श्रीसन्तोषीमातुरष्टोत्तरशतनामस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
सन्तोषजननी माता सर्वसम्पत्प्रदायिनी ।
सामादिवेदसंस्तुत्या समानादिकवर्जिता ॥ १॥
अकारादि क्षकारान्ता आद्यन्तरहिताङ्गना ।
अम्लानवदनाम्लेन म्लायमानमुखाम्बुजा ॥ २॥
करुणा कारणा कार्या काशीक्षेत्रविराजिता ।
कथाश्रवणसन्तुष्टा कामितार्थप्रदायिनी ॥ ३॥
कालदेशापरिच्छिन्ना कालकाला कुटुम्बजा ।
गुणत्रयस्वरूपार्याऽऽर्या कुडभक्तगणार्चिता ॥ ४॥
गुणग्रामा गुणाराध्या गुणारामा गुणाश्रया ।
गृहार्चिता गृहाराध्या गृहस्थजनपोषिणी ॥ ५॥
जया जयप्रदा जप्या जननी जन्मवर्जिता ।
जीविता जीवना जीव्या जीवलोकसुखङ्करी ॥ ६॥
नमस्कारप्रिया नम्या नादिनी विश्वमोहिनी ।
पुण्या पुण्यप्रदा पुण्यलब्धा पुरुजनाश्रिता ॥ ७॥
भवा भवानी भव्यस्था भामिनी भाविराजिता ।
भाग्यदा भारती भाव्या भार्यापुत्रसुखप्रदा ॥ ८॥
माया मान्या महादेवि महादेवसुतोत्भवा ।
मतिर्दान्तिः कृतिः कीर्तिर्धृतिः कान्तिर्गतिः स्मृतिः ॥ ९॥
मधुरा मधुरप्रीता मथुरानाथसंस्तुता ।
विजया विश्वसंसेव्या विज्ञा विज्ञानदायिनी ॥ १०॥
शक्ता शक्तिस्वरूपा च शाम्भवी शम्भुलालिता ।
शल्यादिदोषहन्त्री च शमादिगुणसेविता ॥ ११॥
विघ्नहन्त्री विघ्ननाथा विघ्नराजकुलोद्भवा ।
शरण्या शारदा शीता शूलखड्गधराम्बिका ॥ १२॥
शुभा शुभप्रदा शुद्धा शुक्रवारव्रतार्चिता ।
शोभना शोभनाकारा शोभमानमुखाम्बुजा ॥ १३॥
श्रीप्रदा श्रीनिधिः श्रीशा श्रितमानसतोषदा ।
सिद्धिबुद्धिसुधासेव्या सिद्धिबुद्धिहितप्रदा ॥ १४॥
क्षमारूपा क्षमाधारा क्षान्तिः शान्तिः शिवङ्करी ॥ १५॥
फलश्रुतिः -
सन्तोषीमातुरित्येवं पुण्यमष्टोत्तरं शतम् ।
गदितं लोककल्याणदायकं सौख्यवर्धनम् ॥ १६॥
शुक्रवारे विशेषेण पठित्वा मातृसन्निधौ ।
आरोग्यं भोगमैश्वर्यं सर्वान्कामानवाप्नुयात् ॥ १७॥
इति श्रीसन्तोषीमातुरष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran