणी । शीतोष्मसमदुःखघ्नी शिवमुद्राप्रदर्शिनी ॥ १४५॥ सुकाली सुतारा च सुछिन्ना च सुसुन्दरी । श्रीमद्भुवनेश्वरी च श्री श्रीमाया च सुसिद्धिदा ॥ १४६॥ श्रीबगला श्रीघूमा श्रीमहालक्ष्मी च शालिका । स्वकीयार्चनसन्तुष्टी शिवाबलिप्रियात्मिका ॥ १४७॥ सुरम्या चित्रकूटस्था सुदर्शनसहायिनी । सभयाऽभीष्टवरदा सक्रोधा सभयङ्करी ॥ १४८॥ सुग्रीवादिहरिस्तुत्या सुष्टुग्रीवा सुसागरा । सप्तपातालचरणा सप्ततालप्रभेदिनी ॥ १४९॥ सुरक्तमणिभूषाङ्गी शुम्भासुरनिकृन्तिनी । शुद्धस्फटिकसङ्काशा सुताम्बूलधरप्रिया ॥ १५०॥ सुसर्वज्ञा सर्वशक्ति सर्वैश्वर्यप्रदायिनी । सर्वश्रीशाङ्करी सर्वोन्मादिनी च महाङ्कुशा ॥ १५१॥ सां सी सर्वांशपूरणी श्रैं-श्रैं-श्रैं-श्रीचक्रस्वामिनी । शापानुग्रहसामर्थ्या स्वचक्रायुधरक्षिणी ॥ १५२॥ सगरात्मजसन्दग्धा शुक्रकर्त्री च सप्तमी । संवत्सरप्रिया षष्ठी सत्यगृहस्वरूपिणी ॥ १५३॥ सुप्तस्य सरितस्नाता सरितानांशिरोमणिः । सहजानन्दलहरी स्वर्णाकर्षणभैरवी ॥ १५४॥ सुभोजनप्रीतिचित्ता षड्रसस्वादनप्रिया । सौधात्मिका सौधरूपा सुसौधा सैन्धवप्रिया ॥ १५५॥ शोधना शोधकृत् सौधा शोधनप्रियमानसा । सुदृष्टिश्च सुलज्जा च सुभ्रूनासा समौक्तिका ॥ १५६॥ सुबाहुमददर्पघ्नी सूर्यघ्नी सूर्यकृन्तनी । सर्वप्रयोगकुशला सर्वस्तम्भनकारिणी ॥ १५७॥ सुश्रूपालनसन्तुष्टा शुश्रूवेषा शुश्रुप्रिया । सुदामादुःखसंहर्त्री सुभद्राशोकनाशिनी ॥ १५८॥ शल्यप्रतिज्ञापहृता सहदेवप्रियङ्करी । शक्तिकल्याणदार्त्री च शक्तवैरीविनाशिनी ॥ १५९॥ श्रीकूर्चबीजसहिता शशिविघ्नविनाशिनी । श्रीं क्लीं विघ्नविनाशिन्यै शम्भुभोगपरायणा ॥ १६०॥ सम्पूर्णचन्द्रवदना शोकमार्गविनाशिनी । शत्रुच्चाटनमार्गस्था शत्रुमोहनकारिणी ॥ १६१॥ श‍ृङ्गीवादनसन्तुष्टा सारात्सारतरास्मृता । सारस्वतमुनिस्तुल्या साधिताऽखिलवैभवा ॥ १६२॥ सुपुष्पिता सुवेलाद्रिसमीपा सर्वकामिनी । सर्वभूतान्तनिरता श्लोकतत्वार्थदर्शिनी ॥ १६३॥ सञ्जयप्रियकर्त्री च सुयोधनवधोद्यता । सर्वभूतपतिस्स्तुत्या सात्विकी सर्वरक्षिणी ॥ १६४॥ सामीप्यफलदायी च सारूप्यफलभोगिनी । सालोक्यफलसिद्धयर्था सायुज्यपददायिनी ॥ १६५॥ अथ फलश्रुतिः । इति ते कथितं देवि ! दिव्यनामसहस्रकम् । सीतादेव्याः परं गुह्यं महापातकनाशनम् ॥ १॥ अष्टम्यां च चतुर्दश्यां सङ्क्रान्तौ मङ्गले दिने । अमायां च तथा रात्रौ नवम्यां च शुभेदिने ॥ २॥ पूजाकाले व्यतीपाते सन्ध्ययोरुभयोरपि । यः पठेद् पाठयेद् वापि श‍ृणोति श्रावयेदपि ॥ ३॥ लभते गाणपत्यं सः यः पठेत् साधकोत्तमः । सर्वपापविनिर्मुक्तः सयाति परमाङ्गतिम् ॥ ४॥ श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः पठेत् । दुर्गतिं तरते घोरां सयाति विष्णुमन्दिरम् ॥ ५॥ सवन्ध्या वा काकवन्ध्या वा मृत्वत्सा च याङ्गना । स्तुत्वा स्तोत्रमिदं पुत्राँल्लभते चिरजीविनः ॥ ६॥ यं यं चिन्तयते कामी पठेत्स्तोत्रमनुत्तमम् । सीतावरप्रसादेन तं तं प्राप्नोति मानवः ॥ ७॥ पञ्चोपचारै नैवेद्यं बलिभिर्बहुशोभितैः । धूपदीपैर्महादेवीं पूजयित्वा मनोरमे ॥ ८॥ षडक्षरं महामन्त्रं यद्वा लक्षपठेत्सुधी । अनन्यचेता स्थिरधीर्विशुद्धासनसंस्थितः ॥ ९॥ वायुतुल्यं वलो लोके दुर्जयः शत्रुमर्द्दनः । सर्वविद्यावतां श्रेष्ठो धनेन च धनाधिपः ॥ १०॥ सर्वसङ्कटमुत्तीर्णः सर्वसिद्धिसमन्वितः । श्रीसीतोत्कृष्टदेव्याश्च सेव्यमानोस्मरोपमः ॥ ११॥ महेशवत् योगीन्द्रः भूतैःसहप्रपूजितः । कामतुल्यस्वरूपोऽसौ सर्वाकर्षणकारकः ॥ १२॥ सूर्येन्दुजलवायूनां स्तम्भको राजवल्लभः । यशस्वी सत्कविर्धीमान् समन्त्री कोकिलस्वरः ॥ १३॥ बहुपुत्रो जगत्स्वामी नरेशोधार्मिकः सुखीम् । मार्कण्डेय इवायुष्मान् जरापलितवर्जितः ॥ १४॥ नवयौवनयुक्तः स्यादपिवर्षसहस्रभाक् । बहु किं कथनात्तस्य पठेत्स्तवमनुत्तनम् ॥ १५॥ न किञ्चिद् दुर्लभं लोके यद्यद् मनसि वर्तते । तत्सर्वं स्वल्पकालेन भविष्यति वरानने ॥ १६॥ सुरापानं ब्रह्महत्या स्तेयं गुर्वङ्गनागमः । सर्वमाशुतरत्येव स्तवस्यास्यप्रसादतः ॥ १७॥ स्तवेनानेनसंस्तुत्वा साधकः किन्नसाधयेत् । मूलमष्टोत्तरं जप्त्वा पठेन्नामसहस्रकम् ॥ १८॥ दर्शनं च भवेदाशु देवगन्धर्वसेवितः । येनकेनप्रकारेण सीताभक्तिः समन्वितः ॥ १९॥ स्तम्भयेदखिलान् कामान् राजानमपिमोहयेत् । परनिन्दा-परद्रोह-परवाद-परायणः ॥ २०॥ खलाय परतन्त्राय भ्रष्टाय च दुरात्मने । न देयं भक्तिहीनाय शिवद्रोहकराय च ॥ २१॥ रामभक्ति विहीनाय परदाररताय च । जपपूजाविहीनाय द्विज-स्त्री-निन्दकाय च ॥ २२॥ न स्तवं दर्शयेद्दिव्यं दर्शनाच्छिवहाभवेत् । कुलीनाय सुशीलाय रामभक्ति पराय च ॥ २३॥ वैष्णवाय विशुद्धाय भक्तेर्भक्ताय मन्त्रिणे । देयं सहस्रनामेदमश्वमेधफलं लभेत् ॥ २४॥ देव्यै र्निवेदितं यत्-तत् तस्यांशं भक्षयेन्नरः । दिव्यदेहधरोभूत्वा देव्याः पार्श्वचरोभवेत् ॥ २५॥ नैवेद्यनिन्दकं दृष्ट्वा नृत्यन्तियोगिनीगणाः । रक्तपानौद्यतासर्वा मांसास्थिचर्मणोद्यताः ॥ २६॥ तस्यै निवेदितं देव्यै दृष्ट्वा स्तुत्वा च मानवम् । न निन्देन्मनसावाचा सर्वव्याधिपराङ्मुखः ॥ २७॥ यस्यालयेतिष्ठतिनूनमेतत् स्तोत्रं सुरम्यं लिखितं विधिज्ञैः । गोरोचनालङ्कृत-कुङ्कुमाक्तं कर्पूर-सिन्दूर-मदद्रवेन ॥ २८॥ न तत्र चौरस्य भयं न शत्रुतो न वाशने वह्नि न व्याधिभीतिः । उत्पातवातैरपि नात्रशङ्का लक्ष्मी स्वयं तत्र वसेदलोला ॥ २९॥ इति श्रीरुद्रयामले उमामहेश्वरसंवादे सकारादि श्रीसीतासहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by Prabhav Tengse, NA
% Text title            : Sita Sahasranama Stotram 3 Sakaradi
% File name             : sItAsahasranAmastotram3sakArAdi.itx
% itxtitle              : sItAsahasranAmastotram 3 sakArAdi
% engtitle              : sItAsahasranAmastotram 3 sakArAdi
% Category              : devii, sItA, sahasranAma, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Prabhav Tengse, NA
% Indexextra            : (Scan)
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org