श्रीसङ्कल्पकल्पद्रुमः

श्रीसङ्कल्पकल्पद्रुमः

श्रीश्रीराधामदनगोपालो विजयते वृन्दावनेश्वरि वयोगुणरूपलीला सौभाग्यकेलिकरुणाजलधेऽवधेहि । दासी भावानि सुखयानि सदा सकान्तां त्वामालीभिः परिवृतामिदमेव याचे ॥ १॥ श‍ृङ्गारयाणि भवतीमभिसारयाणि वीक्ष्यैव कान्तवदनं परिवृत्य यान्तीम् । धृत्वाञ्चलेन हरिसन्निधिमानयानि सम्प्राप्य तर्जनसुधां हृषिता भवानि ॥ २॥ पादे निपत्य शिरसानुनयानि रुष्टां तां प्रत्यपाङ्गकलिकामपि चालयानि । तद्दोर्द्वयेन सहसा परिरम्भयानि रोमाञ्चकञ्चुकवतीमवलोकयानि ॥ ३॥ प्राणप्रिये कुसुमतल्पमलङ्कुरु त्वं इत्यच्युतोकित्मकरन्दरसं धयानि । मां मुञ्च माधव सतीमिति गद्गदार्ध वाचस्तवैत्य निकटं हरिमाक्षिपानि ॥ ४॥ वामामुदस्य निजवक्षसि तेन रुद्धां आनन्दबाष्पतिमितां मुहुरुच्छलन्तीम् । व्यस्तालकां स्खलितवेणीमबद्धनीवीं त्वां वीक्ष्य साधु जनुरेव कृतार्थयानि ॥ ५॥ तल्पे मयैव रचिते बहुशिल्पभाजि पौष्पे निवेश्य भवतीं नननेति वाचम् । कृष्णं सुखेन रमयन्तमनन्तलीलं वातायनात्तनयनैव निभालयानि ॥ ६॥ स्थित्वा बहिर्व्यजनयन्त्रनिबद्धडोरी पाणिर्विकर्षणवशान्मृदु बीजयानि । उत्तुङ्गकेलिकलितश्रमबिन्दुजालं आलोपयानि मणितैः स्मितमुद्गीराणि ॥ ७॥ श्रीरूपमञ्जरिमुखप्रियकिङ्करीणां आदेशमेव सततं शिरसा वहानि । तेनैव हन्त तुलसी परमानुकम्पा पान्नीभवानि करवाणि सुखेन सेवाम् ॥ ८॥ माल्यानि हारकटादिमृजा विचित्र वर्तिः शितांशुघुसृणागुरुचन्दनादि । वीटीर्लवङ्गखपुरादियुताः सखीभिः सार्धं मुदा विरचयानि कलां प्रकाश्य ॥ ९॥ त्वां स्रस्तवेषवसनाभरणां सकान्तां वीक्ष्य प्रसाधनविधौ द्रुतमुद्यताभिः । श्रीरूपरङ्गतुलसीरतिमञ्जरीभि- र्दृष्टानयानि तव संमुखमेव तानि ॥ १०॥ त्वामाशिखाचरणमूढविचित्रवेषां स्प्रष्टुं पुनश्च धृततृष्णमवेक्ष्य कृष्णम् । आयान्तमेव विकटभ्रूकुटीविभङ्ग हुङ्कृत्युदञ्चितमुखी विनिवर्तयानि ॥ ११॥ तत्रैत्य विस्मयवतीं ललितां प्रतीह साध्वीत्वकण्टकविनिष्क्रमनार्थमस्याः । प्राप्तं न्यसिद्धदयि मामियमेव धूर्ते- त्युक्तिं हरेः स्वहृदयं रसयानि नित्यम् ॥ १२॥ निष्क्रम्य कुञ्जभवनाद्विपिने विहर्तुं कान्तैकबाहुपरिरब्धतनुं प्रयान्तीम् । त्वामालीभिः सह कथोपकथाप्रफुल्ल वक्त्रामहं व्यजनपाणिरनुप्रयाणि ॥ १३॥ गायानि ते गुणगणांस्तव वर्त्म गम्यं पुष्पास्तरैर्मृदुलयानि सुगन्धयानि । सालीततिः प्रतिपदं सुमनोऽतिवृष्टिं स्वामिन्यहं प्रतिदिशं तनवानि बाढम् ॥ १४॥ प्रेष्ठस्वपानि कृतकौसुमहार काञ्ची केयूरकुण्डलकिरीटविराजिताङ्गीम् । त्वां भूषयाणि पुनरात्मकवित्वपुष्पै- रास्वादयानि रसिकालिततीरिमानि ॥ १५॥ चन्द्रांशुरूप्यसलिलैरवसिक्तरोध स्यञ्चत्कदम्बसुरभावलिगीतकीर्ति । आरब्धरासरभसां हरिणा सह त्वां तत्पाठितैव विदुषी कलयानि वीणाम् ॥ १६॥ रासं समाप्य दयितेन समं सखीभि- र्विश्रान्तिभाजि नवमालतिकानिकुञ्जे । त्वय्यानयानि रसवत्करकाम्ररम्भा- द्राक्षादिकानि सरसं परिवेषयाणि ॥ १७॥ तल्पे सरोजदलकॢप्तमनङ्गकेलि पर्याप्तमाप्तकलया रचितं तुलस्या । त्वां प्रेयसा सह रसादधिशाययानि ताम्बूलमाशायितुमुल्बनमुल्लसानि ॥ १८॥ संवाहयानि चरणावलकैः स्पृशानि जिघ्राणि सौरभसमूढचमत्क्रियाब्धिः । अक्ष्णोर्दधान्युरसिजौ परिरम्भयानि चुम्बान्यलक्षितमवेक्षितसौकुमार्याः ॥ १९॥ अन्ते निशस्तनुतरप्रसृतालकाल्या ताडङ्कहारततिगन्धवहाग्रमुक्ताः । प्रेष्ठस्य ते तव च संग्रथिता निभाल्य तत्रानयानि परमाप्तसखीः प्रबोध्य ॥ २०॥ ता दर्शयानि सुखसिन्धुषु मज्जयानि ताभ्यः प्रसादमतुलं सहसाप्नुवानि । तन्नूपुरादिरणितैर्गतसान्द्रनिद्रां शय्योत्थितां सचकितां भवतीं भजानि ॥ २१॥ हे स्वामिनि प्रियसखीत्रपयाकुलाया कान्ताङ्गतस्तव वियोक्तुमपारयन्त्याः । उद्ग्रन्थयान्यलककुण्डलमाल्यमुक्ता ग्रन्थिं विचक्षणतयाङ्गुलिकौशलेन ॥ २२॥ नाशाग्रतः श्रुतियुगाच्च वियोजयानि तद्भूषणं मणिसरांस्तु विसूत्रयाणि । प्राणार्बुदादधिकमेव सदा तवैकं रोमापि देवि कलयानि कृतावधाना ॥ २३॥ त्वां सालिमात्मसदनं निभृतं व्रजन्तीं त्यक्त्वा हरेरनुपथं तदलक्षितैत्य । तं खण्डितामनुनयन्तमवेक्ष्य चन्द्रां तद्वृत्तमालिततिसंसदि वर्णयानि ॥ २४॥ प्रक्षालयानि वदनं सलिलैः सुगन्धै- र्दन्तान् रसालजदलैस्तव धावयानि । निर्णेजयानि रसनां तनुहेमपत्र्या सन्दर्शयानि मुकुरं निपुणं प्रमृज्य ॥ २५॥ स्नानाय सूक्ष्मवसनं परिधापयानि हाराङ्गदाद्यप्यङ्गादवतारयाणि । अभ्यञ्जयाण्यरुणसौरभहृद्यतैलै- र्वर्तयानि नवकुङ्कुमचन्द्रचूर्णैः ॥ २६॥ नीरैर्महासुरभिभिः स्नपयानि गात्रा- दम्भांसि सूक्ष्मवसनैरपसारयाणि । केशान् जवादगुरुधूमकुलेन यत्ना- दाशोषयाणि रभसेन सुगन्धयानि ॥ २७॥ वासो मनोभिरुचितं परिधापयानि सौवर्णकङ्कतिकया चिकुरान्विशोध्य । गुम्फानि वेणीममलैः कुसुमैर्विचित्रां अग्रे लसच्चमरिकामणिजातभाताम् ॥ २८॥ चूडामणिं शिरसि मौक्तिकपत्रपास्यां भाले विचित्रतिलकं च मुदारचय्य । अङ्क्त्वाक्षिणी श्रुतियुगं मणिकुण्डलाढ्यं नासामलङ्कृतवतीं करवाणि देवि ॥ २९॥ गण्डद्वये मकरिके चिबुके विलिख्य कस्तुरिकेष्टपृषतं कुचयोश्च चित्रम् । बाह्वोस्तवाङ्गदयुगं मणिबन्धयुग्मे चूडा मसारकलिताः कलयानि यत्नात् ॥ ३०॥ पाण्यङ्गुलीः कनकरत्नमयोर्मिकाभि- रभ्यर्चयानि हृदयं पदकोत्तमेन । मुक्तोतकञ्चुलिकयोरसिजौ विचित्र माल्येन हारनिचयेन च कण्ठदेशम् ॥ ३१॥ काञ्च्या नितम्बमर्थहंसकनूपुराभ्यां पादाम्बुजे दलततिं क्वणदङ्गुरीयैः । लाक्षारसैररुणमप्यनुरञ्जयानि हे देवि तत्तलयुगं कृतपुण्यपुञ्जा ॥ ३२॥ अङ्गानि साहजिकसौरभयन्त्यथानि देव्यर्चयानि नवकुङ्कुमचर्चयैव । लीलाम्बुजं करतले तव धारयाणि त्वां दर्शयानि मणिदर्पणमर्पयित्वा ॥ ३३॥ सौन्दर्यमद्भुतमवेक्ष्य निजं स्वकान्त नेत्रालिलोभनमवेत्य विलोलगात्रीम् । प्राणार्बुदेन विधुवर्तिकदीपकैश्च निर्मञ्छयानि नयनाम्बुनिमज्जिताङ्गी ॥ ३४॥ गोष्ठेश्वरीप्रहितया सह कुन्दवल्ल्या प्राभातिकप्रियतमाशनसाधनाय । यान्तीं समं प्रियसखीभिरनुप्रयाणि ताम्बूलसम्पुटमणिव्यजनादिपाणिः ॥ ३५॥ गोष्ठेश्वरीसदनमेत्य पदे प्रणम्य तस्यास्तदाप्तभविकां त्रपयावृटाङ्गीम् । घ्रातं तया शिरसि तन्नयनाम्बुसिक्तां त्वां वीक्ष्य तामहमपि प्रणमामि भक्त्या ॥ ३६॥ मूर्तं तपोऽसि वृषभानुकुलस्य भाग्यं गेहस्य मेऽसि तनयस्य च मे वराङ्गि । नैरुज्यदास्यमृतपाणिरभूर्वरेण दुर्वाससो यदिति तद्वचसा हसानि ॥ ३७॥ स्नातानुलिप्तवपुषो दयितस्य तस्य तात्कालिके मधुरिमन्यतिलोलिताक्षीम् । स्वामिन्यवेत्य भवतीं क्वचन प्रदेशे तत्रैव केन च मिषेण समानयानि ॥ ३८॥ प्रक्षालयानि चरणौ भवदङ्गतः स्रङ्- माल्यादि पाकरचनानुपयोगि यत्तत् । उत्तारयाणि तदिदं तु तवास्त्विति त्व- द्वाचोल्लसानि विकसन्मधुमाधवीव ॥ ३९॥ पक्त्वास्थितां मधुरपायसशाकसूप भाजिप्रभृत्यमृतनिन्दिचतुर्विधान्नम् । त्वां लोकयानि नननेति मुहुर्वदन्तीं गोष्ठेशयापि परिवेषयितुं निदिष्टाम् ॥ ४०॥ तृप्त्युत्थितां प्रियतमाङ्गरुचिं धयन्त्या वातायन्तार्पितदृशः सहसोल्लसन्त्याः । आनन्दजद्युतितरङ्गभरे मनोज मञ्जुकृते तव मनो मम मज्जयानि ॥ ४१॥ राधे तवैव गृहमेतदहं च जाते सूनोः शुभे किमपरां भवतीमवैमि । तद्भुङ्क्ष्व सम्मुखमिति व्रजपागिरा त्व- द्वक्त्रे स्मितं स्वहृदयं रसयानि नित्यम् ॥ ४२॥ यान्तं वनाय सखीभिः सममात्मकान्तं पित्रादिभिः सरुदितैरनुगम्यमानम् । वीक्ष्याप्तगौरवगेहां दिननाथपूजा व्याजेन लब्धगहनां भवतीं भजानि ॥ ४३॥ कान्तं विलोक्य कुसुमावचये प्रवृत्तां आदाय पत्रपुटीकामनुयान्यहं त्वाम् । का तस्करीयमिति तद्वचसा न कापी- त्युक्त्या सहार्पितदृशं भवतीं स्मराणि ॥ ४४॥ पुष्पाणि दर्शय कियन्ति हृतानि चौरी- त्युक्त्यैव पुष्पपुटिकामपि गोपयानि । तद्वीक्ष्य हन्त मम कक्षतले क्षिपन्तं पाणिं बलात्तमभिमृश्य भवानि दूना ॥ ४५॥ रक्षाद्य देवि कृपया निजदासिकां मां इत्युच्चकातरगिरा शरणं व्रजानि । किं धूर्त दुःखयसि मज्जनमित्यमुष्य बाहुं करेण तुदतीं भवतीं श्रयाणि ॥ ४६॥ त्यक्त्वैव मां भवदुरःकवचं विखण्ड्य प्राप्तां श्रजं तव गलात्स्वगले निधाय । पुष्पाणि चौरि मम किं तव कण्ठहेतो- स्तत्कण्ठमेव सुभृशं परिपीडयानि ॥ ४७॥ राजास्ति कन्दरतले चल तत्र धूर्ते तस्याज्ञयैव सहसा च विवस्त्रयिष्ये । तां वीक्ष्य हृष्यति स चेन् निजदिव्यमुक्ता मालां प्रदास्यति ललाटतटे मदीये ॥ ४८॥ दोषो न ते व्रजपतेस्तनयोऽसि तस्य दुष्टस्य यन् नरपतेः खलु सेवकोऽभूः । तद्बुद्धिरीदृगभवन्मम चात्र साध्व्या भाले किमेतदभवल्लिखितं विधात्रा ॥ ४९॥ इत्यादिवाङ्मयसुधामहह श्रुतिभ्यां स्वाभ्यां धयान्युदरपूरमथेक्षणाभ्याम् । रूपामृतं तव सकान्ततया विलास सीधुं च देवि वितराण्यथ मादयानि ॥ ५०॥ प्रेष्ठे सरस्यभिनवां कुसुमैर्विचित्रां हिन्दोलिकां प्रियतमेन सहाधिरूढाम् । त्वां दोलयान्यथ किराणि परागराजि- र्गायानि चारुमहतीमपि वादयानि ॥ ५१॥ वृन्दावने सुरमहीरुहयोगपीठे सिंहासने स्वरमणेन विराजमानाम् । पाद्यार्घ्यधूपविधुदीपचतुर्विधान्न स्रग्भूषणादिभिरहं परिपूजयानि ॥ ५२॥ गोवर्धने मधुवनेषु मधूत्सवेन विद्रावितात्रपसखीशतवाहिनीकाम् । पिष्टात युद्धमनु कान्तजयाय यान्तीं त्वां ग्राहयाणि नवजातुषकूपिकालीः ॥ ५३॥ अग्रे स्थितोऽस्मि तव निश्चय एव वक्ष उद्घाट्य कन्दुकचयं क्षिप चेद्बलिष्ठा । उद्घाट्य कञ्चुकमुरः किल दर्शयन्ती त्वं चापि तिष्ठ यदि ते हृदि वीरतास्ति ॥ ५४॥ यत्कथ्यसे तदयमेव तव स्वभावो यत्पूर्वजन्मनि भवानजितः किलासीत् । मिथ्यैव तत्यदिह भोः कतिशो जितोऽभू- र्मत्किङ्करीभिरपि तद्विगतत्रपोऽसि ॥ ५५॥ इत्येवमुत्पुलकिनी कलयानि वाचः सिञ्जानकङ्कणझनत्कृतदुन्दुभीकम् । युद्धं मुखामुखि रदारदि चारुबाहु बाहव्यमन्दनखरानखरि स्तुवानि ॥ ५६॥ कस्याञ्चिदद्रिनृपदीव्यदुपत्यकायां स प्रेयसि त्वयि सखीशतवेष्टितायाम् । विश्रान्तिभाजि वनदेवतयोपनीता नीष्टानि सीधुचषकाणि पुरा दधानि ॥ ५७॥ हा किं किं किं धधरणी घुघुघूर्णतीयं धाधाधधावति भयाद्विविवृक्षपुञ्जः । भीभीभिभीरुरहमत्र कथं जिजीवा- म्येवं लगिष्यसि सदा दयितस्य कण्ठे ॥ ५८॥ त्वत्स्वामिनी प्रलपतीयमिमां गदेन हीनां करोमि कलयात्र निरेहि नेतः । इत्युक्तिसीधुरसतर्पितहृत्तदैव निष्क्रम्य जाल विततौ विदधानि नेत्रे ॥ ५९॥ घ्राणाक्षिकर्णवदने जलसेकतत्या कृष्णस्त्वया जित इतः सहसा निमज्ज्य । ग्राहो भवन् स खलु यत्कुरुते स्म तत्तु वेदान्यहं तव मुखाम्बुजमेव वीक्ष्य ॥ ६०॥ अभ्यञ्जयानि ससखीदयितां सहालि- स्त्वां स्नापयानि वसनाभरणैर्विचित्रम् । श‍ृङ्गारयाणि मणिमन्दिर पुष्पतल्पे सम्भोजयानि करकाद्यथ शाययानि ॥ ६१॥ वाणीरकुञ्ज इह तिष्ठति देवी निह्नुत्य मृग्यसि कथं तदितः परत्र । सत्यामिमां मम गिरं तमविश्वसन्तं यान्तं मयि प्रदर्श्य भवती हर्षयाणि ॥ ६२॥ स्वामिन्यमूत्रहरिरस्ति कदम्बकुञ्जे निह्नुत्य मृग्यसि कथं तदितः परत्र । सत्यामिमां मम गिरं खलु विश्वसत्याः पाणौ जयं तव नयानि तमाप्नुवत्याः ॥ ६३॥ राधे जिता च जयिनी च पणं न दातुं आदातुमप्यहह चुम्बनमीशिषे त्वम् । नाश्लेषचुम्बमधुराधरपानतोऽन्यं द्यूते ग्लहं रसविदः प्रवरं वदन्ति ॥ ६४॥ गोवर्धनेऽत्र मम कापि सखी पुलिन्द कन्यास्ति भृङ्ग्यतितरां निपुणेदृशेऽर्थे । मद्ग्राह्यदेयपणवस्तुनि मन्नियुक्ता सा ते गृहीष्यति च दास्यति चोपगूहम् ॥ ६५॥ उक्त्वेत्थमात्मदयितं प्रति वक्ष्यसे मां याहीत्यथोत्पुलकिनी द्रुतपादपाता । तामानयान्युप मुकुन्दमथासयानि तं लज्जयानि सुमुखीरति हासयानि ॥ ६६॥ स्वीया किल व्रजपुरे मुरली तवैका प्राभून् न तामपि भवानवितुं स्वभार्याम् । सा लम्पटापि भवतोऽधरसीधुसिक्ता- प्यन्यं पुमांसमिह मृग्यति चित्रमेतत् ॥ ६७॥ वंशीं सतीं गुणवतीं सुभगां द्विषन्त्योऽ साध्व्यो भवत्य इह तत्समतामलब्धाः । तां क्वापि बन्धमनयंस्तदहं भुजाभ्यां बद्ध्वैव वः शिखरिगह्वरगाः करोमि ॥ ६८॥ इत्यागतं हरिमवेक्ष्य रहस्तदीय कक्षादहं मुरलिकां सहसा गृहीत्वा । तां गोपयानि तदलक्षितमात्तचित्र पुष्पेषु सङ्गररसां कलयानि च त्वाम् ॥ ६९॥ ब्रह्मन्निमामनुगृहाण भवन्तमेव भास्वन्तमर्चयितुमिच्छति मे स्नुषेयम् । इत्यार्यया प्रणमितां धृतविप्रवेशे कृष्णेऽर्पितां च भवतीं स्मितभाग्भजानि ॥ ७०॥ यान्तीं गृहं स्वगुरुनिघ्नतयातिलौल्यात्- कान्तावलोकनकृते मिषमामृशन्तीम् । दूरेऽनुयानि यदतोऽनुविवर्तितास्यां एहीति वक्ष्यसि तदास्यरुचो धयन्ती ॥ ७१॥ गेहागतां विरहिणीं नवपुष्पतल्पे त्वां शाययानि परतः किल मुर्मुराभात् । तस्मात्परत्र शयनं विसपुञ्जकॢप्तं अध्याशयानि विधुचन्दनपङ्कलिप्ताम् ॥ ७२॥ आकर्ण्य चन्दनकलाकथितं व्रजेशा सन्देशमुत्सुकमतेः सरसा सहाल्याः । सायन्तनाशनकृते दयितस्य नव्य कर्पूरकेलिबटकादिविनिर्मितौ ते ॥ ७३॥ लिम्पानि चुल्लिमथ तत्र कटाहमच्छ मारोहयाणि दहनं रचयानि दीप्तम् । निराज्यखण्डकदलीमरिचेन्दुसीरि गोधूमचूर्णमुखवस्तु समानयानि ॥ ७४॥ अत्यद्भुतं मलयजद्रवसेकतत्या वृद्धिं जगाम यदिदं विरहानलौजः । कर्पूर केलीबटकावलिसाधनाग्नि ज्वालेन शान्तिमनयत्तदिति ब्रुवाणि ॥ ७५॥ धूलिर्गवां दिशमरुद्ध हरेः सहाम्बा रावेत्युदन्तमतुलं मधु पाययानि । तत्पानसंमदनिरस्तसमस्तकृत्यां त्वामुत्थितां सहगणामभिसारयाणि ॥ ७६॥ तत्कृष्णवर्त्मनिकटस्थलमानयानि निर्वापयाणि विरहानलमुन्नतं ते । आयात एष इति वल्लिनिगूढगात्रीं आकृष्य मह्यमहहेश्वरि कोपयानि ॥ ७७॥ श्रीकृष्णदृङ्मधुलिहौ भवदास्यपद्मं आघ्रापयाण्यतितृषन् तव दृक्चकोरीम् । तद्वक्त्रचन्द्रविकसत्स्मितधारयैव संजीवयानि मधुरिम्णि निमज्जयानि ॥ ७८॥ वैवश्यमस्य तव चाद्भुतमीक्षयाणि त्वामानयानि सदनं ललितानिदेशात् । कर्पूरकेल्यमृतकेलिततिं प्रदातुं गोष्ठेश्वरीमनु सराणि समं सखीभिः ॥ ७९॥ गत्वा प्रणम्य तव शं कथयानि देवि पृष्टा तयाथ बटकावलिं भोक्षयित्वा । तां हर्षयाणि भवदद्भुतसद्गुणाली- स्तत्कीर्तिताः सवयसे श‍ृणवानि हृष्टा ॥ ८०॥ वीक्ष्यागतं तनयमुन्नतसम्भ्रमोर्मि मग्नां स्तनाक्षिपयसामभिषिच्य पूरैः । अभ्यञ्जनादिकृतये निजदासिकास्ता मां चापि तां निदिशतीं मनसा स्तवानि ॥ ८१॥ स्नानानुलेपवसनाभरणैर्विचित्र शोभस्य मित्रसहितस्य तया जनन्या । स्नेहेन साधु बहुभोजितपायितस्य तस्यावशेषितमलक्षितमाददानि ॥ ८२॥ तेनैव कान्तविरहज्वरभेषजेन तात्कालिकेन तदुदन्तरसेन चापि । आगत्य साधु शिशिरीकरवाणि शीघ्रं त्वन्नेत्रकर्णरसनाहृदयाणि देवि ॥ ८३॥ स्नानाय पावनतडागजले निमग्नां तीर्थान्तरे तु निजबन्धुवृतो जलस्थः । संमज्ज्य तत्र जलमध्यत एत्य स त्वां आलिङ्ग्य तत्र गत एव समुत्थितः स्यात् ॥ ८४॥ तन् नो विदुर्निकटगा अपि ते ननन्दृ स्वस्रादयो न किल तस्य सहोदराद्याः । ज्ञात्वाहमुत्पुलकितैव सहालिरेत- च्चातुर्यमेत्य ललितां प्रति वर्णयामि ॥ ८५॥ उद्यानमध्यवलभीमधिरुह्य तत्र वातायनार्पितदृशं भवतीं विधाय । सन्दर्श्य तत्प्रियतमं सुरभीर्दुहानं आनन्दवारिधिमहोर्मिषु मज्जयानि ॥ ८६॥ गत्वा मुकुन्दमथ भोजितपायितं तं गोष्ठेशया तव दशां निभृतं निवेद्य । सङ्केतकुञ्जमधिगत्य पुनः समेत्य त्वां ज्ञापयान्ययि तदुत्कलिकाकुलानि ॥ ८७॥ त्वां शुक्लकृष्णरजनीसरसाभिसार योग्यैर्विचित्रवसनाभरणैर्विभूष्य । प्रापय्य कल्पतरुकुञ्जमनङ्गसिन्धौ कान्तेन तेन सह ते कलयानि केलीः ॥ ८८॥ हे श्रीतुलस्युरुकृपाद्युत तरङ्गिणी त्वं यन्मूर्ध्नि मे चरणपङ्कजमादधाः स्वम् । यच्चाहमप्यपिबमम्बु मनाक् तदीयं तन्मे मनस्युदयमेति मनोरथोऽयम् ॥ ८९॥ क्वाहं परशतनिकृत्यनुबिद्धचेताः संकल्प एष सहसा क्व सुदुर्लभार्थे । एका कृपैव तव मामजहत्युपाधि शून्यैव मन्तुमदधत्यगतेर्गतिर्मे ॥ ९०॥ हे रङ्गमञ्जरि कुरुष्व मयि प्रसादं हे प्रेममञ्जरि किरात्र कृपादृशं स्वाम् । मामानय स्वपदमेव विलासमञ्ज- र्यालीजनैः सममुरीकुरु दास्यदाने ॥ ९१॥ हे मञ्जुलालि निजनाथपदाब्जसेवां सातत्यसम्पदतुलासि मयि प्रसीद । तुभ्यं नमोऽस्तु गुणमञ्जरि मां दयस्व मामुद्धरस्व रसिके रसमञ्जरि त्वम् ॥ ९२॥ हे भानुमत्यनुपमप्रणयाब्धिमग्ना स्वस्वामिनोस्त्वमसि मां पदवीं नय स्वाम् । प्रेमप्रवाहपतितासि लवङ्गमञ्ज- र्यात्मीयतामृतमयीं मयि धेयि दृष्टिम् ॥ ९३॥ हे रूपमञ्जरि सदासि निकुञ्जयूनोः केलिकलारसविचित्रितचित्तवृत्तिः । त्वद्दत्तदृष्टिरपि यत्समकल्पयं तत्- सिद्धौ तवैव करुणा प्रभुतामुपैतु ॥ ९४॥ राधाङ्ग शश्वदुपगूहनतस्तदाप्त धर्मद्वयेन तनुचित्तधृतेन देव । गौरो दयानिधिरभूरपि नन्दसूनो तन्मे मनोरथलतां सफलीकुरु त्वम् ॥ ९५॥ श्रीराधिकागिरिभृतौ ललिताप्रसाद लभ्याविति व्रजवने महतीं प्रसिद्धिम् । श्रुत्वाश्रयाणि ललिते तव पादपद्मं कारुण्यरञ्जितदृशं मयि हा निधेहि ॥ ९६॥ त्वं नामरूपगुणशीलवयोभिरैक्या- द्राधेव भासि सुदृशां सदसि प्रसिद्धा । आगःशतान् न गणयन्त्युररीकुरुष्व तन्मां वराङ्गि निरुपाधिकृपे विशाखे ॥ ९७॥ हे प्रेमसम्पदतुला व्रजनव्ययूनोः प्राणाधिकाः प्रियसखाः प्रियनर्मसख्यः । युष्माकमेव चरणाब्जरजोऽभिषेकं साक्षादवाप्य सफलोऽस्तु ममैव मूर्धा ॥ ९८॥ वृन्दावनीयमुकुट व्रजलोकसेव्य गोवर्धनाचलगुरो हरिदासवर्य । तत्सन्निधिस्थितियुषो मम हृत्शिलास्व- प्येता मनोरथलताः सहसोद्भवन्तु ॥ ९९॥ श्रीराधया समं तदीयसरोवर त्वत्- तीरे वसानि समये च भजानि संस्थाम् । त्वन्नीरपानजनिता मम तर्षवल्ल्यः पाल्यास्त्वया कुसुमिताः फलिताश्च कार्याः ॥ १००॥ वृन्दावनीयसुरपादप योगपीठ स्वस्मिन् बलादिह निवासयसि स्वयं यत् । तन्मे त्वदीयतलस्तस्थुष एव सर्व सङ्कल्पसिद्धिमपि साधु कुरुष्व शीघ्रम् ॥ १०१॥ वृन्दावनस्थिरचरान् परिपालयित्रि वृन्दे तयो रसिकयोरतिसौभगेन । आढ्यासि तत्कुरुकृपां गणना यथैव श्रीराधिकापरिजनेषु ममापि सिद्धेत् ॥ १०२॥ वृन्दावनावनिपते जय सोम सोम मौले सनन्दनसनातननारदेड्य । गोपीश्वर व्रजविलासि युगाङ्घ्रिपद्मे प्रीतिं प्रयच्छ निरुपाधि नमो नमस्ते ॥ १०३॥ हित्वान्याः किल वासना भजत रे वृन्दावनं प्रेमदं राधाकृष्णविलासवारिधिरसास्वादं चेत्विन्दथ । त्यक्तुं शक्नुथ न स्पृहामपि पुनस्तत्रैव हृद्वृत्तयो विश्रद्धाः श्रयत ममैव सततं सङ्कल्पकल्पद्रुमम् ॥ १०४॥ इति श्रीविश्वनाथचक्रवर्तीठक्कुरविरचितः श्रीसङ्कल्पकल्पद्रुमः सम्पूर्णः ।
% Text title            : sankalpakalpadrumaH
% File name             : sankalpakalpadrumaH.itx
% itxtitle              : saNkalpakalpadrumaH (vishvanAthachakravartin ThakkuravirachitaH)
% engtitle              : sankalpakalpadrumaH by vishvanAthachakravartin
% Category              : devii, rAdhA, vishvanAthachakravartin, stavAmRRitalaharI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org