सकलजननीस्तवः
जनन-मरण-जन्म-त्रास-घोरान्धकार-प्रशमन-करणायाह्नाय काचित्प्रदीप्तिः ।
तरुण-तरणि-रागं म्लानिमानं नयन्ती विहरतु मम चिते चन्द्र-खण्डावतंसा ॥ १॥
न भवति खलु यावत्काय-वैक्लव्य-भावो न च पतति कृतान्त-क्रूर-दृष्टि-प्रपातः ।
ननु हृदय ! समुद्यद्दीन-दैन्यावसाद-प्रणयन-रसिकां तां तावदासादयाशु ॥ २॥
सरस-सरसिजात-स्फार-सौन्दर्य-सार-स्फुरदवयव-काण्डोद्दाम-लावण्यवापी ।
अनुसरदनुकम्पा-पूर-पूर्णातिमात्रं शमयतु, मम तापं सा शशाङ्कार्ध-चूडा ॥ ३॥
जननि ! नत-निलिम्पी-मौलि-मन्दार-माला-श्लथ-कुसुम-मरन्द-म्लान-पादारविन्दे ।
भव-परिभव-विद्धे वासना-जाल-रुद्धे मसृण-नयन-पातं पातयास्मिन् वराके ॥ ४॥
सकल-भुवन-भारं पञ्च-कृत्यावसानं नतिसुकृतिषु देवेषूच्चकैरर्पयित्वा ।
किमपि निगम-रूढं गूढ-तत्त्वं प्रपन्ना शिशिरयतु, मदीयं स्वान्तमश्रान्तमेषा ॥ ५॥
जननि ! यदि भवत्याः शक्तिरात्म-प्रभावं व्यपनयति, तदानीं निष्क्रियो लोक एषः ।
इति परिचित-तत्त्वेऽप्यज्ञभावं भजन्तस्तवसमयविमूढाः संसरन्ति, स्खलन्ति ॥ ६॥
प्रकृति-गुण-विकाराः प्राकृते व्याप्रियन्ते न खलु पुरुषभावे दर्शनेऽस्मिन् स्फुटेऽपि ।
तव समय-सपर्या-भावनान्धः शरीरी सकलजननि ! नाहम्भावभावं जहाति ॥ ७॥
श्रुतिरपि परिमातुं यां न शक्नोत्यशेषात्तदितर-जन-गाथा-जल्पनास्तां, सुदूरे ।
इति विहित-विवेकः पाहि पाहीति जल्पन् कथमपि तव पाद-ध्यान-दत्तादरः स्याम् ॥ ८॥
इति सकलजननीस्तवः सम्पूर्णः ।
Encoded by Rangarathnam Gopu
Proofread by Rangarathnam Gopu, Rajani Arjun Shankar